________________
४७९
द्वितीयो भागः [ परि०३-का० ४१] (भा० ) प्रभवादेरयोगात् कुतः प्रेत्यभावादिः ? ।
[संवेदनाद्वैतस्य निराकरणम्] स्याद्वादिभिरापाद्यस्य प्रेत्यभावपुण्यपापक्रियाबन्धमोक्षतत्फलाभावस्य स्वयमेवाभ्युपगमादतिभीतप्रलापमात्रमेतदालक्ष्यते, संविदद्वैतस्य साधनासम्भवात्, संविन्मात्रस्य स्वकार्याकरणेऽनर्थक्रियाकारिणो वस्तुत्वविरोधान्नित्यत्ववत्, तस्य स्वकार्यकरणे कार्यकारणस्वभावसिद्धेः ।
[संवेदनाद्वैतं भेदभ्रान्ति बाधते न वा ? उभयपक्षे दोषानाहुः ।] संविदद्वैतेन भेदभ्रान्तिबाधने बाध्यबाधकभावः, तदबाधने तस्याव्यवस्थितः, प्रतिपक्षव्यवच्छेदाभावात् ।
[कार्यकारणयोः सर्वथा भेदे सति जैनाचार्या दोषानवतारयन्ति ।] संवृतिमात्रेण
(भा०) सत्यपि हेतुफलभावेऽकारणकार्यान्तरवत्सन्ततिर्न स्यादतादात्म्याविशेषात् ।
न हि कार्यकारणक्षणानामकार्यकारणक्षणेभ्यस्तादात्म्याभावैकान्ते कश्चिद्विशेषो नैरन्तर्यादिः सम्भवति, तस्य भिन्नसन्तानकार्यकारणक्षणेष्वपि भावात् ।
(भा०) तत्स्वभावविशेषावक्लृप्तौ तादात्म्ये कोऽपरितोषः ? ।
कथञ्चित्तादात्म्यस्यैवैकसन्तानक्षणानां स्वभावविशेषस्य व्यवस्थितेर व्यभिचारिणः कार्यकारणभावस्य सुगतेतरक्षणेषु भिन्नसन्तानेष्वपि भावात्, भेदतादात्म्ययोर्हि
- अष्टसहस्त्रीतात्पर्यविवरणम्
तत् स्वभावविशेषावक्लृप्ताविति एकसन्ततिपतितकार्यकारणक्षणेषु तदीयत्वनियामकस्वभावविशेषकल्पन इत्यर्थः । कार्यकारणभावमात्रस्यैकसन्ताननियामकत्वेऽतिप्रसङ्गमुपदर्शयति-अव्यभिचारिण इत्यनेन । ननु एकसन्तानेऽपि क्षणानां भिन्नत्वात् कथं तादात्म्यमुपपत्स्यत इत्यत आह-भेदेत्यादि भेदतादात्म्ययोविरोधस्यापि हि सर्वथाऽपरिहार्यत्वात् कथञ्चित्पक्षे तु द्रव्यपर्यायविधया परिहार्यत्वादेवेति चूर्णकसहितभाष्यप्रतीकार्थः ।