________________
॥ तृतीयः परिच्छेदः ॥ नित्यत्वैकान्तपक्षेऽपि विक्रिया नोपपद्यते । प्रागेव कारकाभावः क्व प्रमाणं क्व तत्फलम् ॥३७॥
अष्टशती प्रथितार्था साष्टसहस्त्री कृतापि सक्षेपात् । विलसदकलङ्कधिषणैः प्रपञ्चनिचितावबोद्धव्या ॥
(भा०) सदसदेकत्वपृथक्त्वैकान्तप्रतिषेधानन्तरं नित्यत्वैकान्तप्रतिक्षेपः ।
प्रक्रम्यतेऽनेनेति तात्पर्यम् । तत्र नित्यत्वैकान्तः कूटस्थत्वाभिनिवेशः । तस्य पक्षः प्रतिज्ञानम् । तस्मिन्नपि विविधा क्रिया परिणामपरिस्पन्दलक्षणा नोपपद्यते । कार्योत्पत्तेः प्रागेव तदुत्पत्तौ वा प्रागेव कारकाभावो नोपपद्यते इति कूटस्थः प्रागेव कारकः स्यादात्मा भोगस्य । अथ प्रागेव कारकाभावस्तदा विक्रियापि नोपपद्यते इति शश्वदकारक: स्यात् तदविशेषात् । [साङ्ख्या आत्मानमक रमपरिणामिनं मन्यन्ते किन्तु जैनाचार्यैरात्मा परिणामीति साध्यते ।]
___ सोऽस्त्वकारकोऽविक्रियश्चेति चेत्, क्वैव प्रमाणं प्रमितिलक्षणं च तत्फलमुपपद्येत ? प्रमातुरभावे तदसम्भवात् । न ह्यकारकः प्रमाता नाम, प्रमितिक्रिया
अष्टसहस्त्रीतात्पर्यविवरणम् रमारमणशङ्करद्रुहिणचन्द्रसूर्यादयः, प्रसादमिव मूनि यत्क्रमरजःकणं बिभ्रति । प्रसीदतु स वो विभुर्धरणराजपद्मावतीनिषेवितपदद्वयः प्रकटपार्श्वपुण्याह्वयः ॥१॥