________________
४७७
द्वितीयो भागः [ परि०३-का० ४१]
[जैनाचार्या बौद्धस्य मन्तव्यं निराकुर्वन्तः स्थितेनिहेतुकत्वं साधयन्ति] इति भावानां विनाशस्वभावत्वं साधनं स्थितेरपि निर्निमित्तत्वं साधयेत् । तथा हि- यद्यद्भावं प्रत्यनपेक्षं तत्तद्भावनियतम् ।
(भा०) यथा विनाशं प्रत्यन्यानपेक्षं विनश्वरम् । तथैव स्थिति प्रत्यनपेक्षं स्थास्नु
वस्तु इति स्वभावहेतुः । न चायमसिद्धः,
(भा०) तद्धेतोरकिञ्चित्करत्वात् तद्व्यतिरिक्ताव्यतिरिक्ताकरणात् इत्यादि सर्वं समानम् ।
न हि वस्तुनो व्यतिरिक्ता स्थितिस्तद्धेतुना क्रियते तस्यास्थास्नुत्वापत्तेः । स्थितिसम्बन्धात्तस्य स्थास्नुतेति चेत्, न स्थितितद्वतोः कार्यकारणभावासम्भवात् सहभावात्तयोः, असहभावे स्थितेः पूर्वं तत्कारणस्यास्थितिप्रसक्तेः, स्थितेरपि स्वकारणादुत्तरकालमनाश्रयत्वानुषङ्गात् । तयोराश्रयाश्रयिभावः सम्बन्ध इति चेत्, न अर्थान्तरभूतयोः कार्यकारणभावाभावे तदभावाभ्युपगमात् कुण्डबदरवत् । तदव्यतिरिक्ता स्थितिस्तद्धेतुना विधीयते इत्ययमपि पक्षो न श्रेयान्, तद्वैयर्थ्यात्, स्थितिस्वभावस्यापि स्थितिकरणे तत्कारणानामनुपरमप्रसङ्गात्, स्वयमस्थितिस्वभावस्य स्थितिकरणायोगादनुत्पत्तिस्वभावस्योत्पत्तिकरणायोगवत् । ततः स्थितिस्वभावनियतोऽर्थः स्यात् सर्वदा स्थितेरहेतुकत्वात् ।
__ [वस्तुनो स्थित्युपादानवत् तदन्तेऽपि स्थितिः स्वीकर्तव्या ।] तदेवम्
अष्टसहस्त्रीतात्पर्यविवरणम् सौगतस्येति तं प्रत्यनिष्टापादनमेतज्जैनेन क्रियत इति बोध्यम् । कुण्डबदरवदिति यद्यपि कुण्डबदरयोराश्रयाश्रयिभावे कार्यकारणभावस्य नियामकत्वमप्रातीतिकमनभ्युपगमदोषदुष्टं च, तथापि स्वतोऽवयवावयविभावेन कार्यकारणतया निष्पन्नयोरेव तयोर्यथाश्रयाश्रयिभावस्तथात्र नास्तीत्ययुक्तोऽयं पक्ष इति केचिद् व्याचक्षते । वयं तु जगदवगाहनाहेतुगगनदृष्टान्तेन बदराधारतापर्याये कुण्डस्य हेतुत्वात् कार्यकारणभावाभावे स्थितितद्वतोराश्रयाअयिभावानुपपत्तिमुपपादयामः । बदरप्रतियोगिकसंयोगरूपबदराधारतायां कुण्डस्य ताद्रूप्येण