________________
द्वितीयो भागः [परि०२-का. २६]
४२५ ब्रह्मेति ब्रह्मशब्देन कृत्स्नं वस्त्वभिधीयते ।
प्रकृतस्यात्मकात्य॑स्य वै शब्दः स्मृतये मतः ॥ [ इति श्रुतिव्याख्यानात् । ततोऽनवद्याद्धेतोर्भवत्येवाद्वैतसिद्धिः । तथोपनिषद्वचनादपि सर्वं वै खल्विदं ब्रह्म इत्यादिश्रुतिसद्भावात्, ततस्तद्भ्रान्तिनिराकरणात् इति ॥२५॥
[इत्थमद्वैतवादिभिः स्वपक्षः समर्थितः आचार्या अग्रेतनकारिकाभिस्तन्निराकरणं कुर्वन्ति]
तदेतत्प्रतिविधित्सवः प्राहु:
हेतोरद्वैतसिद्धिश्चेद् द्वैतं स्याद्धेतुसाध्ययोः । हेतुना चेद्विना सिद्धिद्वैतं वाङ्मात्रतो न किम् ? ॥२६॥
ननु च प्रतिभाससमानाधिकरणत्वाद्धेतोः सर्वस्य प्रतिभासान्तःप्रविष्टत्वेन पुरुषाद्वैतसिद्धावपि न हेतुसाध्ययोद्वैतं भविष्यति, तादात्म्योपगमात् । न च तादात्म्ये साध्यसाधनयोस्तद्भावविरोधः, सत्त्वानित्यत्वयोरपि तथाभावविरोधानुषङ्गात् । कल्पनाभेदादिह साध्यसाधनधर्मभेदे प्रकृतानुमानेऽपि कथमविद्योदयोपकल्पितहेतुसाध्ययोस्तद्भावविघातः ? सर्वथा विशेषाभावादिति चेत्, न शब्दादौ सत्त्वानित्यत्वयोरपि कथञ्चित्तादात्म्यात् सर्वथा तादात्म्यासिद्धेः, तत्सिद्धौ साध्यसाधनभावविरोधात् । न चासिद्धमुदाहरणं नाम, अतिप्रसङ्गात् । ततो न हेतोरद्वैतसिद्धिः ।
[आगमादद्वैतसिद्धिर्भवेदिति मन्यमाने जैनाचार्याः दोषानारोपयन्ति ।] हेतुना विनैवागममात्रात्तत्सिद्धिरिति चेत्, न अद्वैततदागमयोद्वैतप्रसङ्गात् । यदि पुनरागमोऽप्यद्वयपुरुषस्वभाव एव न ततो व्यतिरिक्तो येन द्वैतमनुषज्यते इति मतम् ।
ऊर्ध्वमूलमधःशाखमश्वत्थं प्राहुरव्ययम् । छन्दांसि तस्य पर्वाणि यस्तं वेत्ति स वेदवित् ॥ [भगवद्गीता १५.१]
अष्टसहस्त्रीतात्पर्यविवरणम्
अभेदनियतत्वादिति भावः । यदि पुनरागमोऽपीति मृन्मयगजभानेऽपि मृद्भानवत् सर्वत्र ब्रह्मभानेन तद्विषयत्वेनैवागमज्ञानस्यापि सत्यत्वादिति भावः । ऊर्ध्वमूलमिति ऊर्ध्वं