________________
द्वितीयो भागः [परि०२-का० ३६]
४६१
[परमाणव एव सद्रूपा न स्कन्धा इति बौद्धेन कथितं, जैनाचार्याः समादधते]
सर्वं वस्तु क्षणिकपरमाणुरूपं, सत्त्वात्, नित्यस्थूलरूपे क्रमाक्रमाभ्यामर्थक्रियानुपपत्तेस्तदयोगादित्यनुमानेन स्वलक्षणमध्यवसीयते इति चेत्, न, अत्र हेतोविरुद्धत्वात्, सत्त्वस्य कथञ्चिन्नित्यानित्यात्मकसूक्ष्मस्थूलात्मकत्वेन व्याप्तत्वात्, सर्वथा नित्यायेकान्तरूपे क्रमयोगपद्याभ्यामर्थक्रियाविरोधात्सत्त्वानुपपत्तेः समर्थनात् । एतेन स्थूलमेवावयवि द्रव्यं सूक्ष्मावयवरहितं प्रतिभासते इति व्युदस्तं तदनुमानस्यापि विरुद्धत्वाविशेषात् प्रत्यक्षबाधितविषयत्वाच्च हेतोरतीतकालत्वाव्यवस्थितेः । अत एव नोपमानादावपि तत्प्रतिभासनमिति नासिद्धं सूक्ष्मायेकान्तस्य प्रत्यक्षबुद्धावप्रतिभासनं, यतस्तत्प्रतिषेधे साध्ये स्वभावानुपलब्धिर्न सिद्धयेत् । तत्प्रतिषेधे च सिद्धः सूक्ष्मायनेकान्तः ।
[प्रधानगौणव्यवस्था कथं घटते ? इति प्रश्ने सति समादधते जैनाचार्याः ।]
(भा० ) तत्र स्वभावान्तरस्य प्राधान्यविवक्षायामाकारान्तरस्य गुणभावः स्यात्, घटोऽयं परमाणवो रूपादयो वेति ।
घटार्थिनो हि घटविवक्षायां घट: प्रधानं परमाणवोऽनुमेयाः, प्रत्यक्षाश्च रूपादयो गुणीभूताः, तदनथित्वादविवक्षाप्रसिद्धः । तदर्थिनां तु तद्विवक्षायां त एव
– अष्टसहस्त्रीतात्पर्यविवरणम् - प्रत्यक्षपरम्पराभिग्राह्यभिया ह्यस्य सुग्राह्यत्वम्, अन्यथा समवायस्य सत्त्वे तत्प्रत्यक्षमिव तत्सम्बन्धतत्सम्बन्धपरम्पराऽपि प्रत्यक्षा स्यात् । प्रत्यक्षादाविति= भाष्यस्थादिशब्दगृहीतानुमानादावपि । सूक्ष्मस्थूलाकाराः स्थूलसूक्ष्मस्वभावव्यतिरेकेण न प्रतिभासन्त इति समर्थयितुमनाः प्राह-सर्वं वस्त्वित्यादिना । प्रत्यक्षबाधितेति अवयवसहितस्यैवावयविनः प्रत्यक्षे भानादित्यर्थः । गुणीभूता इति यावत्स्वप्रदेशगुणपर्यायविशिष्टतादात्म्यसंसर्गेणैवेदन्तादेर्घटे भानाभ्युपगमादित्यर्थः । तदनर्थित्वादिति रूपाद्युद्देश्यकजिज्ञासाभावादित्यर्थः, तत्सद्भावे तु जायत एवैते रूपादयो घट इति प्रत्यक्षमिति भावः । यद्यपि विवक्षा शाब्दबोध एव प्रयोजिका, न प्रत्यक्षे, नापि जिज्ञासा, घटदिदृक्षयोन्मीलितनयनस्य पुरःस्थितपटप्रत्यक्षानुत्पत्तिप्रसङ्गात्, तथापि प्रधानगुणभावेन तथातथाप्रत्यक्षे तत्तदथित्वादिनियन्त्रितक्षयोपशमस्यान्वयव्यतिरेकाभ्यां विशिष्य हेतुत्वान्नानुपपत्तिरिति सर्वमनवद्यम् । शिष्टं सुगमम् ॥३६॥