________________
द्वितीयो भाग: [ परि० ३ - का० ३७]
स्वस्मिन् परत्र वा प्रतीतेः ।
[कूटस्थनित्येऽर्थक्रिया सम्भवति न वा तस्य विचारः ।]
४६५
सोऽयम्
( भा० ) पूर्वापरस्वभावपरिहारावाप्तिलक्षणामर्थक्रियां कौटस्थ्येऽपि ब्रुवाणः कथमनुन्मत्तः ?
सा ह्यर्थक्रियोत्पतिर्ज्ञाप्तिर्वा । न च शश्वदवस्थिते सर्वथासौ प्रतीयते, तत्र
(भा०) कारकज्ञापकहेतुव्यापारासम्भवात् ।
न हि पुरुषस्यार्थस्योत्पत्तिश्चेतनाक्रिया येन कारकहेतोरुपादानस्य सहकारिणो वा व्यापारस्तत्र भवेत् । तथोपगमे वा तस्यानित्यत्वानुषङ्गात्कुतः कौटस्थ्यसिद्धिः ? चेतना पुंसो ज्ञप्तिक्रियेत्यपि न युक्तं यतस्तत्र ज्ञापकहेतोः प्रमातुः प्रमाणस्य च व्यापारः स्यात् । स्यान्मतं- 'न पुरुषलक्षणस्यार्थस्य क्रिया चेतनाख्योत्पतिर्ज्ञाप्तिर्वा, किं तर्हि ? स्वभाव एव तस्य सर्वदा तत्स्वभावत्वात्' इति तदप्यसत्, पुंसः परिणामसिद्धिप्रसङ्गात् ।
[परिणामस्वभावयोर्भेदोऽस्तीति साङ्ख्येन मन्यमाने आचार्याः समादधते ।]
( भा० ) परिणामविवर्तधर्मावस्थाविकाराणां स्वभावपर्यायत्वात् ।
ननु च 'स्थितस्य धर्मिणः पूर्वाकारतिरोभावेनोत्तराकाराविर्भावः परिणामः । स कथं स्वभावपर्यायः ? सदावस्थितस्य स्वरूपस्य स्वभावत्वात् । एतेन विवर्तविकारावस्थानां स्वभावपर्यायत्वं व्युदस्तं विवर्तादीनां कादाचित्कत्वात् । तत एव धर्मविशेषस्य न स्वभावपर्यायत्वम् । 'धर्मसामान्यस्यापि साधारण
अष्टसहस्त्रीतात्पर्यविवरणम्
व्याघातापत्तेः, परम्परासम्बन्धेनोपचारस्तु न तद् व्याहन्ति, उपलक्षणस्याविशेषकत्वादिति भावः । तस्या इति वस्तुत्वव्यवहारे तादृश्या एवार्थक्रियाया उपयुक्तत्वादिति भावः । तर्हि स्वभाव एवेति धात्वर्थरूपक्रियाश्रयणादिति भावः । पुंसोऽर्थस्य चेतनायाः स्वभावक्रियात्वोक्तौ स्वभावपदस्य परिणामपर्यायत्वात्परिणामाभ्युपगमप्रसक्तिरित्याह-पुंस इत्यादिना । स्वभावपदस्य न परिणामपर्यायत्वमित्याशयेन साङ्ख्य आशङ्कते-ननु