________________
४२८
अष्टसहस्त्रीतात्पर्यविवरणम् अद्वैतं न विना द्वैतादहेतुरिव हेतुना ।।
सञ्जिनः प्रतिषेधो न प्रतिषेध्याहते क्वचित् ॥२७॥ [अद्वैतशब्दो नसमासयुक्तोऽतः स्वविरोधवास्तविकं द्वैतमपेक्षत इति जैनाचार्याः समर्थयन्ति ।] ___कथं पुनर्हेतुना विना अहेतुरिवाद्वैतं द्वैताद्विना न सिद्ध्यतीति निश्चितमिति चेद्, उच्यते,
(भा०) अद्वैतशब्दः स्वाभिधेयप्रत्यनीकपरमार्थापेक्षो नञ्यूर्वाखण्डपदत्वादहेत्वभिधानवदित्यनुमानात् ।
अनेकान्तशब्देन व्यभिचार इति चेत्, न तस्यापि सम्यगेकान्तेन विनानुपपद्यमानत्वात् । एवममायादिशब्देनापि न व्यभिचारस्तस्य मायादिनाविनाभावित्वात् । तथा नपूर्वग्रहणात् केवलेन शब्देन व्यभिचारो निरस्तः, पदांशेनाखण्डग्रहणात् । अखरविषाणादिशब्देन च न । ततो
(भा०) नात्र किञ्चिदतिप्रसज्यते, तादृशो नजो वस्तुप्रतिषेधनिबन्धनत्वात् ।
न ह्यखण्डपदविशेषणस्य नञः क्वचिदवस्तुप्रतिषेधनिबन्धनत्वमुपलब्धं, पदान्तरोपहितपदविशेषणस्यैव तथा प्रतीतेरखरविषाणमित्यादिवत् । अत एव
(भा०) सर्वत्र प्रतिषेध्यादृते सचिनः प्रतिषेधाभावः प्रत्येतव्यः ।
न हि खरविषाणं सज्ञि किञ्चिदस्ति, येन तस्यापि सत एव कथञ्चित् प्रतिषेधः प्रसज्यते ।
- अष्टसहस्रीतात्पर्यविवरणम् दोषप्रयोज्यपारोक्ष्याभिलापाक्रान्तम्, ईक्ष्यत इत्युत्तरक्रियान्वयः । तथैव स प्रसिद्ध आत्मा ब्रह्मापि ब्रह्माभिन्नोऽपि, मोहाद्=अज्ञानात्, सद्वितीयतया भेदाक्रान्ततयेक्ष्यते । आत्मा ब्रह्मेति वेदान्तफलीभूततत्त्वज्ञाने सति ब्रह्मण्यध्यस्तयोः पारोक्ष्यसद्वितीयत्वयोर्बाधने सति, शास्त्रं पुमर्थे निश्चितं निश्चितपुरुषार्थं जातम्, इति हेतोः, अज्ञाननिवृत्त्यैव कण्ठगतचामीकरोपलम्भन्यायेनोद्देश्यसिद्धेरित्यर्थः ॥२६॥
स्वाभिधेयेति स्वार्थप्रतियोगिप्रमाधीननिरूपण इत्यर्थः । केवलेन शब्देन= घटादिना, पदांशेनेत्यादि, अखण्डपदग्रहणाच्च खरविषाणादिशब्दे नागौरनश्व इत्यादावगनश