________________
द्वितीयो भागः [परि०२-का. २६]
४२७
[स्वसंवेदनप्रत्यक्षेण ब्रह्मणः सिद्धिर्भविष्यति तस्य विचारः ।]
स्वसंवेदनमेव पुरुषाद्वैतसाधनमिति चेत्, नैतदपि सारं, निगदितपक्षदोषोपनिपातात् । तथा हि
(भा०) तत्सिद्धिर्यदि साधनात्साध्यसाधनयोस्तर्हि द्वैतं स्यात् । अन्यथाद्वैतसिद्धिवद् द्वैतसिद्धिः कथं न स्यात् ? स्वाभिलापमात्रादर्थसिद्धौ सर्वं सर्वस्य सिद्धयेत् ।
न हि स्वसंवेदनमपि साधनमात्मनोऽन्यदेव साधनत्वविरोधात् अनुमानागमवत्साध्यस्यैव साधनत्वापत्तेः प्रकृतानुमानागमयोरिव स्वसंवेदनप्रत्यक्षस्यापि साधनस्याभावात् । स्वतः सिद्धं ब्रह्मेत्यभ्युपगमे द्वैतमपि स्वतः सकलसाधनाभावेऽपि किं न सिद्धयेत् ? तत्त्वोपप्लवमात्रं वा ? नैरात्म्यं वा ? स्वाभिलापमात्राविशेषात् । सर्वस्य सर्वमनोरथसिद्धिरपि दुर्निवारा स्यात् । एतेनैतदपि प्रत्याख्यातं यदुक्तं बृहदारण्यकवार्तिके
आत्मापि सदिदं ब्रह्म मोहात्पारोक्ष्यदूषितम् । ब्रह्मापि स तथैवात्मा सद्वितीयतयेक्ष्यते ॥ आत्मा ब्रह्मेति पारोक्ष्यसद्वितीयत्वबाधनात् । पुमर्थे निश्चितं शास्त्रमिति सिद्धं समीहितम् ॥ [बृ० आ० वा० ९०९-९१०] इति ।
मोहस्याविद्यारूपस्याकिञ्चिद्रूपत्वे पारोक्ष्यहेतुत्वाघटनात् सद्वितीयत्वदर्शननिबन्धनत्वासम्भवात् तस्य वस्तुरूपत्वे द्वैतसिद्धिप्रसक्तेस्तत एव पारोक्ष्यसद्वितीयत्वयोर्बाधनात्, पुमर्थे निश्चितं शास्त्रमित्येतस्यापि द्वैतसाधनत्वात्, शास्त्रपुमर्थयोर्भेदाभावे साध्यसाधनभावासम्भवात् ॥२६॥
अष्टसहस्त्रीतात्पर्यविवरणम्
त्वापत्तेः ब्रह्मान्तर्भावात्, साधनस्य-पृथक्साधनत्वेन विवक्षितस्याभावादित्यन्वयः । किं न सिद्धयेदिति श्रुतेरद्वैतविषयिण्या इव द्वैतविषयिण्या अपि बहुश उपलम्भादित्यर्थः । स्वस्वाभ्युपगममात्रेण चान्योऽप्यतिप्रसङ्गो दुर्निवार इत्याह-तत्त्वोपप्लवमानं वेत्यादिना । आत्मापीति तदिदं ब्रह्मापि तत्त्वेन वस्तुतोऽपरोक्षमपि मोहाद्=अज्ञानात्, पारोक्ष्यदूषितं
१. सदिदं इति अष्टसहस्रीसम्मतः पाठः ।