________________
४७४
अष्टसहस्त्रीतात्पर्यविवरणम् सत्त्वप्रसङ्गात् । क्षणक्षयादीनां प्रत्यक्षे प्रतिभातानामेव विपरीतारोपव्यवच्छेदेऽनुमानव्यापाराददोष इति चेत्, तर्हि नानाकार्यजननशक्तीनामपि प्रत्यक्षेऽवभातानामेव समारोपव्यवच्छेदे कार्यानुमानव्यापारात्कश्चिदपि दोषो मा भूत् । नानाकार्यदर्शनातज्जननशक्तिरेका तादृश्यनुमीयते, न पुनर्नानाशक्तय इति चेत्, तर्हि नानारूपादिज्ञाननि सभेदात्तादृशैकस्वभावो द्रव्यस्य व्यवस्थाप्येत, न पुनर्नानारूपादय इति समः समाधिः । प्रदीपक्षणस्यैकस्य वर्तिकामुखादिसहकारिसामग्रीभेदात् तद्दाहादिविचित्रकार्यजननं न पुनः स्वभावभेदादिति चेत्, तर्हि कर्कटिकादिद्रव्ये चक्षुरादिसहकारिसामग्रीभेदादूपादिज्ञाननि सभेदो न पुना रूपाद्यनेकस्वभावभेदादिति निश्चीयते ।
(भा०) युगपदेकार्थोपनिबद्धदृष्टीनामपि भवितव्यमेव प्रतिभासभेदेन, कारणसामग्रीभेदात् । अन्यथा दर्शनभेदोऽपि मा भूत् ।
न चैवं,
(भा०) प्रत्यासन्नेतरयोर्वैशद्येतरनिर्भासोपलब्धेः । सेयमुभयतः पाशारज्जुः
सौगतानां, रूपादिज्ञाननिर्भासभेदाद्रूपादिभेदं व्यवस्थापयतः प्रदीपक्षणस्यैकस्य कार्यवैचित्र्यात् स्वभावभेदप्रसङ्गात्, तस्यैकस्वभावत्वं व्यवस्थापयतो रूपादिनानात्वाव्यवस्थापनात् ।
[कारणस्वभावभेदमन्तरेण कार्यनानात्वं न सम्भवतीति जैनाचार्या सुतरां साधयन्ति ।] (भा०) सकृत् कारणस्वभावभेदमन्तरेण यदि कार्यनानात्वं, क्रमशो
- अष्टसहस्त्रीतात्पर्यविवरणम् कल्पिताभ्यो वासनाविशेषोत्थविकल्पज्ञानविषयीकृताभ्यः । विपरीतारोपव्यवच्छेदे = अक्षणिकत्वभ्रान्तिव्यवच्छेदे, समारोपव्यवच्छेदे =नानाकार्यजनकशक्त्यभावभ्रमव्यवच्छेदे । नर्तक्यादिक्षणे कार्यभेदेऽपि कारणभेदाभावमाशङ्क्याह भाष्यकृत् युगपदित्यादि तत्र दर्शनभेदाभावेष्टापत्तावनुभवबाधमाह वृत्तिकृत्-न चैवमित्यादिना । क्षणिके नानाकार्यजनकस्वभावभेदानभ्युपगमे तत्त्वसाधकमूलयुक्तिबाधः स्यादित्याह भाष्यकृत्सकृदित्यादिना । क्षणक्षयवदिति धर्मनिर्देशस्य धर्मिपरत्वात् क्षणक्षयवति स्वलक्षण