________________
४७६
अष्टसहस्त्रीतात्पर्यविवरणम् (भा० ) यद्यद्भावं प्रत्यनपेक्षं तत् तद्भावनियतम् ।
यथान्त्यकारणसामग्री स्वकार्योत्पादनं प्रत्यनपेक्षा तत्स्वभावनियता, विनाशं प्रत्यनपेक्षश्च भावः, इति स्वभावहेतुः, न तावदयमसिद्धः, कलशादेविनाशस्य मुद्गरादिहेतुभिर्व्यतिरिक्तस्याव्यतिरिक्तस्य वा करणासम्भवात्, तं प्रति तदनपेक्षत्वसिद्धेः । घटादेर्व्यतिरिक्तस्य विनाशस्य कारणे तदवस्थत्वप्रसङ्गाद्विनष्ट इति प्रत्ययो न स्यात् । विनाशसम्बन्धाद्विनष्ट इति प्रत्ययोत्पत्तौ विनाशतद्वतो: कश्चित्सम्बन्धो वक्तव्यः । स च न तावत्तादात्म्यलक्षणस्तयोर्भेदोपगमात् । नापि तदुत्पत्तिलक्षणो घटादेस्तदकारणत्वात् तस्य मुद्गरादिनिमित्तकत्ववचनात् । तदुभयनिमित्तत्वाददोष इत्यप्यसारं, मुद्गरादिवद्विनाशोत्तरकालमपि कुम्भादेरुपलम्भप्रसङ्गात् । कुटादेः स्वविनाशं परिणामान्तरं लक्षणं प्रत्युपादानकारणत्वान्न तत्काले दर्शनमित्यपि न युक्तं, परिणामान्तरस्यैव हेत्वपेक्षत्वसिद्धेः, विनाशस्य तद्व्यतिरिक्तहेत्वनपेक्षत्वव्यवस्थितेः सुगतमतसिद्धिप्रसक्तेः । सुगतमतं हि न सर्वथा विनाशस्य निर्हेतुकत्वम्, किं तर्हि ? कार्यजनकहेतुव्यतिरिक्तहेत्वनपेक्षत्वमिति वादावसानं स्यात् । विनाशतद्वतोविशेषणविशेष्यभावः सम्बन्ध इत्यपि मिथ्याभिधानं परस्परमसम्बद्धयोस्तदनुपलब्धेः । प्रागभावतद्वतोविशेषणविशेष्यभावोऽनेनैव निरस्तः । कार्यकारणयोरस्येदं कार्यमिति विशेषणविशेष्यभावः कथमित्यपि न चोद्यं, तत्र तद्व्यवहारस्य कार्यकारणभावनिबन्धनत्वात्, तद्व्यतिरेकेण भिन्नयोविशेषणविशेष्यभावासम्भवात् । ततोऽनन्तरं विनाशः कारणैः क्रियते इति पक्षान्तरमपि न सम्यक्, स्वकारणादुत्पन्नस्य कुटात्मनो विनाशस्य कारणान्तराणां वैयर्थ्यात् । अन्यथा परापरकारणानुपरमः स्यात् ।
अष्टसहस्त्रीतात्पर्यविवरणम्
दर्शनमिति उपादेयस्योपादाननाशत्वान्नाशस्य च दर्शनायोग्यरूपत्वात् 'नश् अदर्शन' इति धात्वनुसारादित्यर्थः । तद्व्यतिरिक्तेति तच्छब्देन परिणामान्तरस्य कपालादेर्हेतुः समनन्तरो घटादिलक्षणो गृह्यते, ततो व्यतिरिक्तो हेतुर्मुद्गरादिस्तदनपेक्षत्वव्यवस्थितेरित्यर्थः । सुगतमते हि घटादे शकाले मुद्गरादिना न किञ्चिज्जन्यते, तुच्छस्य ध्वंसस्य जनयितुमशक्यत्वात्, कपालादिजनने च तस्याव्यापारात्, केवलं मुद्गरादिसहकृता समनन्तरसामग्री सजातीयकार्यं न जनयतीत्यर्थात् कपालादेरुत्पत्तिरिति भावः । साधयेदिति तच्चानिष्टं