________________
द्वितीयो भागः [ परि० ३-का० ४१]
४७५ ऽपि कस्यचिदपेक्षितसहकारिणः कार्यसन्ततिः किं न स्यात् ? सहकारिणस्तद्धेतुस्वभावमभेदयन्तोऽपि कार्यहेतवः स्युः क्षणक्षयवत् ।
__यथैव हि क्षणिकस्वलक्षणस्य नानाकार्याणि युगपदुपजनयतः सहकारिकारणानि न कञ्चिदतिशयं ततो भिन्नमभिन्नं वा समुपजनयन्ति । किं तहि ? कार्याण्येव भिन्नस्वभावानि विदधति । तथैव नित्यस्यापि
(भा०) न हि कादाचित्कानि तत्तत्कर्तुं समर्थानीति स्थिरोऽर्थस्तत्करणस्वभावं जहाति तद्बुद्धिपूर्वकत्वाभावात् क्षणिकसामग्रीसन्निपतितैककारणान्तरवत् ।
न हि क्षणिकक्षित्युदकादिसामग्र्यामन्त्यक्षणप्राप्तायामङ्करजननसमर्थायां सत्यां तत्सन्निपतितं बीजं कारणान्तरमङ्करजननस्वभावं जहाति, तस्य तदकार्यत्वप्रसङ्गात् । न हि हेतवः परस्परमावलिप्ताः क्वचिदेकत्र कार्ये येनैकस्य तत्र व्यापारेऽपरे निवर्तेरन् । क्षणिकोऽर्थः स्वान्त्यकारणसामग्रीसन्निपतितः स्वकार्यकारी तादृशस्वहेतुस्वभावादुत्पन्नत्वात्, न पुनर्नित्य इति ।
(भा०) कल्पयित्वापि स्वहेतुप्रकृतिं भावानां स्वप्रकृतिरवश्यमन्वेष्या, तत्स्वभाववशात् तत्कारणप्रकृतिव्यवस्थापनात् । तदयमकारणोऽपि स्वभावनियतोऽर्थः स्यात् । [एकक्षणानन्तरं वस्तुनोऽस्थानमेव क्षणिकस्य स्वभावोऽस्ति इत्यादिना बौद्धः स्वपक्षं पुष्णाति ।]
ननु च क्षणिकस्य क्षणादूर्ध्वमस्थानं स्वप्रकृतिविनश्वरत्वादन्विष्यते । विनाशस्वभावनियतत्वं च विनश्वरत्वं, न पुनः कालान्तरावस्थायिनः कदाचिन्नाशित्वमहेतुकत्वाद्विनाशस्य । तथा हि
- अष्टसहस्त्रीतात्पर्यविवरणम्
इवेत्यर्थः । तथा च व्याचष्टे वृत्तिकृत्-यथैव हीत्यादि । क्रमिकसहकारिभिरेव कार्यस्य कृतत्वात् स्थिरमकिञ्चित्करमित्याशङ्कायामाह भाष्यकृत्-न हीत्यादि । तबुद्धिपूर्वकत्वाभावात् अन्यतः कार्यसम्भवेऽहं न कुर्यामिति स्थिरसम्बन्धिबुद्धिपूर्वकत्वाभावात् कार्यस्येत्यर्थः, तथा च सहकारिवत् स्थिरस्य हेतोर्नियतपूर्ववर्त्तित्वादेव कारणत्वमवर्जनीयम् त्वदभिमतसामग्रीप्रविष्टहेत्वन्तरवदित्यर्थः । तदाह-क्षणिकेति । न तत्काले