________________
द्वितीयो भागः [परि. १०-का० १००]
६४९ दर्शनादिपरिणामात्मकोऽशुद्धिर्दोषावरणहानीतरलक्षणत्वात्तेषां शुद्ध्यशुद्धि
(भा०) शक्त्योरिति भेदमाचार्यः प्राह, ततोऽन्यत्रापि । भव्याभव्याभ्यां भव्येष्वेव ।। (भा०) साद्यनादी प्रकृतशक्त्योर्व्यक्ती ।
सम्यग्दर्शनाद्युत्पत्तेः पूर्वमशुद्ध्यभिव्यक्ते मिथ्यादर्शनादिसन्ततिरूपायाः कथञ्चिदनादित्वात्, सम्यग्दर्शनाद्युत्पत्तिरूपायाः पुनः शक्त्यभिव्यक्तेः सादित्वात् ।
[स्वभावोऽतर्कगोचरः इति तस्य समर्थनं कुर्वन्ति आचार्याः ।] (भा०) कुतः शक्तिप्रतिनियम इति चेत्, तथास्वभावादिति ब्रूमः । (भा०) न हि भावस्वभावाः पर्यनुयोक्तव्याः,
तेषामतर्कगोचरत्वात् । ननु प्रत्यक्षेण प्रतीतेऽर्थस्वभावैरुत्तरं वाच्यं सति पर्यनुयोगे, न पुनरप्रत्यक्षे, अतिप्रसङ्गादिति चेत्, न, अनुमानादिभिरपि प्रतीते वस्तुनि भावस्वभावैरुत्तरस्याविरोधात् प्रत्यक्षवदनुमानादेरपि प्रमाणत्वनिश्चयात् । ततः परमागमात्सिद्धप्रामाण्यात् प्रकृतजीवस्वभावाः प्रतीतिमनुसरन्तो न तर्कगोचरा यतः पर्यनुयुज्यन्ते, तर्क गोचराणामप्यागमगोचरत्वेन पर्यनुयोगप्रसङ्गात् तद्वत्प्रत्यक्षविषयाणामपि, इति न प्रत्यक्षागमयोः स्वातन्त्र्यमुपपद्येत तर्कवत् । तदनुपपत्तौ च नानुमानस्योदयः स्यात्, धर्मिप्रत्यक्षादेः प्रतिज्ञायमानागमार्थस्य च प्रमाणान्तरापेक्षत्वादित्यनवस्थानात् । ततः सूक्तं-कर्मबन्धानुरूपत्वेऽपि कामादिप्रभवस्य भावसंसारस्य द्रव्यादिसंसारहेतोः प्रतिमुक्तीतरसिद्धिर्जीवानां शुद्धयशुद्धिवैचित्र्यादिति ॥१०॥
ननु चोपे यतत्त्वस्य सर्वज्ञत्वादेरुपायतत्त्वस्य ज्ञापककारकविकल्पस्य हेतुवाददैवादेः प्रमाणनयैरेव कात्स्न्र्यैकदेशतोऽधिगमः कर्तव्यो नान्यथा तदधि
- अष्टसहस्त्रीतात्पर्यविवरणम् - शङ्कायामाह-अन्यथेति अन्यप्रकारेण यानि तदधिगमोपायान्तराणि निक्षेपनिर्देशस्वामित्वादीनि तेषामत्रैव प्रमाणनययोरेवान्तर्भावादभिमतानभिमतोपादानत्यागफलोपदेशरूपत्वेन