________________
४२६
अष्टसहस्त्रीतात्पर्यविवरणम् इति वचनात्, तदा ब्रह्मवत्तदागमस्याप्यसिद्धत्वं स्यात्, सर्वथाप्यसिद्धस्वभावस्य सिद्धत्वविरोधात् सिद्धासिद्धयोर्भेदप्रसक्तेः । तदेवं
(भा० ) यदसिद्धं तन्न हितेप्सुभिरहितजिहासुभिर्वा प्रतिपत्तव्यम् । यथा शून्यतैकान्तः, तथा चासिद्धमद्वैतमिति । अत्र नासिद्धो हेतुः ।
पुरुषाद्वैतस्यानुमानादागमाद्वा सिद्धत्वायोगात् । प्रतिभाससमानाधिकरणत्वानुमानात्तत्सिद्धिरिति चेत्, न, तस्य विरुद्धत्वात्, प्रतिभासतद्विषयाभिमतयोः कथञ्चिद्भेदे सति समानाधिकरणत्वस्य प्रतीतेः सर्वथा प्रतिभासान्तःप्रविष्टत्वासाधनात् स्वविषयस्य । न हि शुक्ल: पट इत्यादावपि सर्वथा गुणद्रव्ययोस्तादात्म्ये सामानाधिकरण्यमस्ति । सर्वथा भेदवत् प्रतिभासस्वरूपं प्रतिभासते इत्यत्रापि न प्रतिभासतत्स्वरूपयोर्लक्ष्यलक्षणभूतयोः सर्वथा तादात्म्यमस्ति, प्रतिभासस्य साधारणासाधारणधर्माधिकरणस्य स्वस्वरूपादसाधारणधर्मात्कथञ्चिद्भेदप्रसिद्धरन्यथा तत्सामाधिकरण्यायोगात् सुवर्णं सुवर्णमिति यथा सह्यविन्ध्यवद्वा । तदेवं यत्प्रतिभाससमानाधिकरणं तत् प्रतिभासात्कथञ्चिदर्थान्तरं यथा प्रतिभासस्वरूपं, प्रतिभाससमानाधिकरणं च सुखनीलादि सर्वमिति साध्यविपरीतसाधनाद्धेतो द्वैतसिद्धिः ।
[आम्नायवाक्यं द्वैतमेव साधयति नाद्वैतम्] सर्वं वै खल्विदं ब्रह्म इत्याद्याम्नायादपि द्वैतसिद्धिरेव स्यात्, सर्वस्य प्रसिद्धस्याप्रसिद्धेन ब्रह्मत्वेन विधानात्, सर्वथा प्रसिद्धस्य विधानायोगादप्रसिद्धवत् । क्वचिदात्मव्यक्तौ प्रसिद्धस्यैकात्म्यरूपस्य ब्रह्मत्वस्य सर्वात्मस्वनात्माभिमतेषु च विधानादद्वैतप्रपञ्चारोपव्यवच्छेदेऽपि तदागमाद् व्यवच्छेद्यव्यवच्छेदकसद्भावसिद्धेः कथमद्वैतसिद्धिः ? आम्नायस्य परब्रह्मस्वभावत्वेऽपि न ततस्तदद्वैतसिद्धिः, स्वभावस्वभाववतोस्तादात्म्यैकान्तानुपपत्तेः ।
- अष्टसहस्रीतात्पर्यविवरणम् । शुद्धबुद्धस्वरूपावस्था मूलं यस्य स तथा तम् । अधोऽविद्याजन्यप्रपञ्चविलासावस्था शाखा यस्य स तथा तम् । असिद्धत्वं स्यादिति विशिष्याज्ञानादित्यर्थः, सामान्यज्ञानं तु सन्देहाविरोधि, सर्वं ज्ञानं शब्दब्रह्मविषयं परब्रह्मविषयं वेति सन्देहस्याप्यन्ततः सम्भवादिति स्मर्त्तव्यम् । स्वविषयस्य प्रतिभास्यस्य । सर्वथा भेदवत् सर्वथा भेदपक्ष इव । कथञ्चिद्भेदप्रसिद्धेरिति स्वरूपपदस्य विशेषपरत्वादिति भावः । साध्यस्यैव साधन