________________
५२४
अष्टसहस्त्रीतात्पर्यविवरणम् पय एव मयाद्य भोक्तव्यमिति व्रतमभ्युपगच्छतो दध्युत्पादेऽपि पयसः सत्त्वे दधिवर्जनानुपपत्तेः दध्येव मयाद्य भोक्तव्यमिति व्रतं स्वीकुर्वतः पयस्यपि दनः सत्त्वे पयोवर्जनायोगात्, अगोरसं मयाद्य भोक्तव्यमिति व्रतमङ्गीकुर्वतोऽनुस्यूतप्रत्ययविषयगोरसे दधिपयसोरभावे तदुभयवर्जनाघटनात्, प्रतीयते च तत्तव्रतस्य तत्तद्वर्जनम् । (भा०) ततस्तत्त्वं त्रयात्मकम् ।
[वस्तु त्रयात्मकमेव पुनः अनन्तधर्मात्मकं कथं सिद्ध्येत् ?] न चैवमनन्तात्मकत्वं वस्तुनो विरुद्ध्यते, प्रत्येकमुत्पादादीनामनन्तेभ्य उत्पद्यमानविनश्यत्तिष्ठद्भ्यः कालत्रयापेक्षेभ्योऽर्थेभ्यो भिद्यमानानां विवक्षितवस्तुनि तत्त्वतोऽनन्तभेदोपपत्तेः, पररूपव्यावृत्तीनामपि वस्तुस्वभावत्वसाधनात्, तदवस्तुस्वभावत्वे सकलार्थसार्यप्रसङ्गात् । तथा तत्त्वस्य त्रयात्मकत्वसाधनेऽनन्तात्मकत्वसाधने च नित्यानित्यो भयात्मकत्वसाधनमपि प्रकृतं न विरुद्धयते, स्थित्यात्मकत्वव्यवस्थापनेन कथञ्चिन्नित्यत्वस्य विनाशोत्पादात्मकत्वप्रतिष्ठापनेन चानित्यत्वस्य साधनात् । ततः सूक्तं-सर्वं वस्तु स्यान्नित्यमेव, स्यादनित्यमेवेति ।
- अष्टसहस्त्रीतात्पर्यविवरणम्
किञ्च भावाभावयोः प्रतियोग्यनुयोगिभावस्य विशेषणविशेष्यभावस्य च स्वरूपसम्बन्धतयैव विश्राम इति सर्वं सर्वात्मकं जगत् आसत्तिपाटवाभ्यासप्रयोजनादिना च प्रतिनियतपर्यायग्रह इति नातिप्रसङ्गः । अत एवैकज्ञत्वसर्वज्ञत्वयोर्नान्तरीयकत्वं सिद्धान्तसिद्धम्, तथा चानुवृत्तिव्यावृत्तिद्वारा स्वपरपर्यायोत्पादव्ययावच्छिन्नं ध्रौव्यं सर्वत्राऽनायाससिद्धमिति द्रष्टव्यम् । न च विरोधः, पर्यायत्वावच्छेदेनोत्पादव्यययोर्द्रव्यत्वावच्छेदेन ध्रौव्यस्य चाविरोधात्, अन्यथा गोत्वावच्छेदेन गव्यश्वभेदस्य ब्रह्मत्वावच्छेदेन तदभेदस्य चाविरोध औपनिषदाभिमतोऽपि कथं स्याद् ? इत्युपरम्यते ।
स्यान्नित्यमेवेत्यादि अत्र च नित्यत्वानित्यत्वादिव्यवहारे आकाशघटादौ द्रव्यार्थत्वपर्यायार्थत्वयोस्तुल्यवदाकाशत्वघटत्वादीनां च स्यात्पदद्योतनमर्यादया प्रतिस्वं ग्रहान्नातिप्रसङ्गः, नयवाक्येऽपि यद्धर्मविशिष्टविशेष्यवाचकपदसमभिव्याहारेण नित्यत्वादिविशिष्टवाचकं पदं प्रयुज्यते तद्धर्मावच्छेदेन तत्र नित्यत्वादिबोधने एव तत्साकाङ्क्षमित्याकाशमनित्यं घटो नित्य इत्यादेर्नयवाक्यस्य न प्रयोग: व्यापकसामानाधिरण्यरूपव्याप्तिपक्षे