________________
अष्टसहस्त्रीतात्पर्यविवरणम्
( भा० ) आदौ स्थितिदर्शनाच्छब्दविद्युत्प्रदीपादेरन्तेऽपि स्थितेरनुमानं युक्तम् । अन्यथाऽन्ते क्षयदर्शनादादौ तत्प्रतिपत्तिरसमञ्जसैव । तादृशः कारणादर्शनेऽपि कथञ्चिदुपादानानुमानवत् तत्कार्यसन्तानस्थितिरदृष्टाप्यनुमीयेत ।
४७८
शब्दविद्युदादेः साक्षादनुपलब्धमुपादानमनुमीयते निर्निबन्धनोत्पादप्रसङ्गभयान्न पुनस्तदुत्तरकार्यमवस्तुत्वानुषङ्गभयादिति किमपि महामोहविलसितम् । शब्दादेरुत्तरकार्याकरणेऽपि योगिज्ञानस्य करणान्नावस्तुत्वप्रसक्तिरिति चेत्, न आस्वाद्यमानरससमानकालरूपोपादानस्य रूपाकरणेऽपि रससहकारित्वप्रसङ्गात्, ततो रसाद्रूपानुमानानुपपत्तेरनिष्टप्रसङ्गात् । तथा दृष्टत्वान्नेहानिष्टप्रसङ्ग इति चेत्, किं पुनः शब्दादेव शब्दस्योत्पत्तिरुपलब्धा कदाचित् ? शङ्खादिशब्दसन्ततौ मध्यावस्थायां शब्दादेव शब्दस्योत्पत्तिर्दृष्टेति चेत्, कथमुत्तरशब्दोत्पत्तिरदृष्टा ? तथैव तद्दृष्टेरिति शब्दादेर्योगिज्ञानकरणवदुत्तरशब्दादिकरणमनुमीयतां, रूपोपादानाद्रूपोत्पत्तिवत् ।
(भा० ) तस्मात् कथञ्चन स्थितिमतः प्रतिक्षणं विवर्तोऽपि नान्यथा
गगनकुसुमवत् । यदि पुनः परमार्थतः कार्यकारणभावस्याभावतद्विरोध्यविरोधकभावादिवत् प्रतिक्षणं विवर्तोऽपि नेष्यते संविदद्वैताभ्युपगमादिति मतिस्तदा
अष्टसहस्त्रीतात्पर्यविवरणम्
हेतुत्वमिति अपरे । तादृशः = आदौ स्थितिमत: । 'अनुमीयत इति आद्यशब्दस्य कार्यत्वेन सोपादानत्वादन्त्यशब्दस्य कारणत्वेन सोपादेयत्वस्यानुमानाविशेषादिति भावः । अवस्तुत्वानुषङ्गभयादिति शब्दविद्युदादेरुत्तरकार्यानभ्युपगमे हि स्यादेव कार्याविच्छेदरूपसत्त्वाभावादवस्तुत्वापत्तेर्भयमिति भावनीयम् । ननु वस्तुत्वमर्थक्रियाकारित्वमात्रनियतमित्यन्त्यशब्दादेर्योगिज्ञानजनकत्वेनैव तत्त्वोपपत्तेर्नैकद्रव्यकार्याविच्छेदसिद्धिरित्याशङ्कायाम् आहशब्दादेरित्यादिना । ततो रसादिति परस्परोपादेयपरस्परसहकारित्वादेव हि तदनुमानं व्यवस्थितं नियतोपादानोपादेयभावविच्छेदे तु व्यभिचारशङ्कया तन्न स्यादित्यर्थः । कथञ्चन स्थितिमत इति कथञ्चनेत्यनेनैकद्रव्यतयैव कार्याविच्छेदरूपस्थित्यभ्यनुज्ञानादन्त्यशब्दाद्युत्तरं न सदृशकार्यानुपलम्भानुपपत्तिः । संविदद्वैताभ्युपगमादिति मध्यमक्षणसंविन्मात्रस्वीकारादन्यक्षणानां तत्कालाज्ञातानां तत्कालसत्त्वे मानाभावादित्यर्थः । प्रभवादेः = कार्यारम्भादेः,
१. अनुमीयेत इति अष्टसहस्रीसम्मतः पाठः ।