SearchBrowseAboutContactDonate
Page Preview
Page 60
Loading...
Download File
Download File
Page Text
________________ ४६२ अष्टसहस्त्रीतात्पर्यविवरणम् प्रधानं न पुनर्घटोऽवयवी, तद्विवक्षायाः सम्भवाभावात्तदर्थित्वानुपपत्तेः । न च तदुभयसत्त्वाविशेषादविशेषेणार्थित्वमनर्थित्वं वा प्रसज्यते, तस्य तत्सत्तामात्रानिबन्धनत्वात्, मोहविशेषोदयहेतुकत्वात् तदुदयस्यापि मिथ्यादर्शनादिकालादिनिमित्तकत्वात् । तदेवं स्यादद्वैतं, स्यात् पृथक्त्वमिति मूलभङ्गद्वयं विधिप्रतिषेधकल्पनयैकवस्तुन्यविरोधेन प्रश्नवशादुपदर्शितम् । शेषभङ्गानां तु प्रक्रिया यथोदितनयविशेषवचनभाक् 'एकानेकविकल्पादावुत्तरत्रापि योजयेत्' इत्याद्यतिदेशकारिकानिर्देशसामर्थ्यात्प्रपञ्चतो निश्चेतव्या । अद्वैताद्याग्रहोग्रग्रहगहनविपन्निग्रहेऽलङ्घ्यवीर्याः स्यात्कारामोघमन्त्रप्रणयनविधयः शुद्धसद्ध्यानधीराः । धन्यानामादधाना धृतिमधिवसतां मण्डलं जैनमग्रयं वाचः सामन्तभद्र्यो विदधतु विविधां सिद्धिमुद्भुतमुद्राः ॥ [स्रग्धरा ] इत्याप्तमीमांसालङ्कृतौ द्वितीयः परिच्छेदः ॥ अष्टसहस्त्रीतात्पर्यविवरणम् इत्येकत्वपृथक्त्वचिन्तननयौ यौ सप्तभङ्ग्यावहौ, तावुन्मग्नजलानिमग्नजलयोः सादृश्यमन्विच्छतः । उल्लङ्घ्य द्वयमस्तमोहविषमम्लेच्छो लिखित्वाभिधां, स्याद्वादर्षभकूट एव हि निजां स्याच्चक्रवर्त्ती बुधः ॥१॥ इति श्रीमदकब्बरसुरत्राणप्रदत्तजगद्गुरुबिरुदधारकभट्टारक श्रीहीरविजयसूरीश्वरशिष्य मुख्यमहोपाध्यायश्रीकल्याणविजयगणिशिष्यावतंसपण्डित श्रीलाभविजयगणि शिष्याग्रेसरपण्डित श्रीजितविजयगणिसतीर्थ्यालङ्कार पण्डितश्रीनयविजयगणिचरणकमलचञ्चरीकेण पण्डितश्रीपद्मविजयगणिसहोदरेण महोपाध्यायश्रीयशोविजयगणिना विरचितेऽष्टसहस्त्रीतात्पर्यविवरणे द्वितीयः परिच्छेदः ॥
SR No.009090
Book TitleAshtasahastritatparya Vivaranam Part 2
Original Sutra AuthorN/A
AuthorVairagyarativijay
PublisherPravachan Prakashan Puna
Publication Year2004
Total Pages294
LanguageGujarati, Sanskrit
ClassificationBook_Gujarati & Philosophy
File Size1 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy