Page #1
--------------------------------------------------------------------------
________________
अहम् श्रीविजयधर्मसूरिभ्यो नमः ।
श्रीहरिभद्रसूरिकृताअनेकान्तजयपताका
स्वोपज्ञटीकासहिता।
स्वपरोपकृतये अनेकान्तजयपताकाऽऽख्यप्रकरणस्य व्याख्या प्रस्तूयते
इह चादावेवाचार्यः शिष्टसमयपरिपालनाय विघ्नविनायकोपशान्तये प्रयोजनादिप्रतिपादनार्थ चेममार्यासमूहमाह
जयति विनिर्जितरागः सर्वज्ञस्त्रिदशनाथकृतपूजः । सद्भूतवस्तुवादी शिवगतिनाथो महावीरः ।। १ ।। य इहानिन्धो मार्गो विशेषतः पूर्वगुरुभिराचरितः । तत्र प्रवर्तितव्यं पुंसा न्यायः सतामेषः ॥२॥ यद्यपि न तथाभूता शक्तिः प्राकर्मदोषतस्तदपि । शक्त्यनुरूपमुपायो न यतस्तत्माप्तयेऽप्यन्यः ॥ ३॥ सत्यपि गुणवत्येव तु स चान्यभावेऽपि पण्डितैर्गदितः । यत्रैव यस्य शक्तिः सात्म्यं च विशेषतस्तेषाम् ॥ ४॥ स तमाराधयितुमलं यस्मादाराध्य चैनमामोति । शक्त्यन्तरं छुपायान्तरसाधकमुत्तमं नियमात् ॥ ५ ॥
(युग्मम् ) तस्मान्ममापि जाता शठोक्तिभिर्मोहितान् जडान् वीक्ष्य । प्रकरणकरणसमीहा पूर्वनिमित्तात्कृपातश्च ॥६॥ जिनवचनश्रवणानः शक्तिरपि न नास्ति तत्र तस्यैव । सद्बोधहेतुभावात्तुच्छत्वाद्वा शठोक्तीनाम् ।। ७॥
Page #2
--------------------------------------------------------------------------
________________
अनेकान्तजयपताका
तुच्छत्वं पुनरासां प्रदर्शितं पूर्वमूरिभिबहुधा । न्यक्षेण मूक्ष्मयुक्तिभिरतिगम्भीरं स्वशास्त्रेषु ॥ ८ ॥ तत्तु शठोक्तिविमूढा न जडाः सञ्जानते यतस्तेन । संदर्यते समासस्थूरोक्तिशठोक्त्यपाकरणः ॥ ९॥ मारभ्यते तत इदं सम्यगनेकान्तजयपताकाख्यम् । प्रकरणमुक्तगुणयुतं जडावबोधाय धर्मफलम् ॥ १०॥
तत्र शिष्टानामयं समयो यदुत शिष्टाः क्वचिदिष्टे वस्तुनि प्रवर्त्तमानाः सन्त इष्टदेवतानमस्कारपूर्वकं प्रवर्त्तन्ते । अयमप्याचार्यों न हि न शिष्ट इत्यतस्तत्समयप्रतिपालनाय, तथा श्रेयांसि बहुविनानि भवन्तीतिः
उक्तं च" श्रेयांसि बहुविघ्नानि भवन्ति महतामपि ।
अश्रेयसि प्रवृत्तानां कापि यान्ति विनायकाः" ॥११॥ इति । इदं च प्रकरणं सम्यग्ज्ञानहेतुत्वाच्छ्योभूतं वर्तते, अतो मा भूद्विन्न इति विघ्नविनायकोपशान्तये, तथा प्रेक्षापूर्वकारिणः प्रयोजनादिशून्ये न प्रवर्तन्ते इति प्रयोजनादिप्रतिपादनार्थ चेति । अत्र कश्चिदाह- प्रकरणकारो हि प्रेक्षापूर्वकारी स किमर्थ प्रकरणादौ तदसंबद्धमिष्टदेवतास्तवमाह । न च विघ्नविनायकोपशान्तिकरणेन प्रकरणनिष्पस्यङ्गतया तत्संबद्धः; स्तवविघ्नयोर्विरोधासिद्धेः । तद्भावेऽपि कचिद्विनभावात् तदभावेऽपि चाऽभावादिति। प्रयोजनादिप्रतिपादनमप्यनर्थकमेव, तत एव सम्यक्प्रयोजनाद्यनवगतेः । प्रकरणार्थपरिज्ञानपुरस्सरमेव तत्कथमन्यतो भवत्यतस्तत्प्रतिपादनेऽपि तदाशङ्काऽनिवृत्तिरेवेति । एतच्चासारम् । प्रकरणकारो यत एव प्रेक्षापूर्वकारी अत एव तनिष्पत्त्यर्थ प्रकरणादौ तदङ्गरूपमिष्टदेवतास्तवमाह । संभवत्यत्र विघ्नः प्रागुपात्ताशुभकर्मोदयलक्षणः, स चेष्टदेवतास्तवकरणतः प्रशस्तभावोपपत्तेः उपशाम्यतीति तनिष्पत्त्यङ्गमेव । एवं च जलानलवत् स्तवविनयोर्विरोध एव । न चेहाप्यतिप्रबलोऽग्निः स्वल्पेन जलेनोपशाम्यति, न चाल्पः स्वयमपि नोपशाम्यति, न चाऽनयोन विरोधः; इत्येवं च
Page #3
--------------------------------------------------------------------------
________________
खोपज्ञटीकासहिता।
तद्भावेऽपि कचिद्विघ्नभावात्तदभावेऽपि चाभावादिति वचनमात्रमेतत् ।। प्रयोजनादिप्रतिपादनमपि सार्थकमेव, तत एव सामान्येन सम्यक्झयोजनाद्यवगतेस्तथाव्यवहारदर्शनात् । तदवगतौ हि तद्विशेषपरिज्ञानार्थ प्रकरणे प्रवृत्तेः, ततस्तज्ज्ञानभावात् । एवं च प्रकरणार्थपरिज्ञानपुरस्सरमप्येतद्विशेषेण सामान्येनान्यतो भवतीति न दोषः । अतो न तत्प्रतिपादनेऽपि तदाशङ्काऽनिवृत्तिरेव, सामान्येन निवृत्तेर्विशेषाशङ्कानिवृत्तेरप्युपायाभिधानात्, सदुपायैर्विशेषसिद्धेः; अन्यथा सकलव्यवहारोच्छेद इत्यलं चसूर्या । दिङ्मात्रप्रदर्शनार्थत्वादारम्भस्येति । इह चाद्ययाऽऽर्यया इष्टदेवतास्तवमाह, तदन्याभिस्तु सप्रसङ्गं प्रयोजनादीत्यार्यासमूहसमुदायार्थः ॥ अधुनाऽवयवार्थ उच्यते- तत्र जयति विनिर्जितराग इति । अत्र जयतीति क्रिया भूतपूर्वगत्या तथोपचारत उक्ता, तत्प्रकर्षफलाप्रच्युत्यपेक्षया वा, अनेकार्थत्वाद्वा धातूनां जयतीति किमुक्तं भवति सर्वान गुणैरतिशेते । विनिर्जितः विविधमनेकैः प्रकारैः प्रतिपक्षभावनादिभिर्निराधिक्येनापुनर्जेयतया जितो विक्षिप्तो रागोऽभिष्वङ्गलक्षणो येन स विनिर्जितरागः । द्वेषोपलक्षणमेतत् । अयमेव विशेष्यते- सर्वज्ञ इति । सर्व सूक्ष्मव्यवहितविप्रकृष्टं वस्तु जानातीति सर्वज्ञः । अयमेव विशेष्यते- त्रिदशनाथकृतपूज इति । त्रिदशनाथा इन्द्राः शक्रादयस्तैः कृता पूजा अशोकाद्यष्टमहाप्रातिहार्यादिलक्षणा यस्य स त्रिदशनाथकृतपूजः । अयमेव विशेष्यते- सद्भूतवस्तु वादी इति । सद्भूतं यथावस्थितं वस्तु बदितुं शीलं यस्य सः सद्भूतक्स्तुवादी । अयमेव विशेष्यते- शिवगतिनाथ इति । शिवगर्मोक्षमते थः; तद्वशीकरणात्स्वामी शिवगतिनाथः । कोऽयमेवंभूत इत्याहमहावीर इति । शूर, वीर, विक्रान्ताविति कषायादिशत्रुजयान्महाविक्रान्तो महावीरः । ईर गतिप्रेरणयोरित्यस्य वा, विशेषेण ईस्यति कर्म गमयति याति वेह शिवमिति वीरः । इत्येष स्तवः । अयं च यथाभूतान्यासाधारणगुणोत्कीर्तनरूपत्वात् भावस्तवः। तथा हि । गुणा मूलातिशयाश्चत्वारः । तद्यथा-अपायापगमातिशयः,ज्ञानातिशयः, पूजातिशयः, वागतिशयश्च । तत्र विनिर्जितराग इत्यनेशापायापगमातिशयमाह ।
Page #4
--------------------------------------------------------------------------
________________
अनेकान्तजयपताका
उक्तं च"वीतरागा जिनाः सर्वे मोहनीयनिवृत्तितः।
तद्भेदा हि यतः प्रोक्ताः सर्वे रागादयो मलाः"॥१॥ इति । तथा सर्वज्ञ इत्यनेन च ज्ञानातिशयम् । यथोक्तम् ।
"संभिन्नं पासंतो लोगमलोगं च सव्वओ सव्वम् ।
तं नस्थि जं न पासइ भूअं भव्वं भविस्सं च" ।। तथा त्रिदशनाथकृतपूज इत्यनेन पूजातिशयम् ।
उक्तं च"अशोकवृक्षः सुरपुष्पवृष्टिदिव्यो ध्वनिश्चामरमासनं च । भामण्डलं दुन्दुभिरातपत्रं सत्प्रातिहार्याणि जिनेश्वराणाम्" ॥१॥ सद्भूतवस्तुवादीत्यनेन पुनर्वागतिशयमाह । यथोक्तम्
"पोग्गलरूवो सहो तहाऽत्थवत्ता तहा पयईए उ। ___ सच्चाइचित्तधम्मा तेणिह ववहारसिद्धित्ति" ॥ शिवगतिनाथ इति तु सिद्धत्वख्यापनमेतत् । महावीर इति च नाम भगवतः;
यथोक्तम्
"अम्मापिउसंतिए वद्धमाणे देवहिं से नाम कयं समणो भगवं महावीरोत्ति" । आह-एतेषामतिशयानामित्थमुपन्यासे किं प्रयोजनम् ? इति । उच्यते । एवमेव भावः । तथाहि-नाविनिर्जितरागः सर्वज्ञो भवति, न चासर्वज्ञस्य त्रिदशनाथास्तथा पूजां कुर्वन्ति, न च तदभावे भगवान् धर्ममाचष्टे इति । प्रकारान्तरेण वचनसाफल्यं, नयपरिकल्पनाव्युदासश्च सर्वज्ञसिद्धिटीकातोऽवसेय इति । इत्थमिष्टदेवतास्तवमभिधाय प्रयोजनाद्यभिधित्सया प्रसङ्गमाह-य इहेत्यादि । यः कश्चित् , इह लोके, अनिन्धोऽनिन्दनीयः, मार्गः पन्थास्तपः स्वाध्यायादिलक्षणः, विशेषतो विशेषेण, पूर्वगुरुभिश्चिरन्तनवृद्धैः, आचरितः आसेवितः, तत्र मार्गे, प्रवर्ति
Page #5
--------------------------------------------------------------------------
________________
खोपाटीकासहिता।
तव्यं प्रवृत्तिः कार्या, पुंसा पुरुषेण, न्यायः सब्यवस्थारूपः, सतां सत्पुरुषाणामेष एवंभूत इति । तथाविधशक्त्यभावे कथमित्याह-यद्यपीत्यादि । यद्यपि न तथाभूता पूर्वगुरुशक्तितुल्या, शक्तिः सामर्थ्यरूपा । कुत इत्याह-प्राकर्मदोषतो जन्मान्तरकृतकर्मदोषात् , तदप्येवमपि, शक्त्यनुरूप शक्त्युचितं, तत्र प्रवर्तितव्यम्। किमित्यत आह-उपायो हेतुर्न यतो यस्मात्, तत्प्राप्तयेऽपि तथाभूतशक्तिप्राप्त्यर्थमपि, अन्यस्तत्र तत्प्रवर्त्तनादिति । सत्यपीत्यादि । सत्यप्यन्यस्मिन् उपाये दानशीलादौ किमित्यत आहगुणवत्येव तु प्रवर्तितव्यमाक्षेपत उपेयसाधके इत्यर्थः । स च गुणवानेवोपायः । अन्यभावेऽपि सामान्येनोपायान्तरभावेऽपि, पण्डितैरुपायज्ञैः, गदित उक्तः । क इत्याह-यत्रैवोपाये शीलस्वाध्यायादौ, यस्य कर्तुः, शक्तिः सामर्थ्यलक्षणा, सात्म्य च सुखिभावसाधनम् ; यथोक्तम्
“पानाहारादयो यस्य विरुद्धाः प्रकृतेरपि ।
सुखित्वायावकल्पन्ते तत्सात्म्यमिति गद्यते" ॥१॥ विशेषतो विशेषेण, तेषामुपायानां दानशीलतपःस्वाध्यायलक्षणानां मध्ये तत्र प्रवर्तितव्यामिति । किमित्येतदेवमित्याह-स तमित्यादि। स एवंभूतः पुमान् , तमुपायं दानादिम् , आराधयितुं निष्ठां नेतुं, अलं पर्याप्तये, यस्माद्भवति, आराध्य चैनमुपायं, आप्नोति प्राप्नोति। किमित्याहशक्त्यन्तरं ततोऽन्यच्छोभनतरम् ;सात्म्यान्तरोपलक्षणमेतत् । सात्म्यान्तरं च किंविशिष्टमित्याह-उपायान्तरसाधकं शीलाद्युपायान्तरनिपादकम् , उत्तम प्रधान, नियमानियमेन एतदेवं, सम्यगुपायस्य उपेयाव्यभिचारान् । यस्मादेवं-तस्मादित्यादि। तस्मात्कारणात् ,ममापि जातेति प्रकरणकारवचनमेतत् ; प्रकरणकरणसमीहा प्रकरणकरणबुद्धिरिति । योगः कुत इत्याह-शठोक्तिभिर्मोहितान् जडान वीक्ष्य । पूर्वनिमित्तात्कृपातश्चेति। इहानेकान्तात्मके वस्तुतत्त्वे एकान्तव्याजमोहनाच्छठा एकान्तषादिनः; तदुक्तिभिरेकान्तप्रतिपादिकाभिः, मोहिताननेकान्तात्मकात् तत्त्वास्त्रच्यावितान् , जडान मन्दमतीन् , वीक्ष्य दृष्ट्वा, पूर्वनिमित्तात् अनिन्द्यमार्गप्रवर्त्तनादेः; प्रकरणकरणं ह्यनिन्द्यो मार्गः पूर्वगुरुभिश्च कुक्काचार्यादि.
Page #6
--------------------------------------------------------------------------
________________
अनेकान्तजयपताका
भिरस्मद्वंशजैराचरित इति । हेत्वन्तरमाह- कृपातश्च करुणातच | कृपायतनमेव हि शठोक्तिभिर्मोहिता जडाः, कारुणिकस्य तथास्वभावत्वादिति । न शक्त्यभावे कृपामात्रेणेष्टसिद्धिरित्याशङ्कयाह - जिनवचनेत्यादि । जिनवचनस्य श्रवणात् कारणात्, नोऽस्माकमिति ग्रन्थकार आह । शक्तिरपि न नास्ति; द्वौ प्रतिषेधौ प्रकृतमर्थं गमयत इति कृत्वाऽस्त्येव । तत्रेति प्रकरणकरणे, तस्यैव जिनवचनस्य, सद्बोधद्देतुभावात्कारणात् ;
उक्तं च
"जिनवचनात् सद्बोधो नियमाचिन्तामणेः सुखं यद्वत् । विध्याप्तादनुबन्धी तद्वदिति निदर्शनं ह्येतत् ॥ १ ॥
हेत्वन्तरमाह - तुच्छत्वादसारत्वाद्वा करणात्., शठोक्तीनामधिकृतप्रकरणनिराकार्याणामिति । अनेन विषयाल्पतया सौकर्यमाह । तुच्छत्वं पुनरित्यादि । तुच्छत्वं पुनरसारत्वं, पुनरासां शठोक्तीनां, निदर्शितम्, पूर्वसूरिभिः पूर्वाचार्यैः सिद्धसेनदिवाकरादिभिः, बहुधा अनेकधा, न्यक्षेण विस्तरेण, सूक्ष्मयुक्तिभिर्निपुणोपपत्तिभिः, अतिगम्भीरं निदर्शितमिति क्रियाविशेषणम् ; तदुत्थानासंभवपरतयेत्यर्थः । स्वशास्त्रेषु सम्म - त्यादिषु । यद्येवं किमनेनेत्याह- तत्तु शठोक्तीत्यादि । तत्पुनस्तुच्छत्वमासां, शठोक्तिविमूढाः सन्तः, न जडाः प्राणिनः, संजानते अवगच्छन्ति, यतः यस्मात्तेन कारणेन, संदर्श्यते तत्प्रतिपत्त्यानुगुण्येन सम्यग् दर्श्यते। कथमित्याह- समासस्थूरोक्तिशठोक्त्यपाकरणैः समासेन स्थूरोक्तिभिः शठोक्त्यपाकरणानीति विप्रहस्तैरपि । एवं प्रयोजनादिप्रसङ्गमभिधायाह- प्रारभ्यत इत्यादि । प्रारभ्यते प्रक्रम्यते, ततस्तस्मात्कारणात्, इदमित्यनेनान्तस्तत्त्वनिष्पन्नं बुद्धौ व्यवस्थितं प्रकरणमाहसम्यगिति जडप्रतिपत्त्यानुगुण्येन, अनेकान्तजयपताकाख्यं आख्या संज्ञा अनेकान्तजयपताकासंज्ञकम् । प्रकरणमिति प्रक्रियन्ते अर्थाः स्वस्थानस्थापनाभिव्यक्त्याऽस्मिन्निति प्रकरणम् । किं विशिष्टमित्याहउक्तगुणयुतं, समासस्थूरोक्तिशठोक्त्यपाकरणरूपम् । किमर्थमित्याहजडावबोधाय मन्दमत्यवबोधार्थम् । एतदेव विशिनष्टि - धर्मफलम् । धर्मः फलं प्रयोजनमस्येति धर्मफलम् ।
Page #7
--------------------------------------------------------------------------
________________
स्वोपज्ञटीकासहिता। तदत्र सावदनेकान्तजयपताकाऽभिधानेन शठोक्त्यपाकरणमनन्तरप्रयोजनम् । कर्तुः परम्पराप्रयोजनं तु धर्मः, उक्तवदनिन्धमार्गप्रवृत्तेः, विषये कृपासाफल्यकरणाच्च । अभिधेयमप्येतदेव । तथाऽभिधीयमानं कर्मरूपापन्नमिति साध्यसाधनलक्षणश्च सम्बन्धः । श्रोतृणां त्वनन्तरप्रयोजनं प्रकरणार्थपरिज्ञानमेव, परम्पराप्रयोजनं धर्म एवेति । एवं च नारब्धव्यमेवेदं प्रकरणम्, प्रयोजनादिरहितत्वात् , उन्मत्तकविरुतवदित्येवमादि निराकृतमेव ।।
सांप्रतमधिकृतप्रयोजनानुवादेनैव विवक्षितमुपक्रमते
इह च नानुपन्यस्तानां शठोक्तीनामपाकरणानीति ता एवोपन्यस्यन्ते-तत्र शठाः सदसन्नित्यानित्याधनेकरूपं वस्तु प्रतिनियतादिसंवेदनानुभवेनान्यथातदनुपपत्तेः अनुभवन्तोऽपि, वस्तुस्थित्याऽनादिकर्मसामर्थ्यदोषतो भवसमुद्रनैर्गुण्यामिव न प्रतिपद्यन्ते अपायहेत्वसदभिनिवेशाध्मातमानसाः प्रत्यवतिष्ठन्ते च; कथमेकमेव घटादिरूपं वस्तु सच्चासच भवति । तथाहि-सत्त्वमसत्वपरिहारेण व्यवस्थितम् , असत्त्वमपि सत्त्वपरिहारेण। अन्यथा तयोरविशेषः स्यात् । ततश्च तद्यदि सत्कथमसत् ? ,अथासत्कथं सदिति ? ; एकत्र सदसत्त्वयोर्विरोधात् । · तथा चोक्तम्. “यस्मात् सत्त्वमसत्त्वं च विरुद्धं हि मिथो द्वयम् । ___ वस्त्वेकं सदसद्रूपं तस्मात् खलु न युज्यते"॥१॥ .
किं च । सदसद्रूपं वस्त्वभ्युपगच्छता सत्त्वमसत्त्वं च वस्तुधर्मतयाऽभ्युपगतं भवति । ततश्चात्रापि वक्तव्यम्-धर्मधर्मिणोः किं तावद्भेदः, आहोखिदभेदः, आहोखिद् भेदाभेद इति । तत्र यदि तावद्भेदः, ततः सदसत्त्वयोर्भिन्नत्वात् कथमेकं सदसद्रूपमिति । अथाभेदस्ततः सदसत्त्वयोरेकत्वमेकस्माद्धर्मिणो भिन्नत्वात् तत्स्वरूपवत् अतोऽपि कथमेकं सदसद्रूपमिति ? । धर्मिणो वाऽभेदः,
Page #8
--------------------------------------------------------------------------
________________
अनेकान्तजयपताकासदसत्वयोरभिन्नत्वात् तत्स्वात्मवादित्थमपि कथमेकमुभयरूपम् ।
इह च प्रक्रमे नानुपन्यस्तानामादौ शठोक्तीनामपाकरणानीति कृत्वा ता एवोपन्यस्यन्ते शठोक्तयः । तत्र शठाः प्रागुक्तलक्षणाः, सदसनित्यानित्याद्यनेकरूपमादिशब्दात् सामान्यविशेषादिपरिग्रहः । वस्तु चेतनाचेतनम् । घटज्ञानादि अनुभवन्तोऽपि न प्रतिपद्यन्त इति योगः । कथमित्याह-प्रतिनियतादिसंवेदनानुभवेन । प्रतिनियतं तदन्याभवनस्वभावम् , आदिशब्दादनुवृत्तिव्यावृत्तिस्वभावादिपरिग्रहः; संवेदनं विज्ञानं, प्रतिनियतादि च तत्संवेदनं चेति समासः । तस्यानुभवस्तन हेतुना । अन्यथा वस्तुनः सदसदादिरूपतां विहाय तदनुपपत्तेः । प्रतिनियतादिसंवेदनानुभवानुपपत्तेः कारणात् । अनुभवन्तोऽपि वस्तुस्थित्या ज्ञानज्ञेयापेक्षया उभयथा वस्तुस्थितिमाश्रित्य कुतो न प्रतिपद्यन्त इत्याह-अनादिकर्मसामर्थ्यदोषतः । अनादियोगादनादि, अनादि च तत्कर्म च अनादिकर्म; कर्म ज्ञानावरणीयादि, तस्य सामर्थ्यमात्मनो भ्रान्तिपरिणामाद्यापादनलक्षणम् , ततो दोषः, आत्मनो भ्रान्तिपरिणामादिति विग्रहस्ततः । अनेनेश्वरादिव्यवच्छेदमाह । तस्य वीतरागत्वादिना दोषहेतुत्वायोगात् । किमिव न प्रतिपद्यन्त इत्याह- भवसमुद्रनैर्गुण्यमिव । भवन्त्यस्मिन् कर्मवशवर्तिनः प्राणिन इति भवः संसारः; समुद्र इवानर्वाक्पारत्वाद्भवसमुद्रः; तस्य नैर्गुण्यं निर्गुणत्वं जन्मानित्यादिभावेनेति भावः; तद्वद्भवंसमुद्रनैर्गुण्यामव न प्रतिपद्यन्ते । सत्प्रतिपत्त्या तद्विकारेष्वेवास्थया प्रवृत्तेरिति । न केवलं यथोक्तं वस्तु न प्रतिपद्यन्ते । किंच । अपायेत्यादि । अपायहेतुश्चासौ नरकादिनयनेन असदभिनिवेशश्चालीकनिर्बन्धरूपतयेति समासः । तेनाध्मातमापूरितं मानसं चित्तं येषां ते तथाविधाः । किमित्याह- प्रत्यवतिष्ठन्ते च । प्रत्यवस्थानं च कुर्वन्ति । कथमित्याह-कथमिति क्षेपे । एकमेव । तथोपलम्भात् । घटादिरूपं वस्तु आदिशब्दाद्विज्ञानादिपरिग्रहः । सञ्चासच भवति । द्विरूपं नैवेत्यभिप्रायः । एतदेव भावयति- तथाहीत्यादिना । तथाहीत्युप
Page #9
--------------------------------------------------------------------------
________________
खोषज्ञटीकासहिता। दर्शने । सत्त्वं प्रसिद्धं, तदसत्त्वपरिहारेणासत्त्वानापत्त्या, व्यवस्थितम् ; असत्त्वमपि प्रतीतं, सत्त्वपरिहारेण व्यवस्थितमिति वर्त्तते । इत्थं चैतदजीकर्त्तव्यम् । अन्यथैवमनङ्गीकरणे, तयोः सत्त्वासत्त्वयोः, अविशेषः स्यादभेदः स्यात् , न चैतदेवम् । ततश्चेत्यादि । ततश्चैवं सति तद्वस्तु यदि सत् कथमसत् ?, अथासत्कथं सदिति ? किं नैवमित्याह-एकत्र वस्तुनि, सदसत्त्वयाविरोधात् परस्परपरिहारस्थितिलक्षणोऽयं विरोधइति । न चैतत्स्वमनीषिकया उच्यत इत्याह- तथा चोक्तं पूर्वसूरिमिः। यस्मादित्यादि । यस्मात्सत्त्वमसत्त्वं च विरुद्धम् । हि-हिशब्दएवकारार्थोऽवधारणे विरुद्धमेव, मिथः परस्परं, द्वयमेतद्, वस्त्वेकं सदसद्रूपं घटादि; तस्मात् खलु न युज्यते खल्वित्येवकारार्थोऽवधारणे, स च भिन्नक्रमः, न युज्यते एवेत्यर्थः । दोषान्तरमाहकिश्चेत्यादिना । किञ्चायमपरो दोषः-सदसद्रूपं वस्त्वभ्युपगच्छता परेण, सत्त्वमसत्त्वं च वस्तुधर्मतयाऽभ्युपगतं भवति । ततः किमित्याह-ततश्चात्रापि वक्तव्यम् परेण । धर्मर्मिणोः किं तावद्भेदः, आहोखिदभेदः, आहोस्विद्भेदाभेद इति विकल्पाः । किञ्चात इत्याहतत्र यदि तावद्भेदः, धर्मधर्मिणोः । ततः सदसत्त्वयोभिन्नत्वात् धर्मिणः सकाशात् , त्रितयमेतत् कथमेकं सदसद्रूपमिति ? । अथाभेदः सदसत्त्वयोर्धर्मिणः, ततः सदसत्त्वयोरेकत्वं एकस्मार्मिणः अभिनत्वात् , तत्स्वरूपवद् धर्मिस्वरूपवत् । अतोऽपि कथमेकं सदसद्रूपमिति ?, एकमेव तदित्यभिप्रायः । धर्मिणो वाऽभेदः सदसत्त्वयोरभिन्नत्वात् तत्स्वात्मवद्धर्मस्वात्मवत् । इत्थमपि कथमेकमुभयरूपं ?, व्यात्मकत्वात्तस्येत्यर्थः ॥ ___अथ भेदाभेदः । अत्रापि येनाकारेण भेदस्तेन भेद एव, येन चाभेदस्तेनाभेद एवः तदेवमपि नैकमुभयरूपम् । अथ येनैवाकारेण भेदस्तेनैवाभेदः, येनैव चाभेदस्तेनैव भेद इति । एतदप्यचारु । विरोधात् । तथाहि-यदि येनाकारेण भेदः कथं तैनेवाभेदः ? अथाभेदः कथं भेद इति ? । अथ येनाप्याकारेण भेदस्ते
Page #10
--------------------------------------------------------------------------
________________
१०
नापि भेदाभेदश्व, येनापि चाभेदस्तेनाप्यभेदो भेद । अत्रापि येनाकारेण भेदस्तेन भेद एव, येन चाभेदस्तेनाभेद एवेति तदेवावर्तते । किञ्च । भेदाभेदमभ्युपगच्छता अवश्यमेवेदमङ्गीकर्तव्यम्, इह धर्मधर्मिणोर्धर्मधर्मितया भेदः, स्वभावतः पुनरभेदः; स्वभावतोsपि हि तयोर्भेदेऽङ्गीक्रियमाणे परस्परतः प्रविभक्तरूपं पदार्थद्वयमेवाङ्गीकृतं स्यान्न पुनरेकं द्विरूपमिति । तदत्रापि निरूप्यते, न ह्यनासादितस्वभाव भेदयोर्धर्मधर्मिणोर्धर्मधर्मितयापि भेदो युज्यते । तथाहि यदि यो धर्मस्य स्वभावः स एव धर्मिणोऽपि, एवं सत्यसौ धर्मी धर्म एव स्यात् तत्स्वभावत्वाद्धर्मस्वरूपवत्, धर्मो वा धर्मस्वभावाव्यतिरिच्यमानमूर्तिर्धर्मिमात्रमेव स्यादिति । ततश्चैवं धर्मधर्मिणौ स्वभावभेदानासादनेनाप्रतिलब्धभेदौ कथं भेदनिमित्तं भवत इति १ । न च स्वभावतोऽपि तयोर्भेदाभेदकल्पना युक्ता, पूर्वोक्तदोषानतिवृत्तेः ।
तथा चोक्तम्
“भेदो वा स्यादभेदो वा द्वयं वा धर्मधर्मिणोः । मेदे नैकमनेकं स्यात् अभेदेऽपि न युज्यते ॥ १॥ इयपक्षोऽपि चायुक्तो विकल्पानुपपत्तितः । तेनानेकान्तवादोऽयमज्ञैः समुपकल्पितः " ॥ २ ॥
अनेकान्तजयपताका
अथ भेदाभेदः धर्मधर्मिणोः । अत्रापि भेदाभेदे, येनाकारेण भेदस्तेन भेद एव, येन चाऽभेदस्तेनाभेद एव । तदेवमपि भेदाभेदाङ्गीकरणेऽपि, नैकमुभयरूपं तस्वतः पूर्वोक्तदोषानतिक्रमात् । अथ येनैवाकारेण भेदस्तेनैवाभेदो धर्मधर्मिणोरिति प्रक्रमः, येनैव चाभेदस्तेनैव भेद इति । एतदप्यचारु अशोभनम् । कुत इत्याह-विरोधात् तथाहियदि येनैवाकारेण भेदः कथं तेनैवाभेदः ?, अथाभेदः कथं भेद इति ?, अभिअनिमित्तत्वादिति गर्भः । अथ येनाप्याकारेण भेदस्तेनापि भेदश्चाभेदश्चेत्युभयम्, येनापि चाभेदस्तेनाप्यभेदश्च भेदश्चेत्युभयमेव । एतदाशङ्क्याह
Page #11
--------------------------------------------------------------------------
________________
खोपज्ञटीकासहिता। अत्रापीत्यादि। अत्राप्याकुलवादे, येनाकारेण भेदस्तेन भेद एव प्रवृत्तिनिमित्तभेदात् , येन चाभेदस्तेनाभेद एवाऽभिन्ननिमित्तत्वात्, इत्येवं तदवावर्तते पूर्वोक्तम्, इति चक्रकम् , अनवस्था वा।। किञ्चेत्यादि । किञ्च । भेदाभेदमभ्युपगच्छता परेण, अवश्यमेवेदमङ्गीकर्तव्यमिह पक्षे, धर्मधर्मिणोधर्मधर्मितया भेदः नियतस्वरूपतया, स्वभावतः पुनरभेदः वस्तुत्वेनेत्यर्थः । किमित्येतदेवमित्याह-वभावतो हि तयोर्धर्मधर्मिणोभेदेऽङ्गीक्रियमाणे परस्परतः प्रविभक्तरूपं पदार्थद्वयमेव धर्मर्मिरूपम् , अङ्गीकृतं स्यान पुनरेकं वस्तु,द्विरूपमिति । यदि नामैवं ततः किमित्याशङ्कथाह-तदत्रापि निरूप्यते । नहि नैव, अनासादितस्वभावभेदयोधर्मर्धामणोधर्मधर्मितयापि नियतस्वरूपतया, भेदो युज्यते । एतदेव भावयति-तथाहीत्यादिना। तथाहि-यदि यो धर्मस्य स्वभावः वस्तुत्वलक्षणः, स एव धर्मिणोऽपि नान्यः । एवं सत्यसौ धर्मी धर्म एव स्यात् तत्स्वभावत्वाद्धर्मस्वरूपवदिति दृष्टान्तः । धर्मो वा धर्मिस्वरूपव्यतिरिच्यमानमूर्तिः सन् धर्मिमात्रमेव स्यात् तत्स्वरूपवदिति । ततश्चैवं धर्मर्मिणौ द्वावपि, स्वभावभेदानासादनेन हेतुना, अप्रतिलब्धभेदौ सन्तौ कथं भेदनिमित्तं भवतइति ? स्वभावभेदान्नैव भवत इत्यर्थः । न चेत्यादि । न च स्वभावतोऽपि सकाशात्, तयोर्धर्मधर्मिणोः, भेदाभेदकल्पना युक्ता। कुत इत्याहपूर्वोक्तदोषानतिवृत्तेः । पूर्वोक्तदोषाश्चात्रापि येनाकारेण भेदस्तेन भेद एवेत्यादयः । तथा चोक्तमिति ज्ञापकमाह-भेदो वेत्यादिना । भेदो वा स्यादभेदो वा द्वयं वा भेदाऽभेदलक्षणम् , धर्मर्मिणोः । किश्चात:भेदे नैकं वस्तु, अनेकं स्यादनेकत्वादेव । अभेदेऽपि न युज्यते एकमनेकमेकत्वादेव, द्वयपक्षोऽपि चायुक्तो भेदाभेदपक्षः । कुत इत्याह-विकल्पानुपपत्तितः। इयं चोक्तवद्योजनीया । तेनानेकान्तवादोऽयमज्ञैः प्राणिभिः, समुपकल्पित इति ।। . किञ्च । संविनिष्ठा विषयव्यवस्थितयः। न च सदसद्रूपं वस्तु संवेद्यते, उभयरूपस्य संवेदनस्याभावात् । तथाहि-नाक्षजे विज्ञाने सदसत्त्वे प्रतिभासते, असत्त्वस्पारूपत्वात्, रूपत्वे चासत्चविरो
Page #12
--------------------------------------------------------------------------
________________
अनेकान्तजयपताका
धात् तथानुभवाभावाच्च । न च कार्यद्वारेणापि सदसदूपं वस्तु प्रतिपत्तुं शक्यते । यतो नोभयरूपं कार्यमुपलभ्यते । न च तत्कार्यकरणे प्रवर्त्तमानं केनचिदाकारेण करोति केनचित् न करोति, एकस्य करणाकरणविरोधात् । सर्वात्मना च करणे तद्भावरूपमेव स्यात् । तथाहि-नाभावः कस्यचित् कारणं भवितुमर्हति अभावत्वविरोधात्, तत्कारणत्वे च विश्वमदरिद्रं स्यात् , तत एव कटककुण्डलायुत्पत्तेः । न च तस्मानिरुपाख्यतयाऽविशिष्टात् कस्यचिदेव भावो न सर्वस्येति वक्तुं युज्यते, हेत्वभावात् । अतः श्रद्धागम्यमेवेदं सदसद्रूपं वस्त्विति । तथा चोक्तम्
“न च प्रत्यक्षसंवेद्यं कार्यतोऽपि न गम्यते ।
श्रद्धागम्यं यदि परं वस्त्वेकमुभयात्मकम्" ॥१॥ इहैवाभ्युच्चयमाह-किश्चेत्यादिना । किञ्चायमपरो दोषः-संविनिष्ठाः संवेदनपर्यवसानाः, विषयव्यवस्थितयः विषयमर्यादाः । यदि नामैवं ततः किमित्याह-न च सदसद्रूपं वस्तु संवेद्यते । कुत इत्याह-उभयरूपस्य संवेदनस्याभावात् । एतदेव भावयति- तथाहीत्यादिना । तथाहि--नाक्षजे विज्ञाने इन्द्रियज्ञाने इत्यर्थः । सदसत्त्वे प्रतिभासेते । कुत इत्याह-असत्त्वस्यारूपत्वात् अरसाग्रुपलक्षणमेतत् । रूपत्वे चासत्त्वविरोधात् ; तथानुभवाभावाच नाक्षजज्ञानेन तुच्छानुभवः । एवं प्रत्यक्षेणोभयरूपस्याग्रहणमभिधायानुमानेनाभिधातुमाह-- न चेत्यादि । न च कार्यद्वारेणापि सदसद्रूपं वस्तु प्रतिपत्तुं शक्यते कार्यमत्र समानजातीयमभिप्रेतम् । तथा चाह-यतो नोभयरूपं कार्यमुपलभ्यते । न च तद्वस्तु, कार्यकरणे प्रवर्त्तमानं सत् , केनचिदाकारेण करोति केनचिन्न करोति कार्यम् । कुत इत्याह-एकस्य करणाकरणविरोधात् । सर्वात्मना च करणे कार्यस्य, तद्भावरूपमेव स्याद्वस्तु । तथाहि-नाभावः कस्यचिद्वस्तुनः कारणं भवितुमर्हति । कुन इत्याह
Page #13
--------------------------------------------------------------------------
________________
खोपज्ञटीकासहिता। अभावत्वविरोधात् सकलशक्तिविकलस्तुच्छोऽयमिति। तत्कारणले चाभावकारणले च, विश्वं जगत् , अदरिद्रं स्यात् , तत एवाभावात्, कटककुण्डलायुत्पत्तेः । न च तस्मादभावात् , निरुपाख्यतया अविशिष्टात्कस्यचिदेव भावो मृदादेरिव घटादेः, न सर्वस्येति वक्तुं युज्यते । कुत इत्याहहेत्वभावात् मृदादेरिव घटादौ प्रतिनियतशक्त्यभावेनेति । अतः श्रद्धागम्यमेवेदं सदसद्रूपं वस्त्विति निगमनम् । तथा चोक्तमिति ज्ञापकमाहन चेत्यादिना । न च प्रत्यक्षसंवेद्यमुभयात्मकं वस्तु, कार्यतोऽपि न गम्यते उक्तवदेतत् । श्रद्धागम्यं यदि परं प्रमाणाविषयत्वेन, वस्त्वेकमुभयात्मकं सदसदात्मकमित्यर्थः ॥ ___ एतेन नित्यानित्यमपि प्रत्युक्तमवगन्तव्यम, विरोधादेव । तथाहि-अप्रच्युतानुत्पन्नस्थिरैकस्वभावं नित्यमाख्यायते, प्रकृत्यैकक्षणस्थितिधर्मकं चानित्यमिति, ततश्च तद् यदि नित्यं कथमनित्यम् ?, अनित्यं चेत्कथं नित्यामिति । स्यादारेका नहि कूटस्थनित्यतया नित्यं द्रव्यमभ्युपगम्यतेऽस्माभिः, परिणामानित्यताभ्युपगमात्, किन्तु पूर्वोत्तरक्षणप्रविभागेन प्रबन्धवृत्त्या । न ह्यस्य पर्यायाणामिवोच्छेदस्तद्रूपेण तथाप्रतीतेः । पर्याया एव हि पर्यायरूपेण निरुध्यन्ते, न तु द्रव्यामिति नित्यमभ्युपगम्यते । इयमप्ययुक्ता, यस्मादेषाप्यत्र नित्यता न सम्भवति, पर्यायव्यतिरिक्तस्य द्रव्यस्यासिद्धेः । तथाहि-न पर्यायव्यतिरिक्तं द्रव्यमास्त तथानुभवाभावात्, व्यतिरिक्तभावे वाग्नेकरूपैकवस्तुवादहानिप्रसङ्गः । तथा चोक्तम्--
“पर्यायाभेदतोनित्यं द्रव्यं स्यात् तत्स्वरूपवत् । स्याद्वादविनिवृत्तिश्च नानात्वे सम्प्रसज्यते" ॥१॥ व्यतिरिक्ताव्यातरिक्तपक्षस्तु विरोधाघ्रातत्वात् न्यायबहिभूतत्वादनुरोष्य एवेति ।।
Page #14
--------------------------------------------------------------------------
________________
१४
अनेकान्तजयपताका
अतिदेशेन दूषणान्तरमाह-एतेनेत्यादिना। एतेनानन्तरादितेन सदसद्रूपतानिराकरणेन, नित्यानित्यमपि वस्तु, प्रत्युक्तं निराकृतम् ,अवगन्तव्यम् । कुत इत्याह-विरोधादेव । एतद्भावनायैवाह- तथाहीत्यादि । तथाहीत्युपदर्शने । अप्रच्युतः अनिवृत्तिस्वभावतया, अनुत्पन्नः सदाभावेन स्थिर एवंरूपतया एकः स्वभावो यस्य तत्तथाविधं नित्यमाख्यायते । अथवैवं विशेषणसाफल्यम्- एकस्वभावं नित्यमाख्यायत इत्युक्ते क्षणस्थितिखभावमप्येकखभावं भवति, तद्व्यवच्छेदार्थ स्थिरग्रहणम्। स्थिरैकस्वभावमपि मुक्तवस्तु कैश्चिन्नित्यमिष्यत इति तद्व्यवच्छेदार्थमनुत्पन्नग्रहणम् । अनुत्पन्नस्थिरैकस्वभावमपि स्वप्रच्युतिसमयं यावत्कैश्चिनित्यमिष्यत इति तद्व्यवच्छेदार्थमप्रच्युतग्रहणमिति । प्रकृत्येत्यादि । प्रकृत्या स्वभावेन, एकक्षणस्थितिधर्मकं चानित्यमित्यनियमाख्यायते । ततश्च तद्वस्तु यदि नित्यं कथमनित्यम् ? , अनित्यं चेत्कथं नित्यमिति ?, विरोधात् । स्यादारकेत्यादि । स्यादारेका स्यादाशङ्का, नहि नैव, कूटस्थनित्यतयैकरूपतया, नित्यं द्रव्यमभ्युपगम्यतेऽस्माभिः । कुत इत्याहपरिणामानित्यताभ्युपगमात् कारणात् । किन्वेवं नित्यमभ्युपगम्यतइत्याह- पूर्वोत्तरक्षण विभागेन अयं पूर्वः, अयमुत्तरः, अयमनयोः प्रविभागोऽत्यन्तभेदरूप इत्येवंभूतेन, प्रबन्धवृत्त्या हेतुभूतया । नह्यस्य द्रव्यस्य, पर्यायाणामिवोच्छेदः पूर्वोत्तरक्षणप्रविभागेन । कुत इत्याहतद्रूपेण द्रव्यरूपेण, तथाऽप्रतीतेः उच्छेदेनाप्रतीतेः प्रबन्धवृत्त्या । अथवा तद्रूपेण द्रव्यरूपेण, तथाप्रतीतेरनुच्छेदेन प्रतीतेः । एवं च पर्याया एव यस्मात्तत्तत्क्षणस्थितिखभावतया पर्यायरूपेण निरुध्यन्ते विनश्यन्ति । न तु द्रव्यं तत्तत्स्वभावतया तन्निरोधबीजम्, इत्येवं नित्यमभ्युपगम्यते अनित्यतानुविद्धं तदाधारभूतमित्यर्थः । एतदाशङ्कयाह- इयमप्ययुक्ता आरेका, यस्मादेषाप्यनन्तरोदिता, अत्र द्रव्ये, नित्यता न सम्भवति । कुतइत्याह-पर्यायव्यातरिक्तस्य द्रव्यस्यासिद्धेः स्वतः परतश्च । एतदेवाहतथाहीत्यादिना । तथाहि-न पर्यायव्यतिरिक्तं द्रव्यमस्ति । तथानुभवाभावात् न हि पिण्डशिवकादिव्यतिरिक्तं मृद्रव्यमनुभूयते । व्यतिरिक्त
Page #15
--------------------------------------------------------------------------
________________
खोपाटीकासहिता। भावे वा पर्यायेभ्यो द्रव्यस्य, अनेकरूपमेकं वस्त्वितिवादहानिप्रसङ्गः द्वयोरप्येकैकत्वादिति । तथा चोक्तमिति ज्ञापकमाह- पर्यायेत्यादि । पर्यायाभेदतः कारणात्, आनित्यं द्रव्यं स्यात्तत्स्वरूपवत् पर्यायस्वात्मवत्। स्याद्वादविनिवृत्तिश्चानेकान्तहानिश्च, नानात्वे सम्प्रसज्यते द्रव्यपर्याययोः। व्यतिरिक्ताऽव्यतिरिक्तपक्षस्त्वनयोः, विरोधाघ्रात्वाद्धेतोः, न्यायबहिर्भूतत्वादनुद्धोष्य एवेति ॥
एतेन सामान्यविशेषरूपमपि प्रतिक्षिप्तमवगन्तव्यम् , तथाहिएकादिधर्मकं सामान्यम् , अनेकादिधर्मका विशेषाः। ततश्च तद्यदि सामान्यरूपं कथं विशेषरूपम् ?, विशेषरूपं चेत्कथं सामान्यरूपमिति ११ विरोधात् ॥
अतिदेशेनैव दोषान्तरमाह- एतेनेत्यादिना । एतेन नित्यानित्यनिराकरणेन, सामान्यविशेषरूपमपि वस्तु, प्रतिक्षिप्तमवगन्तव्यम् । एतदेव योजयति- तथाहीत्यादीना । तथाहि-एकादिधर्मकं सामान्यम् , "एकं नित्यं निरवयवमक्रियं सर्वगतं च सामान्यम्" इति वचनात् । अनेकादिधर्मका विशेषा अनेके अनित्या इत्यादि । ततश्च तद्वस्तु, यदि सामान्यरूपं कथं विशेषरूपम् ?, विशेषरूपं चेत्कथं सामान्यरूपम् ?, इत्येवं विरोधात् प्रतिक्षिप्तमवगन्तव्यमिति ॥ .. किश्च । सामान्यविशेषोभयरूपत्वे सति वस्तुनः सकललोकप्रसिद्धसंव्यवहारनियमोच्छेदप्रसङ्गः । तथाहि--विषमोदकक्षीरककांदिव्यक्त्यभिन्नमनानास्वभावमेकं सामान्य वर्त्तते, ततश्च न विषं विषमेव मोदकाद्यभिन्नमामान्याव्यतिरेकात्। नापि मोदको मोदकएव विषाभिन्नसामान्याभेदात् । किं तर्हि, उभयमप्युभयरूपम् । ततश्च विषार्थी विषे प्रवर्तेत मोदके च, एवं मोदकार्थ्यपि मोदके भवर्तेत विषे च । लोकश्च विषार्थी विष एव प्रवर्तते न मोदके, मोदकार्थ्यपि मोदक एव न विषे, इत्यस्य नियमस्योच्छेदः स्यात्। तथा विषे भक्षिते मोदकोऽपि भक्षितः स्यात् , मोदके च 'भक्षिते विषमपि भक्षितं स्यात् , तथा च प्रतीतिविरोधः, एवं
Page #16
--------------------------------------------------------------------------
________________
अनेकान्तजयपताका
क्षीरकर्कादिष्वपि योज्यम् । स्यादेतत् विषादिषु विशेषरूपताप्यस्त्येव, सा तदर्थिनो नियमेन प्रवृत्तेर्षीजम् , तद्भक्षणे च नान्यभक्षणं स्यादिति । एतदप्ययुक्तम् । विकल्पानुपपत्तेः, विशेषरू. पता हि सामान्यायतिरिक्ता वा स्यात् , अव्यतिरिक्ता वा। अव्यतिरिक्तत्वे तत्स्वरूपवन तस्यास्तत्त्वम् । व्यतिरिक्तत्वे च तदर्थप्रवृत्तिविषयत्वात् तस्या एवं वस्तुता । व्यतिरिक्ताव्यतिरिक्तति चेत् , नन्वेवं विरोध इति त्यज्यतामुभयरूपवस्तुवादाभिमानः । तथा चोक्तम्“प्रवृत्तिनियमो न स्याद्विषादिषु तर्थिनः । मोदकाद्यपृथग्भूतसामान्याभेदत्तिषु ॥ १॥ भेदे चोभयरूपैकवस्तुवादो न युज्यते । भेदाभेदविकल्पस्तु विरोधेनैव बाधितः ॥ २ ॥ विशेषरूपं यत्तेषु तत्प्रवृत्तेर्नियामकम् ।
साध्वेतत्किन्तु वस्तुत्वं तस्यैवेत्थं प्रसज्यते" ॥ ३ ॥ इहैवाभ्युञ्चयमाह-किञ्चेत्यादिना। किञ्च । सामान्यविशेषोभयरूपत्वे सति वस्तुनः। किमित्याह- सकललोकप्रसिद्धो यः संव्यवहारनियमस्तदुच्छेदप्रसङ्गः । तद्भावनार्यवाह-तथाहीत्यादि । तथाहीत्युपप्रदर्शने । विषमोदकक्षीरकर्कादिव्यक्तिभ्यः कर्कोऽश्वविशेषः, आदिशब्दाद्गजादिव्यक्तिग्रहः, अभिन्नमव्यतिरिक्तम् , अनानास्वभावमचित्रस्वभावम्, एकं सामान्य वर्त्तते । यदि नामैवं ततः किमित्याहततश्च न विषं विषमेवैत ततः । मोदकाद्यभिन्नसामान्याव्यतिरेकाकारणाद्विषस्य । नापि मोदको मोदक एव नियतरूपेण, विषाभिन्नसामान्याभेदान्मोदकस्य । किं तर्हि, उभयमपि विषमोदकलक्षणम् , उभयरूपं शबलम् , इतरेतराभिन्नसामान्याभेदेन विषमोदकरूपमित्यर्थः । ततश्च विषार्थी जनः, विष प्रवत्तेत मोदके च, तत्त्वत उभयोस्तुल्यत्वात् । एवं मोदकायपि मोदके प्रवर्तत विषे च, भावना पूर्ववत् । न चैतदेव
Page #17
--------------------------------------------------------------------------
________________
खोपाटीकासहिता। मित्याह- लोकश्च विषार्थी विष एव प्रवर्तते नियमेन, न मोदके । मोदकार्थ्यपि मोदक एव प्रवर्त्तते, न विषे; इत्येवमस्य नियमस्य प्रवृत्तिगोचरस्य, उच्छेदः स्यानिमित्ताभावात् । तथा विषे भक्षिते मोदकोऽपि भक्षितः स्यात्, मोदके च भक्षिते विषमपि भक्षितं स्यात् । तथा च प्रतीतिविरोध इत्थं लोकेऽप्रतीतेः । एवमित्यादि । एवं क्षीरकर्कादिध्वपि योज्यं न क्षीरं क्षीरमेवेत्यादिना । स्यादेतदित्यादि । अथैवं मन्यसे-विषादिषु विशेषरूपताप्यस्त्येव, सा विशेषरूपता, तदर्थिनो विषाद्यर्थिनो, नियमेन प्रवृत्तेविषादिगोचरायाः, बीजम् ; तद्भक्षणे च विषादिभक्षणे च, नान्यभक्षण स्यान्मोदकादिभक्षणं स्यादिति । एतदप्ययुक्तम् । कुत इत्याह-विकल्पानुपपत्तेः । एतामेव दर्शयन्नाह-विशेषरूपता हि विषादिसंबन्धिनी, सामान्याद्यथोदितात्, व्यतिरिक्ता वा स्यादव्यतिरिक्ता वा । किश्चात इत्याह- अव्यातिरिक्तत्वे सामान्यान् , तत्स्वरूपवत् सामान्यस्वरूपवत् , न तस्या विषादिविशेषरूपतायाः, तत्त्वं विशेषरूपत्वं सामान्याऽव्यतिरेकादित्यर्थः । व्यतिरिक्तत्वे च विषादिविशेषरूपतायाः सामान्यात्, तस्या एव विशेषरूपतायाः, वस्तुतेति योगः। कुत इत्याह- तदर्थप्रवृत्तिविषयत्वात् । तस्या एवार्थक्रियाकारित्वादित्यभिप्रायः । व्यतिरिक्ताव्यतिरिक्तेति चेत् सामान्याद्विशेषरूपतेति प्रक्रमः । एतदाशङ्कयाह- नन्वेवं व्यतिरिक्ताऽव्यतिरिक्ताऽङ्गीकरणे विरोध इति कृत्वा त्यज्यतामुभयरूपवस्तुवादाभिमानः असारत्वादस्येत्यभिप्रायः। तथा चोक्तमिति ज्ञापकमाह-प्रवृत्तीत्यादिना। प्रवृत्तिनियमस्तदन्यव्यवच्छेदेन तत्रैव, न स्याद्विषादिषु पदार्थेषु । कस्येत्याह- तदर्थिनः विषाद्यर्थिनः । किंविशिष्टेषु विषादिषु अत्राह-- मोदकायपृथग्भूतसामान्याभेदवृत्तिषु । मोदकाद्यपृथग्भूतं यत् सामान्य तदभेदेन ये वर्तन्त इत्यर्थः । भेदे चेत्यादि । भेदे च सामान्यादमीषामिष्यमाणे । किमित्याह-- उभयरूपैकवस्तुवादो न युज्यते । उभयरूपमेकं वस्त्वित्येवंभूतो वादो न घटते, द्वयस्यापि प्रत्येकमेकैकत्वादिति भावः । भेदाभेदविकल्पस्तु प्रक्रमात्सामान्यविशेषयोः, विरो
Page #18
--------------------------------------------------------------------------
________________
१८
अनेकान्तजयपताका
धेनैव बाधितो यदि भेदः कथमभेद इत्यादिना । विशेषेत्यादि । विशेषरूपं यत्तेषु विषादिषु, तत्प्रवृत्तेर्नियामकं तद्विषयायाः । साध्वेतदनन्तरोदितम् , किन्तु वस्तुत्वं परमार्थसत्त्वं, तस्यैव विषादिविशेषरूपस्य, इत्थमेवं, प्रसज्यत इति ॥ तथा परेणाप्युक्तम्
"सर्वस्योभयरूपत्वे तद्विशेषनिराकृतेः । चोदितो दधि खादेति किमुष्टं नाभिधावति ?" ॥१॥ तथाहि-उष्ट्रोऽपि स्यात् दधि, नापि स एवोष्ट्रः, येनान्योऽपि स्यादुष्ट्रः, तथा दध्यपि स्यादुष्टः, नापि तदेव दधि, येनान्यदपि स्याद् दधि । तदेवमनयोरेकस्यापि कस्यचित् तद्रूपाभावस्याभावात्, स्वरूपस्य वाऽतद्भाविनः स्वनियतस्याभावात् न कश्चिद्विशेषइति, लतश्च दधि खादेति चोदित उष्ट्रमपि खादेत् ।
"अथास्त्यतिशयः कश्चियेन भेदेन वर्तते । स एव दधि सोऽन्यत्र नास्तीत्यनुभयं परम्" ॥१॥
अथानयोः कश्चिदतिशयोऽस्ति, येनायं तथाचोदितः क्षीरविकार एव प्रवर्तते, नान्यत्र; एवं तर्हि स एवातिशयोऽर्थक्रियार्थिप्रवृत्तिविषयो दधि । तंत्फलविशेषोपादानभावलक्षितस्वभावं हि वस्तु दधीति, स च तादृशः स्वभावोऽन्यत्र नास्ति, प्रवृत्यभावादर्थिनः । तस्मान्नोभयरूपमित्येकान्तवादः॥ __ तथा परेणाप्युक्तं एतदेव, इति दर्शयति- सर्वस्येत्यादिना । सर्वस्य वस्तुनः, उभयरूपत्वे सामान्यविशेषरूपत्वे, उभयग्रहणमनेकत्वोपलक्षणम् । अस्मिन् सति किमित्याह-- तद्विशेषनिराकृतेः। तद्विशेषस्य उष्ट्र उष्ट्र एव, न दधि; दधि दध्येव, नोष्ट्रः; इत्येवलक्षणस्य, निराकृतेः इतररूपावेशेन निराकरणात् । चोदितो दधि खादति दधि खादेत्येवं चोदितः पुरुषः, किमुष्ट्र नाभिधावति खादितुं ?, तस्य कथंचिद्दध्नोऽप्यभेदात्। यद्वा, सामान्येनैव किमुष्ट्र नाभिधावति ?, वादनक्रियाया
Page #19
--------------------------------------------------------------------------
________________
खोपज्ञटीकासहिता।
अपि कश्चिदभिधावनक्रिमाऽव्यतिरेकादिति । तथाहीत्यादि विवरणम्। तथाहीत्युपप्रदर्शने। उष्ट्रोऽपि स्यादधि केनचित्प्रकारेण दधि, न तदमावानुविद्ध इत्यर्थः। नापि स एवोष्ट्र एव, उष्ट्रः स्वरूपनियत एकान्तेन । येनान्योऽपि दध्यादिकः, स्यादुष्ट्रो भवेदुष्ट्रः, उभयरूपतया; अथवा स्यादुष्ट्र इत्यभ्युपगमयुक्तिः । तथा दध्यपि स्यादुष्ट्रः केनचित्प्रकारेणोष्ट्रः, न तदभावानुषक्तमिति भावः । नापि तदेव दध्येव, दधि स्वभावनियतं सर्वथा। येनान्यदप्युष्ट्रादिकं, स्यादधि । एतेन सर्वस्योभयरूपत्वं व्याख्यातम् ; तद्विशेषनिराकृतेरियेतत् तदेवमनयोरित्यादिना व्याचष्टे । उभयथा हि ध्युष्ट्रयोविशेषः स्यात्-दधिरूपाभावो वा उष्ट्रो भवेत्, उष्ट्रस्वरूपं वा दध्यसंभव्युष्ट्रस्वरूप एव नियतं स्यात् । एवं दध्यपि वाच्यम् । आद्यस्य तावदसंभवः तदित्यादिना कथ्यते । तदेबमनयोर्दध्युष्ट्रयोः, न कश्चिद्विशेष इति संबन्धः । एकस्यापीति दनः, उष्ट्रस्य वा; कस्यचित् । तद्रूपाभावस्येति उष्ट्ररूपाभावस्य, दुधिरूपाभावस्य वा; अभावात् । द्वितीयस्यापि प्रकारस्याभावमाहस्वरूपस्येत्यादिना । स्वरूपस्य वोष्ट्रस्वरूपस्य अतद्भाविनो दध्यभाबिनः, उष्ट्राभाविनो वा दधिस्वरूपस्य; स्वनियतस्य उष्ट्रभावनियतस्य, दधिभावनियतस्य वा; अभावान्न कश्चिद्विशेषः संकीर्णतया दध्युष्ट्रयोः । ततः किमित्याह- ततश्च दधि खादेति चोदिते सति उष्ट्रमपि खादेत् खादेति चाभिधावनोपलक्षणमेतत् । अथेत्यादि । अथास्ति दध्युष्ट्रयोः, अतिशयः कश्चित् येनातिशयेन, दधि खादेति चोदितः पुरुषो भेदेन वर्त्तते उष्ट्रपरिहारेण दनि । स एवातिशयः, दधि; सोऽन्यत्रोष्ट्रे, नास्तीत्यनुभयं विभक्तरूपस्वरूप सर्व वस्तु, तदेव च परं परमार्थः, एकत्वं तु कल्पितम् । दध्नो वा परमुष्ट्रादिकमनुभयरूपमिति व्याख्येयम् । अथानयोः कश्चिदतिशयोऽस्ति, अनयोरिति दध्युष्ट्रयोः। येनाय पुरुषः, तथाचोदित इति दधि खादेति चोदितः, क्षीरविकार एव दन्नि, प्रवर्त्तते नान्यत्रोष्टे, एवं तार्ह स एवातिशयोदधीति संबन्धः। किंभूत इत्याह-अर्थक्रियार्थिप्रवृत्तिविषयो दधिसाध्या
Page #20
--------------------------------------------------------------------------
________________
अनेकान्तजयपत्ताका
या अर्थक्रिया तया योऽर्थी पुरुषस्तस्य प्रवृत्तिविषयः । किं कारणम्तत्फलेत्यादि । दनैव साध्यत्वात्तत्फलविशेषः स चासौ फलविशेषश्वेति विग्रहः तस्योपादानभावो हेतुभावः तेन लक्षितः स्वभावो यस्य वस्तुनः तदेव धीति कृत्वा। स च तादृश इत्यनन्तरोक्तो दधिस्वभावः, अन्यत्रेत्युष्ट्रे नास्ति । कस्मादित्याह- प्रवृत्त्यभावादर्थिनः । दध्यर्थिन उष्ट्रे । तस्मान्नोभयरूपं वस्तु, इत्येकान्तवादः । अयं च परोदितो ग्रन्थः अर्थादुक्तोऽप्युपन्यस्तः, सांप्रतकालीयप्रन्थकारशैल्या स्पष्टतरं वा तथाऽभिधाय पुनः पराभ्युपगमप्रदर्शनार्थमिति ॥
किञ्च । सर्ववस्तुशबलवादिनः कचिदन्याऽसंसृष्टाकारबुद्धधसिद्धस्तथावाचकाभावात् संहारवादानुपपत्तिः, तत्सिद्धौ वा तत एव तत्स्वभावभेदात् तदेकरूपतैवेति । तथा चोक्तम्
“सर्वात्मत्वे च भावानां भिन्नौ स्यातां न धीध्वनी ।
भेदसंहारवादस्य तदभावादसम्भवः" ॥१॥ सोऽयमनेकान्तवादी कचिदप्येकमाकारं प्रतिनियतमपश्यविभागाभावाद्भावानाम् , कथमसंसृष्टान्याकारवत्या बुद्धयाऽधिबुध्येतार्थान् , अभिलपेद्वा ?। ततो भेदाग्रहणात् तत्संहारवादोन स्यात् स्यादुष्ट्रो दाधि स्यानेति । अथ पुनरसंसृष्टावाकारौ प्रतिपद्य संहरेत् , एकरूपसंसर्गिण्या बुद्धः कचित्पतिनियमात् तत्मतिभासभेदकृत एव तयो रूपयोः स्वभाव भेदोऽपि स्यात् , एकानेकव्यवस्थितेः प्रतिभासविषयत्वात् । तथा च नैकस्तदुभयरूपः स्यादिति मिथ्यावाद एषः॥ ___ अधिकृत एवाभ्युश्चयमाह-किश्वेत्यादिना । किञ्चायमपरो दोषःसर्ववस्तुशबलवादिनोऽनेकान्तवादिनः, कचिद्वस्तुन्युष्ट्रादौ, अन्यासंसष्टाकारबुद्ध्यसिद्धेः दध्याद्यसंसृष्टाकारबुद्ध्यसिद्धेः शबलतया । तथा अन्यासंसृष्टाकारत्वेन, वाचकाभावात्प्रवृत्तिनिमित्ताभावेन शब्दाप्रवृत्तेः।
Page #21
--------------------------------------------------------------------------
________________
खोपज्ञटीकासहिता।
किमित्याह-संहारवादानुपपत्तिः संहारवादः स्यादुष्ट्रो दधीत्यादिकः । तसिद्धौ वा कचित्, अन्यासंसृष्टाकारबुद्ध्यादिसिद्धेरेव तत्स्वभावभेदात् तस्य वस्तुन उष्ट्रादेः स्वभावभेदात् तमन्तरेणान्यासंसृष्टाकारबुख्याद्यसिद्धेः, तदेकरूपतैव तस्योष्ट्रादेवस्तुन एकरूपतैव, इति न संहारवादो वास्तवः । तथा चोक्तमिति पराभ्युपगमं दर्शयति-सर्वात्मत्वे चेत्यादिना । सर्वात्मत्वे च भावानामुष्ट्रादीनां, भिन्नौ स्यातां न धीध्वनी झानं शब्दश्च नियताएँ न स्याताम् । भेदसंहारवादस्य तदेकीकरणलक्षणस्य, तदभावात् भिन्नधीध्वन्यभावात् , असंभवः; भेदेन गृहीतयोः, श्रुतयोर्वैकत्वेनोपसंहारो भवति, स्यादुष्ट्रो दधीत्यादि, नान्यथा। तदेतत् सोयामित्यादिना व्याचष्टे-सोयमनेकान्तवादी सर्ववस्तुशबलवादी, कचिदप्युष्ट्र, दनि वा; एकमाकारं प्रतिनियतमितररूपव्यवच्छिमम्, अपश्यन् । अदर्शने निमित्तमाह-विभागाभावाद्भावानां शबलरूपतया इतरेतररूपापत्तेः। किमित्याह-कथमित्यादि कथं केन प्रकारेण । असंसृष्टान्याकारवत्येति । असंसृष्टोऽन्याकारो यस्मिन्नर्थे स तथोक्तः, स यस्या बुद्धरस्ति, सा असंसृष्टान्याकारार्थवती विभक्तार्थपाहिणीति यावत् तया; वुद्ध्या एवंभूतया, अधिबुध्येतार्थान् सम्यग जानीयात् , अभिलपेद्वा ध्वनिना । ततो भेदाग्रहणात् एवं विशेषानुपलब्धेः कारणात् , संहारवादो भेदसंहारवादो, न स्मात् । किंभूत इत्याहस्यादुष्ट्रो दधि स्यान्नेति । अथ पुनरसंसृष्टावसङ्कीर्णी, आकारौ दध्युष्ट्रयोः प्रतिपद्य संहरेत् स्यादुष्ट्रः स्याद्दधीति । ततः किमित्याह-एकरूपसंसर्गिण्या उष्ट्ररूपेणैव, दधिरूपेणैव वा संबन्धवत्या; बुद्धेः क्वचिदुष्ट्रे, पनि वा; प्रतिनियमात्कारणात् , तत्प्रतिभासभेदकृत एव बुद्धिप्रतिभासभेदकृत एव, तयो रूपयोर्दध्युष्ट्रसंबन्धिनोः । किमित्याह- स्वभावभेदोऽपि स्यात्। कुत इत्याह- एकानेकव्यवस्थितेः इदमेकमिदमनेकअवंभूतायाः, प्रतिभासविषयत्वात् एकप्रतिभासालम्बनमेकम् , अनेमातिभासालम्बनं चानेकम् , भिन्नप्रतिभासविषयौ च दध्युष्ट्रौ । तथा सति नैक उष्ट्रो, दधि वा; तदुभयरूपः स्यात् तदुभयं दध्युष्ट्रोभयं
Page #22
--------------------------------------------------------------------------
________________
अनेकान्तजयपताका
रूपमस्येति विग्रहः । इत्येवमनेन प्रकारेण मिथ्यावाद एष स्याद्वाद इति । अत्रापि सामान्येनार्थमभिधाय परग्रन्थोपन्यासो विदितप्रयोजन एव । ____एवमभिलाप्याऽनभिलाप्यमपि विरोधबाधितत्वादेवानुद्घोष्यम् । तथाहि-अभिलप्यते यत्तदभिलाप्यम्, एतद्विलक्षणं चानभिलाप्यमिति । ततश्च यदि तदभिलाप्यं न तीनभिलाप्यम्, अनभिलाप्यं चेत् न त भिलाप्यमिति; एकस्यानेकविरुद्धधर्मानुगमाभावात् । किञ्च । विरोधिधर्माध्यासितस्वरूपत्वाद्वस्तुनोऽनेकान्तवादिनो मुक्त्यभावप्रसङ्गः । तथाहि-एतदात्माननाभवनमणिकनकधनधान्यादिकमनात्मकम् , अनित्यम्, अशुचि, दुःखमिति कथञ्चित् विज्ञाय , भावतस्तथैव भावयतो वस्तुतस्तत्राभिष्वङ्गास्पदाभावाद्भावनाप्रकर्षविशेषतो वैराग्यमुपजायते, ततो मुक्तिः । तथाहि-आत्मात्मीयदर्शनमेव मोहः, तत्पूर्वकएव आत्मात्मीयस्नेहो रागः, तत्पूर्विकैवानुरागविषयोपरोधिनि प्रतिहतिष इति कृत्वा । यदा तु तदात्माङ्गनादिकं सात्मकाद्यपि, तदा यथोक्तभावनाभावात् भावेऽपि मिथ्यारूपत्वात् वैराग्याभावः, तदभावाच्च मुक्त्यभाव इति ॥
एवमित्यादि । एवमभिलाप्यानभिलाप्यमपि वस्त्विति प्रक्रमः । विरोधबाधितत्वादेव कारणात् , अनुद्घोष्यमनुच्चारणीयम्। एतदेवाहतथाहीत्यादिना । तथाहीत्युपप्रदर्शने । अभिलप्यते व्यक्तमुच्यते, यद्वस्तु, दाभलाप्यम् , तद्विलक्षणं चानभिलाप्यमिति । ततः किमित्याह- ततश्चेत्यादि । एवं च सति यदि तदभिलाप्यं न तनभिलाप्यम् , अनभिलाप्यं चेन्न तभिलाप्यमिति । एकस्य वस्तुनः, अनेकविरुद्धधर्मानुगमाभावादिति । किञ्चेत्यादि । किञ्चायमपरो दोषः-विरोधिधर्माध्यासितस्वरूपाद्वस्तुनः सर्वस्यैव, अनेकान्तवादिनो वादिनः, मुक्त्यभावप्रसङ्गः । कथमित्येतदभिधातुमाह-तथाहीत्यादिना।
Page #23
--------------------------------------------------------------------------
________________
स्वोपज्ञटीकासहिता।
२३
तथाहि-एतदध्यक्षसमधिगन्तव्यम् , आत्माङ्गनाभवनमणिकनकधनधान्यादिकं वस्तु, अनात्मकं परपरिकल्पितात्मशून्यं, अनित्यम् , अशुचि, दुःखम् , स्वरूपतो हेतुतश्च; इत्येवं कथञ्चित्तत्स्वभावतया हेतुपरम्परातो विशिष्टक्षणोत्पादेन, विज्ञाय श्रुतमय्या प्रज्ञया, भावतः परमार्थेन, तथैव भावयतोऽभ्यस्यतः, वस्तुतः परमार्थेन, तत्र वस्तुनि, अभिष्वङ्गास्पक्षमावात् अनात्मकत्वादिना । किमित्याह- भावनाप्रकर्षविशेषतोऽभ्यासप्रकर्षविशेषतः अभ्यासप्रकर्षविशेषादित्यर्थः, वैराग्यमुपजायते । ततो वैराग्यात, मुक्तिर्नान्यथा । तथाहीत्यादि। तथाहि-आत्माऽऽत्मीयदर्शनमेव मोहः विपर्ययरूपत्त्वात् , तत्पूर्वक एवात्मात्मीयदर्शनपूर्वकएव, आत्मीयस्नेहो रागः, तत्पूर्विकैवात्मीयस्नेहपूर्विकैव, अनुरागविषयोपरोधिनि वस्तुनि, प्रतिहतिष इति कृत्वा सर्वमुपपद्यते। विपक्षे दोषमाहयदा तु तदात्माननादिकं वस्तु, सात्मकाद्यपि शबलरूपतया सात्मकं, नित्यं, शुचि, सुखमित्यपि, तदा किमित्याह- तदा यथोक्तभावनाऽभावात् वस्त्वन्यथात्वेन, भावेऽपि मिथ्यारूपत्वाद्भावनायाः। अत एव हतोवैराग्याभाव उपायाभावेन । तदभावाच्च वैराग्याभावाच्च, मुक्त्यभावः तत्पूर्वकत्वान्मुक्तेरिति ॥
स्यादेतत्किमनेनेत्थमसम्भविना मुग्धविस्मयकरेण भावनावादेन । कृत्स्नकर्मक्षयान्मोक्षः, स च कायसन्तापलक्षणेन तपसा प्रागुपात्तकर्मनिर्जरणतः, अनागतस्य चाकरणेनेति । एतदप्यसत् । कायसन्तापस्य कर्मफलत्वात् नारकादिकायसन्तापवत्तत्त्वतस्तपस्त्वायोगात् । न स्वेच्छाप्रतिपत्त्या तपस्त्वम् , स्वेच्छापतिपत्तिमद्राज्यसुखादेरपि तपस्त्वप्रसङ्गात् । अभ्युपगमे च प्रतीत्यादिविरोधः । तथाविधराज्यादिसुखभोगे प्रमादतोऽपरबन्ध इति चेत् , स कायसन्तापे नन्वार्तध्यानादपि तुल्यः । __ स्यादेतदित्यादि । स्यादेतत् किमनेनानन्तरोदितेन, इत्थमसम्भावना एवमात्माद्यभावेनासंभविना, मुग्धविस्मयकरेणानालोचकविप्रयकरणशीलेन, भावनावादेनानुपाय एष मोक्षस्य । कुत इत्याह
Page #24
--------------------------------------------------------------------------
________________
२४
अनेकान्तजयपताकाकृतकर्मक्षयान्मोक्षः । कृतमशेष, कर्म ज्ञानावरणीयादि, क्षय आस्था तिकः संबन्धाभावः, अस्मान्मोक्ष इति । स च कृनकर्मक्षयः, कायस न्तापलक्षणेन तपसा षष्ठाष्टमादिलक्षणेन,प्रागुपात्तकर्मनिर्जरणतः पूर्वोपा त्तकर्मनिर्जरणात्कारणात्, अनागतस्य च कर्मणोऽकरणेन भवतीति शेषः। एतदाशङ्कयाह- एतदप्यसत् अशोभनम् । कुत इत्याह- कायसन्तापस्य षष्ठाष्टमादेः, कर्मफलत्वात् औदयिकभावरूपत्वात् । ततः किमि त्याह- नारकादिकायसन्तापवदिति दृष्टान्तः, तत्त्वतः परमार्थेन, तपस्त्वायोगात् । आशङ्काशेषपरिहारार्थमाह-नेत्यादि । न स्वेच्छाप्रति पत्त्या नारकाद्यपोहेन, तपस्त्वं कायसन्तापस्य, स्वेच्छाप्रतिपत्तिमद्राज्य सुखादेरपि, आदिशब्दाद्भोगसुखग्रहः, तपस्त्वप्रसङ्गात् । स्वेच्छाप्रति पत्तिौंदयिकभावत्वेऽपि तपस्त्वे निमित्तमिति कृत्वा, अभ्युपगमे च स्वेच्छाप्रतिपत्तिमद्राज्यसुखादेरपि तपस्त्वस्य । किमित्याह- प्रतीत्यादिविरोधः। न हि स्वेच्छाप्रतिपत्तिमद्राज्यसुखादि तप इति प्रतीतिः, आदिशब्दान्न चैवमभ्युपगम इत्यभ्युपगमविरोधश्च । इहैवाऽतपस्ले निमित्तमाह-तथाविधेत्यादिना । तथाविधराज्यादिसुखभोगे स्वेच्छाप्रतिपत्तिमद्राज्यादिसुखभोगे सति, प्रमादतः प्रमादात्कारणात् , अपरबन्धः अन्यकर्मबन्धः; अतो नेदं तप इति हृदयम्, इति चेत् । एतदा: शङ्क्याह- स इत्यादि। सोऽपरबन्धः, कायसन्तापे तपसि सति, प्रमादत इव नन्वार्तध्यानादपि तुल्यः समान एव, अतो नायमपि तप इत्यभिप्रायः॥
चित्रशक्तिकं च कर्म, तुच्छभोगमहाभोगकायसन्तापव्याध्यारोग्यादिचित्रफलदर्शनात् ; तन्न कायसन्तापमात्रात् चित्रशक्तिकस्यास्य क्षय उपपद्यते, अतिप्रसङ्गात् , आह्लादादपि तत्क्षयापत्तेः; दुःख्येव चैवं तपस्वी स्यात् । न चैतदुपपन्नम्। अभ्युपगमादिविरोधात् , अतपस्विनश्चैवं योगिनः स्युः, कायसन्तापाभावात् । न चैतदपि न्याय्यम् । अभ्युपगमादिविरोधादेव । अथ न कायसन्तापस्तप इति, अपि त्वन्यदेव हन्त ! एवमापि न
Page #25
--------------------------------------------------------------------------
________________
खोपाटीकासहिता। सदेकरूपं चित्रशक्तिकस्य कर्मणः क्षयायालम्., अन्यतमशक्तितोऽभावात् सर्वशक्तिविरोधासिद्धः । अथ तपः कर्मशक्तिसङ्करक्षपकारीत्येकरूपादपि ततः क्षयः। ननु चैवमपि कथञ्चित्सुखेनैवाल्पेऽपि कर्मणि क्षीणे तदशेषक्षयापत्तिः, तत्साङ्कर्यान्यथानुपपत्ते, तद्भावेनैव तत्क्षयाङ्गीकरणात् , तदक्षये साङ्कर्याद्यसिद्धिः, इति तपाकर्मक्षयवादोऽप्यबुधजनमनोहर एवेत्यपकर्णयितव्यः ॥
अभ्युच्चयमाह-- चित्रशक्तिकं चेत्यादिना। चित्रशक्तिकं च नानाशक्तिकं च, कर्म वेदनीयादि । कुत इत्याह- तुच्छभोगमहाभोगकायसन्तापव्याध्यारोग्यादिचित्रफलदर्शनात् । नाचित्रात् कारणाचित्रकार्योत्पादः, यत एवम् ; तन्नेत्यादि । तस्मान्न कायसन्तापमात्रात्सकाशात् , चित्रशक्तिकस्यास्य कर्मणः, क्षय उपपद्यते । कुतइत्याह- अतिप्रसङ्गात् । एनमेवाह-- आजादादापि सकाशात्सन्तापादिवत् तत्क्षयापत्तेः कर्मक्षयापत्तेः विजातीयत्वाविशेषादित्यर्थः । दुःख्येव चैवं तपस्वी स्यात् कायसन्तापलक्षणे तपास सति । अस्त्वित्येप्रदाशङ्क्याह-न चैतदुपपन्नम् । यदुत दुःख्येव तपस्वीति । कुत इत्याहअभ्युपगमादिविरोधात् । आदिशब्दाल्लोकयुक्तिविरोधग्रहः । अतपखिनश्चैवं यथोदिते तपसि सति, योगिनः स्युः प्राप्तर्द्धयो भवेयुः। कुत इत्याह- कायसन्तापाभावात् योगबलेन । न चैतदपि योगिनामतपस्वित्वं न्याय्यम् । कुत इत्याह- अभ्युपगमादिविरोधादेवेति । मादिशब्दः पूर्ववत् । पक्षान्तराशङ्कापोहायाह- अथेत्यादि । अथ न कायसन्तापस्तप इति, अपि त्वन्यदेव क्षायोपशमिकं भावान्तरमिति । एतदाशङ्क्याह- हन्तेत्यादि । हन्तैवमपि अन्यत्तप इति पक्षे, न तदन्यद् एकरूपं सत्, तपः चित्रशक्तिकस्य कर्मणः चित्रफलदर्शनानुमितस्य वेदनीयादेः, क्षयायालं क्षयाथै पर्याप्तम् । कुत इत्याह- अन्यतमशक्तितोऽभावात् । अन्यतमस्मिन्नेकशक्तिके कर्मणि क्षयमधिकृत्येति प्रक्रमः, शक्तिरस्येत्यन्यतमशाक्त तप इति गम्यते । तस्मादन्यतम
Page #26
--------------------------------------------------------------------------
________________
२६
अनेकान्सजयपताकाशक्तितस्तपस एकरूपतया कारणेन अभावात् । अधिकृतकर्मक्षयस्य कथमभाव इत्याह- सर्वशक्तिविरोधासिद्धः। सर्वशक्तिभिश्चित्रकर्मगताभिः सह विरोधासिद्धेः अन्यतमशक्तितस्तपसः, एकशक्तिकं ह्येकशक्तिकस्यैव विरोधीत्यभिप्रायः । आशङ्कान्तरापोहायाह-अथ तपइत्यादि । अथ तपः कर्मशक्तीनां सङ्करेण क्षयकरणशीलामति कृत्वा, एकरूपादपि ततः तपसः, क्षयश्चित्रशक्तिकस्य कर्मण इति । एतदाशङ्कथाह- नन्वित्यादि । ननु चैवमप्यनन्तरोदितन्याययोगे, कथंश्चित्केनचित्प्रकारेणैकरोमोत्पाटादिना, सुखेनैवाल्पे कर्मणि क्षीणे सति, तदशेषक्षयापत्तिः तस्य कर्मणः अशेषस्य क्षयापत्तिः । कुत इत्याहतत्साकर्यान्यथानुपपत्तेः । कर्मशक्तिसाङ्कर्यान्यथानुपपत्तेः, तद्भावेनैव तत्क्षयाङ्गीकरणात् कर्मशक्तिसाङ्कर्यभावेनैव कर्मक्षयाङ्गीकरणात् । तदक्षये तस्य कर्मणः अशेषस्याक्षये, साङ्कर्याद्यसिद्धिः, आदिशब्दात् विवक्षितकर्मक्षयग्रहः । इत्येवम् , तपःकर्मक्षयवादोऽपि पूर्वोदितः, अबुधजनमनोहर एवेति कृत्वा; किमित्याह- अपकर्णयितव्यः ।
न चास्मिन् सत्यपि मोक्षसौविहित्यम्, अनेकान्तोपद्रवानिवृत्तेः । तथाहि-मुक्तोऽपि न मुक्त एवानेकान्तवादहानेः, अपि त्वमुक्तोऽपि, इति नेदमपुष्कलमुपादेयफलप्रकर्षः तदन्यसाधारणत्वात् ; इत्थं सापवादस्य संसारिष्वपि भावात् । तथाहि-न व: संसार्यपि सर्वथा संसायैवैकान्तवादापत्तेः, अपि त्वसंसार्यपि, इति नेदमकृत्स्नं हेयानर्थोत्कर्ष इति यत्किश्चिदेतत् । किञ्च । अनेकान्तवादिनो मानमपि न मानमेव, स्यान्मानमिति तत्त्वनीतेः, इत्थं तदाभासमपि । ततश्चैवं तदतदात्मके प्रमाणप्र. मेयरूपे सर्वस्मिन्नेवास्मिन् वस्तुतत्त्वे विरोधभाजि अस्य तदतद्वादिनो निष्कलङ्कमतिसमुत्प्रेक्षितसन्यायानुसारतः सर्वमेव प्रमाणादि प्रतिनियतं न घटत इत्यलमत्रातिनिर्बन्धेन ॥ - इहैवाभ्युञ्चयमभिधातुमाह-न चाऽस्मिन्नित्यादि। न चास्मिंस्तपःकर्मक्षयवादे, सत्यपि मोक्षसौविहित्यं मोक्षस्य सुविहितभावः । कुत
Page #27
--------------------------------------------------------------------------
________________
स्वोपज्ञटीकासहिता। इत्याह- अनेकान्तोपद्रवानिवृत्तेः अनेकान्तः स्याद्वादः स एवोपद्रवस्तदितररूपापादनेन तदनिवृत्तेरिति । एतदेव स्पष्टयति- तथाहीत्यादिना । तथाहि मुक्तोऽपि न मुक्त एव एकान्तेन । कुत इत्याहअनेकान्तवादहानेः । अपि त्वमुक्तोऽप्यनेकान्ताङ्गीकरणात् । इत्येवम् , नेदं मुक्तत्वम् ,अपुष्कलमसम्पूर्ण सर्वथामुक्तताऽभावेन, उपादेयफलप्रकर्षः उपादेयं च तत्फलं चेति विग्रहः तस्य प्रकर्षः पर्यन्तो न । कुत इत्याहतदन्यसाधारणत्वात् । तस्मान्मुक्तादन्योऽमुक्तः तत्साधारणत्वादधिकृतमुक्तत्वस्य । कथमेतदेवमित्याह- इत्थं एवमुक्तवदमुक्तत्वयोगेन, सापवादस्यापुष्कलस्य, मुक्तत्वस्येति प्रक्रमः । संसारिष्वपि प्राणिषु, भावात् । एतदेव भावयति- तथाहीत्यादिना । तथाहि-न वः न युष्माकम् , संसार्यपि प्राणी, सर्वथा संसार्येवासंसारिव्यवच्छेदेन । कुतइत्याह-एकान्तवादापत्तेः कारणात् , अपि त्वसंसार्यपि स्याद्वादनीतेः । इत्येवम् , नेदं संसारित्वं अकृत्स्नमसम्पूर्ण एकान्तेन संसारित्वाभावेन, ऐयानर्थोत्कर्षः हेयश्चासौ अनर्थश्चेति विग्रहः, तदुत्कर्षो निष्ठा न । इत्येवम् , यत्किञ्चिदेतदसारमाधिकृतमनेकान्तदर्शनमिति।। किश्चेत्यादि। किञ्चायमपरो दोषः-अनेकान्तवादिनो वादिनः, मानमपि प्रत्यक्षादि, न मानमेवैकान्तेन, अपि त्वमानमपि । कुत इत्याह- स्यान्मानमिति तत्वनीतेः । कथञ्चिन्मानमिति न्यायात् । इत्थमित्यादि । एवं तदा. भासमपि मानाभासमपि न तदेव, स्यात्तदाभासमिति तत्त्वनीतेः । ततश्चेत्यादि । ततश्चैवमुक्तेन न्यायेन, तदतदात्मके तच्चातञ्च तदतदी ते आत्मा यस्य तत् तथा तस्मिन् , प्रमाणप्रमेयरूपे सर्वस्मिन्नेवास्मिन्ननन्तरोदिते, वस्तुतत्त्वे विरोधभाजि विरोधं भजते तच्छीलं यत्सत्तथा तस्मिन् , अस्य तदतद्वादिनोऽनेकान्तवादिनः, निष्कलङ्कमतिसमुत्प्रेक्षितसन्न्यायानुसारतः निष्कलङ्कमतयो बौद्धास्तैः समुत्प्रेक्षितो यः सन्न्यायः उक्तलक्षणस्तदनुसारेण, सर्वमेव प्रमाणादि आदिशब्दात्प्रमेयग्रहः, प्रतिनियतमितररूपाननुषक्तम्, न घटत इति कृत्वा, अलमत्रातिनिर्मन्धेन निरर्थकेन; भस्थानाभिनिवेश एष इति ।।
Page #28
--------------------------------------------------------------------------
________________
२८.
अनेकान्तजयपताका
तथा चोक्तम्
"यः पश्यत्यात्मानं तत्रास्याहमिति शाश्वतः स्नेहः । स्नेहात् सुखेषु तृष्यति तृष्णा दोषांस्तिरस्कुरुते ॥ १ ॥ गुणदर्शी परितृष्यन् ममेति तत्साधनान्युपादत्ते । तेनात्माभिनिवेशो यावत्तावत् स संसारे ॥ २ ॥ आत्मनि सति परसंज्ञा स्वपरविभागात् परिग्रहद्वेषौ । अनयोः सम्प्रतिबद्धाः सर्वे दोषाः प्रजायन्ते ॥ ३ ॥ कर्मक्षयाद्धि मोक्षः स च तपसस्तच्च कायसन्तापः । कर्मफलत्वान्नारकदुःखमिव कथं तपस्तत्स्यात् १ ॥ ४ ॥ न स्वेच्छाप्रतिपत्त्या विशिष्टसुखभावतुल्यवृत्तित्वात् । इष्टौ प्रतीतिकोपस्तदन्यबन्धो द्वयेऽपि समः ॥ ५ ॥ चित्रं च कर्म कार्यात् सङ्कुशादेव तत्क्षयोऽमुक्तः । दुःख्येव तपस्वीति च तदभावो योगिनां चैव ॥ ६ ॥ अन्यदपि चैकरूपं तच्चित्रक्षयनिबन्धनं न स्यात् । तच्छक्तिसङ्करक्षयकारीत्यपि वचनमात्रं तु ॥ ७ ॥ अक्लेशात् स्तोकेऽपि क्षीणे सर्वक्षयप्रसङ्गो यत् । साङ्कर्यादेर्यायात् तद्भेदो हान्यथा नियमात् ॥ ८ ॥ मुक्तो न मुक्त एव हि संसार्यपि सर्वथा न संसारी । मानमपि मानमेव हि हेत्वाभासोऽप्यसावेव ॥ ९ ॥ एवं सप्रतिपक्षे सर्वस्मिन्नेव वस्तुतत्त्वे ऽस्मिन् । स्याद्वादिनः सुनीत्या न युज्यते सर्वमेवेह " ॥ १० ॥ इत्यादि । तथा चोक्तमन्यैरपि एतदेवेत्याह- यः पश्यतीत्यादि । यः पश्यत्यात्मानमनादिमोहात्, तत्रात्मनि, अस्यात्मदर्शिनः, अहमित्येवं, शाश्वतः स्नेहः विषयनित्यतया । ततः किमित्याह - स्नेहाद्धेतोः, सुखेषु तृष्यत्यभिष्वङ्गं करोति । एवमपि किमित्याह- तृष्णा दोषांस्तिरस्कुरुते स्थगयति ॥ १ ॥ तथा गुणदर्शी सन्, परितृष्यन्मोहान्ममेत्येवं
"
Page #29
--------------------------------------------------------------------------
________________
खोपटीका सहिता ।
२९
विप्रलब्धः, तत्साधनानि गुणसाधनानि, उपादत्ते गृह्णात्यश्रान्तः । येनैतदेवम्, तेनात्माभिनिवेशो यावत्प्राणिनः, तावत्संसारे प्राणी ॥ २ ॥ तथा, आत्मनि सति परसंज्ञा भवति, स्वपरविभागात् परिग्रहद्वेषौ भवतः, अनयोः संप्रतिबद्धाः परिग्रहद्वेषयोः, सर्वे दोषाः प्रजायन्ते रागादयः || ३ || कर्मक्षयाद्धि मोक्षो न भावनातः, स च तपसः कर्मक्षयः, तच्च कायसन्तापस्तप इति पूर्वपक्ष: । कर्मफलत्वात्कारणात्, नारकदुःखमिवेति दृष्टान्तः, कथं तपस्तत्स्यात्कायसन्तापरूपमित्युत्तरम् ॥ ४ ॥ न स्वेच्छाप्रतिपत्त्या तत्तपः । कुत इत्याह- विशिष्टसुखभाबैतुल्यरूपत्वात् । स्वेच्छाप्रतिपत्तिमद्राज्य सुखादेरपि तपस्त्वप्रसङ्गादिस्वर्थः । इष्टौ प्रतीतिकोपः अधिकृतराज्यसुखादेरपि तपस्त्वे । तदन्यबन्धः प्रमादार्त्तध्यानाभ्याम्, द्वयेऽपि प्रस्तुतराज्य सुखे, प्रस्तुततपसि च; समस्तुल्यः ||५|| चित्रं च कर्म कार्यात् तुच्छभोगादिफलदर्शनात्, अतः संक्लेशादेवैकरूपात्, तत्क्षयोऽयुक्तः चित्रकर्मक्षयः अघटमानक इति । दुःख्येव तपस्वीति चायुक्तम्, तदभावस्तपस्वित्वाभावः, योगिनां चैवाकः ॥ ६ ॥ अन्यदपि चायुक्तम्, एकरूपं तत्तपः । ततः किमित्याहचित्रक्षयनिबन्धनं न स्यात् चित्रं च कर्म, तच्छक्तिसङ्करक्षयकारि कर्मशक्तिसङ्करक्षयकारि तपः, इत्यपि वचनमात्रमेव ॥ ७ ॥ कुतइत्याह- अक्लेशात् एकरोमोत्पाटनेन, स्तोकेऽपि कर्मणि, क्षीणे सति, सर्वक्षयप्रसङ्गः, यद् यस्मात्। कुत इत्याह- साङ्कर्यादेर्न्यायात् आदिशब्दात् स्तोककर्मक्षयः । तद्भेदः कर्मशक्तिभेदः, कर्मशक्तिभेदो - यथा सर्वक्षयमन्तरेण नियमादत इत्यपि वचनमात्रमेवेति स्थितम् ॥ ८ ॥ तथा, मुक्तो न मुक्त एव ह्येकान्तेन, संसार्यपि सर्वथा न संसारी एकान्तवादापत्तेः, मानमपि मानमेव हि न, स्याद्वादप्रामाण्यात्, हेत्वामासोऽपि प्रमाणाभासोपलक्षणमेतत् असावेव हेत्वाभास एव न, ततएव हेतोरिति ॥ ९ ॥ एवमित्यादि । एवमुक्तेन प्रकारेण, सप्रतिपक्ष सर्वस्मिन्नेव प्रमाणादिरूपे, वस्तुतत्त्वेऽस्मिन् लोकसिद्धे, स्याद्वादिनोऽनेकान्तवादिनः, सुनीत्योक्तवत्, न युज्यते सर्वमेवेह दृष्टम् ॥ १० ॥ मादि । एष पूर्वपक्ष: ॥
Page #30
--------------------------------------------------------------------------
________________
अनेकान्तजयपताका_तदेवमेते मन्दमतयो दुस्तर्कोपहतास्तीर्थ्याः स्वयं नष्टाः परानपि नाशयन्ति मन्दमतीन् , अतः प्रतिविधीयते । तत्र यत्ताव दुक्तं कथमेकमेव घटादिरूपं वस्तु सच्चासच भवति । तदेतदागोपालाङ्गनादि प्रसिद्धमनाशङ्कनीयमेव । यतस्तत्वद्रव्यक्षेत्रकालभावरूपेण सद्वर्तते, परद्रव्यक्षेत्रकालभावरूपेण चासत् , ततश्च सच्चासच भवति; अन्यथा तदभावप्रसङ्गात् । तथाहि-यदि तद्यथा स्वद्रव्यक्षेत्रकालभावरूपेण सत् , एवं परद्रव्यादिरूपेणापि स्यात्, ततश्च तद् घटवस्त्वेव न स्यात्, परद्रव्यादिरूपेणापि सत्त्वात् ; तदन्यस्वात्मवत् । तथा यदि यथा परद्रव्यक्षेत्रकालभावरूपेणासत् , एवं स्वद्रव्यादिरूपेणापि स्यात् , इत्थमपि तद् घटवस्त्वेव न स्यात् , स्वद्रव्यादिरूपेणाप्यसत्त्वात् ; खरविषाणवत्। इत्येवं तदभावप्रसङ्गात् सदसद्रूपं तदङ्गीकर्तव्यमिति। तथा च तद् द्रव्यतः पार्थिवत्वेन सत्, नाबादित्वेन; तथा क्षेत्रत इहत्यत्वेन, न पाटलिपुत्रकादित्वेन; तथा कालतो घटकालत्वेन, न मृत्पिण्डादिकालत्वेन; तथा भावतः श्यामत्वेन, न रक्तत्वादिनति; अन्यथेतररूपापत्त्या तत्स्वरूपहानिप्रसङ्ग इति ।
एनमुपन्यस्यात्र दूषणमभिधातुमाह- तदेवमित्यादि । तच्छब्दः प्रस्तुतार्थप्रदर्शकः, एवं यथोक्तम् , एते शाक्यादयः, एवंवादितया लोके सिद्धाः, मन्दमतयः विशिष्टक्षयोपशमाभावेन, दुस्तर्कोपहता एकान्तविषयतर्कपीडिताः, तीर्थ्याः शाक्यादय एव, न स्वयं नष्टा एव सन्यायाज्ञानादिति गम्यते, परानपि नाशयन्ति न सामान्येनेत्याहमन्दमतीन् जडबुद्धीन् । यत एवम् ,अतः प्रतिविधीयते सर्वत्रैवात्र प्रतिक्रियत इत्यर्थः । तत्रेत्यादि । तत्र यत्तावदुक्तमादौ, कथमेकमेव घटादिरूपं वस्तु सच्चासच भवतीति पूर्वपक्षे । तदेतदित्यादि । तदेतद् घटादिरूपं वस्तु सञ्चासच्चेति, आगोपालाङ्गनादि प्रसिद्धं तथोपलम्भार्थक्रियाभ्यां प्रतिष्ठितम् , अनाशङ्कनीयमेव । यतस्तद्धटादिरूपं वस्तु, स्वद्र
Page #31
--------------------------------------------------------------------------
________________
खोपाटीकासहिता।
व्यक्षेत्रकालभावरूपेण सद्वर्त्तते, परद्रव्यक्षेत्रकालभावरूपेण च पटादिगतेन, असन् । ततश्च सच्चासच भवति तद्वस्तु शबलम् । अन्यथैवमनङ्गीकरणे, तदभावप्रसङ्गात् तस्य घटादिरूपस्य वस्तुनः अभावप्रसङ्गात् । एनमेव भावयति-तथाहीत्यादिना । तथाहि-यदि तद् घटादिरूपं वस्तु, यथा स्वद्रव्यक्षेत्रकालभावरूपेण सत् , एवं परद्रव्यादिरूपेणापि सात् , आदिशब्दात्परक्षेत्रकालभावरूपपरिग्रहः । ततश्चैवं सति, तद् घटवस्त्वेव न स्यात् । कुत इत्याह- परद्रव्यादिरूपेणापि सत्त्वात् तदन्यस्वात्मवत् पटादिस्वात्मवदित्यर्थः । तथा यदि यथा परद्रव्यक्षेत्रकालभावरूपेणासत् तद् घटादिरूपं वस्तु, एवं खद्रव्यादिरूपेगापि स्यात् आदिशब्दारस्वक्षेत्रकालभावपरिग्रहः । इत्थमप्येवमपि, तद् घटवस्त्वेव न स्यात्, खद्रव्यादिरूपेणाप्यसत्वात् । किंवदित्याहसरविषाणवत् । खरविषाणं हि पररूपण, स्वरूपेण चाऽसत्तुच्छमिति भावनीयम् । इत्येवमुक्तन्यायेन, तदभावप्रसङ्गात् तस्य घटादिरूपस्य वस्तुनोऽभावप्रसङ्गात् , सदसदूपं तदङ्गीकर्तव्यमिति । एतदेव विशेषेणाह- तथा चेत्यादि । तथा च तद् घटादिरूपं वस्तु, द्रव्यतः द्रव्यमाश्रित्य, पार्थिवत्वेन सत्तथापरिणतपृथ्वीविकारत्वेन सत्, नाबावित्वेन । तथा क्षेत्रतः क्षेत्रमाश्रित्य, इहत्यत्वेन इह भव इहत्यस्तद्भाभेन, न पाटलिपुत्रकादित्वेन । तथा कालतः कालमाश्रित्य, घटकालत्वेन तथातस्थितिखभावत्वलक्षणेन, न मृत्पिण्डकपालकालत्वेन। तथा भावतः भावमाश्रित्य, श्यामत्वेन श्यामत्वभावेन, न रक्तत्वादिना सदिति । इत्थं चैतदङ्गीकर्त्तव्यम् । अन्यथैवमनङ्गीकरणे, इतररूपापत्त्या भबादिरूपेणापि सत्त्वेन तस्य घटादिरूपस्य वस्तुनः स्वरूपहानिप्रसङ्गः पार्थिवत्वाद्यभावादिति ॥
द्रव्याद्यात्मकत्वं च घटस्य तैर्विनाऽभावात् , तथाहि-न मृदादिद्रव्यमात्रमेव तथाविधक्षेत्राननुविद्धं ऋते तत्कालभावितां कृष्णादिभावशून्यं घटस्तथानुपलम्भात्, तत्तदन्यतममात्रत्वे तदितरवैकल्येन तत्स्वरूपानुपपत्तेः; विविक्तानामसम्भवात् सम्भवेअपि तन्मात्रत्वेन तद् द्रव्यत्वादिबुद्धिहेतुत्वतो घटबुद्धयभावप्रसङ्गः।
Page #32
--------------------------------------------------------------------------
________________
अनेकान्तजयपताकान च पार्थिवद्रव्यत्वादिबुदिरेव घटबुद्धिस्तथाऽप्रतीते, इति निर्लोठयिष्यामः ।
द्रव्याद्यात्मकत्वं च यथोदितम्, घटस्याधिकृतवस्तुनः, कथमित्याह- तैर्विनाऽभावात् । तैर्द्रव्यक्षेत्रकालभावैर्विनाऽभावात् । एतदेव भावयति-तथाहीत्यादिना। तथाहि-न मृदादिद्रव्यमात्रमेवैकान्तैकस्वभावम् , तथाविधक्षेत्राननुविद्धं तथाधारत्वपरिणतक्षेत्रानाधेयस्वभावम् , ऋते तत्कालभावितां विना स्वस्थितिकालभाविताम् , कृष्णादिभावशून्यं कृष्णोदिभावशून्यं घटः। कुत इत्याह-तथानुपलम्भात्। तथा तेन प्रकारण तथाविधक्षेत्राद्यनुवेधादिरहितमृदादिद्रव्यमात्रलक्षणेन, अनुपलम्भात् । अत्रैव कारणमभिधातुमाह- तत्तदन्यतमेत्यादि । तस्य घटस्य तेषां पार्थिवद्रव्यत्वादीनामन्यतममात्रत्वे पार्थिवद्रव्यमात्रत्वे सति, तदितरवैकल्येन इहत्यत्वाद्यभावेन, तत्स्वरूपत्वानुपपत्तेः अधिकृतपार्थिवद्रव्यत्वस्वरूपानुपपत्तेः, घटबुद्ध्यभावप्रसङ्ग इति योगः । अनुपपत्तिश्च विविक्तानामसंभवात् , पार्थिवद्रव्यत्वादीनामिति प्रक्रमः । सम्भवेऽपीत्यादि। संभवेऽप्यधिकृतपार्थिवद्रव्यत्वादीनाम् , तन्मात्रत्वेन पार्थिवद्रव्यादिमात्रत्वेन हेतुना, तहव्यत्वादिबुद्धिहेतुत्वतः पार्थिवद्रव्यत्वादिबुद्धिहेतुत्वतः, तेषां घटबुद्ध्यभावप्रसङ्गः, नान्यालम्बनाऽन्या बुद्धिः साध्वी भवितुमर्हतीति भावनीयम् । न चेत्यादि । निष्णातव्यपदेशोऽयम् । द्रव्यतः पार्थिवत्वेन सदित्यत्र सत्त्वम् , पार्थिबद्रव्यत्वमिति कृत्वा, न च पार्थवद्रव्यत्वबुद्धिरेव पार्थिवद्रव्यभावबुद्धिरेव, घटबुद्धिः । कुत इत्याह- तथाऽमतीतेः । पार्थिवद्रव्यभाक्बुद्धेर्घटबुद्धित्वेनाप्रतीतेः । एतनिर्लोठयिष्यामः उपरिष्टाद्विज्ञानवादनिराकृतौ अवयविचिन्ताधिकारे प्रायो विप्रतिपत्तिनिराकरणेन सुनिर्लोठनादिति ॥ . . स्यादेतत् , स्वद्रव्यादिसत्त्वमेव परद्रव्याधसत्त्वं, तथा च घटवस्तुनः पार्थिवद्रव्यसत्त्वमेव अबादिद्रव्यासत्त्वम् , इह क्षेत्रसत्त्वमेव पाटलिपुत्रायसत्त्वम् , घटकालसत्त्वमेव मृत्पिण्डकालाद्यसत्त्वम् , श्यामत्वसत्त्वमेव रक्तत्वाद्यसत्त्वम् ; इति यथोक्तदोषानुपपत्तिरेव ।
Page #33
--------------------------------------------------------------------------
________________
स्वोपज्ञटीकासहिता। युक्त्या न युज्यते स्थैर्य कया वैकस्वभावतः। नानाकार्यसमुत्पादः स्वात्मना चिन्त्यतामिदम् १ ॥१२॥ यथाऽनेकस्वभावं तत् सर्वेषां सर्वदार्शनाम् । करोत्यनेकं विज्ञानामिदमित्थं कथं न ते १ ॥ १३ ॥ खरूपमेव सर्वेषां सर्वज्ञानां तथाविधम् । विज्ञानं न तु तत्तेन तत्त्वतः क्रियते यतः ॥ १४ ॥ अतीतादेरसवेन न स्याद् ग्रहणमन्यथा । तस्यापि ज्ञानकर्तृत्वेऽतीतत्वादिविरोधतः" ॥ १५ ॥
अत्राह-स्वोभाव इत्यादि । खोभावः स्वभाव इत्यन्वर्थयोगात्, पार्थिवद्रव्यस्यैवात्मीया सत्ता अबाद्यसत्त्वं वर्त्तते, न धर्मान्तरमित्येवं,
सोडा पार्षिवद्रज्यसत्त्वस्येति चेत् । एतदाशङ्कयाह- नेत्या
तदेवं, ततः पार्थिवद्रव्यात् सदेकान्तैकस्वभावात् , सदसत्प्रत्ययासिद्धेः सञ्चाऽसच्च सदसती तयोः प्रत्ययौ तदसिद्धेः। कथमित्याहव्यनिमित्ताभावात् द्वयोः सदसत्प्रत्यययोनिमित्ताभावात् , पार्थिवअव्ये सदेकान्तैकस्वभावतयैवेति प्रक्रमः । नैवातो यथोदितं प्रत्ययद्वयमित्याशङ्कापोहायाह- अस्य चानुभवसिद्धत्वात् । अस्य च सदसत्प्रत्ययद्वयस्य, अनुभवसिद्धत्वात् पार्थिवद्रव्ये हि तद्रूपतया सदनुभवः, अबादिरूपतया चासदनुभवः प्रतिसत्त्वं प्रतिष्ठितः । विकल्परूपोऽयमयुगपञ्चेत्यादौ तु स्वयमेव वक्ष्यत्युपरिष्टाद् निर्विकल्पकविचारे।अत्राह- तदेवेत्यादि । तदेव प्रक्रमात् पार्थिवद्रव्यं पार्थिवद्रव्यसत्त्वं वा, तदितरविविक्तताविशिष्टं तदितरे अबादयः अबादिसत्त्वं वा वद्विविक्तताविशिष्टं तद्रहितताविशिष्टं, सद्भवति । किमित्याहसदसत्पत्ययनिमित्तं तत्त्वत एकरूपमेवेत्यभिप्रायः, इत्येवं, चेन्मन्यसे। एतदाशङ्कथाह-नेत्यादि । न नैतदेवम् । कुत इत्याह-विचाराक्षमत्वात् । कथमित्याह- तदितरेत्यादि । तदितरविविक्ततायाइक्तलक्षणायाः, तदव्यतिरेकेण पार्थिवद्रव्यसत्त्वांव्यतिरेकेण हेतुना, प्रस्तुतः परमार्थतः, तन्मात्रत्वात् पार्थिवद्रव्यसत्त्वमात्रत्वात् । ततः
Page #34
--------------------------------------------------------------------------
________________
अनेकान्तजयपताका
किमित्याह- ततश्चेत्यादि । ततश्चैवं च सति, सर्वथा सर्वैः प्रकारैः, अभिन्ननिमित्तत्वे सति, पार्थिवद्रव्यसत्त्वस्यैकान्तेनैकरूपतया, सदसप्रत्ययानुपपत्तिरुभयनिमित्ताभावादिति हृदयम् , इत्थं चैतदङ्गीकतव्यम् । अन्यथैवमनभ्युपगमे, हेतुभेदेन फलभेदाभ्युपगमविरोधः अत्रैव हेतुभेदमन्तरेणापि फलभेदोपपत्तेः; भिन्नौ हि सदसत्प्रत्ययौ, एवं च "अयमेव भेदो भेदहेतुर्वा भावानां यदुत विरुद्धधर्माध्यासः कारणभेदश्च" इति वचनमात्रम् । तत्तदित्यादि । तत् पार्थिवद्रव्यसत्त्वं, तदुभयजननैकस्वभावं सदसत्प्रत्ययोभयजननैकस्वभावम् , इत्येवं, चेद् मन्यसे । एतदाशङ्क्याह-नेत्यादि। न नैतदेवम्। कुत इत्याह-उभयोः सदसत्प्रत्यययोः, उभयरूपतापत्तेः सदसद्रूपतयोभयरूपतापत्तः, उभयजननैकस्वभावाद्धेतोयोरपि भावादित्यर्थः । अत्राह- असकीर्णेत्यादि । असङ्कीर्ण च तदुभयं च सदसत्प्रत्ययोभयं तज्जननएकः स्वभावो यस्य तत् तथा, तत्पार्थिवद्रव्यसत्त्वमिति वर्त्तते, ततश्च यथोक्तदोषाभावः; इत्येवं, चेन्मन्यसे । एतदाशङ्क्याह- नेत्यादि । न नैतदेवम्। कुत इत्याह-युक्त्यनुपपत्तेः। कथमित्याह-असङ्कीर्णेत्यादि। असङ्कीर्णोभयभावे विभिन्नसदसत्प्रत्ययोभयभावे, पार्थिवद्रव्यसत्त्वादेरिति प्रक्रमः । किमित्याह- बलात सामर्थेन, तत्स्वभावभेदप्रसङ्गात् तस्य पार्थिवद्रव्यसत्त्वस्य स्वभावभेदापत्तेः । एतद्भावनायैवाह- तथाहीत्यादि । तथाहीत्युपप्रदर्शने, यतः स्वभावतः कारणगतात् , जातमेकं सत्प्रत्ययादि कार्य, नान्यदसत्प्रत्ययादि, ततः स्वभावाद्, भवेत् । किमित्यत आह- कृत्स्नं संपूर्ण, प्रतीत्याश्रित्य, तं स्वभावं, भूतिभावत्वात् उत्पत्तिस्वभावत्वादेकस्य कार्यस्य, तत्स्वरूपवत् अधिकृतैककार्यस्वरूपवत् , न हि तदन्यत् ; न सत्प्रत्ययोऽसत्प्रत्ययस्तदभिन्नहेतुजश्वेति चित्रम्।।१।। आह-अन्यच्चेत्यादि । अन्यच्च कार्यान्तरं च, एवंविधं चेति कृत्स्नं प्रतीत्य तं भूतिभावं चेति, यदि स्याद्यदि भवेत् , किं विरुध्यते । अत्रोत्तरमाह- ततस्वभावस्य कारणगतस्य, कास्न्येन सर्वात्मना, हेतुत्वं प्रतीत्योत्पादापेक्षया, प्रथमं प्रति आद्यं कार्य प्रति
Page #35
--------------------------------------------------------------------------
________________
स्वोपज्ञटीकासहिता ।
"
"
1
विरुध्यते, तत्रैव सर्वात्मनाऽस्योपयोगादिति ॥ २॥ एतदेवाह - कार्त्स्न्येनेत्यादि कार्त्स्न्येन सर्वात्मना तस्य कारणगतस्य स्वभावस्य हेतुत्वे एकं कार्य प्रति कारणत्वे, तत्र कार्ये, वीर्योपयोगतः प्रतीत्य समुत्पादेन, कुतोऽन्यभावः कुतः स्वभावात् कार्यान्तरोत्पाद: ?, भावे वा अन्यस्य कार्यान्तरस्य तत एव स्वभावात्, सर्वतद्वीर्यतः सर्वस्मात् तत्सामर्थ्यात्, भव उत्पाद:, कुतोऽन्यस्य तस्य चेति ? || ३ || अत्रैव निदर्शनमाह - सर्वे - त्यादिना । सर्वस्मात् तद्वीर्यात् कारणगतात् स्वभावसामर्थ्यात् तद्भावे विवक्षितकार्यभावे । किमित्याह - सेतिकाजन्यतृप्तिवत् इति निदर्शनम् । तत एव सेतिकातः, न सा तृप्तिरन्यस्य, कार्त्स्न्येन तस्यास्तत्रोपयोगात् । अथेष्यत इत्याह- तद्देशात् सेतिकादेशात्, अन्यथा तु सा तृप्तिराद्यस्येतरस्य च यद्यन्यस्यापि स्यात् एकान्तेनैकरूपाया न कार्त्स्न्येन द्वयोरुपयोग इति भावना ||४|| अवधारणद्वारेणाधिकृतदोषपरिजिहीर्षयाह - कात्स्न्येनेत्यादि । कार्त्स्न्येनैव नाकात्स्न्र्त्स्न्येन, अस्याऽधिकृतकारणगतस्वभावस्य, तत्कर्तृ विवक्षितकार्यकर्तृ, वीर्य सामर्थ्य, तस्यैव विवक्षितार्यस्य, किंतु न कर्तृ किं तर्ह्यन्यस्यापि तत्र तु तदकर्तृ न भवति, अयोगव्यवच्छेदमात्रं न पुनरन्ययोगव्यवच्छेदः । युक्तस्ततोऽन्यभावोऽपि अन्ययोगाव्यवच्छेदात्तत एव । एतदाशङ्कयाह-सेतिकाज्ञाततः सेतिकोदाहरणात्, न हि नैव युक्तस्ततोऽन्यभाव एव ॥ ५ ॥ एतद्भावनायैवाह - नावधारणेत्यादि नावधारणसामर्थ्यात् शाब्दन्यायानुगतात्, वस्तु तादात्म्यमुज्झति तदात्मत्वं परित्यजति । कुत इत्याह- उक्तावधारणेऽपि संति, एकतृप्तये हि एकतृप्त्यर्थमेव, उक्त सेतिका तथा हि- अत्राप्येवमवधारणं कर्तुं शक्यत एव कात्स्न्येंनैव सेतिकैकतृप्तिजननस्वभावा, एकतृप्तिजननस्वभावैवेत्येतत्तु न । न चैवमपि सा कार्त्स्न्येनैकतृप्तिं विधायान्यस्यापि विधत्ते, न सा तत्त्वत उभयतृप्तिजननैकस्वभावेति कोऽत्रापवादहेतुः ?, तस्या एवातत्स्वभावता, कथमिदं ज्ञायते ?, तथाविधकार्यद्वयाभावेन, तदेकान्तैकरूपतायामयमेवायुक्तः, भावे वाऽस्य प्रस्तुतहेतुस्वभावादपि तदुभा
"
४३.
+
Page #36
--------------------------------------------------------------------------
________________
४४
अनेकान्तजयपताका
वोऽस्तु, एकरूपत्वाविशेषादित्यलं प्रसङ्गेन ॥ ६ ॥ एवं नाकारणमित्यादि । नाकारणं यतः यस्मात्, कार्य सदाभावादिप्रसङ्गात् , अन्यकारणकारणं नैकान्तेनाऽत एव हेतोः, एवं चैतदङ्गीकर्त्तव्यम् । इत्याह- अन्यथा एवमनभ्युपगमे, न व्यवस्था स्यानियमवती, कार्यकारणयोः कचित् इदमस्य कारणमिदमस्य कार्यमित्येवं, तदभावेऽपि तत्त्वतस्तदुत्पत्तेरिति ॥७॥ ततश्चेत्यादि । ततश्च कार्यनानात्वं कार्यभेदलक्षणं, सर्वथा कारणैकतां तथाविधैकस्वभावरूपाम् । किमित्याह-बाधते निराकरोति, अनेकतायां च कारणस्य, स्थिताऽनेकस्वभावता तत्स्वभावभेदतः कार्यभेदोपपत्तेः ।।८॥ एतेनेत्यादि। एतेनानन्तरोदितेन, एकस्वभावोऽपि भावः, तत्स्वभावत्वतः कारणात्, परैः बौद्धैः, य इष्टोऽभ्युपगतः, अनेकफलकृत् अनेककार्यकरणशीलः, भावः सोऽपि निराकृतः॥९॥ एतदेव प्रकटयति- एको हीत्यादिना। एको यस्मात् , अनेकजननस्वभावस्तद्विचित्रतां स्वभावविचित्रता, ऋते विना, न युज्यते यस्मात् उक्तदोषप्रसङ्गतः ॥१०॥ अत्रैवोपचयमाहतथेत्यादिना । तथादर्शनतोऽप्यनेकविज्ञानजनकत्वेन, अस्य भावस्य, तत्स्वभावत्वकल्पना अनेककार्यकरणैकस्वभावत्वकल्पना । किमित्याहअत एव तथादर्शनात् , स्थिरत्वादिसिद्धिसङ्गात् कारणात्, न सङ्गता ११ आह- युक्तयेत्यादि युक्त्या क्रमयोगपद्याभ्यामर्थक्रियाविरोधभावलक्षणया, न युज्यते स्थैर्य भावानाम् । अत्रोत्तरम्-कया वा युक्त्या, एकस्वभावतो भावात् , नानाकार्यसमुत्पादो युज्यते ?, स्वात्मना चिन्त्यतामिदं न सर्वथा तत्स्वभावभेदमन्तरेण, तथानेकविज्ञानजनकत्वमपि दिगादिभेदेन तथाप्रतीत्ययोगादिति ॥ १२ ॥ आह- यथेत्यादि । यथानेकस्वभावं तत् कात्स्न्र्येनैवैकत्रोपयोगमधिकृत्य सर्वेषां सर्वदशिनां वीतरागाणां, करोत्यनेकं विज्ञानं,यावन्तस्ते, अन्यथा तदसर्वदार्शत्वप्रसङ्गात् , इदमधिकृतं वस्त्वेकस्वभावमेव, इत्थं कथं न ते तव करोत्यनेकं विज्ञानं कात्स्न्येनोपयोगाविशेषात् ? इति ॥ १३ ॥ अत्रोत्तरम्-- स्वरूपमित्यादि । स्वरूपमेव सांसिद्धिकं सर्वेषां सर्वज्ञानां वीतरा
Page #37
--------------------------------------------------------------------------
________________
स्वोपज्ञटीकासहिता। सामाम् , तथाविधं तत्काय॑ग्रहणप्रकारं, विज्ञानं न पुनस्तत्तेन वस्तुना, तत्त्वतः परमार्थतः, क्रियते यतः; अतो नेदमित्थं ममेति योजना ॥१४॥ इत्थं चैतदङ्गीकर्तव्यमित्याह- अतीतादेरित्यादि। अतीतादेर्भावस्य, असत्त्वेन हेतुना, न स्याद् ग्रहणम् , अन्यथैवमनभ्युपगमे, न यसद् ज्ञानकर्तृ। तथा चाह- तस्यापि अतीतादेः, ज्ञानकर्तृत्वेऽभ्युपगम्यमाने, अतीतत्वादिविरोधतः कारणात् , स्वरूपमेव सर्वेषामित्यादिक्रियायोगः । अतः सदसत्प्रत्ययभेदादनेकरूपं वस्त्विति खितम् ॥१५॥
न च पार्थिवद्रव्यसत्त्वप्रत्यय एवाबाधसत्त्वप्रत्ययः, तयाप्रतीतेः । असतोऽनुपाख्यत्वेन प्रत्ययहेतुत्वानुपपत्तिरिति
सवलुबेधेन सर्वथानुपाख्यत्वासिद्धेः, असत्प्रत्ययाकासवाचा असदननुविद्धस्य च सतस्तन्मात्रत्वाद्विशेषानुपपतेरितरेतरानुवेध इति कुत एकस्वभावत्वसिद्धिः । स्यादेतत् तवाऽवादिद्रव्यासत्त्वस्य परिकल्पितत्वात् यथोक्तदोषाभाव इति। सोऽयं गडप्रवेशेऽक्षितारकाविनिर्गमन्यायः। तथाहि-तत्राबादिदव्यासत्त्वस्य परिकल्पितत्वात् स्वसत्त्वासत्त्ववदसत्त्वात् तद्रपेजाप्यस्तित्वप्रसङ्गः, अनिष्टं चैतदिति । स्यादेतत् पार्थिवद्रव्यसत्त्वव्यतिरिक्तमबाद्यसत्त्वं परिकल्पितम्, पार्थिवद्रव्यसत्त्वमेव पुनरवाद्यसत्त्वस्वभावमिष्यत एवेत्यतोऽनपराध इति । अहो ! दुरन्तः स्वदर्शनानुरागः, प्रत्युक्तमपि नावधारयति । यतोन च तद्येनैव स्वभावेन पार्थिवद्रव्यत्वेन सत्, तेनैवाबादिद्रव्यत्वेनासत्, इत्यादि तदेवावर्त्तते; इत्यलं खदर्शनानुरागाकृष्टचेतसा सह प्रसङ्गेनेति ॥
न चेत्यादि । न च पार्थिवद्रव्यसत्त्वप्रत्यय एवं सर्वथैकरूपतया निरंशः, अबाद्यसत्त्वप्रत्ययः, तथा तदेकरूपतयाऽप्रतीतेः, किन्तु प्रत्ययान्तरमयम् । अत्राह- असत इत्यादि । असतोऽनुपाख्यत्वेन हेतुना, प्रत्ययहेतुत्वानुपपत्तिरतः कथमबाद्यसत्त्वप्रत्ययः ?, इत्येवं, चेन्मन्यसे ।
Page #38
--------------------------------------------------------------------------
________________
अनेकान्तजयपताका
एतदाशङ्कयाह-नेत्यादि । न नैतदेवम् । कुत इत्याह- सदनुवेधेन पार्थिवद्रव्यसत्त्वानुवेधेन हेतुना, सर्वथा सर्वैः प्रकारैः, अनुपाख्यत्वासिद्धेरबाद्यसत्त्वस्य । उपपत्त्यन्तरमाह- असत्प्रत्ययाविरोधाच्च । असत इति प्रक्रमः । सत इवासतोऽसत्प्रत्ययभाव इति भावः। सदनुवेधेनेत्यादि । मौलं हेतुं समर्थयन्नाह- असदित्यादि । असदननुविद्धस्य च सतः पार्थिवद्रव्यसत्त्वादेः, तन्मात्रत्वात् सन्मात्रत्वात् , विशेषानुपपत्तेः कारणात् , इतरेतरानुवेधः सदसतोः, इत्येवं, कुत एकस्वभावत्वसिद्धिः ? नैवेत्यर्थः । स्यादेतदित्यादि। स्यादेतदथैवं मन्यसे, तत्र पार्थिवद्रव्यसत्त्वे, अबादिद्रव्यासत्त्वस्य परिकल्पितत्वात् कारणात् । किमित्याह-यथोक्तदोषाभाव इति उभयरूपत्वाभावः परमार्थतस्तदसत्त्वादिति । एतदाशङ्कयाह- सोऽयमित्यादि । सोऽयं गडुप्रवेशेऽक्षितारकाविनिर्गमन्यायःप्रस्तुतदोषपरिहारेणाधिकतरदोषान्तरापत्तिरित्यर्थः । एतदेवाह- तथाहीत्यादिना । तथाहि-तत्र पार्थिवद्रव्यसत्त्वे, अबादिद्रव्यसत्त्वस्य परिकल्पितत्वात् परमार्थतः स्वसत्त्वासत्त्ववदसत्त्वात् । किमित्याह-- तद्रूपेणापि अबादिद्रव्यसत्त्वरूपेणापि,अस्तित्वप्रसङ्गः पार्थिवद्रव्यसत्त्वस्य, अनिष्टं चैतदिति तथा हि-न तत्र स्वसत्त्वासत्त्वमिति स्वसत्त्वम् , एवमबाद्यसत्त्वाभावे स्यात् तत्सत्त्वम् , अन्यथा तदभावाभाव इति भावना । स्यादेतदित्यादि । स्यादेतदथैवं मन्यसे, पार्थिवद्रव्यसत्त्वव्यतिरिक्तं धर्मान्तरम्, अबाद्यसत्त्वं परिकल्पितं, पार्थिवद्रव्यसत्त्वमेव पुनरेकरूपं, अबाद्यसत्त्वस्वभावं वस्तुस्थित्या, इष्यत एवेत्यतोऽस्मात् कारप्रात् , अनपराध इति नास्ति कश्चिदोषः । एतदाशङ्क्याह- अहो ! दुरन्तः स्वदर्शनानुरागः । कथमित्याह- प्रत्युक्तमपि नावधारयति । एतत्सामर्थ्यात् । एतदेवाह-- यत इत्यादिना । यतो न च तद्येनैव स्वभावेन पार्थिवद्रव्यत्वेन सत् , तेनैवाबादिद्रव्यत्वेनासत्, इत्या: दि तदेवावर्त्तते पूर्वोक्तं चक्रकम् , इत्यलं स्वदर्शनानुरागाकृष्टचेतसा सह प्रसङ्गेन नैव प्रज्ञापनाविषयः ।।
Page #39
--------------------------------------------------------------------------
________________
स्वोपज्ञटीकासहिता। "अपरस्त्वाह-सदसद्रूपं वस्त्वित्यत्रासत्पक्षे प्रसज्यप्रतिषेधो वा स्यात्, पर्युदासो वा; किश्चातः, उभयथापि दोषः। तथाहि-यदि सन्न भवतीत्यसत् सन्नित्तिमात्रं निरुपाख्यमसत्, ततश्च तस्य प्रमाणगोचरातीतत्वाद् वस्तुधर्मत्वानुपपत्तिः, अभ्युपगमे वा वस्तुन एव निरुपाख्यत्वप्रसङ्गः । तथाहि-न निरुपाख्यस्वभावं सोपाख्यं भवितुमर्हति । अथ सतोऽन्यदसत् सदन्तरमेवासदिति, एवमपि तस्य सदात्मकत्वादेव सदसद्रूपत्वानुपपत्तिः । तथाहि- न सत् सदन्तरात्मकमिति सचेतसोवक्तुं युज्यत इति । एतदप्ययुक्तम् , भगवदहन्मतापरिज्ञानात् । भगवदहन्मतं हि वस्त्वेव सदसद्रूपतयोभयात्मकं, न सत्त्वाननुबिडमसत्त्वं नाम तत्र, यदपेक्षयैतदुभयरूपमिति । उक्तं च
विसरूपेन-स्वपरसत्त्वव्युदासोपादानापाद्यं हि वस्तुनो वस्तुस्वस् , अतो यद्यपि सन्न भवतीत्यसत्, तथापि परद्रव्यादिरूपेण सतः प्रतिषेधात् तस्य च तत्रासत्त्वात् तत्स्वरूपसत्वानुवेधात् न निरुपाख्यमेव तत् । इति प्रसज्यप्रतिषेधपक्षोदिनदोषाभावः" ॥
अपरस्त्वाह-सदसद्रूपं वस्त्वित्यत्रासत्पक्षे प्रसज्यप्रतिषेधो वा स्यात् सद् न भवतीत्यसत्, पर्युदासो वा सतोऽन्यदसदिति, किंचातइत्याह-- उभयथापि दोषः । कथमित्याह-- तथाहीत्यादि । तथाहि- यदि सद् न भवतीत्यसत् , किमुक्तं भवति-सन्निवृत्तिमात्रं निरूपाख्यमसत् प्रसज्यप्रतिषेधरूपम् । ततः किमित्याह- ततश्च तस्य असतः, प्रमाणगोचरातीतत्वात् कारणात् , वस्तुधर्मत्वानुपपत्तिः । अभ्युपगमे वाऽसतो वस्तुधर्मत्वस्य । किमित्याह-- वस्तुन एव निरुपाख्यत्वप्रसङ्गः । तथाहि-न निरुपाख्यस्वभावं न तुच्छधर्मकं, सोपाख्यं भवितुमर्हति अतुच्छं भवितुमर्हति । द्वितीयं विकल्पमधिकृस्याह-अथेत्यादि । अथ सतोऽन्यदसत् सदन्तरमेवासत् पर्युदासरूपम् , इत्येवमपि तस्यासतः, सदात्मकत्वादेव कारणात् , सदसद्रूपत्वानुपपत्ति
Page #40
--------------------------------------------------------------------------
________________
अनेकान्तजयपताका
वस्तुनः । तथाहीत्यादि । तथाहि न सत् सदन्तरात्मकमित्येवं, सचेतसो वक्तुं युज्यते, प्राप्नोति चैतदस्मिन् पक्षेऽसतोऽपि सदन्तरत्वादिति । अत्राह-- एतदप्ययुक्तम् । कुत इत्याह- भगवदर्हन्मतापरिज्ञानात् । कथमपरिज्ञानमित्याह- भगवदर्हन्मतं हि यस्मात्, वस्त्वेवात्मघटादि, सदसद्रूपतयोभयात्मकं वर्त्तते, न सत्त्वाननुविद्धमसत्त्वं नाम, तत्र वस्तुनि, यदपेक्षयतदुभयरूपं वस्त्विति । उक्तं च वादिमुख्येन मलवादिना सम्मती -- स्वपरेत्यादि । स्वपरस् स्वयोर्यथायोगं ये व्युदासोपादाने ताभ्यामापाद्यते व्यवहारविषयतयेत्येवं भूतमेव, वस्तुनो वस्तुत्वम्, अतो यद्यपि सन्न भवतीत्यसत् प्रसज्यप्रतिषेधरूपम्, तथापि परद्रव्यादिरूपेण सतः प्रतिषेधात् तस्य च परद्रव्यादिरूपेण सतः, तत्र विवक्षितसत्त्वे, असत्त्वात्, तत्स्वरूपसत्त्वानुवेधात् तत्स्वरूपस्य तत्प्रतिषेधायाताऽसत्त्वरूपस्य सत्त्वानुवेधाद्विवक्षित सत्त्वानुवेधात् कारणात्, न निरूपाख्यमेव तुच्छमेव तदसत्त्वम् । इत्येवं, प्रसज्यप्रतिषेधपक्षोदितदोषाभावः ॥
४८
"
पर्युदासप्रतिषेधपक्षदोषस्त्वत्र व्यतिकरेऽनभ्युपगमादेव न नः क्षतिमावहति, एतदुक्तं भवति - वस्त्वेव तत् सदसदात्मकं, न तत्र स्वरूपसत्त्वपृथग्भूतं पररूपासच्त्वम्, न च पररूपासच्त्वासंपृक्तं स्वरूपसश्वम् । न चानयोरेकत्वमेव, अविगानतः सम्य गुभयोपलब्धेः । न च नानात्वमेव, तद्व्यवस्थायोगात् तथानुपलब्धेः । इत्यन्योन्यानुविद्धं भेदाभेदवृत्ति तत्स्वभावं विशि ष्टमुभयमेव तत्, अन्यथा वस्तूनां वैशिष्ट्यानुपपत्तिरिति । एतेन 'अबादेर्नियतदेशस्वरूपव्यतिरेकेण सर्वत्रासच्त्वात्, तस्य च पार्थिवद्रव्यसत्त्वेनानुवेधाभ्युपगमात्, तद्व्याप्तेर्घटस्य प्रायो विभुत्वप्रसङ्गः' इत्येतदपि कुशाग्रीयबुद्धिपरिचोदितं परिहृतमवगन्तव्यम् । वस्त्वेव तत्सदसदात्मकमित्यादेर्ग्रन्थस्यान्यथा भावार्थायोगात् । अथवा विश्वजगदन्तर्गतानां सकलवस्तुसत्त्वानामेव तदसत्त्वानुवेधः, अन्यथा स्वस्वरूपवत्तेषु तत्सत्त्वापत्तिः न च
Page #41
--------------------------------------------------------------------------
________________
४९
स्बोपन्नटीकासहिता। वस्त्वन्तरेणाप्यनुवेध इष्यते, इति न विभुत्वप्रसङ्गः । न च तदसत्त्वेनाऽननुवेधस्तस्य, तदन्यानात्मकेनानुवेधात् । न चेत्य सत्सदेशतापत्तिः, तदन्येषामेव तत्त्वतस्तदात्मकत्वात् । न चात एव तत्सद्रूपतैव, असबुद्धयाऽवगमात् । न चातदनुबेपतस्तथा तदसत्त्वप्रतीतिहेतुता, अन्यगतनिजासत्त्वेन व्यभिधारात् । तथाहि-नान्यगतं तदसत्त्वं तत्रासत्त्वप्रतीतिकारणं सेनाननुवेधादिति । एषमन्यदपि कुचोद्यमनया दिशा परिहर्त्तज्यामिति ॥
पर्युदासप्रतिषेधपक्षदोषस्त्वत्र व्यतिकरे उभयरूपवस्तुचिन्ताधिसारे, अनभ्युपगमादेव कारणात् , न नः नास्माकं, क्षतिमावहति ।
एखदुक मवति-वस्त्वेव तत् सदसदात्मकं शबलम्, न नि, स्वरूपसत्वपृथग्भूतमन्यदेव, पररूपासत्त्वम् ; न च पररूपासत्त्वाऽसंपृक्तं स्वरूपसत्त्वं केवलम् । न चानयोः स्वरूपसत्त्वपरसासत्त्वयोः, एकत्वमेव सर्वथा, अविगानतोऽविगानेन, सम्यक तद्भावभावित्वनीतितः, उभयोपलब्धेरुक्तवत्सदसत्प्रत्ययभावादिति । न प. नामात्वमेवैकान्तेनानयोरिति, तद्व्यवस्थायोगात् तयोः स्वरूपचित्त्वपररूपासत्त्वयोर्व्यवस्थायोगात् , तथानुपलब्धेर्नानात्वनादर्शनात् । इत्येवम्, अन्योन्यानुविद्धं मेचकमणिवर्णकल्पनया, भेदाभेदवृत्ति एकान्तभेदाद्यपोहेन, तत्स्वभावं भेदाभेदवृत्तिस्वभावं, विशिष्टमिस्थमेव नियतं तथास्वभावतया, उभयमेव स्वरूपसत्त्वपररूपासत्त्वोभयमेव, तद् वस्तु । अन्यथैवमनभ्युपगमे, वस्तूनां घटादीनां, वैशिष्टयानुपपत्तिरिति । एतेनोक्तवदुभयरूपत्वस्य व्यवस्थापनेन, अबादेनियतदेशस्वरूपव्यतिरेकेण सर्वत्राऽसत्त्वात् तथाहि-- यत्रैवाबादयस्तत्रैव ते, अन्यत्र तु तद्भावः; तस्य चाबाद्यसत्त्वस्य, पार्थिवद्रव्यमत्त्वेनानुवेधाभ्युपगमात् कारणात् । कुत इत्याह- तव्याप्तेः पार्थिवद्रव्यसत्त्वव्याप्तेः । किमित्याह- घटस्य प्रायो बाहुल्येन, अबादेनियतदेशस्वरूपं विहाय; विभुत्वप्रसङ्गः सर्वगतत्वापत्तिः, यथोदित
Page #42
--------------------------------------------------------------------------
________________
अनेकान्तजयपताकापार्थिवद्रव्यसत्त्वात्मकत्वाद् घटस्येति भावः; इति । एतदपि चोद्यं कुशाग्रीयबुद्धिपरिचोदितं सूक्ष्मबुद्धिपरिचोदितम्, परिहृतमवगन्त व्यम् । कुत इत्याह- वस्त्वेव तत् सदसदात्मकमित्यादेग्रन्थस्य अनन्तरोदितस्य, अन्यथा प्रकारान्तरण, भावार्थायोगादिति भावनी यमेतत् । परिहारान्तरमाह- अथवेत्यादिना । अथवा विश्वजगदन्तर्गः तानां सकलवस्तुसत्त्वानामेव । किमित्याह- तदसत्त्वानुवेधः अबाद्य सत्त्वानुवेधः । इत्थं चैतदङ्गीकर्त्तव्यमित्याह-अन्यथेत्यादि। अन्यः थैवमनभ्युपगमे, स्वस्वरूपवदिति दृष्टान्तः अबादीनामात्मीय इव स्वरूपे तदसत्त्वाननुवेधात् कारणात् , तेषु सकलवस्तुसत्त्वेषु, तत्सत्त्वापत्तिरबा. दिसत्त्वापत्तिः, न चैवम् , इत्यतस्तदसत्त्वानुवेधस्तेषामिति स्थितम् यदि नामैवं ततः किमित्याह-न चेत्यादि । न च वस्त्वन्तरेणापि सह, अनुवेध इष्यते पार्थिवद्रव्यसत्त्वस्येति प्रक्रमः । इत्येवम् , न विभुत्व. प्रसङ्गः घटस्येति वर्त्तते । न चेत्यादि । न च तदसत्त्वेनाबाद्यसत्त्वेन अननुवेधस्तस्य पार्थिवद्रव्यसत्त्वस्य । कुत इत्याह-तदन्यानात्मकेन अपरासंसृष्टेन, अनुवेधादसत्त्वेन। न चेत्यादि। न चेत्थमेवम् , तत्सदेशतापत्तिः अबाद्यसत्त्वसदेशतापत्तिः । कुत इत्याह- तदन्येषामेव । वस्तुसत्त्वानाम् , तत्त्वतः परमार्थेन, तदात्मकत्वात् अबाद्यसत्त्वात्मकत्वात्, न पुनरबाद्यसत्त्वं केवलं नाम यस्य सदेशतापत्तिरित्यर्थः । न चेत्यादि। न चात एव कारणात् , तत्सद्रूपतैव तदन्येषां वस्तुसत्त्वानां सद्रूपतैव। कुत इत्याह-असद्बुद्ध्या प्रक्रमादबाद्यसत्त्वविषयया, अवगमात् परिच्छेदात् ;न ह्यतत्स्वभावानां तया तथाऽवगमः शुक्लानामिव नीलतयेति भावनीयम्। न चेत्यादि। न चातदनुवेधत अबाद्यसत्त्वाननुवेधतः, तथेतरेतररूपापत्त्या, तदसत्त्वप्रतीतिहेतुता तेषामन्यवस्तुसत्त्वाना अबाद्यसत्त्वप्रतीतिकारणतेति भावः । कुत इत्याह- अन्यगतनिजासत्त्वेन तथा तदननुवेधतः कारणाद् , व्यभिचारात् । एतद्भावनायैवाह- तथाहीत्यादि । तथाहीत्युपप्रदर्शने, नान्यगतं पृथिव्यादिगतं, तदसत्त्वमबाद्यसत्त्वम् , तत्राबादौ, असत्त्वप्रतीतिकारणम् । कुत
Page #43
--------------------------------------------------------------------------
________________
स्वोपज्ञटीकासहिता। इत्याह- तेनाननुवेधात तेनाबाद्यसत्त्वेन, अननुवेधाद्धेतोः, अतोऽबाधसत्त्वेनानुवेधोऽन्यवस्तुसत्त्वानाम्, अन्यथा त्वबादिसत्त्ववत्तदसत्त्वप्रतीत्यभाव इति भावना। इत्येवमन्यदपि कुचोद्यमनेकान्ते, अनया दिशा परिहर्त्तव्यमिति ॥
ततश्चैवं न सर्वथा सत्त्वमसत्त्वपरिहारेण व्यवस्थितम्, न चासत्त्वं सत्त्वपरिहारेण । न चानयोरविशेष एव, भिन्ननिमित्तत्वात् । तथाहि-स्वद्रव्यादिरूपेण सत् , परद्रव्यादि
सेण चासदित्युक्तम् । ततश्च तद्यत एव सत् , अत एवासत्, परद्रव्यादिरूपासत्त्वे सति स्वद्रव्यादिरूपेण सत्त्वात् । यतजासत, अत एव सत् , स्वद्रव्यादिरूपसत्त्वे सति पर
चासत्वात् । अत एव चैकत्र सदसत्त्वयोविरोपोऽपि न सम्भवति, भिन्ननिमित्तत्त्वात् , स्वद्रव्यपरद्रव्यादीनां सदसद्धेतुत्वात् , अनुभवसिद्धत्वाच्च । तथाहि- स्वपररूपानुटव्याहत्तरूपमेव तद् वस्त्वनुभूयते । स्यादाशङ्का स्वरूपाव्यावृत्तिरेव पररूपव्यावृत्तिरिति । एषाप्ययुक्ता, विहितोत्तरत्वात् । यस्मादेवम् , तस्मात् समुत्सारितपक्षपातैायविद्भिर्युक्तियुक्तत्वात् सदसद्रूपं वस्त्वङ्गीकर्तव्यमिति । आह च
“यस्मात् सत्त्वमसत्त्वं च न विरुद्धं मिथो द्वयम् । वस्त्वेकं सदसद्रूपं ननु तत् किं न युज्यते ?"॥१॥
ततश्चेत्यादि । ततश्चैवमुक्तेन प्रकारेण, न सर्वथा सत्त्वमसत्त्वपरिहारेण व्यवस्थितम् , न चासत्त्वं सत्त्वपरिहारेण; व्यवस्थितमिति वर्तते । न चानयोः सत्त्वासत्त्वयोः, अविशेष एवाऽभेदएव । कुत इत्याह-भिन्ननिमित्तत्वात् । एतदेव भावयति- तथाहीत्यादिना । तथाहि- स्वद्रव्यादिरूपेण सत् परद्रव्यादिरूपेण चासदित्युक्तमिति निमित्तभेदः। ततश्चेत्यादि । ततश्च तद्वस्तु, यत एव सत् , अत एवासत् । कुत इत्याह- परद्रव्यादिरूपासत्त्वे सति तद्
Page #44
--------------------------------------------------------------------------
________________
५२
अनेकान्तजयपताकानात्मकत्वेन, स्वद्रव्यादिरूपेण सत्त्वात् । तथा, यत एव चासत् , अत एव सत् ; तदिति प्रक्रमः । युक्तिमाह- स्वद्रव्यादिरूपसत्त्वे सति भावात्मकत्वेन, परद्रव्यादिरूपेणाऽसत्त्वात् । अत एवेत्यादि। अत एव च कारणात्, एकत्र वस्तुनि, सदसत्त्वयोर्विरोधोऽपि न संभवति भिन्ननिमित्तत्वात् कारणात् , स्वद्रव्यपरद्रव्यादीनाम् । किमित्याह- सदसद्धतुत्वात् , स्वद्रव्यादयः सत्त्वकल्पनाया निमित्तम् , परद्रव्यादयश्चासत्त्वकल्पनाया इति, तथा अनुभवसिद्धबाच्च; एकत्र सदसत्त्वयोर्विरोधोऽपि न संभवति । एतद्भावनायाहतथाहीत्यादि । तथाहि-स्वपररूपाभ्यां यथासङ्खथं अव्यावृत्तव्यावृत्तरूपमेव तद्वस्त्वनुभूयते, अनुभवे च सद्बोधाद्यनेकरूपतायामिव को विरोधः ? । स्यादाशङ्केत्यादि । स्यादाशङ्का स्वरूपाव्यावृत्तिरेवैकरूपा, पररूपव्यावृत्तिरिति ।
आह च"सर्वे भावाः स्वभावेन स्वस्वभावव्यवस्थितेः । स्वभावपरभावाभ्यां यस्माद् व्यावृत्तिभागिनः ।। १ ।। तस्माद् यतो यतोऽर्थानां व्यावृत्तिस्तन्निबन्धनाः।
जातिभेदाः प्रकल्प्यन्ते तद्विशेषावगाहिनः" ।।२॥ इत्यादि ।। एषाऽप्ययुक्ता आशङ्का । कुत इत्याह- विहितोत्तरत्वात् न स्वरूपसत्त्वमेव पररूपासत्त्वमित्यादिना । अनन्तरोदितमपि श्लोकद्वयं सदसद्रूपवस्सुव्यवस्थापकमेव, तत्त्वतोऽन्यरूपाभावमन्तरेणान्यतोऽन्यव्यावृत्त्यसिद्धेः स्वव्यावृत्तिवद् व्यावृत्त्यन्तराभावे न प्रकल्पना बीजाभावादिति निर्लोठितमेतदर्थतः । यस्मादेवं तस्मात् समुत्सारितपक्षपातैायविद्भिर्युक्तियुक्तत्वात् कारणात् , सदसद्रूपं वस्त्वङ्गीकर्त्तव्यमित्याह च- यस्मात् सत्त्वमसत्त्वं च । किमित्याह- न विरुद्धं मिथो द्वयम् । उक्तवदिति । वस्त्वेकं सदसद्रूपं शबलतया, ननु तत्किं. न युज्यते ? युज्यत एव; एवं पूर्वपक्षश्लोकपरावर्चना ।।
Page #45
--------------------------------------------------------------------------
________________
स्वोपज्ञटीकासहिता। यदप्युक्तम्-सदसद्रूपं वस्त्वभ्युपगच्छता सत्त्वमसत्त्वं च वस्तुधर्मतयाऽभ्युपगतं भवतीति । एतदिष्यत एव । यत्पुनरिदमुकम्-ततश्चात्राऽपि वक्तव्यं धर्मधर्मिणोः किं तावद् भेद इत्यादि। अत्रापि सर्वथा भेदपक्षोदितोऽभेदपक्षोदितश्च दोषोऽनभ्युपगमतिरस्कृतत्वादेव न नः क्षितिमावहति । भेदाभेदपक्षस्त्वभ्युपगग्यत एव । आह-नन्वत्रापि येनाकारेण भेदस्तेन भेद एवेत्यादि दूषणमुक्तम्, उक्तमिदम् ; अयुक्तं तूक्तम् , भेदाभेदपक्षे तदसंभवा
। असंभवश्चान्योऽन्यव्याप्तिभावेनाऽस्य जात्यन्तरात्मकत्वात् , केवलभेदाभेदानुपपत्तेः । ततश्च येनाकारेण भेदस्तेन भेद एच, अन बादरतेनाभेद एव इत्यत्यन्तपरित्यक्तानेकान्तवादविष
सदाऽननुविद्रस्य केवलभेदस्यासिद्धेः, भेदाऽननुविद्धस्य चाभेदस्येति ॥ - भूयोऽपि पूर्वपक्षग्रन्थमुपन्यस्य तत्परिहारमाह- यदप्युक्तमित्यादिना । यदप्युक्तं पूर्वपक्षग्रन्थे, सदसद्रूपं वस्त्वभ्युपगच्छता सत्त्वमसस्वच वस्तुधर्मतयाऽभ्युपगतं भवतीत्येतदिष्यत एव, नह्यभ्युपगमा एव बाधायै भवन्ति । यत् पुनरिदमुक्तं पूर्वपक्षग्रन्थ एव, ततश्चात्रापि वक्तव्यं धर्मर्मिणोः किं तावद्भेद इत्यादि, अत्राप्युक्ते, सर्वथा भेदपक्षोदितोभेदपक्षोदितश्च दोषः । किमित्याह- अनभ्युपगमतिरस्कृतत्वादेव कारणात् , न नो नास्माकम् , क्षितिमावहति, भेदाभेदपक्षस्तु तृतीयः, अभ्युपगम्यत एव, अत्रापि नाभ्युपगमा एव बाधायै भवन्ति । आहेत्यादि परः। नन्वत्रापि भेदाभेदपक्षे, येनाकारेण भेदस्तेन भेद एवेत्यादि दूषणमुक्तं पूर्वपक्षग्रन्थ इति । अत्राह-उक्तमिदं दूषणम् , अयुक्तं सूक्तम् । कुत इत्याह-भेदाभेदपक्षे अस्मदभिमते, तदसम्भवात् उक्तदूषणासंभवात् , असंभवश्वोक्तदूषणस्य, अन्योन्यव्याप्तिभावेन हेतुना, अस्य भेदाभेदपक्षस्य, जात्यन्तरात्मकत्वात् केवलभेदाभेदानुपंपत्तेः, न ह्यन्योन्याननुविद्धावेताविति जैनं दर्शनम् । ततश्चेत्यादि । ततश्चैवं च सति, येनाकारेण भेदस्तेन भेद एव येन चाभेद
१. झिं क्षये इत्यस्य तौ रूपम् ।
Page #46
--------------------------------------------------------------------------
________________
अनेकान्तजयपताकास्तेनाभेद एवेत्येतत् पूर्वपक्षवचनमिति योगः । किमित्याह- अत्यन्तपरित्यक्तानेकान्तवादविषयं न तद्गोचरे ढोकतेऽपीति । कुतइत्याह- अभेदाननुविद्धस्य केवलभेदस्यासिद्धेः कारणात् , भेदाननुविद्धस्य चाभेदस्येत्यसिद्धेरेव, येनाकारेण भेदस्तेन भेद एवेत्यादिस्त्वत्र प्रवृत्तिनिमित्तशून्य एव शब्द इति भावनीयम् ।।
यच्चोक्तम्--अथ येनैवाकारेण भेदस्तेनैवाभेद इत्यादि । तदप्यनेकान्तवादानाकर्णनसूचकम् । यतो न ह्येकेनैवाकारेण भेदाभेदावित्यनेकान्तनीतिः, सर्वथैकनिमित्तत्वे भेदाभेदद्वयानुपपत्तेः । किन्त्वेकधर्मिप्रतिबद्धत्वेऽपि धर्माणां मिथो भेदाद् धर्मिधर्मभावेन भेदः, अन्यथाऽन्यतररूपापत्त्या तद्भावानुपपत्तिः, प्रतीतिबाधिता चेयम् । मिथो भेदेऽपि चाशेषधर्माणां धर्मिणा व्यातेर्विशिष्टान्योऽन्यानुवेधतोऽभेदः, अन्यथा तस्येति सङ्गायोगात्, तद्धर्मिधर्मस्वभावत्वसङ्गस्यापि धर्मेभ्योऽन्यत्वे धर्मिणोऽसम्भवात् । ततश्च धर्माणामभ्यन्तरीकृतधर्मिस्वरूपत्वात् धर्मिणोऽपि चाभ्यन्तरीकृतधर्मखरूपत्वात् भेदाभेद इति । __ यच्चोक्तं पूर्वपक्षग्रन्थ एव, अथ येनैवाकारेण भेदस्तेनैवाभेद इत्यादि, तदपि । किमित्याह- अनेकान्तवादानाकर्णनसूचकं वर्त्तते । अनाकर्णनमश्रवणम् । कथमित्याह-यत इत्यादि । यतो न ह्येकेनैवाकारेण भेदाभेदावित्यनेकान्तनीतिः । कुत इत्याह-सर्वथैकनिमित्तत्वे भेदाभेदद्वयानुपपत्तेः प्रतीतमेतत् । किन्त्वेवमनेकान्तनीतिरित्याह-एकधमिप्रतिबद्धत्वेऽपि द्रव्यदेशनियततया, धर्माणां सत्त्वज्ञेयत्वादीनाम् , मिथः परस्परं, भेदात् कारणात, धर्मधर्मिभावेन तथानुभवसिद्धेन, भेदः। इत्थं चैतदङ्गीकर्तव्यमित्याह-अन्यथेत्यादि । अन्यथैवमनभ्युपगमे; अन्यतररूपापत्त्या तद्भावानुपपत्तिः धर्मधर्मभावानुपपत्तिः । अस्तु को दोषः ? इत्याशङ्कयाह- प्रतीतिबाधिता चेयं धर्मधर्मिभावानुपपत्ति क्षयोपशमानुरूपं तथा तदुभयप्रतीतेः; तथा मिथ इत्यादि । मिथो भेदेऽपि च परस्परभेदेऽपि च, अशेषधर्माणां सत्त्वज्ञेयत्वादीनाम् ,
Page #47
--------------------------------------------------------------------------
________________
स्वोपाटीकासहिता। धर्मिणा द्रव्येण, व्याप्तेः । किमित्याह-विशिष्टान्योन्यानुवेधतः कारणात् , अभेदः धर्मधर्मिणोरिति । इत्थं चैतदङ्गीकर्तव्यमित्याहअन्यथेत्यादि । अन्यथैवमनभ्युपगमे, तस्येति सङ्गायोगात् तस्य धर्मिणो धर्मा इति संबन्धायोगात् । तदित्यादि तयोर्धर्मधर्मिणोः : स्वभावत्वप्रसङ्गस्याऽपि स एव धर्मी तद्धर्ममिस्वभावः, त एव च धर्मास्तद्धर्मिधर्मस्वभावा इत्येवम्भूतस्य । किमित्याह- धर्मेभ्योऽन्यत्वे सति, धर्मिणः सकाशादिति गम्यते । किमित्याह- धर्मिणोऽसम्भवात् । सद्धर्मधर्मस्वभावत्वस्यापि धर्मत्वात् तस्य च ततो व्यतिरिक्तत्त्वेन निर्मिणो निःस्वभावत्वात् तस्येति संगायोगः । ततश्चेत्यादि । ततश्चैवं
सति, धर्माणामभ्यन्तरीकृतर्मिस्वरूपत्वादितरेतरव्याप्त्या, धर्मिबिन्दरीभूतधर्मखरूपत्वात् उक्तादेव हेतोः । किमित्याहपति । अन्यथा तत्तत्त्वायोगः ॥
प्रतीतिसचिवनिमित्तभेदे सति विरोधादित्यपि यदुक्तं बदुक्तिमात्रमेव । तथाहि--यदि येनाकारेण भेदः कथं तेनैवाभेदः नयाभेदः कथं भेद इत्यस्य वचनस्योक्तवद्यपेतविषयत्वात् सकारान्तरेण भेदाभेदसिद्धेः । सर्वथा भेदाभेदवादिनस्तु तदसत्त्वापत्तिलक्षणो विरोधोऽपरिहार्य एव । तथाहि- एकान्ततश्व धर्मधर्मिणोर्भेदे धर्मिणो निःस्वभावत्वापत्तिः, स्वभावस्य धर्मत्वात् तस्य च ततोऽन्यत्वादिति । स्वो भावः स्वभावस्तस्यैवात्मीया सत्तेति शब्दार्थे न निःस्वभावत्वापत्तिरिति चेत् । न । ज्ञेयत्वादिधर्माननुवेधे तदनवगतः, तथापि तत्कल्पनेतिप्रसङ्ग इति ॥
एवं च प्रतीतिसचिवनिमित्तभेदे प्रतीतिसहायानिमित्तभेदे, सति; धर्मर्मिणोर्भेदाभेदं प्रतीति प्रक्रमः । किमित्याहविरोधादित्यपि यदुक्तं पूर्वपक्षे अथ येनैवाकारेण भेदस्तेनैवाभेदइत्येतदप्यचारु विरोधादित्येवम् । किमित्याह-तदुक्तिमात्रमेव निरर्थकमित्यर्थः । तथाहीत्यादि भावना, तथाहीति पूर्ववत् , यदि येनाका
Page #48
--------------------------------------------------------------------------
________________
५६
अनेकान्तजयपताकारेण भेदः कथं तेनैवाऽभेदः , धर्मधर्मिणोरिति वर्तते । अथाभेदः कथं भेद इति निमित्ताभेदेनेत्यर्थः, अस्य वचनस्य पूर्वपक्षसङ्गतस्य उक्तवद्ध्यपेतविषयत्वात् व्यपेतविषयत्वं च प्रकारान्तरेण जात्यन्तरा. त्मकत्वेन भेदाभेदसिद्धेः । सर्वथा भेदाभेदवादिनस्त्वेकान्तवादिनः । किमित्याह- तदसत्त्वापत्तिलक्षणो धर्मिधर्मासत्त्वापत्तिलक्षणः, वि. रोधः । किमित्याह- अपरिहार्य एव अपरिहरणीय एव। एतदेव भा. वयति- तथाहीत्यादिना तथाहीत्युपप्रदर्शने, एकान्तत एव धर्म धर्मिणो देऽभ्युपगम्यमाने सति। किमित्याह- धर्मिणो निःस्वभावत्वापत्तिः । कुत इत्याह-वभावस्य धर्मत्वात् । ततः किमित्याहतस्य च स्वभावस्य, ततो धर्मिणः, अन्यत्वादिति । स्वो भावः स्वभाव स्तस्यैव धर्मिणः, आत्मीया सत्ता इत्येवम् , शब्दार्थे सति, न निःस्वभावत्वापत्तिः धर्मिणः, इति चेत् । एतदाशङ्क्याह- नेत्यादि । न नैतदेवम, ज्ञेयत्वादिधर्माननुवेधे सति, आदिशब्दात् प्रमेयत्वादिपरिग्रहः, तदनवगतेः तस्याधिकृतधर्मिणोऽनवगमात् ; न ह्यज्ञेयस्व. भावं सदपि ज्ञायत इत्यर्थः । तथापीत्यादि । तथाप्यनवगमेऽपि, तत्कल्पने धर्मिकल्पने, अतिप्रसङ्गः अन्यस्य कस्यचिदनवगतस्य कल्पनापत्तेरिति ॥
"धर्माणामपि तदभावे निराश्रयत्वात् केवलानां ग्रहणानु: पपत्तेस्तदितराननुवेधादभाव एवेति तदसत्त्वापत्तिः । एकान्ताभेदेऽप्यन्यतराभावतस्तन्नान्तरीयकत्वात् तव्यतिरेकेण तत्स्वरूपानुपपत्तेर्नि/जकल्पनाऽसम्भवात् , अतिप्रसङ्गाव्याहतेः, अ. न्यतरभावस्यैवान्यतरकल्पनाबीजत्वायोगात् , एकान्तकस्वभाः वत्वहानेः, तथाविधैकस्वभावत्वस्य न्यायविरुद्धत्वात् , शक्तिभेदमन्तरेण कार्यभेदासिद्धेः, तदितरव्यावृत्तेरपि तत्त्वतस्तदव्य तिरेकात् , तद्भेदे च तद्भेदोपपत्तेः, अभिधानभेदतो धर्मसिद्धिन सङ्गादन्यतरस्याप्यभाव एवेति तदसत्त्वापत्तिरेव । एतेन अथ येनाप्याकारेण भेदस्तेनापि भेदश्चाभेदश्चेत्यायपि निराकृत
Page #49
--------------------------------------------------------------------------
________________
स्वोपज्ञटीकासहिता। मेव । अन्योऽन्यव्याप्तितो जात्यन्तरात्मकत्वेन भेदाभेदपक्षे सदसंभवात् केवलाकारानुपपत्तेः, इतरानुविद्धस्य च प्रश्नानईत्वादिति ॥ ___धर्माणामपीत्यादि। धर्माणामपि ज्ञेयत्वादीनाम् , तदभावे धर्म्ययावे, निराश्रयत्वाद् निराधारत्वात् , तथा केवलानां महणानुपपत्तेस्तथाअनुभवेन, तथा तदितराननुवेधाज्ज्ञेयत्वादीनां सत्त्वाद्यनंनुवेधात्, समाव एच इत्येवम् , तदसत्त्वापत्तिर्धर्मधर्मिणोरसत्त्वापत्तिः।एकान्ताद इति, तथा एकान्तेत्यादि । एकान्ताभेदेऽपि तदसत्त्वापत्तिरे
वश्वमाणक्रियायोगः । कुत इत्याह- अन्यतराभाषतः एकासासरे हमिसावं वा स्यात्, धर्ममात्रं वा, इत्यन्यतराभावः । ततः
सकत्वात् यदभावस्तनान्तरीयकत्वात् कारबर्मनान्तरवको धर्मी, धर्मिनान्तरीयकश्च धर्म इति कृत्वा । किमित्याह- तव्यतिरेकेण धर्माद्यभावेन, तत्स्वरूपानुपपत्तेधादिस्व
योगात्, अन्यतरस्याप्यभाव एवेति संबन्धः, धर्माभावे धर्मिणोऽभावः, धर्म्यभावे च धर्मस्याऽप्यभाव एवेति कृत्वा, तदसत्त्वापत्तिरेव,
धर्मिणोरसत्त्वापत्तिरेष । कल्पितो धर्ममिभाव इत्याशवाऽपोहावाह-निर्वीजकल्पनाऽसंभवात् एकान्तकस्वभावे वस्तुनि प्रवृत्तिनिमित्तमन्तरेण धर्मर्मिकल्पनाऽसंभवात्, असंभवश्च अविप्रसङ्गाऽवाहतेन्ध्येियखरविषाणकल्पनासंभवात्, उभयत्र कल्पनाबीजाभावाऽविशेषात्। अन्यतरेत्यादि । अन्यतरभावस्यैव धर्माद्यन्यतरसंचाया एव, अन्यतरकल्पनाबीजत्वायोगाद् धर्माद्यन्यतरकल्पनाकारणत्वायोगात्, अयोगश्च एकान्तकस्वभावत्वहानेः, न ह्येकान्तैकस्वभावमनेककल्पनाबीजम् । तथाविधेत्यादि । तथाविधैकस्वभावत्वस्य धर्मधर्मिकल्पनाचीजैकस्वभावत्वस्य, न्यायविरुद्धत्वाद् युक्तिविरुद्धत्वात्, न्यायविरुद्धत्त्वं च शक्तिभेदमन्तरेण कार्यभेदासिद्धेरेकशक्तिकात् ततो धर्मधर्मिकल्पनाकार्यभेदानुपपत्तेः । तदितरेत्यादि। वंदितरव्यावृत्तेरपि धर्मधर्मिव्यावृत्तेरपि, तत्त्वतः परमार्थतः, तव्यवि
Page #50
--------------------------------------------------------------------------
________________
५८
अनेकान्तजयपताका
रेकादेकस्वभाववस्त्वव्यतिरेकात् , तद्भेदे च व्यावृत्तिभेदे च, सद्भेदोपपत्तेावृत्तवस्तुभेदोपपत्तेः, एवं चाभिधानभेदतोऽभिधानभेदेन व्यावत्तिलक्षणेन, धर्मसिद्धिप्रसङ्गाद् व्यावृत्तीनामेव धर्मत्वेन तथा वस्तूनां भेदभावेन; न चैतदिष्यत इति, अन्यतरस्याप्यभाव एवेति तदसत्त्वापत्तिरेवेति व्याख्यातमेतत् । एतेनेत्यादि । एतेनानन्तरोदितेन विरोधपरि. हारेण, अथ येनाऽप्याकारेण भेदस्तेनापि भेदश्चाभेदश्चेत्याद्यपि पूर्वपक्षवचनं, निराकृतमेव । कुत इत्याह- अन्योन्यव्याप्तितो जात्यन्तरात्मकत्वेन भेदाभेदपक्षे तदसंभवात् तस्य अथ येनाप्याकारणेत्यादेविकल्पजातस्य, असंभवात् । उपपत्तिमाह- केवलाकारानुपपत्तेः अनन्तरोदितभेदाभेदपक्षे । इतरानुविद्धस्य च भेदाकारानुविद्धस्य चाभेदाकारस्य, प्रश्नानहत्वात् कैवल्याभावेन नरसिंहे सिंहप्रश्नतुल्यत्वादिति ।। . यच्चोक्तम्-किं च भेदाभेदमभ्युपगच्छताऽवश्यमेवेदमङ्गीकर्तव्यम्-इह धर्मधार्मिणोधर्मधर्मितया भेदः, स्वभावतः पुनरभेदइत्यादि। तदप्येकधर्मिप्रतिबद्धत्वेऽपि धर्माणां मिथो भेदाद् धर्मधर्मिभावेन भेदः, मिथो भेदेऽपि चाशेषधर्माणां धर्मिणा व्याप्तेविशिष्टान्योन्यानुवेधतोऽभेद इत्यादिना प्रत्युक्तम् , प्रकारान्तरेण भेदाभेदसिद्धः। तथा चोक्तम्"नाभेदो भेदरहितो भेदो वाऽभेदवर्जितः । केवलोऽस्ति, यतस्तेन कुतस्तत्र विकल्पनम् ? ॥१॥ . येनाकारेण भेदः किं तेनासावेव, किं द्वयम् ? । असत्त्वात् केवलस्येह सतश्च कथितत्वतः ॥ २॥ यतश्च तत्प्रमाणेन गम्यते [भयात्मकम् । अतोऽपि जातिमात्रं तदनवस्थादिदूषणम् ॥३॥ एवं छुभयदोषादिदोषा अपि न दूषणम् । सम्यग्जात्यन्तरत्वेन भेदाभेदप्रसिद्धितः ॥४॥ तेनानेकान्तवादोऽयमज्ञैः समुकल्पितः ।
Page #51
--------------------------------------------------------------------------
________________
स्वोपज्ञटीकासहिता। न युज्यते वचो वक्तुमिति न्यायानुसारिणः" ॥ ५॥
यञ्चोक्तं पूर्वपक्षग्रन्थे, किंच भेदाभेदमभ्युपगच्छताऽवश्यमेवेइसङ्गीकर्तव्यमिह धर्मधर्मिणोधर्मर्मितया भेदः, स्वभावतः पुनरभेदइत्यादि । तदप्येकर्मिप्रतिबद्धत्वेऽपि धर्माणां मिथो भेदाद् धर्मधर्मदिन भेदः, मिथो भेदेऽपि चाशेषधर्माणां धर्मिणा व्याप्तर्विशिष्टासोन्यानुवेधतोऽभेद इत्यादिना पूर्वोक्तेन, प्रत्युक्तम् । कथमित्याहकारान्तरेण अन्योन्यानुवेधलक्षणेन,भेदाभेदसिद्धेः । तथा चोक्तं वृद्धैः।
दो धर्मधर्मिणोः, भेदरहितः, भेदो वा तयोरेवाऽभेदवर्जितः केवति, यतस्तेन कारणेन, कुतस्तत्र भेदेऽभेदे वा विकल्पनम्। किंभूतमि-येनेत्यादि । येनाकारेण भेदः किं तेनाऽसावेव भेद एव, किं द्वयं
म् । इत्येवं विकल्पनमयुक्तमित्याह- असत्त्वात् केवपलामेदस्य वा, सतश्चेतरानुविद्धतया शबलस्य, कथितत्वतः कारणादिति । यतश्चेत्यादि । यतश्च यस्माच कारणात् , तद् वस्तु, प्रमामेत प्रत्यक्षेण, गम्यत एव, उभयात्मकं धर्मिधर्मात्मकम् , तथा प्रतीतेः। अतोऽपि कारणात् , जातिमात्रं तत् । किमित्याह- अनवस्थादिदषणं सति तस्मिंस्तदनवस्थिततया प्रमाणाप्रवृत्तेः । एवं हीत्यादि । एवमेव, भयदोषादिदोषा अपि न दूषणम् , आदिशब्दाद् वैयधिकरण्यपरिग्रहः। तो न दूषणमित्याह-सम्यगित्यादि। सम्यग् न्यायोपपन्नतया, जात्यसरत्वेन हेतुना, भेदाभेदप्रसिद्धितः कारणादिति । येनैतदेवम् , नेत्यादि । तेन कारणेन, अनेकान्तवादोऽयमज्ञैः समुपकल्पितः न बुज्यते वचो वक्तुमित्येवम् , न्यायानुसारिण इति ॥ - अपरस्त्वाह-सदसद्रूपं वस्त्वित्यत्र कथं धर्मधर्मिभावः ? । कथं च न स्यात् ?, सदसत्त्वयोधर्मत्वे तंव्यतिरिक्तस्य वस्तुनोऽभावाद् धर्म्यसिद्धेः, तद्धर्मिभावे वा वस्तुत्वेन तद्व्यतिरिक्तधर्माउपपत्तेरिति ॥
अपरस्त्वाह-सदसद्रूपं वस्त्वित्यत्रोभयरूपे तत्त्वे, कथं धर्मधर्मिमावः कथमिति क्षेपे, नैवेत्यभिप्रायः । सिद्धान्तवाद्याह-कथं चन स्याद
Page #52
--------------------------------------------------------------------------
________________
अनेकान्तजयपताका
धर्मर्मिभाव इति । अत्राह-सदसत्त्वयोरित्यादि । सदसत्त्वयोर्धमत्वे सति, तद्व्यतिरिक्तस्य सदसत्त्वव्यतिरिक्तस्य, वस्तुनोऽभावादपरस्य, तदुभयमात्रतया तस्येति भावः। धर्म्यसिद्धेः कारणाद्, न धर्मिधर्मभावः । तद्धर्मिभावे वा तयोः सदसत्त्वयोर्धर्मित्वे वा, वस्तुत्वेन हेतुना, तयोरेव वस्तुत्वादित्यभिप्रायः। किमित्याह- तद्यतिरिक्तधर्मानुपपत्तेः सदसद्रूपवस्तुर्मिव्यतिरिक्तधर्मानुपपत्तेः, न धर्मधर्मभावइति न सदसत्त्वमात्रे वस्तुनि धर्मिण्यपरधर्मभाव इत्यर्थः॥ - अत्रोच्यते-सदसत्त्वयोधर्मत्वे तत्समानपरिणामस्य वस्तुत्वाभिधानस्य धर्मित्वप्रतिज्ञानात्,तस्य च कथञ्चित्सदसत्त्वाभ्या: मन्यत्वाद् धर्मधर्मिभावः। तथाहि-कथञ्चित् सदसत्त्वाभ्यामन्य एव तत्साधारणात्मा वस्तुत्वपरिणामः, तथानुभवसिद्धत्वाद् वस्त्वित्येकरूपतया प्रतीतेः । न चेयं तदुभयमात्रनिबन्धनैव, प्रतिभासभेदात् । एवमपि तनिबन्धनत्वाभ्युपगमेऽतिपङ्गात् , रूपमात्रादेव तद्रसादिप्रतीतिसिद्धेः । न चैतदतन्त्रानुपाति, तुल्यांशस्य द्रव्यत्वाभ्युपगमात् , अस्य च तद्भावोपपत्तेरिति । तद्धर्मिभावेऽपि वस्तुत्वेन चेतनत्वाचेतनत्वमूर्तत्वामूर्तत्वज्ञेयत्वप्रमेयत्वादिधर्मसिद्धर्धर्मधर्मिभावोपपत्तिरेव । न च सदसती एव चेतनत्वादि, तन्मात्रतत्त्वे सर्वत्र तद्भावप्रसङ्गात् साङ्कर्येण चेतनत्वाद्यभावः।न च विशिष्टे सदसती एव तत्, भेदकमन्तरेण विशिष्टत्वासिद्धेः, तन्मात्रत्वाविशेषात् ; इति कथञ्चित्तदतिरिक्तचेतनत्वादिसिद्धिः। अन्यथा तज्ज्ञानायोगाद् निर्विषयत्वात् शक्तिभेदमन्तरेणैकतोऽने ककार्यासिद्धेरिति । एवमितरेतरानुविद्धतुल्येतराऽनेकान्तात्मक त्वे वस्तुनः प्रतिपत्त्रनुरोधतस्तथा धर्मधर्मिभावो न विरुध्यत इति।
अत्रोच्यते सदसत्त्वयोर्धमत्वे सति । किमित्याह-तदित्यादि । तत्सा मानपरिणामस्य तयोः सदसत्त्वयोस्तुल्यपरिणामस्य । किंभूतस्येत्याहन वस्तुत्वाभिधानस्य एतदभिधेयस्येत्यर्थः । किमित्याह-धर्मित्वप्रति
Page #53
--------------------------------------------------------------------------
________________
स्वोपज्ञटीकासहिता.।
..
.
.
शानात कारणात्, तस्य च वस्तुसमानपरिणामस्य, कथञ्चित् प्रतिभासभेदादिहेतुतया,सदसत्त्वाभ्यां सकाशात् , अन्यत्वात् । किमित्याहअर्मधर्मिभावः तत्समानपरिणामस्य मित्वात् , तयोश्च धर्मत्वादिअर्थः । एतदेव भावयति- तथाहीत्यादिना । तथाहीति पूर्ववत् , बचित् केनचित् प्रकारेण, सदसत्त्वाभ्यां सकाशात् , अन्य एव तसाधारणात्मा सदसत्त्वसाधारणात्मा, वस्तुत्वपरिणामो धर्मिरूपः । कृत इत्याह-तथाऽनुभवसिद्धत्वात् तथा तदेशनियततया तदतिरिकानुभवसिद्धत्वात् । एतदेवाह-वस्त्वित्येवम् , एकरूपतया प्रतीतेः धारणात्। न चेयं प्रतीतिः, तदुभयमात्रनिबन्धनैव सदसत्त्वोभयमात्रकारणेवैकान्तेन । कुत इत्याह- प्रतिभासभेदात् प्रतिभास आकारः ।
मपि प्रतिमासमेदेऽपि सति, तनिबन्धनत्वाभ्युपगमे प्रक्रमाद् वस्त्विति प्रतीतेस्तदुभयमात्रनिबन्धनत्वाङ्गीकरणे। किमित्याह- अतिप्रसङ्गात् । एनमेवाह- रूपमात्रादेव सकाशात् , तद्रसादिप्रतीमिसिद्धेस्तस्मिन्नधिकृतवस्तुनि रसादिप्रतीतिसिद्धेः, अन्यत एवा
कारविज्ञानभावेन; एवं च रसाद्यभावप्रसङ्ग इति भावनीयम् । न चैतदित्यादि । न चैतत् समानपरिणामस्य वस्तुनो धर्मित्वप्रति
नम् , अतन्त्रानुपाति तन्त्रविरोधीत्यर्थः । कुत इत्याह- तुल्यांशस्य व्यत्वाभ्युपगमात् द्रव्यार्थपर्यायार्थचिन्तायां वृद्धग्रन्थेषु, अस्य च
समानपरिणामस्य, तद्भावोपपत्तेस्तुल्यांशत्वोपपत्तेरिति । पक्षान्तरिमधिकृत्य समाधिमाह- तद्धर्मिभावेऽपीत्यादिना तद्धर्मिभावेऽपि
योः सदसत्त्वयोधर्मित्वेऽपि, वस्तुत्वेन हेतुना । किमित्याह-चेतनत्वातिनत्वमूर्तत्वामूर्तत्वज्ञेयत्वप्रमेयत्वादिधर्मसिद्धः विज्ञानघटादिषु,
धर्मिभावोपपत्तिरेव सदसत्त्वयोधर्मित्वे चेतनत्वादीनां धर्मत्वादिति। वेत्यादि। न च सदसती एव सत्त्वमसत्त्वं चेत्यर्थः । किमित्याहनत्वादि चेतनत्वमचेतनत्वं चेत्यादि । कुत इत्याह- तन्मात्रेत्यातन्मात्रतत्त्वे तन्मात्रस्य सदसन्मात्रस्य तत्त्वे चेतनादित्वे, सर्वत्रा
Page #54
--------------------------------------------------------------------------
________________
अनेकान्तजयपताका
ऽविशेषेण, तद्भावप्रसङ्गात् चेतनत्वादिभावप्रसङ्गात्, एवं च सर्वत्र तद्भावे सांकर्येण हेतुना, चेतनत्वाद्यभावश्चेतनत्वाचेतनत्वाद्यभावः, मिथो विरुद्धानामन्योन्यात्मनाऽभावादित्यर्थः । न चेत्यादि। न च विशिष्टे केनचिद्रूपेण, सदसती एव, तत् चेतनत्वादि । कुत, इत्याह- भेदकमन्तरेण वस्त्वन्तरविशिष्टत्वासिद्धेः। अत्रैव युक्तिमाह- तन्मात्रत्वाविशेषात् सदसन्मात्रत्वाभेदाद् भावनीयमेतत् , इत्येवम् , कथञ्चित् केनचित् प्रकारेण तद्भेदकत्वलक्षणेन, तदतिरिक्तचेतनत्वादिसिद्धिः सदसदतिरिक्तचेतनत्वादिसिद्धिः । इत्थं चैतदङ्गीकर्तव्यभित्याह- अन्यथेत्यादि । अन्यथैवमनभ्युपगमे, तज्ज्ञानायोगात् चेतनत्वादिज्ञानायोगात् , अयोगश्च निविषयत्वात् सदसतोस्तदभावेन । अथ सदसती एव विषय इत्याशङ्क्याह-शक्तिभेदमन्तरेणैकतः सदसदादेः, अनेककार्यासिद्धेस्तचेतनत्वाद्यनेकज्ञानकार्यासिद्धेरिति । उपसंहरन्नाहएवमित्यादि। एवमुक्तेन प्रकारेण, इतरेतरानुविद्धाश्च ते तुल्येतरानेकान्ताश्चेति विग्रहस्तदात्मकत्वे सति, वस्तुनः प्रतिपत्त्रनुरोधतो यो यथा प्रतिपत्ता तदनुरोधेन, तथा तथोक्तवत् तेन तेन प्रकारेण, धर्मर्मिभावो न विरुध्यते उभयनिमित्तयोगादिति ॥
यदप्युक्तम्- संविनिष्ठा विषयव्यवस्थितयः, न च सदसद्रूपं वस्तु संवेद्यते, उभयरूपस्य संवेदनस्याभावादित्यादि । तदप्यसाम्प्रतम्, उभयरूपस्य संवेदनस्याभावासिद्धेः, सदसद्रूपस्य वस्तुनो व्यवस्थापितत्वात् , संवेदनस्यापि च वस्तुत्वात् , तथा युक्तिसिद्धेश्च । तथाहि--संवेदनं पुरोऽवस्थिते घटादौ तद्भावेतराभावाध्यवसायरूपमेवोपजायते, तद्भावमात्रस्येतराभावाननुविद्धस्याभावापत्तितस्तदनुवेधे वस्तुस्थित्या स्वप्रतिभासिसंवेदनाजनकत्वे तद्ग्रहणानुपपत्तेः । न च सदसद्रूपे वस्तुनि सन्मात्रप्रतिभास्येव तत्त्वतस्तत्प्रतिभासि, संपूर्णार्थाऽप्रतिभासनाद् , नरसिंहे. सिंहसंवेदनवत् । न चैतदुभयप्रतिभासि न संवेद्यते,
Page #55
--------------------------------------------------------------------------
________________
स्वोपज्ञटीकासहिता।
तदन्यविविक्तताविशिष्टस्यैव संवित्तेः, तदन्यविविक्तता चाभावइति सूक्ष्मधिया भावनीयम् ।
यदप्युक्तं पूर्वपक्षग्रन्थे, संविन्निष्ठा विषयव्यवस्थितयः, न च सद्सपं वस्तु संवेद्यते, उभयरूपस्य संवेदनस्याभावादित्यादि । तदप्यसांप्रतमशोभनम् । कुत इत्याह-उभयरूपस्य संवेदनस्याभावाऽसिद्धेः कारणात्, असिद्धिरपि सदसद्रूपस्य वस्तुनो व्यवस्थापितत्वात् , तथा संवेदनस्यापि च वस्तुत्वात् , तथा युक्तिसिद्धेश्च । एनामेव दर्शयति
चाहीत्यादिना। तथाहीत्युपप्रदर्शने, संवेदनं विज्ञानम् , पुरोऽवस्थिते घटादौ विषये, तद्भावेतराऽभावाध्यवसायरूपमेव घटभावाऽघटाभावपस्विरूपमेव, उपजायते, तद्भावमात्रस्य घटभावमात्रस्य, इतराभावा
वल्याऽघटामावाननुविद्धस्य । किमित्याह- अभावापत्तितो वस्तुस्थित्याऽघटत्वेन, तदनुवेधेऽन्यासत्त्वानुवेधे सति, वस्तुस्थित्या स्वप्रतिभासिसंवेदनाजनकत्वे उभयरूपसंवेदनाजनकत्वे इत्यर्थः । किसलाह- तद्ग्रहणानुपपत्तेस्तस्योभयरूपस्य वस्तुनो ग्रहणानुपपत्तेरिबिद्यथारूपं तत् तथाऽगृह्यमाणं कथं गृहीतं नाम ? इति भावनीयम्। न चेत्यादि । न च सदसद्पे वस्तुन्युभयात्मके, सन्मात्रप्रतिभास्येव विवंदनमिति गम्यते, तत्त्वतस्तत्प्रतिभासि सदसदूपवस्तुप्रतिभासि । कुतस्याह-संपूर्णार्थाऽप्रतिभासनात् असत्त्वाप्रतिभासनेन, नरसिंहे सिंहसंवेदनवदिति निदर्शनम् , न सिंहसंवेदनं नरसिंहप्रतिभासि, एवं च बस्तुनोऽग्रहणमेवेति । न चेत्यादि। न चैतत् संवेदनम् , उभयप्रतिभासि प्रक्रमात् सदसदुभयप्रतिभासनशीलम् , न संवेद्यते किन्तु संवेद्यतएवं। युक्तिमाह-तदन्यविवक्तताविशिष्टस्यैव संवेदनान्तरविवक्तताविशिष्टस्यैव, संवित्तेः कारणात्, तदन्यविविक्तता चाऽभावस्तदखेषां तत्र, इति सूक्ष्मधिया भावनीयमुक्तनीत्यैव न ह्यसति चेतनात्वेइणुश्चेतनास्वभावो नामेत्यादिलक्षणया ।।
तदेवासहायं तदन्यविविक्तमिति चेत् , को वा किमाह?,
Page #56
--------------------------------------------------------------------------
________________
६४
अनेकान्तजयपताका
किन्तु तदेवासहायत्वं सहायाभावं भेदकमन्तरेण ससहायस्येव न युज्यत इति ब्रूमः । असहायं च घटोऽयं न पटादीति क्षयोपशमानुरूपमपरित्यक्तान्योऽन्यगर्भ संवेदनमाविद्वदङ्गनादि प्रती तम् , इत्यविषयोऽयं विवादस्य । न चैतदनर्थजम् , तद्भावभावित्वोपलब्धेः, तदन्यस्य तु तदाभासत्वात् , तस्यापि च कदाचित तथाविधानुभवनिबन्धनत्वेनानिमित्तत्वायोगादिति ॥ . तदेवेत्यादि। तदेवाधिकृतं संवेदनम् , असहायमन्यरहितम् , तद. न्यविविक्तं संवेदनान्तरविविक्तम् , इति चेत् । एतदाशङ्क्याह-को वा किमाह इत्थमेवैतदित्यर्थः । किन्त्वित्यादि। किन्तु तदेवासहायत्वमन्यरहितत्वम् , सहायाभावं मुख्यम् , भेदकमन्तरेण विना, ससहायस्ये. वापरस्य, न युज्यत इति ब्रूमो न तु किञ्चिदन्यत् । प्रकृतयोजनामाह असहायं चेत्यादि । असहायं च तदन्यविविक्तं च । कथमित्याहघटोऽयं न पटादीति एवम् , क्षयोपशमानुरूपं तदनन्तधर्मकत्वेऽपि नियमप्रवृत्त्या, अपरित्यक्तान्योन्यगर्भमितरेतरानुवेधात् संवेदनमिति विशेष्यम् , आविद्वदङ्गनादि प्रतीतं सकललोकप्रसिद्धमित्यर्थः । इत्येवं प्रतीतत्वादेव, अविषयोऽयं विवादस्य, अतो यादृशमिदं तादृशोऽर्थोऽपी. ति भावः । न चैतदित्यादि । न चैतदनन्तरोदितं संवेदनम्, अन. थजमवस्तुनिमित्तम् । कुत इत्याह- तद्भावभावित्वोपलब्धेः अर्थभावे भावित्वोपलब्धेरस्य परिणाम्यर्थग्रहणस्वभावतया न विरुद्धैवेय. मिति भावनीयम् । कचिदेतदर्थाभावेऽपि भवति विकल्पजमित्याशकानिरासार्थमाह- तदन्यस्येत्यादि । तदन्यस्य त्वनर्थजस्याधिकृतसंवेदनतुल्यस्य तु, तदाभासत्वात् संवेदनाभासत्वात् , तथाविधनिर्विः कल्पकवदिति हृदयम् । तस्यापि च तदाभासस्य, कदाचिदिह वाऽ मुत्र वा, तथाविधानुभवनिबन्धनत्वेन तत्तध्यारोपानुभवनिबन्ध नत्वेन हेतुना । किमित्याह- अनिमित्तत्वायोगात् कारणात् , न चैतदनर्थजमिति योगः ॥
Page #57
--------------------------------------------------------------------------
________________
स्वोपज्ञटीकासहिता। अत्राह-अस्त्येतदुभयविधं संवेदनम् , नाऽस्याऽपह्नुतिरास्थीयसे; किन्त्वेतदपास्तकल्पनानुबन्धेन संवेदनेनैकस्वभाव एवावबुद्ध बोध्ये तदनुभवसामर्थ्यसमुत्थापितं विकल्पद्वयम् , न पुनर्भावाभावात्मकवस्तुप्रभवम् , इति न सूक्ष्मधिय आस्थामनोरथं पूरयति; यतोऽभावस्य कृत्यक्रियासूपरतव्यापारतयाऽभावत्वम् , यद्यसावपि कार्यक्रियासु कक्षां बनीयात्, को भावादभावस्य भवता विशेषो दर्शितः स्यात् ? अतो व्युपरतेऽक्षव्यापारेऽर्थपरिच्छेदानुभवसंस्कारप्रसूतो नास्तिताविकल्पःस्वातन्त्र्यं परिहरतीति।। . अत्राह-अस्त्येतदुभयविधमुभयप्रकारम् , संवेदनम् , नाऽस्यापह्नतिरास्थीयतेऽस्माभिः, किन्त्वेतदुभयविधं संवेदनम् , अपास्तकल्पनानुबन्धेन निरस्तकल्पनासंबन्धेन, निर्विकल्पकेनेत्यर्थः, संवेदनेन विज्ञानेन, एकस्वभाव एव न नानास्वभावे, अवबुद्धे अवगते, बोये वस्तुनि, भूयस्तदनुभवसामर्थ्यसमुत्थापितं यथोदितानुभववीबैंजनितम् , विकल्कद्वयं घटोऽयं न पटादीत्येतदिह वर्तते, न पुनर्भावाभावात्मकवस्तुप्रभवं निर्विषयत्वाद् विकल्पानाम् , इत्येवम् , न सूक्ष्मधियो निपुणमतेः, आस्थामनोरथं पूरयति एतद्विकल्पद्वयम् । अत्रैव युक्तिमाह- यत इत्यादिना । यतो यस्मात् , अभावस्य कृत्यकियास्वर्थक्रियासु, उपरतव्यापारतया कारणेन, अभावत्वं नान्यथा। इत्थं चैतदङ्गीकर्तव्यमित्याह-- यद्यसावपि अभावः, कार्यक्रियास्वर्थक्रियासु, कक्षां बनीयात् यत्नं कुर्यात् , कस्तर्हि, भावात् सकाशात् , अभावस्य तुच्छस्य, भवता भावाभावात्मकवस्तुवादिना, विशेषो दर्शितः स्याद् न कश्चिदित्यर्थः। अतोऽस्मात् कारणात् , व्युपरतेऽक्षव्यापारे तदुत्तरकालमर्थपरिच्छेदानुभवसंस्कारप्रसूतो निर्विकल्पकसामोद्भूत इत्यर्थः, नास्तिताविकल्पः न पटादीत्यादिरूपः, स्वातन्त्र्यं परिहरतीति अभावाक्षसंबन्धाभावेन भावमात्रवस्त्वनुभवपरतन्त्र इत्यभिप्रायः । एष पूर्वपक्षः।
अत्रोच्यते- तदनुभवसामर्थ्यसमुत्थापितं विकल्पद्वयमिस्यनवद्यमेव, किन्तु न तवयनिमित्तस्वभावतामन्तरेणाऽस्माद्
Page #58
--------------------------------------------------------------------------
________________
६६
द्वयप्रसूतिः, हेत्वभेदेऽपि फलभेदाभ्युपगमेऽभ्युपगमविरोधात् । उपादानहेत्वभेदे सति स विरोधः, न च तत्सामर्थ्यमुपादानमस्य; अहेतुकं तर्ह्येतत् सौत्रान्तिकपक्षे, तदपरस्याभावात्, तस्यैव वासनादित्वात् । न च तत्त्वतस्तनी तावुपादानेतर हेत्वोर्भेदसिद्धिः, हेतुलक्षणाविशेषात्, विशिष्टलक्षणायोगाच्च ॥
अत्रोच्यते समाधिः, तदनुभवसामर्थ्यसमुत्थापितं विकल्पद्वयमित्यनवद्यमेव अपापमेव, किन्त्विदमवद्यम् - न तद्द्द्वयनिमित्तस्वभावतामन्तरेण नेति प्रतिषेधे, तश्च तद् द्वयं च तद्वयमधिकृत विकल्पद्वयं तस्य निमित्तस्वभावता कारणस्वभावता तद्व्यनिमित्तस्वभावता ताम्, अन्तरेण विना, अस्मादर्थपरिच्छेदानुभव संस्कारात्, द्वयप्रसूतिः द्वयमिति विकल्पद्वयम् । कुतो न प्रसूतिरित्याह- हेत्वभेदेऽपि सति, फलभेदाभ्युपगमे क्रियमाणे, अभ्युपगमविरोधात् “अयमेव हि भेदो भेदहेतुर्वा भावानां यदुत विरुद्धधर्माध्यासः कारणभेदश्च” इत्यभ्युपगमात् । उपादानहेत्वभेदे सति स विरोधोऽभ्युपगमविरोधः, न च तत्सामर्थ्यमर्थ - परिच्छेदानुभवसंस्कारलक्षणम्, उपादानमस्याधिकृतंविकल्पद्वयस्य, अतोऽयं न दोष इत्यभिप्रायः । एतदाशङ्क्याह- अहेतुकं तर्ह्येतत् विकल्पद्वयम् । कुत इत्याह- सौत्रान्तिकपक्षे बाह्यार्थवादिमते, तदपरस्य यथोदितसामर्थ्यातिरिक्तस्य, अभावात् कारणात् । वासनादि तदित्याशकापोहायाह — तस्यैव वासनादित्वात् न ह्यधिकृत सामर्थ्यातिरिक्तमन्यद् वासनादि, अनभ्युपगमात् । योगाचारपक्षे त्वालयमधिकृत्योपरिष्टाद् वक्ष्यामः । न चेत्यादि । न च तत्त्वतस्तन्नीतौ सामान्येनैव, उपादानेतरहेत्वोर्नाममात्रकल्पितयोः, भेदसिद्धिः । कुत इत्याह- हेतुलक्षणाविशेषात् सामान्येन, विशिष्टलक्षणायोगाश्च द्वयोरपि ॥
अनेकान्तजयपताका
न चासाधारणादिहेतुतया तत्सिद्धिः, आद्यस्यासंभवात्, एकस्यैवानेककार्यकृत्त्वात् सर्वबुद्धैईप्तेः, अन्यथा तदतत्वप्रसङ्गः । स्वभावभेदमन्तरेण चाधिकृतसामर्थ्यस्यापि तदुभयनिमित्तत्वानुपपत्तेस्तदेकत्वापत्तिः । तथाहि - येन स्वभावेन तदेकस्य
Page #59
--------------------------------------------------------------------------
________________
स्वोपज्ञटीकासहिता ।
निमित्तं तेनैवापरस्येति तद्वत् तदितरस्यापि तत्त्वम्, तत्तत्त्वान्यथाऽयोगात्, तदुभयनिमित्तत्वैकभावत्वे चित्रतया तद्भेदसिद्धेः, इति भावाभावात्मकवस्तुप्रभवमेव तद्विकल्पद्वयम्, पारम्पर्येण तन्निमित्तत्वात्, अतोऽत्यन्तसूक्ष्मधियः किं नास्थामनोरथं पूरयतीति वाच्यम् ॥
?
न चेत्यादि । न चासाधारणादिहेतुतया असाधारण उपादानहेतुः साधारणस्त्वितर इत्येवंभूतया, तत्सिद्धिरुपादानेतरहेत्वोर्भेदसिद्धिः । कुत इत्याह- आद्यस्य असाधारणस्य हेतोः, असंभवात् । कथमसंभव इत्याह- एकस्यैवेत्यादि । एकस्यैव वस्तुनः, अनेककार्यकृत्त्वात् अनेककार्यकरणशीलत्वात् । एतदेवाह - सर्वबुद्धैः सर्वज्ञैः, ज्ञतेरेकस्य । इत्थं चैतदङ्गीकर्तव्यमित्याह — अन्यथेत्यादि । अन्यथैवमनभ्युपगमे, तदतत्त्वप्रसङ्गस्तेषां बुद्धानामबुद्धत्वप्रसङ्गः, तदेकापरिज्ञाने तत्सत्वाभावादित्यर्थः । प्रकृतमेवाधिकृत्याह- स्वभावेत्यादि । स्वभावभेदमन्तरेण चाऽधिकृतसामर्थ्यस्याऽप्युपन्यस्तविकल्पद्वयनिमितस्य तदुभयनिमित्तत्वानुपपत्तेः तच्च तद् उभयं च तदुभयं प्रक्रान्तविकल्पोभयं तत्कारणत्वानुपपत्तेः कारणात् । किमित्याह - तदेकत्वापत्तिः तस्य प्रक्रान्तविकल्पोभयस्यैकत्वापत्तिः । एतदेव भावयतितथाहीत्यादिना । तथाहीत्युपप्रदर्शने, येन स्वभावेन तदधिकृतसामर्थ्यम्, एकस्य निमित्तं प्रक्रमात् विकल्पस्य, तेनैव स्वभावेन, अपरस्य विकल्पस्य इत्येवम्, तद्वदेकविकल्पवत्, तदितरस्याऽप्यपर विकल्पस्यापि, तत्त्वमेक विकल्पत्वम् । कुत इत्याह- तत्तत्त्वान्यथायोगात् तस्याधिकृतसामर्थ्य स्वभावस्य तत्त्वं येनैव तेनैवेत्यनेन प्रकारेणैकत्वं ततत्त्वं तदन्यथायोगात्, न हि तदेवाऽकुर्वतस्तत्तत्त्वमिति भावनीयम् । दुभयनिमित्तत्वैकस्वभावत्वेऽस्याऽदोष इति विभ्रमव्यपोहायाहदुभयेत्यादि । तदुभयनिमित्तत्वमंधिकृत विकल्पोभयनिमित्तत्वमेको भावः स्वभावो यस्याधिकृतसामर्थ्यस्य तत्तदुभयनिमित्तत्वभावं तद्भावस्तस्मिन् सति, चित्रतया कारणेन, न ह्यनेकगर्भमेकम
"
६७
Page #60
--------------------------------------------------------------------------
________________
६८
चित्रं नामेत्यर्थः, तद्भेदसिद्धेः प्रक्रमादधिकृतसामर्थ्यस्य स्वभावभेदसिद्धेः, इत्येवमुक्तनीत्या, भावाभावात्मकवस्तुप्रभवमेव तदधिकृतविकल्पद्वयम् । कुत इत्याह-पारम्पर्येण तन्निमित्तत्वात् तदुद्भवाद् निर्विकल्पकादुत्पत्तेरिति, न हि शुक्लवस्तुप्रभवादविकल्पाच्छुक्कुपीतविकल्पद्वयप्रभव इत्यालोचनीयम् । अत इत्यादि । अतोऽस्मात् कारणात् अत्यन्तसूक्ष्मधिय इत्थमालोचकस्य, किं नास्थामनोरथं पूरयतीति वाच्यं पूरयत्येवेत्यर्थः ॥
अनेकान्तजयपताका
यदपि चोक्तम् यतो भावस्य कृत्यक्रियासूपरतव्यापारतयाऽभावत्वमितिः एतदपि न नो बाधायै, पररूपेणार्थक्रियाडकरणात्, तद्रूपस्य च तत्राऽभावात् । ततश्च यद्यसावपि कार्यक्रियासु कक्षां बनीयात् को भावादभावस्य भवता विशेषो दर्शितः स्यादित्येतदप्यत्राऽनवकाशमेव, तथा कार्यक्रिया करणादिति । अतो व्युपरतेऽप्यक्षव्यापारेऽर्थ परिच्छेदानुभव संस्कारमसूतो नास्तिताविकल्पस्तत्प्रसूतत्वादेव कथं स्वातन्त्र्यं परिहरति ? इति चिन्तनीयम्, अन्यथाभूतेऽर्थे तथापरिच्छेदानुभवसंस्कारानुपपत्तेः, अतथाभूताच्च ततो न नास्तिताविकल्पप्रसूतिरिति भावनीयम् । एतेन यदि प्रत्यक्षं प्रमाणं पदार्थमात्रा - स्वेव लब्धप्रतिष्ठं तासामेवावगमो युक्तस्तत्र व्यापारसम्भवात् अव्यापारेऽपि परिच्छेदे रूपप्रवृत्तेऽपि रसावसायोऽशक्यपरिहारः संपद्येतेति यदुच्यते परैः, तदपि प्रतिक्षिप्तमिति, पदार्थमात्राणामेवोक्तवद्भावाभावात्मकत्वात्, अन्यथा तन्मात्रतानुपपत्तेः, इतरेतराभावात्मकत्वे तत्तद्भावसिद्धेः ॥
यदपि चोक्तं पूर्वपक्षे, यतोऽभावस्य कृत्य क्रियासूपरतव्यापारतयाऽभावत्वमिति । एतदपि न नः नास्माकम्, बाधायै । कुत इत्याहपररूपेणाऽर्थक्रिया करणात्, तद्रूपस्य च पररूपस्य च तत्र वस्तुनि, अभावात् । ततश्च यद्यसावपि कार्यक्रियासु कक्षां बनीयात् को भावादभावस्य भवता विशेषो दर्शितः स्यादित्येतदप्यत्रोदितपक्षे, अन
Page #61
--------------------------------------------------------------------------
________________
स्वोपज्ञटीकासहिता।
काशमेव । कुत इत्याह- तथा तेन पररूपभावप्रकारेण, कार्यक्रियाऽरणादिति । अतो व्युपरतेऽप्यक्षव्यापारे परनीत्याऽपि, अर्थपरिच्छेबानुभवसंस्कारप्रसूतो नास्तिताविकल्पस्तत्प्रसूतत्वादेवार्थपरिच्छेदानु
संस्कारप्रसूतत्वादेव, कथं स्वातन्त्र्यं परिहरति भावमात्रवस्त्वनुभवभारतन्त्र्यासिद्धेः, इति चिन्तनीयम् । एतदेव भावयति-अन्यथाभूतेऽर्थे बाबमात्रे, तथा उभयविकल्पजनकत्वेन, परिच्छेदानुभवसंस्कारानुपपत्तेः कारणात् , अतथाभूताच ततस्तथापरिच्छेदानुभवसंस्कारात् , न वास्तिताविकल्पप्रसूतिः, न हि शुक्लपरिच्छेदानुभवसंस्कारात् पीतकल्पप्रसूतिरिति भावनीयम् । एतेनेत्यादि । एतेनाऽनन्तरोदिन न्यायेन, यदि प्रत्यक्षं प्रमाणं पदार्थमात्रास्वेव स्वलक्षणरूपासु, लब्धइतिष्ठं वर्तते, ततस्तासामेव पदार्थमात्राणाम् , अवगमो युक्तः।कुत इत्याहतत्रेत्यादि । तत्र तासु पदार्थमात्रासु, व्यापारसंभवात् प्रत्यक्षस्य, अव्यापारेऽपि न विद्यते व्यापारो यस्मिन् प्रक्रमात् प्रत्यक्षस्य तदव्यापारं विषयान्तरमभावादि तस्मिन्नपि तद्विषयेऽपि, परिच्छेदेऽभ्युपगन्यमाने सामर्थ्यात् प्रत्यक्षस्यैव । किमित्याह- रूपप्रवृत्तेऽपि परिच्छेकत्वेन प्रत्यक्षे, रसावसायो रसपरिच्छेदः । किमित्याह- अशक्यपरिहारः संपद्येत अव्यापारेऽपि विषये तत्परिच्छेदसिद्धेरित्यभिप्रायः, स्पेतद् यदुच्यते परैः स्याद्वादभङ्गादौ दिवाकरादिभिः, तदपि प्रतिविप्तं निराकृतमेवेति । कुत इत्याह- पदार्थमात्राणामेवोक्तवद्भावाभावात्मकत्वात् कारणात् । इत्थं चैतदङ्गीकर्तव्यमित्याह- अन्यथा
मात्रतानुपपत्तेः पदार्थमात्रतानुपपत्तेः । कथमित्याह- इतरेत्याहै। इतरेतराभावात्मकत्वे सति, तत्तद्भावसिद्धेः पदार्थमात्राणां पदामनभावसिद्धेः, अन्यथा तत्सांकर्यमनिवारणीयमित्यर्थः ।। व, ततश्च प्रत्यक्ष प्रमाणं पदार्थमात्रास्वेव लब्धप्रतिष्ठं तासामेगमो युक्तस्तत्र व्यापारसम्भवादित्यत्राविसंवाद एव, किन्तु स्थितानामवगमे कथमेकरूपताऽवगमस्य ? इति चिन्त। अभावे व्यापाराभावादिति चेत् । न, भावानुविद्धत्वेन
Page #62
--------------------------------------------------------------------------
________________
अनेकान्तजयपताका
तस्य व्यापाराभावासिद्धः, यथावस्थितार्थप्रकाशनस्वभावत्वात् , तासां च तथाऽवस्थितत्वात् । अन्यथा तद्ग्रहणायोगात् । एवं चाव्यापारेऽपि परिच्छेदे रूपप्रवृत्तेऽपि रसावसायोऽशक्यपरिहारः संपद्यतेत्येतदुक्तिमात्रम् , अभिमतविषये व्यापारस्य दर्शितत्वात् । न चैवमनभिमते रसादावसौ, तस्य तत्प्रकाशखभावत्वासिद्धेः, इति न तत्र रसावसायापत्तिरेव, कुतोऽस्याशक्यपरिहारता? इति । अतो भावमात्रस्यैवाभावत्वानुपपत्तेः, लोकानुभवयुक्तिविरोधात् , अन्यविवेकविशिष्टतायाश्च परपक्षे. ऽयोगात् , तुच्छत्वेन तस्य तेन संबन्धानुपपत्तेः, तादात्म्यतदुत्पत्त्यभावात् , विवेकस्य वस्तुताशक्त, अप्रतिबद्धस्य च विशेषणत्वायोगात् , अतिप्रसङ्गात् , उभयरूपमेव तदिति प्रतिपत्तव्यम् , अन्यथा तदनुपपत्तेरिति ॥
ततश्चेत्यादि । ततश्चैवं च सति, प्रत्यक्षं प्रमाणं पदार्थमात्रा स्वेव लब्धप्रतिष्ठं तासामेवावगमो युक्तस्तत्र व्यापारसंभवादित्यत्रा ऽविसंवाद एव वस्तुस्थित्याऽऽवयोः, किन्तु यथावस्थितानां पदार्थमात्रा णाम् , अवगमे कथमेकरूपताऽवगमस्योभयरूपत्वात् तासाम्, इदि चिन्तनीयमेतत् । पराभिप्रायमाह- अभावे व्यापाराभावादिदि चेत्, एकस्वरूपलाऽवगमस्य । इत्येतदाशङ्क्याह- नेत्यादि । न नैत देवम् , भावानुविद्धत्वेन हेतुना, तस्याऽभावस्य, व्यापाराभावासिद्धेस्त त्रावगमस्येति । असिद्धिमेवाह-तथावस्थितार्थप्रकाशनस्वभावत्वा अवगमस्येति प्रक्रमः, तासां च पदार्थमात्राणां, तथोभयरूपतयाऽवं स्थितत्वात् । इत्थञ्चैतदङ्गीकर्तव्यमित्याह-अन्यथा उभयरूपतानभ्यु पगमे, तद्ग्रहणायोगात् पदार्थमात्राणां ग्रहणायोगात्, भावमात्रतये। भावः । एवं च सति अव्यापारेऽपि परिच्छेदे रूपप्रवृत्तेऽपि रसावसायों ऽशक्यपरिहारः संपद्यतेत्येतत् पूर्वपक्षोदितम् , उक्तिमात्रं निरर्थकम्। कुन इत्याह- अभिमतविषये अभावाख्ये, व्यापारस्यावगमसंबन्धिना दर्शितत्वात् । न चैवमित्यादि । न चैवमभाववत्, अनभिमते रसाई
Page #63
--------------------------------------------------------------------------
________________
स्वोपज्ञटीकासहिता।
नये, असाववगमव्यापारः। कुत इत्याह- तस्येत्यादि । तस्य प्रक्रमाद् नावगमस्य, तत्प्रकाशनस्वभावत्वासिद्धेः रसप्रकाशनस्वभावत्वासिज, इत्येवम्, न तत्र रसावसायापत्तिरेवातत्स्वभावतया; कुतोऽस्य वसायस्य, अशक्यपरिहारतेति नैवेत्यर्थः । अत इत्यादि । अतः तमेतदुभयरूपमेव तदिति प्रतिपत्तव्यमिति योगः । हेतूनाहभावमात्रस्यैव अभावाविशिष्टस्य, अभावत्वानुपपत्तेः; अनुपपत्तिश्च कानुभवयुक्तिविरोधात् , भावस्य ह्यभावत्वे लोकादिविरोधः कटः । अन्यविवेकविशिष्टो भावोऽभाव इति मोहापोहायाह-अन्य
कविशिष्टतायाश्च भावगतायाः, परपक्षेऽयोगात् । अयोगे कारमाह-तुच्छत्वेन तस्याऽन्यविवेकामावस्य, तेन भावेन सह, संबन्धाआपत्तेः; अनुपपत्तिश्च तादात्म्यतदुत्पत्त्यभावाद् भावविवेकयोरिति । व युक्तिमाह-विवेकस्य वस्तुताशक्त प्रतिबन्धासिद्ध्यैव । अप्रतिएवायं विशेषणं भविष्यतीत्याशङ्कानिरासार्थमाह-अप्रतिबद्धस्य च विवेकस्य, विशेषणत्वायोगाद् भावं प्रति; अयोगश्चातिप्रसद यस्य कस्यचिद् विशेषणत्वापत्तेः । अत उभयरूपमेव भावाभारूपतया, तद् वस्तु, इत्येवम् , प्रतिपत्तव्यम् । अन्यथैवमनभ्युपगमे, नुपपत्तेर्वस्त्वनुपपत्तेरिति ॥ - आह-एवमप्यस्तिनास्तीतिविकल्पौ स्वस्वरूपनियतौ न येते, तत्त्वतः शबलवस्तुबलोत्पत्तेरिति । उच्यते- को वा माह ?, किन्तु नेमौ स्वस्वरूपनियतावेव, क्षयोपशमभेदात्, मानोपसर्जनभावत इतरेतराक्षेपेण प्रवृत्तेरिति । उक्तं च"अयमस्तीति यो ह्येष भावे भवति निश्चयः ।
नैष वस्त्वन्तराभावसंवित्त्यनुगमादृते ॥१॥ । नास्तीत्यपि न संवित्तिर्न वस्त्वनुगमं विना ।
ज्ञानं न जायते किश्चिदुपष्टम्भनवर्जितम्" ॥२॥ इति ।
Page #64
--------------------------------------------------------------------------
________________
अनेकान्तजयपताका
- एतेन यौगपद्यमपि प्रत्युक्तम् , क्षयोपशमवैचित्र्यादिति ॥ — आहेत्यादि। आहैवमप्यस्तिनास्तीतिविकल्पौ यथोदितौ, स्वस्वरूपनियतौ प्रत्येकरूपतया, न युज्यते । कुत इत्याह- तत्त्वतः परमार्थेन, शबलवस्तुबलोत्पत्तेः सदसद्रूपवस्तुसामोत्पत्तेद्वयोरपीति । उच्यते अत्र समाधिः, को वा किमाह इत्थमेवैतत् , किन्तु नेमी अस्तिनास्तीतिविकल्पो, स्वस्वरूपनियतावेवैकान्ततः प्रत्येकरूपतया । कुत इत्याहक्षयोपशमभेदाद् द्रव्यादिनिमित्तात्, प्रधानोपसर्जनभावतः इतरेतराक्षेपेणाऽस्तित्वाद्यपेक्षया प्रवृत्तेस्तयोरिति । उक्तं चान्यैरपि, अयमस्तीत्येवम् , यो ह्येष भावे सत्तारूपे, भवति निश्चयस्तदुत्थः, नैष भवति, वस्त्वन्तराभावसंवित्त्यनुगमादृते तत्तदभावसंवित्पूर्वक इत्यर्थः । नास्तीत्यपि च संवित्तिर्न वस्त्वनुगमं विना तुच्छाऽसदाश्रयैव, एवं विज्ञानं न जायते, किंचिदुपष्टम्भनर्जितं निरालम्बनमिति । एतेनेत्यादि । एतेन तत्त्वतः क्षयोपशमभेदनिबन्धनगर्भेणाऽनन्तरोदितपरिहारेण, यौगपद्यमप्यनन्तरोदितविकल्पयोः, अपिशब्दादेकत्वमपि निमित्ताभेदद्वाराऽऽयातम् , प्रत्युक्तं निराकृतम् । कुत इत्याहक्षयोपशमवैचित्र्यात् स ह्यनेकधर्मात्मके वस्तुनि कस्यचित् कश्चिद् यस्तथा प्राथम्यादिभेदेन तद्धेतुरिति ॥
यच्चोक्तम्- न च कार्यद्वारेणापि सदसद्रूपं वस्तु प्रतिपत्तुं शक्यते, यतो नोभयरूपं कार्यमुपलभ्यत इत्यादि । एतदप्यनवकाशम् , वस्तुस्थित्योभयरूपस्योपलम्भस्य साधितत्वात् । न च तत् कार्यकरणे प्रवर्तमानं केनचिदाकारण करोति, केनचिद् न करोति, एकस्य करणाकरणविरोधादित्याद्यप्यसारम् , विरोधासिद्धेः । तथाहि- पर्यायात्मना करोति, द्रव्यात्मना न करोतीति कुत एकस्य करणाकरणविरोधः? इति । अथवा स्वकार्यकर्तृत्वेन करोति, कार्यान्तराकर्तृत्वेन न करोति, अतः केनचिदाकारेण करोति, केनचिद् न करोतीति कोऽत्र विरोधः ॥
Page #65
--------------------------------------------------------------------------
________________
स्वोपज्ञटीकासहिता.। यञ्चोक्तमित्यादि । यच्चोक्तं मूलपूर्वपक्षे, न च तत्कार्यद्वारेणाऽपि सदसद्रूपं वस्तु प्रतिपत्तुं शक्यते, यतो नोभयरूपं कार्यमुपलभ्यत इत्यादि । एतदप्यनवकाशम् । कुत इत्याह- वस्तुस्थित्योभयरूपस्योपल
भस्य साधितत्वात् अनन्तरमेव । न च तत्कार्यकरणे प्रवर्तमान केनचिद कारेण करोति, केनचिद् न करोति, एकत्र करणाकरणविरोधादित्याद्यपि मूलपूर्वपक्षोक्तमेव, असारम् । कुत इत्यांह-विरोधासिद्धेः। एनामेव दर्शयति- तथाहीत्यादिना । तथाहि पर्यायात्मना करोति नैमित्तिकेन रूपेण तथापरिणतः, द्रव्यात्मना न करोति मृदादिरूपेण तथाऽपरिणतेः, इति कुत एकस्य करणाकरणविरोध इति नैव, एतत्तावत् कार्यमधिकृत्योक्तम्। अधुना कारणमधिकृत्याह- अथवा स्वकार्यकर्तृत्वेन करोति, कार्यान्तराकर्तृत्वेन न करोति,अतः केनचिदाकारेण करोति केनचिद् न करोतीति कोऽत्र विरोधः? म. कश्चिदित्यर्थः ॥ -- न च खकार्यकर्तृत्वमेव कार्यान्तराकर्तृत्वम् । यदि स्याद् यथा स्वकार्य करोति; एवं कार्यान्तरमपि कुर्यात् , कर्तृत्वानन्यत्वादकर्तृत्वस्य, विपर्ययो वा, ततश्चाऽकारणत्वमिति । स्यादेतत् , किं हि नाम कार्यान्तराकर्तृत्वमन्यत् ? यदाश्रित्याऽनन्यत्वयुक्त्यनुसारेणाऽकारणत्वं प्रतिपाद्यते, किन्तु स्वकार्यकर्तृत्वमेवैकखभावं कार्यान्तराकर्तृत्वमिति । हन्त ! तर्हि येनैव विभावेन करोति, तेनैव न करोतीत्येतदापन्नम् , एवं चाभिन्ननिमित्तत्वे सत्येकत्र कर्तृत्वाकर्तृत्वयोर्विरोध इति, तथाहिलेनैव स्वभावेन करोति, न करोति चेति व्याहतमेतत् । ए
स्वभावस्यैकत्रैवोपयोगात् । कार्यान्तराकर्तृत्वं तत्र परिकपितमिति चेत् । एतदप्यमनोहरम् , कुतः?-कार्यान्तराकर्तृत्वस्य नेत्र परिकल्पितत्वाद् वस्तुतोऽसत्त्वात् तद्भावापत्त्या कार्यान्तरभावप्रसङ्गात्।।
न च स्वकार्यकर्तृत्वमेवैकरूपं कार्यान्तराकर्तृत्वम् । कथमित्याह
१०
Page #66
--------------------------------------------------------------------------
________________
अनेकान्तजयपताका
यदि स्यात् एतदेकमेव । ततः किमित्याह- यथा स्वकार्य करोति तत्, एवं कार्यान्तरमपि कुर्यात् । कस्मादित्याह- कर्तृत्वानन्यत्वादकर्तृत्वस्य नान्यथाऽनन्यत्वमिति भावितमेतत्। विपर्ययो वा-यथा कार्यान्तरं न करोति एवं स्वकार्यमपि न कुर्यात्, अकर्तृत्वानन्यत्वात् कर्तृत्वस्येति भावः । ततश्चैवमनेन प्रकारेणाऽकारणत्वमिति, कुर्वतः कारणत्वयोगात् । स्यादेतत् किं हि नाम कार्यान्तराकर्तृत्व; मन्यत् स्वकार्यकर्तृत्वात्, यदाश्रित्याऽनन्यत्वयुक्त्यनुसारेणोक्तलक्षणेन, अकारणत्वं प्रतिपाद्यतेऽधिकृतकारणस्य, नैव किश्चिदन्यत् किन्तु स्वकार्यकर्तृत्वमेवैकस्वभावं कार्यान्तराकर्तृत्वमित्येवं च तदेकमे: वेत्यभिप्रायः । एतदाशङ्क्याह- हन्त ! तर्हि येनैव स्वभावेन करोति तेनैव न करोतीत्येतदापनम् , अर्थतः, एवं चाभिन्ननिमित्तत्वे सत्येकत्र कर्तृत्वाकर्तृत्वयोर्विरोध इति । एतद्भावनायैवाह- तथाहि तेनैव स्वभावेन करोति न करोति चेति व्याहतमेतत् । कुत इत्याह-एक स्वभावस्यैकत्रैवोपयोगाद् अन्यथा सर्वथैकत्वायोगः । कार्यान्तराकर्तृत्वं तत्र कारणे परिकल्पितमिति चेत्, एतदप्यमनोहरम् । कुतइत्याह- कार्यान्तराकर्तृत्वस्य तत्र कारणे, परिकल्पितत्वात् का रणात् , अत एव वस्तुतोऽसत्त्वादविद्यमानत्वात् कार्यान्तराकर्तृत्व स्य तद्भावापत्या कार्यान्तरकर्तृत्वभावापत्त्या । किमित्याह- कार्या न्तरभावप्रसङ्गात् न हि तद्भावमन्तरेण तदभाव इति भावना ॥ - अथाऽऽशङ्का-स्वकार्यकर्तृत्वव्यतिरिक्त कार्यान्तराकर्तृत्वं परि. कल्पितं स्वकार्यकर्तृत्वमेव पुनः कार्यान्तराकर्तृत्वस्वभावमभ्युपगम्यत इति । एषाऽप्ययुक्तां, दत्तोत्तरत्वात् , तथाहि-येनैव स्वभावेन करोति तेनैव न करोतीत्येतदापनमित्यादि तदेवावर्तते । अनेनैव सर्वात्मनाच करणे तद्भावरूपमेव स्यादित्यादि प्रतिक्षि तम् , अभावस्य वस्तुधर्मत्वात्, कथञ्चिदव्यतिरेकात् कार्यान्त राकारणत्वादिति । तस्माद् व्यवस्थितमेतत् सदसद्रूपं वस्तु । तथा चोक्तम्
Page #67
--------------------------------------------------------------------------
________________
वोपज्ञटीकासहिता। "यस्मात् प्रत्यक्षसंवेद्यं कार्यतोऽप्यवगम्यते । तस्मादवश्यमेष्टव्यं वस्त्वेकमुभयात्मकम् " ॥१॥ इति । अथाशङ्का परस्य, स्वकार्यकर्तृत्वव्यतिरिक्त कार्यान्तराकर्तृत्वं कल्पितं स्वकार्यकर्तृत्वमेव पुनः कार्यान्तराकर्तृत्वस्वभावमभ्युपग
इति । एतदाशङ्क्याह-एषाऽप्ययुक्ता आशङ्का । कुत इत्याहजोत्तरत्वात् । एतदेव भावयति-तथाहीत्यादिना। तथाहि येस्वभावेन करोति तेनैव न करोतीत्येतदापन्नमित्यादि पूर्वोक्तम् , वाऽऽवर्तते । अनेनैवोक्तन्यायेन, सर्वात्मना च करणे तद्भावरूपमेव जादित्येतत् प्रतिक्षिप्तम् , अभावस्य वस्तुधर्मत्वात् , न ह्यसति चेतनाअणुश्चेतनास्वभावो नामेत्यनेन प्रकारेण, अत एव कथञ्चिव्यतिकात् भावादभावस्य, कार्यान्तराकारणत्वादिति, यस्मादेवं तत् , तस्माद्
स्थितमेतत् सदसद्रूपं वस्तु। तथा चोक्तमिति ज्ञापकमाह-यस्मात् वक्षसंवेद्यमुक्तवत् , कार्यतोऽप्यवगम्यत उक्तनीतेः , तस्मादवश्यएन्यं न्यायविदा, वस्त्वेकमुभयात्मकं सदसद्रूपमिति ।।
अपरस्त्वाह--ननु च वस्तुनः स्वरूपेण सत्त्वं पररूपेण सत्त्वमित्येतदिष्यत एवेति सिद्धसाध्यता । एतदप्ययुक्तम्, समतविरोधात् । तथाहि-एवमिच्छता वस्तुन एव सत्त्वमसत्त्वं
धर्मावित्येष्टव्यम्, वक्तव्यं च धर्मर्मिणोरन्यत्वम्, अनन्यत्वम् , अन्यानन्यत्वं वेति । किश्चाऽतः?, यद्यन्यत्वम् , अवस्तुत्वादिप्रसङ्गः । कथम् ?, इह च वस्तु धर्मव्यतिरिक्तं, तच्च स्वरूपेण सत् पररूपेण चासदित्यभ्युपगमाद् धर्माणां च परत्वान् तद्रूपेणाऽसत्वादवस्तुत्वप्रसङ्गः ॥
अन्यस्त्वाह वैशेषिकः, ननु च वस्तुनो घटादेः, स्वरूपेण सत्त्वं पररूपेण चाऽसत्त्वमित्येतदिष्यत एव, इत्येवम् , सिद्धसाध्यतोभयात्मकमिति । एतदाशङ्कयाह-एतदप्ययुक्तं, स्वमतविरोधात् । एनमेवाह-तथाहीत्यादिना । तथाहीत्युपप्रदर्शने, एवमिच्छता यथोदितं वस्तुन एव सत्त्वमसत्त्वं च धर्मावित्येष्टव्यं परेण । वक्तव्यं च
Page #68
--------------------------------------------------------------------------
________________
अनेकान्तजयपताका
धर्मर्मिणोरन्यत्वमनन्यत्वमन्यानन्यत्वं चेति विकल्पाः, किश्चातः यद्यन्यत्वं धर्मर्मिणोः, अवस्तुत्वादिप्रसङ्गः, तयोरेवादिशब्दाद् धर्म धर्मिप्राप्तिपरिग्रहः । कथमित्याह-इह च वस्तु धर्मव्यतिरिक्तं, तच स्वरूपेण सत् पररूपेण चासदित्यभ्युपगमात् कारणात् , तथं धर्माणां च परत्वात् , तद्रूपेण सदादिना धर्मरूपेण, असत्वाद् हेतोष अवस्तुत्वप्रसङ्गः ॥
न च तद् न प्रक्रान्तधर्मव्यतिरिक्तमपि स्वरूपेण सत् पर रूपेण चासत्, अत्यन्ताभावप्रसङ्गात् , इत्युक्तदोषापत्तिरेव । ना पत्तिः, तस्य यथोदितत्वानुपपत्तेः । अथ कीदृक् तत् , इति कथ नीयम् । अव्यपदेशाहमिति चेत् । न, स्ववचनविरोधात अधिकृतव्यपदेशेन व्यपदेशात्, अन्यथाऽव्यपदेशाहमिति । ब्दाप्रवृत्तेः। सच्छब्दादिव्यपदेशाई न भवतीति चेत् । किम थूणम् ? इति वाच्यम् । यतो न तत्सद् नाऽप्यसदिति चेत् । सब सत् तर्हि नियमतः। एतदपि नैव तत्त्वत इति चेत् । किं तदन्यत् अतोऽतिरिक्तम् । तथाविधबुद्धिग्राह्यमिति चेत् । तत्रापि बुद्धि रिति न्यायातीतमेतत् , तथाहि-तन्न सद्, नाऽसद्, न सदस बुद्धिगोचरश्चेत्यद्भुतमेतत् । स्वकार्यसत्त्वाभ्युपगमे च व्यर्थाऽप रयोगकल्पना, नियतरूपादितया च स्वपररूपसत्त्वासत्त्वदोष ऽनिवारितप्रसर एव; इति यत्किञ्चिदेतत् ॥ .. अत्रैव भावनां कुर्वन्नाह-न चेत्यादि । न च तद् वस्तु, न प्रक्रान्त धर्मव्यतिरिक्तमपि मौलधर्मव्यतिरिक्तमपि, स्वरूपेण सत् पररूपेण चार त्। न च न कस्मात् ?, अत्यन्ताभावप्रसङ्गात् । यदि नैवंरूपम् , खरविषा तर्हि तत्, इति भावना, इत्येवम् , उक्तदोषापत्तिरेव स्वरूपेणाप्यसत्त्वाद स्तुत्वादित्यभिप्रायः । अत्राह-नापत्तिरनन्तरोदिता । कुत इत्याह-तस मूलधर्मव्यतिरिक्तस्य वस्तुनः, यथोदितत्वानुपपत्तेः स्वरूपेण सत् पर पेण चासदिति यथोदितं तदनुपपत्तेः, मूलधर्मव्यतिरिक्तं वस्तु नैवेष्या इत्यर्थः । अत्रोत्तरम्--अथ कीदृक् तद् वस्त्वित्येतत् कथनीयम् । अन्य
Page #69
--------------------------------------------------------------------------
________________
स्वोपज्ञटीकासहिता। शाहमिति चेत् । अत्रोत्तरम् न, स्ववचनविरोधात् । एनमेवाहपिकतव्यपदेशेन अव्यपदेशाहमित्यनेन, व्यपदेशात् । इत्थं चैतदकर्तव्यमित्याह- अन्यथाऽव्यपदेशाहमित्येवम् , शब्दाप्रवृत्तेः । सदादिव्यपदेशाह न भवतीति चेत् । अत्रोत्तरम्-किमत्र क्षणं सच्छब्दादिव्यपदेशाई न भवयेतद्वाच्यम् । यतो न तद्वस्तु, सन्नालिदिति चेत् क्षणम् । एतदाशङ्कयाह- सदसत्तर्हि नियमतः स्ति न च सद् नाऽप्यसत् तदित्थम्भूतमेव, एतदपि नैव तत्त्वत इति ।। यदुत सदसदिति । एतदाशङ्क्याह-किं तदन्यत् वस्तु, यतोड़रक्तं सदसतः, तथाविधबुद्धिग्राह्यमिति चेत् तथाविधा अव्यपदेश्या। शङ्क्याह-तत्रापि त्रिकोटीशून्ये, बुद्धिरिति न्यायातीतमेतत् । खाह- तथाहीत्यादिना । तथाहि तद् वस्तु, न सद् नासत् न सदत्रिकोटीशून्यम् , बुद्धिगोचरश्चेत्यद्भुतमेतत् कर्मशक्त्यभावे विषहायोगादित्यर्थः । स्वकार्यसत्त्वापेक्षया सदेव तदित्याशङ्कानिरासार्थ
स्वकार्यसत्त्वाभ्युपगमे च वस्तुनः, व्यर्थाऽपरयोगकल्पना सद्हयोगकल्पना, नियतरूपादितया च कारणेन,वस्तुधर्माणां स्वपररूप
सत्त्वदोषोऽनिवारितप्रसर एव, धर्मान्यत्वे वस्तुनस्तद्रूपेणाऽसत्। इत्येवम् , यत्किञ्चिदेतत् परोदितम् ॥
एवं धर्माणामपि वस्तुव्यतिरिक्तत्वात् स्वरूपेण सत्त्वं पेण चासत्त्वमिति धर्मान्तरप्राप्तिः, तत्राऽप्ययमेव न्याय इत्य। स्यादेतद्, न धर्माणां धर्मान्तरमिष्यते, अपि तु त एव व सन्ति पररूपेण च न सन्तीति न तद्विलक्षणे सदइति। एतदप्यसमीचीनम् , वस्तुन्यपि समानत्वात् । अङ्गीन च धर्माभावप्रसङ्गेनाऽभ्युपगमविरोधात् , तद्भावेऽपि ति संबन्धानुपपत्तेः। समवायभावात् कथमनुपपत्तिः, इति न, तस्याऽसिद्धत्वात् पदार्थान्तरत्वेन समवायिकल्प
समवायव्यतिरेकेण तत्संबन्धानुपपत्तेः, अभ्युपगमे च पयमेव वृत्तान्त इत्यनवस्था । स्वसमवायिसंबन्धकस्व
Page #70
--------------------------------------------------------------------------
________________
છ૮
अनेकान्तजयपताका
भावद्वयाङ्गीकरणे च ततस्तस्य व्यतिरिक्ततरविकल्पदोषाशनिरनिवारितप्रसरः । स इहप्रत्ययगम्य इति चेत् । न, तस्येह समवायिषु समवाय इति व्यभिचारोपलब्धेः । प्रतिनियतधार्मधर्मस्वभावस्तत्संबन्ध इति चेत् । न, तत्स्वभावस्यापि धर्मत्वाद् धर्माद्यात्मभूतत्वानुपपत्तितो वाङ्मात्रत्वात् , आत्मभूतत्वे च भेदाभ्युपगमविरोधः ॥
एवं धर्माणामपि प्रस्तुतानाम् , बस्तुव्यतिरिक्तत्वात् कारणात्, स्वरूपेण सत्त्वं पररूपेण चाऽसत्त्वमिति कृत्वा धर्मान्तरप्राप्तिः, तत्रापि धर्मान्तरे, अयमेव न्याय इत्यनिष्टा । स्यादेतद् न धर्माणां धर्मान्तर मिष्यते; अपि तु त एव धर्माः, स्वरूपेण सन्ति पररूपेण च न सन्ती. त्येवम् , न तद्विलक्षणे सदसत्त्वे, अतो न धर्माणां धर्मान्तरप्राप्तिरित्यः भिप्राय इति । एतदप्यसमीचीनमशोभनम् । कुत इत्याह- वस्तुन्यपि समानत्वात तथाहि-तदेव स्वरूपेण सत् पररूपेण चाऽसदित्यपि वक्तुं शक्यत एव । अङ्गीकरणे चास्य पक्षस्य, धर्मभावप्रसङ्गेन हेतुना अभ्युपगमविरोधात् । तद्भावेऽपि व्यतिरिक्तधर्माभावेऽपि तस्येतिसंब: न्धानुपपत्तेस्तस्य वस्तुन एते धर्मा इति संबन्धासिद्धेः, वस्त्वन्तरेण भेदाविशेषादित्यर्थः। समवायभावात् कारणात् कथमनुपपत्तिस्तस्येति संबन्धस्य, इति चेत् । एतदाशङ्क्याह- न, तस्यासिद्धत्वात् तस्येति समवायस्य | असिद्धत्वं च--पदार्थान्तरत्वेन समवायिकल्पत्वात् प्रस्तु तसमवायस्य । ततः किमित्याह- अन्यसमवायव्यतिरिकेण तत्सं. बन्धानुपपत्तेः तस्य मूलसमवायस्य समवायिभिः संबन्धानुपपत्तेः । अभ्युपगमे चान्यसमवायस्य, तत्राप्ययमेव वृत्तान्तः-- अन्यसमवायाss/ पत्तिलक्षण इत्यनवस्था, । स हि स्वसंबन्धकस्वभावः, समवायिसंबन्ध कस्वभावश्चेत्यतो न दोष इति पराभिप्रायं चेतसि निधायाहस्वसमवायीत्यादि । स्वश्च समवायात्मा, समवायिनौ च धर्मधर्म णौ, स्वसमवायिनस्तेषां संबन्धकं च तत्स्वभावद्वयं चेति विग्रह स्तस्याङ्गीकरणे चाभ्युपगमे च । किमित्याह-ततः समवायात् , तस्
Page #71
--------------------------------------------------------------------------
________________
स्वोपज्ञटीकासहिता ।
सवायिसंबन्धकस्वभावद्वयस्य
व्यतिरिक्तेतरविकल्पदोषाशनिर
"
,
सुरितप्रसरः, तथाहि-- यदि तत् ततो व्यतिरिक्तं तस्येति कः सं१। अथाव्यतिरिक्तम् एकत्वमस्याधिकृत स्वभावद्वयस्य, एकस्मात् सायादव्यतिरिक्तत्वात्, तत्स्वरूपवत्, अनेकत्वं वा समवायस्याउतस्वभावद्वयादव्यतिरिक्तत्वात्, तत्स्वरूपवदेवेति । स इहप्रत्ययइति चेत् स समवायः, इहप्रत्ययगम्यो वर्तते, यथोक्तम्--"अयुतसिनामाधार्याधारभूतानां यः संबन्ध इहप्रत्ययहेतुः समवायः, भवति समित्यविगानेन प्रत्ययः -- इह तन्तुषु पट इत्यादौ न चायमनिसदाभावादिप्रसङ्गात् न च समवायिनिमित्तः अतत्परिच्छेत्वात्, अतो यन्निमित्तोऽयं स समवायः” इति । एतदाशङ्क्याहतस्येत्यादि । न नैतदेवम्, तस्येहप्रत्ययस्य, इह समवायिषु समइत्येवं व्यभिचारोपलब्धेः तथा च भवत्यत्राऽपीह प्रत्ययः, न च परसमवायनिबन्धनः, तस्याऽभावात्, विवक्षितसमवायस्य चात्र ससयिकल्पत्वात् समवायिबुद्धयैव ग्रहणात्, तस्यैव प्रत्ययान्तरनिसत्वेऽतिप्रसङ्ग इति भावनीयमेतत् । प्रतिनियतेत्यादि । प्रतिधर्मिधर्मस्वभावः स एव धर्म तद्धर्मी तद्धर्मधर्मिस्वभावस्तव धर्मास्तद्धर्मिधर्मस्वभावा इत्येवंभूतस्तत्संबन्धः धर्मधर्मिणोः
7
"
७९
इति चेत् । एतदाशङ्क्याह — नेत्यादि । न नैतदेवम्, तत्स्वभाअपि अनन्तरोदितधर्मधर्मस्वभावस्यापि । किमित्याह — धर्मत्वात् नातू, धर्माद्यात्मभूतत्वानुपपतितः, ' अन्ये धर्मा धर्मिण: ' इत्यगमेन वाङ्मात्रत्वात्, आदिशब्दाद् धर्मिपरिग्रहः, आत्मभूतत्वे चातस्वभावस्य धर्मादेरिति प्रक्रमः । किमित्याह- भेदाभ्युपगमधः धर्मधर्मिणोर्भेद इति योऽभ्युपगमस्तद्विरोधः, धर्माणां च तरप्राप्तिरित्यस्योपलक्षणमेतत् एवमप्यभ्युपगमविरोधादिति । अथाऽनन्यत्वं तयोः, तद्व्यवस्थाऽयोगः अन्योन्यात्मकत्वेनिराकरणात् अनिराकरणेऽपि सदसत्त्वयोरेकत्वेन तद् स्वरूपेण सत्, एवं पररूपेणापि स्यादित्याद्युक्तम्,
Page #72
--------------------------------------------------------------------------
________________
अनेकान्तजयपताका
असंभविनौ च निराधारौ धर्माविति यत्किञ्चिदेतत । अथा. न्यानन्यत्वम्, अतोऽनेकान्तवादाभ्युपगमादेकान्तवादिनः स्वम तविरोधः, इत्यलं प्रसङ्गेन ॥
॥ इति प्रथमः परिच्छेदः ॥
अथेत्यादि । अथानन्यत्वं तयोर्धर्मधर्मिणोः। अत्राह-तयवस्थाs: योगः धर्मिधर्मव्यवस्थाऽयोगः । कथमित्याह- अन्योन्यात्मकत्वेन हेतुना, इतरनिराकरणाद् द्वितीयनिराकरणात् , तथाहि-- यदि धर्मि प्पोऽव्यतिरिक्ता धर्मास्ततो धर्ममात्रं ते, तदव्यतिरिक्तत्वात् , तत्व रूपवदिति न सन्त्येव धर्मा इतीतरनिराकरणम् । एवं धर्मिणोऽपि वा च्यम्-धर्माव्यतिरेकादिति धर्मधर्मिव्यवस्थाऽयोगः । अनिराकरणेऽपी तरस्य । किमित्याह-- सदसत्वयोरेकत्वेन एकधर्म्यव्यतिरेकद्वारायातेने हेतुना। किमित्याह-तद् वस्तु, यथा स्वरूपेण सदेवं पररूपेणापि स्यात सदसत्त्वयोरेकत्वादित्यर्थः, इत्याद्युक्तं प्राक् धर्माव्यतिरेकाद् धर्मिण ए वासत्त्वं भविष्यतीत्यप्याशङ्क्याह--असंभविनौ च निराधारौ धौ सदसल्लक्षणो, न स्त एवेति यत् किञ्चिदेतत् । अथाऽन्यानन्यत्वं धर्म धर्मिणोः, अतोऽनेकान्तवादाभ्युपगमात् कारणात् , एकान्तवादिन स्वमतविरोध इत्यलं प्रसङ्गेन ॥
॥ समाप्तः सदसद्रूपवस्तुवक्तव्यताऽधिकारः ।।
Page #73
--------------------------------------------------------------------------
________________
अर्हम्
अथ द्वितीयः परिच्छेदः।
यच्चोक्तम्-एतेन नित्यानित्यमपि प्रत्युक्तमवगन्तव्यं विरो. मदेचेत्यादि । तदपि न सम्यक्, प्रमाणतस्तथाऽवगमात् , तथा ह-अध्यक्षेण नित्यानित्यमेव तदवगम्यते, अन्यथा तदवगमाभावप्रसङ्गात् । तथा च-यदि तदप्रच्युतानुत्पन्नस्थिरैकस्वभावं सर्वथा नित्यमभ्युपगम्यते, एवं तर्हि तद् विज्ञानजननस्वभावं पा स्यात् , अजननस्वभावं वा ?। यद्याद्यः पक्षः, एवं सति सर्वत्र सर्वदा सर्वेषां तद्विज्ञानप्रसङ्गः, तस्यैकस्वभावत्वात् , न चैतदेवम्, कचित् कदाचित् कस्यचिदेव तद्विज्ञानभावात् । न च सर्वथैकस्वभावस्य देशादिकृतो विशेष इति कल्पना युज्यते, बद्भावेंनित्यत्वप्रसङ्गात् । सहकारिणमपेक्ष्य जनयतीति चेत् । न, एकान्तनित्यस्यापेक्षाऽयोगात् , तथाहि-सहकारिणा तस्य कश्चिद् विशेषः क्रियते, नवा, इति वाच्यम् ?। यदि क्रियते, स किमर्थान्तरभूतः, अनर्थान्तरभूतो वा ? इति। यद्यर्थान्तरभूतः, तस्य किमायातम् ? । स तस्य विशेषकारक इति चेत् । न, अनवस्थाप्रसङ्गात् , तथाहि--स विशेषस्ततो भिन्नः, अभिन्नो वा? इति तदेवावर्तत इत्यनवस्था । अथानान्तरभूतः स विद्यमानः, अविद्यमानो वा ?। यदि विद्यमानः कथं क्रियते ?, करणे वाऽनवस्थाप्रसङ्गः, सकृत्करणेऽपि विद्यमानत्वाविशेषेण भूयोभूयः करणमित्यनवस्था । अथाविद्यमानः; व्याहतमेतत्--सतोनर्थान्तरभूतोऽविद्यमानश्चेति । करणे वाऽनित्यत्वापत्तिरिति, तथाहि-तस्मिन् क्रियमाणे पदार्थ एव कृतः स्यात् , तदव्यतिरिक्तत्वात् तस्य ॥
अधिकारान्तरमधिकृत्याह- यच्चोक्तमित्यादि । यच्चोक्तं पूर्वप
११
Page #74
--------------------------------------------------------------------------
________________
८२
क्षमन्थे, एतेन नित्यानित्यमपि प्रतिक्षिप्तमवगन्तव्यं विरोधादेवेत्यादि । तदपि न सम्यक् । कुत इत्याह-- प्रमाणतस्तथाऽवगमात् तथेति नित्यानित्यप्रकारेणाऽवगमात् । एतदेव भावयति-- तथाहीत्यादिना । तथाह्यध्यक्षेण नित्यानित्यमेव तद् वस्तु, अवगम्यते; अन्यथैवमनभ्युपगमे, तदवगमाभावप्रसङ्गात् । एतद्भावनायाह-- तथा चेत्यादि । तथा च यदि तद् वस्तु, अप्रच्युतानुत्पन्न स्थिरैकस्वभावमिति पूर्ववत् अनेन प्रकारेण सर्वथा नित्यमभ्युपगम्यते, एवं तहि तद् वस्तु विज्ञानजननस्वभावं वा स्यात्, अजननस्वभावं वा ? । किंचात: ?, यद्याद्यः पक्षो विज्ञानजननस्वभावमित्ययम्, एवं सति सर्वत्र क्षेत्रे, सर्वदा काले, सर्वेषां प्रमातॄणां तद्विज्ञानप्रसङ्गोऽधिकृतवस्तुविज्ञानप्राप्तिः । कुतइत्याह-तस्यैकस्वभावत्वात् क्षेत्रादिभिर्विशेषाऽनाधानादित्यर्थः । न चैतदेवं यथोक्तम् । कुत इत्याह-- कचित् क्षेत्रे, कदाचित् काले, कस्यचिदेव प्रमातु:, तद्विज्ञानभावात् तस्मिन् वस्तुनि विज्ञानभावात् । प्रकृतमेव समर्थयते-- न चेत्यादिना । न च सर्वथैकस्वभावस्य वस्तुनः, देशादिकृतो विशेष इत्येवंभूता, कल्पना युज्यते । कुत इत्याहतद्भावे देशादिकृतविशेषभावे, अनित्यत्वप्रसङ्गाद् न हि प्राक्स्वस्वभावनिवृत्तिमन्तरेण वस्तुनो विशेषः । सहकारिणमपेक्ष्यालोकादिकं जनयतीति चेद् वस्तुविज्ञानमिति । अत्राह - न, एकान्तनित्यस्य वस्तुनः, अपेक्षाऽयोगादेकरूपतयेति भावः । एतद्भावनायैवाह - तथाही - त्यादि । तथाहि सहकारिणा तस्य वस्तुनः, कश्चिद् विशेषः क्रियते, नवेति वाच्यम् । उभयथापि दोषमाह - यदि क्रियते, स किमर्थान्तरभूतोऽनर्थान्तरभूत इति । अत्राप्युभयथापि दोषमाह - यद्यर्थान्तरभूतस्तस्य किमायातं वस्तुनः, तत् तदवस्थमेवेत्यर्थः । स विशेषोऽर्थान्तरभूतः, तस्य वस्तुनः, विशेषकारक इति चेत् । एतदाशङ्कयाहन, अनवस्थाप्रसङ्गात् । एनमेवाह - तथाहीत्यादिना । तथाहि स विशेषो मूलविशेषकृतः, ततो वस्तुनः, भिन्नोऽभिन्नो वा तदेवावर्तत - इत्येवमनेन प्रकारेण, अनवस्था चक्रकानिवृत्तेरिति । अथानर्थान्तरभूतः
अनेकान्तजयपताका
Page #75
--------------------------------------------------------------------------
________________
स्वोपज्ञटीका सहिता । .
८३
परिणा क्रियते विशेषो वस्तुन: । अत्रापि विकल्पयुगलमाह - विद्यमानोऽविद्यमानो वा । इहापि दोषमाह - यदि विद्यमानः क्रियते करणे वाऽनवस्थाप्रसङ्गः । कथमित्याह - सकृत् एककरणेऽपि विद्यमानत्वाविशेषेण हेतुना, भूयोभूयः पुनः पुनः, करणनिवस्था । अथाविद्यमानः क्रियते । अत्राह - व्याहतमेतत् सतो मानस्य वस्तुनः, अनर्थान्तरभूतोऽविद्यमानश्च विद्यमानाऽव्यक्तो हि विद्यमान एवेति कृत्वा । करणे वाऽव्यतिरिक्तस्याविद्य
.:
अनित्यत्वापत्तिः; वस्तुन इति प्रक्रमः । एतदेव भावयतिपीत्यादिना । तथाहि तस्मिन्नव्यतिरिक्तेऽविद्यमाने विशेषे, क्रिपदार्थ एव कृतः स्यात् तद्व्यतिरिक्तत्वात् तस्य विशेषस्य || अथ मा भूदयं दोषः न क्रियत इत्याश्रीयते । न तर्हि सः
,
सहकारी, अकिञ्चित्करत्वात्, अकिञ्चित्करत्वेऽपि अरित्वेऽतिप्रसङ्गः, तथाहि यदि कञ्चन विशेषमकुर्वन्नपि उदय सहकार्यभ्युपगम्यते, सर्वभावानामेव तत्सहकारित्वॐ तद्विशेषाकरणेनाविशेषात् इति व्यर्था सहकारिक।। अथोच्यते- एवंभूत एव तस्य वस्तुनः स्वभावो येन, साकारकमपि प्रतिनियतमेव सहकारिणमपेक्ष्य कार्य सतीति । एतदपि मनोरथमात्रम्, विकल्पानुपपत्तेः तद्धि भीष्ट सहकारिसन्निधौ कार्य जनयति तदाऽस्यानन्तरो-, कार्यपेक्षा लक्षणः स्वभावो निवर्तते, नवेति वाच्यम् ? | निवर्तते, अनित्यत्वप्रसङ्गः, स्वभावनिवृत्तौ स्वभावि इपि तदव्यतिरेकेण तद्वदेव निवृत्तेः । अथ न निवर्तते, जननप्रसङ्गः, तत्स्वभावानिवृत्तेः पूर्ववत्, तथाहि - य एक कार्याजननकाले स्वभावः, जननकालेऽपि स एव इति जनयति ?, कथं वा न पूर्वमपि ?; इति चिन्त्यम् ॥ अथ मा भूदयं दोषोऽनन्तरोदितः, न क्रियते इत्याश्रीयते सह कश्चिद्विशेषः । अत्राह-न तर्हि स तस्य वस्तुनः, सहकारी
,
Page #76
--------------------------------------------------------------------------
________________
८४
अनेकान्तजयपताका
कुत इत्याह-अकिश्चित्करत्वात् कारणात् । एवमभ्युपगमे दोषमाहअकिश्चित्करत्वेऽपि सति, सहकारित्वेऽभ्युपगम्यमाने। किमित्याहअतिप्रसङ्गः । एनमुपदर्शयन्नाह-तथाहीत्यादि, तथाहि यदि कञ्चन विशेषमकुर्वन्नपि स पदार्थ आलोकादिः, तस्य वस्तुनः, सहकार्यभ्युपगम्यते । ततः किमित्याह- सर्वभावानामेव तत्सहकारित्वप्रसङ्गः। कुत इत्याह- तद्विशेषाऽकरणेनाविशेषात् तस्य वस्तुनो विशेषाकरणेनाऽविशेषात् सर्वभावानाम् , इत्येवम् , व्यर्था सहकारिकल्पना । अथेत्यादि।अथोच्यते परेण, एवंभूत एव तस्य वस्तुनः स्वभावो धर्मः, येन विशेषाकारकमपि प्रतिनियतमेव सहकारिणमपेक्ष्याऽऽलोकादि, कार्य जनयति विज्ञानादिकमिति । एतदाशङ्क्याह- एतदपि मनोरथमात्रम् । कुत इत्याह-विकल्पानुपपत्तेः । एनामेवाह-तद्धीत्यादिना तद् वस्तु, यस्माद् यदाऽभीष्टसहकारिसन्निधौ कार्य जनयति विज्ञानादि, तदाऽस्य वस्तुनः, अनन्तरादितसहकार्यपेक्षालक्षणोऽकिञ्चित्करसहकार्यपेक्षालक्षणः, स्वभावो धर्मः, निवर्तते न वेति वाच्यम् ? । उभ यथापि दोषमाह- यदि निवर्तते अधिकृतस्वभावः । ततः किमित्याहअनित्यत्वप्रसङ्गः।कुत इत्याह-स्वभावनिवृत्तौ सत्यां, स्वभाविनोऽपि धर्मिणः, तद्व्यतिरेकेण स्वभावाभेदेन हेतुना, तद्वदेव स्वभाववदेव, निवृत्तेः कारणात् । अथ न निवर्तते स स्वभावः । अत्राह- कार्याजननप्रसङ्गः। कथमित्याह- तत्स्वभावानिवृत्तेः अकिञ्चित्करसहकार्यपेक्षालक्षणस्वभावानिवृत्तेः, पूर्ववदिति दृष्टान्तः । एतदेव भावयतितथाहीत्यादिना । तथाहि य एव तस्य वस्तुनः, कार्याजननकाले स्वभावः, जननकालेऽपि स एव सर्वदा स्वस्वभावानिवृत्तेः, इत्येवम् , कथं जनयति कार्य तदा, कथं वा न पूर्वमपि जनयति स्वभावाभेदादिति भावः, इत्येवम् , चिन्त्यम् ।।
तेन सह जननस्वभावत्वात् तद्भावे जनयति, तदभावाच्च म पूर्वमपीति चेत् । न, अविचारितरमणीयत्वात् , तेन सह तज्जननस्वभावत्वस्यापि नित्यत्वे.सति सदा तज्जननप्रसङ्गात् ,
Page #77
--------------------------------------------------------------------------
________________
स्वोपज्ञटीका सहिता ।
८५
अन्यथाऽधिकृतस्वभावस्य नित्यत्वानुपपत्तेः । तथाहि - यदि सदा तेन सह तज्जननस्वभावम् ; किं न जनयति ?, अजनसद् वा कथं सदा तत्स्वभावमिति । । ततश्च यदा तद् भवति तदा जैन सह तज्जननस्वभावम्, न तु सदा; इत्यवश्य मङ्गीकर्तव्यम्, अन्यथा सदा तस्यापि भावापत्तिः, सदा तेन सह तज्जनस्वभावत्वादिति । एवं च स्वभावभेदे कथमेकान्तनित्यता ? ; इति चिन्त्यम् ॥
आह- तेन सहकारिणा, सह जननस्वभावत्वात् कारणात्, दावे सहकारिभावे, जनयति तदा तदभावाच्च सहकार्यभावाश्च, है पूर्वमपि जनयतीति चेत् । एतदाशङ्क्याह-न, अविचारितरमणीयत्वात् । एतदेव दर्शयति - तेनेत्यादिना तेन सहकारिणा,
,
तज्जननस्वभावत्वस्यापि कार्यजननस्वभावत्वस्यापि, नित्यत्वे सति, तज्जननप्रसङ्गात् कार्यजननप्रसङ्गात् । विपक्षे बाधामाह- अन्यथेस्वादिना । अन्यथैवमनभ्युपगमे, अधिकृतस्वभावस्य तेन सह तज्जनवभावस्य नित्यत्वानुपपत्तेः । एतदेव भावयति - तथाहीत्यादिना । अहि यदि सदा तेन सहकारिणा, सह तज्जननस्वभावं कार्यजननस्वभायस्त्विति प्रक्रमः, किं न जनयति कार्यम्, अजनयद्वा कथं सदा तभावं तेन सह तज्जननस्वभावमिति; नैव । ततश्चेत्यादि । ततश्चैवं सति यदा तद्भवति कार्यम्, तदा तेन सहकारिणा, सह तज्जननभावं कार्यजननस्वभावं वस्तु, न तु सदेत्यवश्य मङ्गीकर्तव्यं परेण । यथैवमनभ्युपगमे, सदा तस्यापि भावापत्तेः सहकारिणः । कुतबाह-सदा तेन सहकारिणा, सह तज्जनन स्वभावत्वाद् विवक्षितकार्यमनस्वभावत्वाद् वस्तुन इति । एवं च स्वभावभेदे सति वस्तुनः, कथकान्त नित्यता ? इत्येतच्चिन्त्यं नैवेत्यर्थः ॥
,
स्यादेतत् न तत्र स्वभावभेदः, आकालमपि तस्य वयैकस्वभावत्वात् तथाहि - आकालभविचलितस्वभावमेवेदमित्थंविधम् येन तत एव तचत्सहकारिसन्निधावेव तदैव
,
,
Page #78
--------------------------------------------------------------------------
________________
अनेकान्तजयपताका
तदैव तस्यैव तस्यैवाऽवस्थासंवेदनादेर्भावः। तथा च सति तदनिवृत्तावपि न पूर्ववत् तदभावः, तस्य सहकारिणस्त दैव भावात् । न च पूर्वमपि भावः, तस्यैवाभावात् । न च तदुदयेऽपि तन्नित्तिः , तथास्वभावत्वात् । न च पुनः स्तस्यैव करणम् , तथास्वभावत्वादेव । किमेतदेवम् ?, अचिन्त्यो ऽपर्यनुयोगार्हः स्वभाव इति ।।
स्यादेतदित्यादि । स्यादेतदथैवं मन्यसे, न तत्र वस्तुनि स्वभावभेदः । कुत इत्याह- आकालमपि यावदपि कालस्ताव दित्यर्थः, तस्य वस्तुनः, तथा चित्रसहकारियोगानेककार्यसाध कत्वेन, एकस्वभावत्वात् । एतदेव भावयति- तथाहीत्यादिना तथाहि आकालं यावदपि कालः, अविचलितस्वभावमेवाऽप्रच्युता नुत्पन्नस्थिरैकस्वभावमेव, इदं वस्तु, इत्थंविधमेवंप्रकारम् , येन तत एव वस्तुनः, तत्तत्सहकारिसन्निधावेव सति, तदैव तदैव विशि काले, तस्यैव तस्यैव विशिष्टस्य कार्यस्य, अवस्थासंवेदनादेः स्वारूवि कस्य निमित्तभावजन्यस्य च, भाव इत्युत्पादः । तथा च सति किमित्याह-तदनिवृत्तावपि अनन्तरोदितस्वभावानिवृत्तावपि, न पूर्व वत् तदभावः कार्याभावः । कुत इत्याह-तस्य सहकारिणो विशिष्टस तदैव भावात् कारणात् , न च पूर्वमपि भावः, प्रक्रमात् कार्यस तस्यैव सहकारिणः, अभावात् पूर्वमस्य चाऽनवस्थानात् तेन । कादाचित्कत्वविरोधः । न च तदुदयेऽप्यधिकृतकार्योत्पादेऽपि, ती वृत्तिरनन्तरोदितस्वभावनिवृत्तिः । कुत इत्याह- तथास्वभावत्वा तथा तेन प्रकारेण कालभवनलक्षणेन आत्मसत्तायाः स्थितेरित्यर्थः ।। च पुनस्तस्यैव कृतकार्यस्य, करणं तथास्वभावत्वादेव-एवंविध एवा साविति । किमेतदनन्तरोदितम् , एवं स्वतन्त्रराजक्रीडाप्रख्यम् । एत शङ्क्याह- अचिन्त्योऽचिन्तनीयो योगिज्ञानवत् , अपर्यनुपयोगा न पर्यनुयोगमहत्यग्न्यादेशैष्ण्यादिवत् स्वभाव इति किमत्र कुर्मः ? |
Page #79
--------------------------------------------------------------------------
________________
स्वोपज्ञटीकासहिता । अहो ! दुरन्तः स्वदर्शनानुरागः, एवमपि मिथो विरुद्धं अषयति- तदुदयेऽपि तन्निबन्धनस्य सतो न तस्य निवृत्तिः, विकलतथात्वे च न पुनस्तस्यैव करणमिति व्याहतम् । यद्यवित्तिः कथमकरणम् । अकरणं चेत् , कथमनिवृत्तिः । यदैव स्कृतं न च भूयः करिष्यति तदेव तदैव तत्तत्करणस्वभावो पारयेव यौवनं तदकरणस्वभावेनापनीतः, अन्यथा तद्भावेन हात् तत्फलप्रसङ्गः, न ह्यगिरनपगते दहनस्वभावे न दहति, भावापगमे च नियतमनित्यता । तथाप्येकदाह्यदहने तदलाद् दाह्यान्तरदहनाचाऽदोष इति चेत् । न, सर्वथा स्वभावमन्तरेणोक्तानुपपत्तेः । न च येनैव स्वभावेनैकं दाह्यं दहति अव दाह्यान्तरम् , तस्य तथा तदनियतत्वे दाह्यान्तरवत् तदा दहनपसगात् । नियतत्वे च तद्दहनादहनयोरन्यत्र तददेः स्थितः कथञ्चित्स्वभावभेदः, इत्याकालमपि तस्य तथैस्वभावत्वमनेककार्यभावादेर्न सन्न्यायसङ्गतमिति सूक्ष्मधिया पावनीयम् । इत्येवं तावदेकान्तनित्यपक्षे विज्ञानादिकार्यायोर तदवगमाभाव इति ॥ * एतदाशङ्क्याह-अहो ! दुरन्तः स्वदर्शनानुराग इति पूर्वस, एवमपि यथोक्तम् , मिथः परस्परविरुद्धं भाषयत्यसंगतमुल्लापति । कथमेतद् विरुद्धमित्याह- तदुदयेऽपीत्यादि तदुदयेऽपि तस्मास्वभावादुत्पादेऽपि, विवक्षितकार्यस्येति प्रक्रमः, तन्निबन्धनस्य विवहतकार्यनिबन्धनस्य, सतो भवतः, न तस्य स्वभावस्य, निवृत्तिः । विकलतथात्वे च तत्स्वभावस्य, न पुनस्तस्यैव विवक्षितकार्यस्य, लणमिति व्याहतं तत्तावस्थ्ये तदकरणविरोधात् । तथा चाह
निवृत्तिरित्यादि । यद्यनिवृतिविवक्षितकार्यकरणस्वभावस्य, चमकरणं विवक्षितकार्यस्य, अकरणं चेद् विवक्षितकार्यस्य, कथमनिवृत्तिर्विवक्षितकार्यकरणस्वभावस्य । एतद्भावनायैवाह- यदैवेत्यादि । यदैव तत् कृतं विवक्षितकार्यम् , न च भूयः पुनः करिष्यति
Page #80
--------------------------------------------------------------------------
________________
८८
अनेकान्तजयपताका
तदेव तदैव । किमित्याह- तत्तत्करणस्वभाव इति तस्य वस्तुनस्त करणस्वभावो विवक्षितकार्यकरणात्मभावः, जरयेव यौवनमिति दृष्टान्तः, तदकरणस्वभावेन विवक्षितकार्याकरणात्मभावलक्षणेन अपनीतस्तिरकृतः । इत्थं चैतदङ्गीकर्तव्यमित्याह- अन्यथेत्यादि अन्यथैवमनभ्युपगमे, तद्भावेन तत्तत्करणस्वभावभावेन, बलात् साम
यात् , तत्फलप्रसङ्गो विवक्षितकार्यप्रसङ्गः । अमुमेवार्थ स्थूरोक्त्य निदर्शनान्तरेणाह-न हीत्यादिना । न ह्यग्निरनपगते दहनस्वभा नैश्चयिके, न दहति किन्तु दहत्येव नैश्चयिकस्य दहनस्वभावस्यैव मात्मकत्वात् । स्वभावापगमे च विवक्षितकार्योदये सत्यभ्युपग म्यमाने, नियतमनित्यताऽधिकृतवस्तुनः, अतादवस्थ्यस्यैवाऽनित्य स्वादिति । निदर्शनमधिकृत्याह- तथापीत्यादि । तथाप्येवमपि, एवं दाह्यदहने सत्यग्नेः, तददहनाद् दग्धत्वेनैव, दाह्यान्तरदहनाच्च तददग्धत न, अदोषो न ह्यग्निरनपगते दहनस्वभावे न दहतीत्यादि, इत्येवम् , चे मन्यसे । एतदाशङ्क्याह-नेत्यादि । न नैतदेवम् । कुत इत्याह सर्वथा एकान्तेन, स्वभावभेदमन्तरेण, तदेकस्वभावत्व एवेत्यर्थ उक्तानुपपत्तेरेकदाह्यदहने तददहनं दाह्यान्तरदहनं चेत्युक्तम् , . चैतद् द्वयमेकस्वभावादुपपद्यते, तददहनवद् दाह्यान्तरदहनार्य गाद्, विपर्ययो वा हेत्वभेदादिति सूक्ष्मधिया भावनीयम् । दोष न्तरमाह-नचेत्यादिना। न च येनैव स्वभावेनैकं दाह्यं दहति, रिति प्रक्रमः । तेनैव दाह्यान्तरमन्यत् । कुत इत्याह-तस्य स्वभावस तथा तेन दहनादहनप्रकारेण, तदनियतत्वे तयोर्दाह्ययोरनियत दहनादहनं प्रति । किमित्याह- दाह्यान्तरवत् यन्न दहति तद्वत तदा तस्मिन् काले, तददहनप्रसङ्गात् यद् दहति तदहनप्रसङ्गात् । प्रा ङ्गश्च तदनियतत्वाविशेषेण उभयदहनस्वभावोऽप्यसौ तद् दहनाद प्रत्यनियत इत्येकं न दहति, तदेतदनियतत्वं यदपि दहति तो प्यविशिष्टमेवेति तददहनप्रसङ्गः स्पष्टः। नियतत्वे च तस्य वस्तुस्वा वस्याभ्युपगम्यमाने । केत्याह-तद्दहनादहनयोः तयोर्दाह्ययोर्ये
Page #81
--------------------------------------------------------------------------
________________
स्वोपज्ञटीकासहिता। मादहने तयोर्यद् दहति तद् दहत्येव, यच न दहति तद् ने दहत्येवेत्येवंभूते । किमित्याह- अन्यत्र प्रतियोगिनि यत् तदा न दहति तत्र, तदसिद्धेर्दहनासिद्धेः, न चैतदेवम् , इति स्थितः कथञ्चित्स्वभावभेदः; इत्येवम्, आकालमपि यावदपि कालस्तावदपि, तस्य वस्तुनः, तथैकस्वभावत्वमप्रच्युतानुत्पन्नस्थिरैकरूपतया, अनेककार्यभावादेः कारणात् , आदिशब्दात् तत्तत्कृतौ तत्तदवस्थाभावग्रहः, न सन्न्यायसंग. तम्, इत्येवम् , सूक्ष्मधिया भावनीयम् , तदेककरणाकरणयोः स्वभाव: भेदनान्तरीयकत्वादिति । एवं तावदेकान्तनित्यपक्षे । किमित्याहविज्ञानादिकार्यायोगात् कारणात् , आदिशब्दादवस्थापरिप्रहः, तद्वगमाभाव इत्येकान्तनित्यावगमाभाव इति ।। . अथापि प्रकृत्यैकक्षणस्थितिधर्मकमेकान्ताऽनित्यमभ्युपगम्यते। एवमपि विज्ञानादिकार्यायोगात् तदवगमाभाव एव, तदभावभाविनो विज्ञानस्य तत्कार्यत्वानिश्चयात् । न च सर्वथैकक्षणस्थितिधर्मणः सत्व युक्ता, द्वितीयादिक्षणास्थित्यभावे सति तत्क्षणस्थितिधर्मकत्वायोगेन तदन्यत्वादिविकल्पानुपपत्तेः स्यादेतत् , द्वितीयादिक्षणास्थितौ प्रथमक्षणस्थितेरभावाद्, भावे वा तदनुपपत्तेः प्रतियोग्यभावात् तदन्यत्वादिविकल्पानुपपत्तिः, बथाहि- द्वितीयक्षणे तदेव न भवतीति । उक्तं च
" न तत्र किश्चिद् भवति न भवत्येव केवलम्" इति ॥ द्वितीयं पक्षमधिकृत्याह-अथापीत्यादि । अथापि प्रकृत्यैकक्षणस्थितिधर्मकमेकान्तानित्यमभ्युपगम्यते वस्तु, एवमपि विज्ञानादिका
योगात् कारणात् , तदवगमाभाव एव- एकान्तानित्यावगमाभावएव । कुत इत्याह-तदभावभाविनः वस्त्वभावभाविनः, विज्ञानस्य वित्कार्यत्वानिश्चयादात्यन्तपरोक्षतयेति भावः । न चेत्यादि । न च सर्वथैकान्तेन, क्षणस्थितिधर्मणो वस्तुनः, सत्तैव युक्ता। कुत इत्याइ-द्वितीयादीत्यादि । द्वितीयादिक्षणास्थित्यभावे सति तत्क्षणस्थिलिधर्मकत्वायोगेन तस्यैव वस्तुनः क्षणस्थितिधर्मकत्वायोगेन हेतुना।
Page #82
--------------------------------------------------------------------------
________________
अनेकान्तजयपताका
तदन्यत्वादिविकल्पानुपपत्तेः- तयोः प्रथमक्षणस्थितिद्वितीयादिक्षणाऽस्थित्योरन्यत्वादिविकल्पैरघटमानत्वात् क्षणस्थितिधर्मसत्तायाः, तथाहि-तयोः प्रथमक्षणस्थितिद्वितीयादिक्षणाऽस्थित्योरन्यत्वम् , अनन्यत्वम् , अन्यानन्यत्वम् , अवाच्यत्वं वा स्यात् ? । अन्यत्वे क्षणान्तरस्थितेरिव प्रस्तुतास्थित्यविरोधात् क्षणस्थितित्वाभावः । अनन्यत्वे प्रथमक्षणेऽप्यस्थितिः, द्वितीयादिष्वपि वा स्थितिः, अन्यथाऽनन्यत्वायोगात्, नयोरैक्ये ह्यनन्यत्वमिति भावनीयम् । अन्यानन्यत्वे विरोधः, सहानवस्थानात् । अवाच्यत्वे स्ववचनविरोधः, अवाच्यत्वेनैव वाच्यत्वात् । स्यादेतदित्यादि । स्यादेतदथैवं मन्यसे, द्वितीयादिक्षणास्थितौ सत्यां, प्रथमक्षणस्थितेरभावात् कारणात्, भावे वा प्रथमक्षणस्थितेः, तदनुपपत्तेर्द्वितीयादिक्षणास्थित्यनुपपत्तेः, तस्याऽसावस्थितिरिति कृत्वा । किमित्याह-प्रतियोग्यभावात् पक्षद्वयेऽपि, तदन्यत्वादिविकल्पानुपपत्तिः तयोः प्रथमक्षणस्थितिद्वितीयादिक्षणास्थित्योरन्यत्वादिविककल्पाऽघटमानता। एतद्भावनायैवाह-तथाहीत्यादि । तथाहीत्युपप्रदर्शने, द्वितीयक्षणे तदेव न भवति यत् प्रथमक्षणेऽभूदिति ।। उक्तं च धर्मकीर्तिना- न तत्र किञ्चिद् भवति न भवत्येव केवलमिति वात्तिके । ___ नन्वेवमपि भवनादूर्ध्वमभवनात् तत्कादाचित्कत्वतस्तदुत्पते,अत एव नाशाद् भवनोन्मज्जनप्रसङ्गः। स्यादेतत् , न भवतीति भवनक्रियाप्रतिषेधमात्रमहेतुकमदः, तत्कथमस्य कादाचित्कत्वादि । उच्यते-भवनकादाचित्कतया तत्पूर्वकत्वेन तद्धेतुत्वोपपत्तेः, अन्यथा भवनेऽप्युत्पत्त्याद्यभावः, तस्याप्यभवनक्रियाप्रतिषेधमात्रत्वात् , उभयत्र तदतिरिक्तक्रियाऽभावात् , सत्स्वभावादिजन्याजनकत्वेन हेत्वयोगतोऽहेतुकत्वापत्तेश्च । न चार्य भवनक्रियाप्रतिषेधो ज्यायान् , विकल्पानुपपत्तेः, स हि भवनखभावस्य, अभवनस्वभावस्य वा क्रियेत । न तावद् भवनस्वभावस्य अशक्यत्वात्। अन्यथा भवनखभावत्वविरोधात् । अभवनव
Page #83
--------------------------------------------------------------------------
________________
- स्वोपज्ञटीकासहिताः। भावभवनक्रियाप्रतिषेधे तु प्रयासवैयर्थ्यम् , भवनापत्तिर्वा, इत्येवं च तदेव न भवतीति वाङ्मात्रमेतत् । शब्दार्थानुपपत्तेश्व, तथाहितदेवेति भवनस्वभावं परामृश्य न भवतीत्यभिदधतः शब्दार्थविरोधः। यदा न भवति न तदा भवनस्वभावमिति चेत् । अभवनस्वभावं तर्हि न भवतीति तदेवेति न शोभन उपन्यासः। तत् क्षणभवनस्वभावमिति चेत् । कथं द्वितीयक्षणे न भवति । एकक्षणभवनस्वभावमिति चेत् । न बसावपि नैकः । तदेकक्षणभवनस्वभावमिति चेत् । नासौ तदतिरेकेण कश्चित् । इति निबन्धनाभावतो यत्किञ्चिदेतत् ॥
एतदाशङ्क्याह- नन्वेवमपीत्यादि । नन्वेवमपि तदेव न भवतीत्यस्मिन्नपि पक्षे, भवनादूर्ध्वमभवनात् कारणात्, तत्कादाचिस्कत्वतस्तस्याऽभवनस्य कादाचित्कत्वेन हेतुना, तदुत्पत्तेरभवनोत्पत्तेः कारणात् , अत एवोत्पत्तेरेव हेतोः । किमित्याह-नाशात् अभवनस्य भवनोन्मजनप्रसङ्गः, तदभवननाशान्यथानुपपत्तेरिति भावनीयम् । स्यादेतदित्यादि । अथैवं मन्यसे, न भवतीति भवनक्रियाप्रतिषेधमात्रम् , अहेतुकमद एतत् , तत् कथमस्याऽभवनस्य, कादाचित्कत्वादि हेतुभावाधीनत्वात् कादाचित्कत्वस्य, आदिशब्दात् तन्नाशभवनोन्मजनग्रहः । उच्यतेऽत्र समाधिः, भवनकादाचित्कतया कारणेन, तत्पूर्वकत्वेन भवनपूर्वकत्वेन हेतुना, तद्धेतुत्वोपपत्तेः-भवनहेतुत्वोपपत्तेः, अभवनस्य यद्भवनानन्तरं तत् स एव तस्य हेतुरिति । अन्यथेत्यादि । अन्यथैवमनभ्युपगमे, भवनेऽप्युत्पत्त्याद्यभाव-उत्पत्तिनाशाभावः । कुतइत्याह-तस्यापि भवनस्य, अभवनक्रियाप्रतिषेधमात्रत्वात् कारणात् । काऽभवनस्य क्रियेत्याशङ्क्याह- उभयत्र भवनेऽभवने च, तद्तिरिक्तक्रियाभावाद् भवनाभवनातिरिक्तक्रियाऽभावात् । अभवनस्य नाशत्वेन हेत्वयोग इत्येतदपि समानमित्यभिधातुमाह-सत्स्वभावादिजन्याजनकत्वेन कारणेन, हेत्वयोगतः कारणात्, अहेतुकस्वापत्तेश्च भवनस्य, उत्पत्त्याद्यभाव इति क्रियायोगः, तथाहि-भवनं
Page #84
--------------------------------------------------------------------------
________________
अनेकान्तजयपताका
जन्योत्पादः, तस्यापि हेतुर्न युज्यत एवेति, स हि सत्स्वभावजन्यजनकः, असत्वभावजन्यजनकः, उभयस्वभावजन्यजनकः, अनुभय'स्वभावजन्यजनको वा भवेत् ? सर्वथापि दोष:-यदि सत्स्वभावं जन्यं, कथं तज्जनकः ? । अथाऽसत्स्वभावमेव तत् , तथापि कथं तज्जनकः ?। उभयस्वभावत्वे विरोधः । अनुभयस्वभावत्वे अवस्तुता; इत्युत्पादहेत्वभाव इति भावनीयम् । दोषान्तरमाह- न चायमित्यादि । न चायं भवनक्रियाप्रतिषेधो ज्यायान् शोभनः । कुत इत्याह-विकल्पानुपपत्तेः कारणात् । एनामेवाह-स हीत्यादिना । स यस्माद्, भवनक्रियाप्रतिषेधः, भवनस्वभावस्य सतः, अभवनस्वभावस्य वा क्रियेत ? कि*श्चातः ? उभयथाऽपि दोष इत्याह-न तावद् भवनस्वभावस्य भवनक्रियाप्रतिषेधः । कुत इत्याह- अशक्यत्वात् , भवनस्वभावस्य तत्त्वं निषेद्धुमशक्यमिति । अत एवाह- अन्यथा भवनस्वभावत्वविरोधात न तक्रियानिषेध इति । अभवनस्वभावभवनक्रियाप्रतिषेधे त्वभ्युपगम्यमाने, प्रयासवैयर्थ्य यतो नाभवनस्वभावं भवनमिति । तथा भवनापत्तिर्वेति-अभवनस्वभावभवनक्रियाप्रतिषेधे बलाद् भवनापत्तिः। एवं च तदेव न भवतीति वाङ्मात्रमेतत् उक्तवदभवनायोगात् । तथा शब्दार्थानुपपत्तेश्च तदेव न भवतीत्यत्र । एनामेव दर्शयतितथाहीत्यादिना । तथाहीति पूर्ववत् , तदेवेति भवनस्वभावं परामृश्य वस्तु, न भवतीत्यभिधतः सतः, शब्दार्थविरोधः प्रकट एव, यदा न भवति तत् न तदा भवनस्वभावं सद् न भवति, इत्येवम्, चेत् मन्यसे । एतदाशङ्कयाह- अभवनस्वभावं तर्हि न भवतीति एवम् , तदेवेति न शोभन उपन्यासः, तदेवेत्यनेन भवनस्वभावस्याऽभिधा: नात् । तद् भवनं, क्षणभवनस्वभावमिति चेत् । एतदाशङ्कयाहकथं द्वितीयक्षणे न भवति तस्यापि क्षणत्वादित्यभिप्रायः । एकक्षणस्थितिस्वभावमिति चेत्। एतदाशङ्कयाह- न सावपि नैकः । किन्तर्हि, एक एव । तदेकक्षणभवनस्वभावं तस्मिन्नेवैकस्मिन् क्षणे भवनं स्वभावो यस्य तत् तथा, इत्येवं, चेद् मन्यसे । एतदाशङ्कयाह-नासौ
Page #85
--------------------------------------------------------------------------
________________
- स्वोपज्ञटीका सहिता ।
९३
क्षणः,
, तदतिरेकेण भवनातिरेकेण कश्चित्, सदक्षणिकत्वप्रसङ्गात्, तदैव तदपरक्षणाभावादनवस्थापत्तेरिति भावनीयम् । इति निबन्धनाभावतः कारणात्, यत्किच्चिदेतद् यदुत तदेकक्षणभवनस्वभावमिति ॥
एवं च तदतिरिक्तोत्पच्यभावादविशिष्टभवनानन्तरमभवनमिति प्राप्तम्, तथा न सति क्षणिकत्वेऽप्यनिश्चयः, तत्कादाचित्कतया तु तदुत्पत्त्याद्य परिहृतमेव । न नश्वरमभवनम्, तुच्छस्वादिति चेत् । भवनेऽप्यतुच्छतया समानमेतत् । न समानम्, तस्याऽभवनविरोधात् । अभवनस्य भवने को विरोधः १। नीरूपस्य सरूपतापत्तिरिति चेत् । सरूपस्य कथं नीरूपतापत्तिरिति वाच्यम् ? । स्वहेतोस्तत्स्वभावादिति चेत् | अभवनस्यैवं स्वभावभवनेऽपि को दोषः १ । हेत्वभावनिःस्वभावते इति चेत् । न तद्भवनस्यैव तद्धेतुत्वात्, तद्भावभावित्वात्, भावाभवनस्याभावभवनात्, तुच्छतया तद्भावसिद्धेः, अन्यथा तन्नाशायोगादिति ॥
एवं चेत्यादि । एवं चोक्तनीत्या, तदतिरिक्तोत्पत्त्यभावात्, भवनातिरिक्तोत्पत्त्यभावात्, अविशिष्टभवनानन्तरभवनमिति प्राप्तं न्यायतः । तथा च सति किमित्याह - क्षणिकत्वेऽप्यनिश्चयः अविशिष्टभवनमात्रसिद्धेः, तत् कादाचित्कतया तु अभवनकादाचित्कतया तु, तदनन्तरभावेन तदुत्पत्त्यादि - अभवनोत्पत्तिनाशोत्तरोन्मज्जनाख्यम्, अपरिहृतमेव उक्तनीतितादवस्थ्यादिति । पराभिप्रायमाह - नेत्यादि । ने नश्वरमभवनं भवनानन्तरमपि भवत् । कुत इत्याह- तुच्छत्वात् निःस्वभावत्वादिति चेत् । एतदाशङ्क्याह-भवनेऽप्यतुच्छतया सत्स्वपावत्वेन, समानमेतदनश्वरत्वम्।न समानम्, तस्य भवनस्य, अभवनविरो
त् कारणात्। एतदाशङ्क्याह- अभवनस्य भवने को विरोधः । नीरूपस्य अभवनस्य, सरूपतापत्तिर्विरोध इति चेत् । एतदाशङ्क्याहसरूपस्य भवनस्य, कथं नीरूपतापत्तिरित्येतद्वाच्यं समानमेतदित्यभिप्रायः । न समानमित्यावेदयति-स्वहेतोरित्यादिना । स्वहेतोः
.
Page #86
--------------------------------------------------------------------------
________________
अनेकान्तजयपताकासकाशात्, तत्स्वभावभावात् क्षणादूर्ध्व नीरूपतास्वभावोत्पादादिति चेत्। एतदाशङ्कयाह- अभवनस्यैवं स्वभावभवने क्षणादूर्ध्व स्वरूपतास्वभावोत्पादे, को दोषः ? न कश्चिदित्यर्थः । हेत्वभावनिःस्वभावते दोषइति चेत्। एतदाशङ्क्याह-नेत्यादि । नैतदेवं यदुक्तं भवता। कुतइत्याह-तद्भवनस्यैव यद्भवनमेतत् तस्यैवेत्यर्थः । किमित्याह-तद्धेतुत्वात् अभवनहेतुत्वात् । कुत एतदेवमित्याशङ्क्याह-तद्भावभावि. त्वात् भवनभावभावित्वादभवनस्य । कस्तुच्छस्य भाव इत्याशङ्कापोहायाह-भावाभवनस्य तुच्छस्य, अभावभवनात् , एतदेव ह्यभावभवनं यद्भावाभवनमिति । एवं च तुच्छतया नीरूपतया, तद्भावसिद्धेरभव. नभावसिद्धेः, अभवनं च भावश्चेति विरुद्धम् । भाव एव नाश इति तु कथं न विरुद्धम् ? तत्क्षणस्थितिधर्मकत्वेन, अभवनमपि तत् कादाचस्कतयेत्यत एवाह-अन्यथा तन्नाशायोगादिति भवननाशायोगादिति।
न च तनिःस्वभावमेव, तुच्छज्ञेयस्वभावत्वात् , अन्यथा तज्ज्ञानानुपपत्तेस्तदेव न भवतीत्यज्ञातोक्तप्रसङ्गात्, तज्ज्ञानेनाभवनाज्ञानात्, कालभेदेन तदतत्वादिति । तस्यैव क्षणादूर्ध्वमभवनस्वभावत्वात् प्रत्यक्षेण तथाग्रहणाद् यथार्थ तत्मवृत्तेरभवनज्ञानादुक्तदोषाभाव इति चेत् । न, विहितोत्तरत्वात्, कालभेदेन तदतत्त्वात, अन्यथा तदनुपपत्तेः, भाविनश्चेन्द्रियेणाग्रहणात, अतिप्रसङ्गात्, नीरूपत्वाच्च । न चानेन कचिद्भवनवदभवनग्रहः, तथानिश्चयाभावात् । न च निरंशानुभवभावेऽपि विभ्रमात् तदभावः, भवननिश्चयस्याप्यभावापत्तेः। न च तन्निबन्धनानुभवे न विभ्रमः, तस्यैव तत्त्वात् । न चैकस्य कचिद् विभ्रमः, क. चिद् नेति, एकत्वविरोधात् । न चान्तेऽभवननिश्चयात् तद्गतिः, तत्रापि तदयोगात् । न च कपालभवननिश्चय एव घटाभवननिश्चयः, तदभवनस्य निरुपाख्यत्वात् । न च तद्द्वारेण, तेन तस्य प्रतिबन्धासिद्धेः। न च तदभवनधर्मकमेव कपालभवनम् , अनभ्युपगमात् । इति तत्तुच्छत्वेऽपि नश्वरत्वादिसिद्धिः । उत्पा
Page #87
--------------------------------------------------------------------------
________________
स्वोपज्ञटीकासहिता।
९५
शादिमत्त्वे भवनाभवनयोरभेद इति चेत् । न, तुच्छेतरत्वाविशेबात्, निवृत्तिभेदात्, ग्रहणनानात्वात् ; इति कुतोऽस्य क्षणस्थितिधर्मकत्वमेव क्षणान्तरेऽपि स्थित्यापत्तेः। इत्यलं विस्तरेण । लदेवमिहापि विज्ञानादिकार्यायोग इति स्थितम् ।।
अभ्युञ्चयमाह-न चेत्यादिना । न च तन्निःस्वभावमेवाऽभवनम्। छत इत्याह- तुच्छज्ञेयस्वभावत्वात् , अन्यथा तज्ज्ञानानुपपत्तेः प्रभवनज्ञानानुपपत्तेः । ततः किमित्याह- तदेव न भवतीत्यज्ञातोक्तप्रसङ्गात् प्रसङ्गश्च तज्ज्ञानेन भवनज्ञानेन, अभवनाज्ञानात् अज्ञानं व कालभेदेन भवनाभवनयोस्तदतत्त्वाद् भवनस्यैवाऽभवनत्वादिति । राभिप्रायमाह- तस्यैवेत्यादि । तस्यैव भवनस्य वस्तुनः, क्षणादूर्ध्वभवनवभावत्वात् कारणात् । यदि नामैवं ततः किमित्याहत्यक्षेण तथाग्रहणात् । क्षणादूर्ध्वमभवनस्वभावतया ग्रहणात् । कितिदेवमित्याह- यथार्थ तत्पत्तेः प्रत्यक्षप्रवृत्तेः । किमित्याह- अभलज्ञानात् कारणात् , उक्तदोषाभावः- तज्ज्ञानेनाभवनाज्ञानादित्यादिपाभाव इति चेत् । एतदाशङ्कयाह-नेत्यादि । न नैतदेवम्। कुतवाह-विहितोत्तरत्वात् । तदेव स्मारयति- कालभेदेनेत्यादिना। लभेदेन भवनाभवनयोस्तदतत्त्वाद् भवनस्यैवाऽभवनत्वात् । अन्यथै, नभ्युपगमे, तदनुपपत्तेः-अभवनानुपपत्तेः, तत्कालभाविभवनाभिभवनं च भवनमेवेति तदनुपपत्तिः । यदि नामैवं ततः किमित्याहविनश्च अभवनस्य, इन्द्रियेणाऽग्रहणात् । ग्रहणे दोषमाह- अतिप्रहात् तद्वदन्यस्यापि ग्रहणेन । दोषान्तरमाह-नीरूपत्वाच अजनस्य नीरूपत्वं नीरूपसत्त्वाद्युपलक्षणमिति । अभ्युच्चयमभिधातुमाहचेत्यादि । न चानेन प्रत्यक्षेण, कचिदेकत्र सर्वत्र वा कचिदपि, नवद् यथा भवने तथा अभवने ग्रहः । कुतो नेत्याह-तथानिश्चयावात् भवन इव निश्चयाभावात् । अभवने आशङ्कान्तरापोहायाह
चेत्यादि । न च निरंशानुभवभावेऽपि सति, विभ्रमादू हेतोः, प्रभावोऽभवननिश्चयाभावः । कुत इयाह-भवननिश्चयस्यापि तन्निब
Page #88
--------------------------------------------------------------------------
________________
९६
अनेकान्तजयपताकान्धनस्याऽभावापत्तेः कारणात् । आशङ्कान्तरापोहायाह- नं चेत्या दि । न च तन्निबन्धनानुभवे भवननिश्चयनिबन्धनानुभवे, न दि भ्रमः । कुत इत्याह-तस्यैव अभवननिश्चयनिबन्धनानुभवस्यैव, तत्त्वा भवननिश्चयनिबन्धनत्वाद्, न चैकस्य सतोऽनुभवस्य, कचिद् वि मः, कचिन्नेत्येतत् । कुत इत्याह- एकत्वविरोधात् । निरंशमेवैकं । तस्य क्वचिदिति विभागः । न चेत्यादि । न चान्ते संतानविनाने अभवननिश्चयात् कारणात् , तद्गतिरभवनगतिः । कुत इत्याह- तत्रापी त्यादि। तत्राप्यन्ते तदयोगादभवननिश्चयायोगात् । न चेत्यादि। च कपालभवननिश्चय एव कपालग्रहणं भस्माद्युपलक्षणम्, घटाभवा निश्चयः घटाभवनं काष्ठाभवनादिसूचकम् । कुतो नेत्याह- तदभवनस घटाद्यभवनस्य,निरुपाख्यत्वात् तुच्छत्वात् । न च तद्वारेण कपालभक द्वारेण, घटाभवननिश्चय इति वर्तते । कुतो नेत्याह-तेनेत्यादि।तेन का लभवनेन सह, तस्य घटाभवनस्य । किमित्याह- प्रतिबन्धासिद्धेः तां त्म्याद्यनभ्युपगमात् । न च तदभवनधर्मकमेव घटाभवनधर्मकमेव, कप लभवनम् । कुत इत्याह-अनभ्युपगमादिति एवम् , तत्तुच्छत्वेऽप्यभ नतुच्छत्वेऽपि सति, नश्वरत्वादिसिद्धिः-उत्पत्तिनाशोत्तरोन्मजनसिद्धि पराभिप्रायमाह- उत्पादादिमत्त्वे सति, भवनाभवनयोरभेदस्तुल्या मंतयेति चेत् । एतदाशङ्क्याह-नेत्यादि । न नैतदेवम् । कुत इं हेतूनाह-तुच्छेतरत्वाविशेषात् भवनाभवनयोः, तथाहि-तुच्छमभवा म्, अतुच्छं भवनमिति विशेषः । तथा निवृत्तिभेदात् भवनस्य ह्यभवनं । वृत्तिर्भवनं स्वभवनस्य, तथा ग्रहणनानात्वादेकमतुच्छतया गृह्य अन्यत्तुच्छतया; इत्येवमुत्पादादिसाम्येऽपि भवनाभवनयो रूपरसादे भेदः । सर्वोपसंहारमाह-इति एवमुक्तनीतेः, कुतोऽस्य वस्तुनः, क्षणसि तिधर्मकत्वमेव । अभवने कारणमाह- क्षणान्तरेऽपि अस्थितिव्या रेकादिना स्थित्यापत्तेः, इत्यलं विस्तरेण । तदेवमिहापि क्षणस्थिति मके वस्तुनि, विज्ञानादिकार्यायोग इति स्थितम् ॥ • नित्यानित्यं पुनः कथश्चिदवस्थितत्वात् , अनेकस्वभावत्वा
Page #89
--------------------------------------------------------------------------
________________
स्वोपज्ञटीकासहिता। निबन्धनोपपत्तेजनयति विज्ञानादिकमित्यवगम्यते । नित्यानित्यत्वं च वस्तुनो द्रव्यपर्यायोभयरूपत्वात् , अनुवृत्तव्यावृत्ताकारसंवेदनग्राह्यत्वात् प्रत्यक्षसिद्धमेवेति, तथाहि- मृत्पिण्डशिवकस्थासकघटकपालादिवविशेषेण सर्वत्राऽनुवृत्तो मृदन्वयः संवेघते, प्रतिभेदं च पर्यायव्यावृत्तिः, तथा च न यथाप्रतिभासं मृपिण्डादिसंवेदनम् , तथाप्रतिभासमेव शिवकादिषु, आकारभेदानुभवात् । न च यथाप्रतिभासभेदं तद्विजातीयेषूदकदहनपवनादिषु, तथाप्रतिभासभेदमेव शिवकादिषु, मृदन्वयानुभवात् । न चास्य स्वसंवेद्यस्यापि संवेदनस्यापह्नवः कर्तुं युज्यते, प्रतीतिविरोधात् । न च निराकारमेव संवेदनम् , अर्थान्तरस्येव वतो विवक्षितार्थापरिच्छेदात् ; न ह्याकारानुभवव्यतिरकेणापरोऽर्थपरिच्छेद इति, अतिप्रसङ्गात्, सर्वस्य सर्वार्थपरिच्छेत्तृत्वापत्तेश्च ।। . स्वपक्षमधिकृत्याह-नित्यानित्यं पुनः वस्तु, कथञ्चिदवस्थितत्वात् तत्तथाभवनेन, तथा अनेकस्वभावत्वाद् निमित्तोपादानहेतुस्वभावभेदेन, निबन्धनोपपत्तेस्तत्तत्स्वभावभावेन, जनयति विज्ञानादिकं कार्यम् , आदिशब्दात् स्वोपादानकार्यग्रहः, इत्येवम् , अवगम्यते ज्ञायते। एवं ज्ञानोपाय उक्तः, अधुना नित्यानित्यत्वमाह- नित्यानित्यत्वं च वस्तुनो द्रव्यपर्यायोभयरूपत्वात् कारणात्, द्रव्यपर्यायोभयरूपत्वं च अनुवृत्तव्यावृत्ताकारसंवेदनग्राह्यत्वात् । किमित्याहप्रत्यक्षसिद्धमेवेति । एतदेव भावयति-तथाहीत्यादिना तथाहीयुपप्रदर्शने, मृत्पिण्डशिवकस्थासकघटकपालादिषु भेदेषु, अविशेषेण सामान्येन, सर्वत्राऽनुवृत्तो मृदन्वयः संवेद्यते तथानुभवात् । प्रतिभेदं च भेदं भेदं प्रति च, मृत्पिण्डादिपर्यायव्यावृत्तिः, संवेद्यत इति वर्तते । एतदावनायैवाह- तथा चेत्यादि । तथा च न यथाप्रतिभासं न यथाकारं, मृत्पिण्डादिसंवेदनम् , तथाप्रतिभासमेव शिवकादिषु, संवेदनमिति वर्तते । कुतो नेत्याह- आकारभेदानुभवात् कारणात्,
Page #90
--------------------------------------------------------------------------
________________
९८ .
अनेकान्तजयपताकान च यथाप्रतिभासभेदं तद्विजातीयेषु मृत्पिण्डादिविजातीयेषु । केष्कि त्याह- उदकदहनपवनादिषु भेदेषु,तथाप्रतिभासभेदमेव शिवकादिषु कुत इत्याह- मृदन्वयानुभवात् कारणात् । न चास्य स्वसंवेद्यस्यापि संवेदनस्यापह्नवोऽपलापः, कर्तु युज्यते, प्रतीतिविरोधात् । न चेत्यादि। न च निराकारमेवैकान्तेन,स्वसंवेदनम् । कुत इत्याह- अर्थान्तरस्येव अविषयाभिमतस्य, ततः संवेदनात् । किमित्याह-विवक्षितार्थी परिच्छेदात् । एतद्भावनायाह- न हीत्यादि । न यस्मादर्थाकारा नुभवव्यतिरेकेणाऽपरोऽन्योऽर्थपरिच्छेद इति, अतिप्रसङ्गात्, अति प्रसङ्गश्च तदाकारताऽभावे तद्वदपरपरिच्छेदेन । दोषान्तरमाह-सर्वस्य सेवेदनस्येति प्रक्रमः, सर्वार्थपरिच्छेत्तृत्वापत्तेश्च परिच्छेद्यवदपरिच्छे द्याकारशून्यत्वाविशेषादिति हृदयम् ।।
प्रदीपवत्प्रतिनियतार्थप्रकाशकस्वभावत्वात् तस्यायमदोषइति चेत् । न, तद्धांतिक्रमात् , तदवगुण्ठितपदार्थस्यापरेणाम तीतेः, तथानुभवाभावात् , तस्यापि च ज्ञानत्वेनोक्तदोषानतिवृत्तेः। प्रकाशकं ग्राहकमेवेति चेत् । अतदाकारं कथं तद्ग्राहकमिति वाच्यम् । किमत्रोच्यते ? तस्यार्थीकारतानुपपत्तेः, अर्थात् तस्य व्यतिरिक्ततरविकल्पायोगेन तत्रासम्भवात्-व्यतिरिक्तत्वे, ना सावर्थस्य, सङ्गानुपपत्तेः; अव्यतिरिक्तत्वे तु न संवेदने, अर्थाः त्मकत्वात् , अर्थतुल्याकारताया अप्यमूर्तस्योपरञ्जकयोगाभावें नाभावादिति । यत्किश्चिदेतत् , अभिप्रायापरिज्ञानात् , संवेदना थग्रहणपरिणामस्याकारताभ्युपगमात् , तथा चोक्तदोषानुप. पत्तेः, तस्यैव तथारूपत्वादिति । उक्तं च वादिमुख्येन-"न विषयग्रहणपरिणामादृतेऽपरः संवेदने विषयप्रतिभासो युज्यते युक्त्ययोगात्" इति ॥
पराभिप्रायमाह- प्रदीपवदित्यादिना। प्रदीपवदिति दृष्टान्तः प्रतिनियतार्थप्रकाशकस्वभावत्वात् कारणात् , तस्य संवेदनस्य , अय मनन्तरोदितो दोषः, अदोष इति चेत् । एतदाशङ्क्याह- नेत्यावि
Page #91
--------------------------------------------------------------------------
________________
स्त्रोपज्ञटीकासहिता।
.९९ म नैतदेवम् । कुत इत्याह- तद्धर्मातिक्रमात् प्रकाशकधर्मातिकमात् संवेदनस्य, अतिक्रमश्च तदवगुण्ठितपदार्थस्य संवेदने संवेदनप्रभोपचारात् संवेदनावगुण्ठितपदार्थस्य,अपरेण तदर्थान्तरभूतेन केनचित्,अप्रतीतेः कारणात् , अप्रतीतिश्च तथानुभवाभावात् , तस्यापि चापरस्य, ज्ञानत्वेन हेतुना, उक्तदोषानतिवृत्तेस्तद्धांतिक्रमानतिवृत्तेः, प्रदीपस्तु स्वभावगुण्ठितं तदपरेण संवेदनेन प्रत्याययतीत्येवं प्रकाशक इति तद्धर्मातिक्रमः । पराभिप्रायमाह- प्रकाशकं ग्राहकमेवेति चेत् निदर्शनमानं तु प्रदीपः । एतदाशङ्क्याह- अतदाकारमिति प्रक्रमादनाकारमर्थाकारशून्यं,कथं तद्ग्राहकमर्थग्राहकम् ,इति वाच्यमेतत् । आहकिमत्रोच्यते, तस्येति प्रक्रमात् संवेदनस्य, अर्थाकारतानुपपत्तेः, अनुपपत्तिश्च अर्थात् सकाशात् , तस्याऽऽकारस्य,व्यतिरिक्तेतरविकल्पायोगेन हेतुना, तत्र संवेदने, असंभवात् कारणात् । एतदेव भावयति- व्यतिरिक्तत्व इत्यादिना । व्यतिरिक्तत्वेऽर्थाकारस्याभ्युपगम्यमाने, नासावर्थस्याऽऽकारः । कुत इत्याह- सगानुपपत्तेः तस्येति संबन्धाभावात् । अव्यतिरिक्तत्वे तु न संवेदनेऽर्थीकारः । कुत इत्याह- अर्थात्मकत्वात अर्थ एवाऽसाविति । अर्थतुल्याकारताऽर्थाकारतेत्यप्यसदित्यावेदयन्नाह- अर्थेत्यादिना । अर्थतुल्याकारताया अपि । किमित्याह- अमूर्तस्य संवेदनस्य, उपरखकयोगाभावेन च्छायाण्वादिसं. बन्धाभावेनेत्यर्थः, अभावात् कारणात् , अाकारतानुपपत्तिरिति क्रिया । एतदाशङ्क्याह-यत्किश्चिदेतत् अनन्तरोदितम्।कुत इत्याहअभिप्रायापरिज्ञानात् । एतदेवाह-संवेदनेत्यादिना संवेदनस्याऽर्थमहणपरिणामस्तथानुभवसिद्धो बहिर्मुखावभासः संवेदनार्थग्रहणपरिणामस्तस्यार्थाकारताभ्युपगमात् । तथा च एवं च,उक्तदोषानुपपत्तेः,अनुपपत्तिश्च तस्यैव संवेदनस्य, तथारूपत्वात् अर्थग्रहणपरिणामरूपत्वास् । न चैतत्स्वमनीषिकयोच्यत इति ज्ञापकमाह- उक्तं च वादिमुख्येन श्रीमल्लवादिना सम्मतौ । किमित्याह- न विषयग्रहणपरिमामादृतेऽपरोऽन्यः, संवेदने विषयप्रतिभासस्तत्प्रतिबिम्बादिरूपः ।
Page #92
--------------------------------------------------------------------------
________________
१००
अनेकान्तजयपताकायुक्त्ययोगादिति, युक्त्ययोगश्च लेशतो दर्शित एव । विशेषतस्तु सर्वज्ञसिद्धिटीकातोऽवसेयः ॥
न चेदं संवेदनं भ्रान्तमिति शक्यते वक्तुम्, देशकालनरावस्थाऽभेदेन प्रवृत्तेः, तथाहि-देशान्तरे, कालान्तरे, नरान्तरे, अवस्थान्तरे च मृत्पिण्डादिषु यथोक्तलक्षणमेव संवेदनं प्रवर्तते, न चार्थप्रभवमविसंवादिसंवेदनं विहाय जातिविकल्पेभ्यः पदार्थव्यवस्था युज्यते, प्रतीतिबाधितत्वेन तेषामनादेयत्वात् । न चैः कान्तनित्येषु यथोक्तसंवेदनसम्भवः, व्यावृत्ताकारनिबन्धनस्य पर्यायभेदस्याभावात्, अन्यथैकान्तनित्यत्वानुपपत्तेः । तथा चोक्तम्"भावेष्वेकान्तनित्येषु नान्वयव्यतिरेकवत् । संवेदनं भवेद् धर्मभेदाभावादिह स्फुटम्" ॥१॥ इत्यादि ।
तथैकान्तनश्वरेष्वपि नाधिकृतसंवेदनभावो युज्यते, अनुत्ताकारनिबन्धनस्य द्रव्यान्वयस्याभावात् ।। ___न चेदमित्यादि । न चेदं संवेदनमधिकृतमन्वयव्यतिरेकवत्, भ्रान्तमिति शक्यते वक्तुम् । कुत इत्याह- देशकालनरावस्थाभेदेन प्रवृत्तेः कारणात् । एतद्भावनायैवाह- तथाहीत्यादि । सथाहीति पूर्ववत्, देशान्तरे कालान्तरे नरान्तरे अवस्थान्तरे च मृत्पिण्डादिषु यथोक्तलक्षणमेव संवेदनं प्रवर्तते, न तु गगनाक नति-मायोदक-स्थाणुपुरुष-शङ्खादिपीतादिसंवेदनवद् देशान्तरादा न्यथारूपमिति । न चार्थप्रभवं तद्भावभावितया, अविसंवादि बाधा ऽभावेन, संवेदनं विहाय परित्यज्य, जातिविकल्पेभ्यो व्यतिरिक्ताव्य तिरिक्तादिलक्षणेभ्यः, पदार्थव्यवस्था युज्यते । कुत इत्याह-प्रतीतिबा धितत्वेन हेतुना,तेषां जातिविकल्पानाम्, अनादेयत्वात् । न चेत्यादि न चैकान्तनित्येषु पदार्थेषु, यथोक्तसंवेदनसंभवो यथोक्तमन्वयव्य तिरेकवत् । कुतो न संभव इत्याह- व्यावृत्ताकारनिबन्धनस्य पर्या यभेदस्याभावात् एकान्तनित्येषु । अन्यथा पर्यायभेदे सति
Page #93
--------------------------------------------------------------------------
________________
स्वोपज्ञटीकासहिता।
१०१ एकान्तनित्यत्वानुपपत्तेः । तथा चोक्तमिति ज्ञापकमाह- भावेष्वेकान्तनित्येषु अप्रच्युतानुत्पन्नस्थिरैकस्वभावेषु, नान्वयव्यतिरेकवत् संवेदनं भवेत् । कुत इत्याह-धर्मभेदाभावात् पर्यायभेदाभावात, इह स्फुटमित्यादि । तथैकान्तनश्वरेष्वपि, भावेष्विति प्रक्रमः । नाधिकृतसंवेदनभावो युज्यते अधिकृतमन्वयव्यतिरेकवत् । कुतो न युज्यत इत्याहअनुवृत्ताकारनिबन्धनस्य द्रव्यान्वयस्याऽभावात् ॥ - न च निरन्वयनश्वरवादिनस्ततस्तत्सदृशान्यप्रभवः संभवति, सर्वथा हेतुनिवृत्तावहेतुकत्वप्रसङ्गात् , अन्यथाऽन्वयसिद्धेरिति ।
उक्तं च"सर्वथा कारणोच्छेदाद् भवेत् कार्यमहेतुकम् ।
तच्छक्त्यवयवाधारखभावानामनन्वयात्"॥१॥इत्यादि। न चास्य संवेदनस्य बाधकः प्रत्ययोऽस्ति, कदाचिदप्यनुपलब्धेः । न च योगिप्रत्ययो बाधक इति युज्यते वक्तुम , प्रमाणाभावात् ।
उक्तं च"नित्यं योगी विजानाति क्षणिक नेति का प्रमा?।
देशनाया विनेयानुगुण्येनापि प्रवृत्तितः ॥१॥इत्यादि । तस्मादन्वयाविनाभूतो व्यतिरेकः, व्यतिरेकाविनाभूतश्चान्वय इति वस्तुस्वभावः। तथा चोक्तम्"नान्वयस्तद् विभेदत्वाद् न भेदोऽन्क्यवृत्तितः ।
मृद्भेदद्वयसंसर्गवृत्ति जात्यन्तरं हि तत्" ॥१॥ तस्मात् तद् यत एव नित्यम् , अत एवानित्यं द्रव्यात्मना नित्यत्वात्, तस्य चाभ्यन्तरीकृतपर्यायत्वात् यत एव चानित्यम्, अत एव नित्यं पर्यायात्मनाऽनित्यत्वात्, तस्य चाभ्यन्तरीकृतदव्यत्वात् । उभयरूपस्य चानुभवसिद्धत्वात् , एकान्तभिन्नस्य लोभयस्याभावात् , तथानुपलब्धेः ।
Page #94
--------------------------------------------------------------------------
________________
१०२
अनेकान्तजयपताका
उक्तं च" द्रव्यं पर्यायवियुतं पर्याया द्रव्यवर्जिताः । ___ क्व कदा केन किंरूपा दृष्टा मानेन केन वा ?"1१।इत्या।
न चेत्यादि । न च निरन्वयनश्वरवादिनस्ततो निरन्वयन राद् वस्तुनः, तत्सदृशस्याऽन्यस्य प्रभव उत्पादः, संभवति । कुतो संभवतीत्याह- सर्वथा हेतुनिवृत्तौ सत्यां, अहेतुकत्वप्रसङ्गात् तत्वं रशस्याऽभावात् तद्भाव इति कृत्वा । अन्यथा तत एव तद्भावात् ,अन्य यसिद्धेरिति । उक्तं चेति ज्ञापकमाह- सर्वथा कारणोच्छेदात तन्नि न्वयभवनेन, भवेत् कार्यमहेतुकं अभावाद् भावभूतेः, तच्छक्तेः कारण शक्तेरवयवास्तच्छक्त्यवयवाः शक्तिशक्तिमतोरभेदात् कारणावयव एव तच्छक्त्यवयवाश्च ते आधारस्वभावाश्चेति प्रक्रमात् कार्यस्ये विग्रहः, तेषामनन्वयादुच्छेदेन, इत्यादि । न चास्य संवेदनस्याऽन्वर व्यतिरेकवतः, बाधकः प्रत्ययोऽस्ति । कुत इत्याह- कदाचिदप्यनु लब्धेः जातिविकल्पभावनाकालेऽपि । न चेत्यादि । न च योगि त्ययोऽपास्ताशेषप्रपञ्चः, बाधकः, अस्य प्रत्ययस्येति प्रक्रमः, इति युज्य वक्तुम् । कुतो न युज्यत इत्याह-प्रमाणाभावात् योगिप्रत्ययाग्रहणा त्यर्थः । उक्तं चेति ज्ञापकमाह-नित्यं योगी विजानाति क्षणि नेति का प्रमा न किञ्चित् प्रमाणं तज्ज्ञानाप्रहणादिति । देश प्रमाणं भविष्यतीत्येतदपोहायाह- देशनाया विनेयानुगुण्येनाज प्रवृत्तितः- भूतात्मनो द्वैताद्वैतदेशनावत् , ब्राह्मणस्य मृतज याऽमृतदेशनावञ्चेत्यादि । यस्मादेवम्, तस्मादित्यादि तस्मादन्वर विनाभूतो व्यतिरेकस्तद्गर्भत्वात्, व्यतिरेकाविनाभूतश्चान्वयस्तद्ग त्वादेवेति,वस्तुस्वभावो वस्तुन आत्मीया सत्ता । तथा चोक्तमिति ज्ञा कमाह- नान्वयेत्यादि । नान्वयस्तत् प्रक्रमाद् घटवस्तु। कुत इत्या भेदत्वाद् ऊर्ध्वादिरूपेणाऽवधारणप्रतिषेधश्चायमन्वय एव नेति एवं न भेद इति न भेद एव । कुत इत्याह- अन्वयवृत्तितः मृत वृत्तेः, किं तर्हि ? मृद्भेदद्वयसंसर्गवृत्त्यन्वयभेदसंबन्धेन वर्तते । जा
Page #95
--------------------------------------------------------------------------
________________
स्वोपज्ञटीकासहिता। न्तरमेव तद्वस्त्वित्यादिपूर्वपक्षग्रन्थयोजनामाह-यस्मादेवम् , तस्मादित्यादि । तस्मात् तद् वस्तु, यत एव नित्यमनुवृत्ताकारप्रत्ययग्राह्यम्, अतएवानित्यं व्यावृत्ताकारप्रत्ययग्राह्यम् । उपपत्तिमाह- द्रव्यात्मना नित्यत्वात् कारणात् , तस्य च द्रव्यात्मनः, अभ्यन्तरीकृतपर्यायत्वात् , अन्यथा द्रवणानुपपत्तिरिति भावना । यत एव चानित्यमतएव नित्यमिति पूर्ववत् । उपपत्तिश्च पर्यायात्मनाऽनित्यत्वात् कारगात् , तस्य च पर्यायात्मनः, अभ्यन्तरीकृतद्रव्यत्वात् , अन्यथा पर्ययणायोग इति हृदयम् । उभयरूपस्य च द्रव्यपर्यायोभयापक्षया, अनुभवसिद्धत्वात् अनुवृत्तव्यावृत्ताकारसंवेदनभावेन । एकान्तभित्रस्य चोभयस्य द्रव्यपर्यायलक्षणस्य । किमित्याह- अभावात् । अभावश्च तथानुपलब्धेस्तथेतीतरेतरविविक्ततयाऽदर्शनात् । उक्तं चेति ज्ञापकमाह- द्रव्य पर्यायवियुतं एकान्तेन, तथा पर्याया द्रव्यवर्जिता एकान्तेनैव, क देशे, कदा काले, केन प्रमात्रा, किंरूपा इतरेतरवैकल्येन नीरूपतापत्तेरित्यर्थः, दृष्टा उपलब्धाः, मानेन केन वा प्रत्यक्षादिना ? इत्यादि ।।
स्यादतत् पर्यायनिवृत्तौ द्रव्यनिवृत्तिर्भवति, किंवा न ? इति, किश्चातः ? यदि भवति, अनित्यमेव तत् , निवृत्तिमत्त्वात् , पर्यायस्वात्मवत् । अथ न भवति, हन्त ! तर्हि द्रव्यपर्याययोर्भेदप्रसङ्गा, तथाहि-पर्यायेभ्योऽन्यद् द्रव्यम् , तनित्तावपि तस्यानिवृत्तेः, क्रमेलकादिव कर्क इति । एतदप्ययुक्तम् , कथश्चिनिवृत्तिभावात् , तत्तनिवृत्तेः, संबन्धबीजभावात् : अनुभवसिद्धश्चायम् , तथाहि-द्रव्यपर्यायोभयरूपं वस्तु, इतरेतरविनिर्मुक्तस्योभयस्याग्रहणात् ; युक्त्यनुपपत्तेश्व, अनुपपत्तिश्चोभंद्याकाररहितस्य मृद्द्रव्यस्याऽसंभवात् ,ऊर्जाद्याकारस्यापि मृद्रव्यरहितस्य, न हि मुकुलितार्धमुकुलिताद्याकारशून्यं वियत्कुसुमद्रव्यमस्ति; न चाद्रव्यास्तन्मुकुलितादयः । इत्यन्योन्यानुविद्धोभयरूपवस्तुसिद्धिः॥ :: स्यादेतत् अथैवं मन्यसे, पर्यायनिवृत्तौ सत्यां, द्रव्यनिवृत्तिर्भवति किंवा नेति, किचातः । यदि भवत्यनित्यमेव तद् द्रव्यम्, निव
Page #96
--------------------------------------------------------------------------
________________
१०४
अनेकान्तजयपताकात्तिमत्त्वात् कारणात् , पर्यायस्वात्मवदिति दृष्टान्तः । अथ न भवति हन्त तर्हि द्रव्यपर्याययोर्भेदप्रसङ्गः । एतदेव भावयति- तथाहीत्या दिना । तथाहि- पर्यायेभ्यः सकाशात्, अन्यद् द्रव्यम्, तन्निवृत्ता वपि पर्यायनिवृत्तावपि, तस्यानिवृत्तव्यस्य अनिवृत्तेः कारणात्, क्रमे लकादुष्ट्रादिव कर्कोऽश्व विशेष इति निदर्शनमिति । एतदाशङ्कया ह-एतदप्ययुक्तम्।कुत इत्याह-कथञ्चित् केनचित् प्रकारेण तन्निमिन त्वलक्षणेन, निवृत्तिभावात् । कुत इत्याह- तत्तनिवृत्तेः तस्य द्रव्य पर्यायनिवृत्तेः। यदि नामैवं ततः किमित्याह-संबन्धबीजभावात् त निवृत्त इति तत्र संबन्धबीजभावः । अनुभवसिद्धश्वायं कथञ्चिन्नि त्तिभावः । एतदेव दर्शयति- तथाहीत्यादिना । तथाहीत्युपप्रदर्श द्रव्यपर्यायोभयरूपं वस्तु इतरेतरविनिर्मुक्तस्योभयस्याग्रहणादित्यु प्रायम् । तथा युक्त्यनुपपत्तेश्च, अनुपपत्तिश्चोभंद्याकाररहितस्य मृदा व्यस्याऽसंभवात्- न मूर्तमनाकारमित्यनुमानमेतत्, ऊर्ध्वाद्याका स्यापि मृद्रव्यरहितस्य, असंभवादिति वर्तते । न हीत्यादि । निद नम्, न हि मुकुलितार्धमुकुलिताद्याकारशून्यं वियत्कुसुमद्रव्यमा सर्वाविसंवादात्। न चाव्यास्तन्मुकुलितादयो वियत्कुसुममुकुलितादय इत्येवम् , अन्योन्यानुविद्धोभयरूपवस्तुसिद्धिः ।।
अत एव घटपर्यायनिवृत्तौ कपालकालेऽपि तबुद्ध मृदनुभूयते, मृन्निवृत्तौ चोवादिपर्यायवद् नानुभूयेत । मृदनि त्तावप्यूर्वादिनिवृत्तित एव तद्भेदसिद्धिरिति चेत् । न, ऊर्ध्वाद मृदः सर्वथा भेदासिद्धेः, तत्स्वरूपाननुविद्धस्यानुपलम्भात्, क्षीरोदकादिभिर्व्यभिचार इति चेत् । न, तेषां पूर्व पश्चा भेदेनापि सिद्धेः, भिन्नोपादानत्वेन च तनिवृत्तावपि पृथग दस्तद्विकारापत्तेश्च । कपालाद्याकार एव तद्विकार इति चेत् न, तस्यापि मृदः सर्वथा भेदासिद्धेः । अत एव कथञ्चि दूर्वादिनिवृत्तिः, तदात्मभूतकपालाद्याकारानिवृत्तेः, मृदोऽपि निवृत्तिः,तथाविधोवोधपृथग्भवनात्मस्वभावनिवृत्तेः, इति सद
Page #97
--------------------------------------------------------------------------
________________
खोपज्ञटीकासहिता।
१०५ त्रैव तद्भेदाऽभेदनान्तरीयकः शवलवस्तुव्यवस्थाकारी सकलपमात्रभ्रान्तसंवेदननिवन्धनः कथञ्चिन्नित्तिभावः सुयुक्तियुक्त इति त्यक्त्वा परोदित इति मात्सर्य तत्त्वव्यवस्थाहेतुरित्याश्रित्य महागुणं भाव्यतामेष इति ।।
यत एवमत एव घटपर्यायनिवृत्तौ सत्यां, कपालकालेऽपि तद्बुदया कपालबद्धथा, मृदनुभूयते । मृन्निवृत्तौ च सत्याम् , ऊर्ध्वादिपर्यायबन्नानुभूयेत; न हि मूनिवृत्तावूर्खादिपर्यायोऽनुभूयते, मृदनिवृत्ताचापि सत्याम् , ऊर्ध्वादिनिवृत्तित एव कारणात् , तद्भेदसिद्धिमृद ऊर्ध्वादेमैंदसिद्धिः, इति चेत् । एतदाशङ्क्याह-न, ऊर्ध्वादेः पर्यायस्य, मृदः सकाशात् , सर्वथा भेदासिद्धेः; असिद्धिश्च तत्स्वरूपाननुविद्धस्य मृत्स्वरूपाननुविद्धस्य, अनुपलम्भादूर्खादिपर्यायस्य । पराभिप्रायमाहक्षीरोदकादिभिः । आदिशब्दाद् मन्जितादौ गुडदध्यादिग्रहः, व्यभिचारस्तेषामपीतरेतरस्वरूपाननुवेधेनानुपलम्भेऽपि भेदादिति चेत् । एतदाशङ्क्याह- नेत्यादि । न नैतदेवं, तेषां क्षीरोदकादीनां, पूर्व संबन्धात्, पश्वाञ्च हंसादिविभागकरणेन, भेदेनापि सिद्धेः कारणात् ; न चैवमिह भेदेनापि सिद्धिः । दोषान्तरमाह-भिनेत्यादिना । भिभोपादानत्वेन च मृदू कारयोरिति प्रक्रमः, तन्निवृत्तावप्यूर्खाकारनिवृत्तावपि सत्यां, पृथग मृदः सकाशात् , तद्विकारापत्तेश्च ऊर्ध्वादिविकारापत्तेश्च काष्ठभस्मवदिति । कपालाद्याकार एव तद्विकार ऊर्ध्वाद्याजरविकारः काष्ठभस्मकल्प इति चेत् । एतदाशङ्क्याह-न, तस्यापि पालाद्याकारस्य, मृदः सकाशात् , सर्वथा भेदासिद्धेः । अत एव कथवदूर्ध्वादिनिवृत्तिर्न सर्वथा । कुत इत्याह- तदात्मभूतोवाद्यात्मशतकपालाद्याकारानिवृत्तेः। मृदोऽपि च निवृत्तिः,कथञ्चिदिति वर्तते, याविधोर्खाद्यपृथग्भवनाऽऽत्मस्वभावनिवृत्तेः; तदनिवृत्तौ तु तदपृथग्भबनायोग इति भावना । इत्येवम् , सर्वत्रैव पटादिदीर्घत्वादो, तद्भेदाभेदनातरीयकः, द्रव्यपर्यायभेदाभेदनान्तरीयकः, कथञ्चिन्निवृत्तिभाव इति संबन्धः । अयमेव विशिष्यते-शबलवस्तुव्यवस्थाकारी द्रव्यपर्यायश
१४
Page #98
--------------------------------------------------------------------------
________________
१०६
अनेकान्तजयपताका
बलवस्तु व्यवस्थाकरणशीलः । पुनरपि विशिष्यते - सकलेत्यादिना । सकलप्रमातृणामभ्रान्तं यत्संवेदनं तन्निबन्धनस्तत्कारणभूतस्तद्व्यव स्थापितो वेति, कथञ्चिन्निवृत्तिभावोऽनन्तरनिदर्शितस्वरूपः, अनुभ वविरुद्धकुयुक्त्यपोहेन सुयुक्तियुक्तः, इत्यस्माद्धेतोः, त्यक्त्वा परोदित इत्येवंनिबन्धनं मात्सर्य, तथा, तत्त्वव्यवस्थाहेतुः सर्वापरिकल्पित सिद्धेः, इत्येवंनिबन्धनमाश्रित्य महागुणम् । किमित्याह- भाव्यतामेष कथञ्चिन्निवृत्तिभाव इति ॥
न चासौ कपालमृद् घटमृदः सर्वथाऽन्यैव, तदत्यन्त तस्या अमृत्त्वप्रसङ्गात्ः यथोदकं न मृत्, ततोऽत्यन्तभेदादू, एवमसा वपि स्यात्, तस्याविशेषादिति । स्यादेतत्स्वभावेभ्यो व्यावृत्त त्वात् कपालपदार्थस्य मृत्स्वभावता, नोदकस्य, तेभ्यो व्यावृत्त्य भावात् । इत्यप्यसमीक्षिताभिधानम्, वस्तुनोऽसजातीयेतरव्यावृ त्ताव्यावृत्तोभयस्वभावाऽऽपत्तेः, तथाहि - अमृत्स्वभावेभ्य एवोद कादिभ्यो व्यावृत्तिस्वभावः, एवं सति कपालपदार्थः स्यात्, न मृत्पिण्डशिवकघटादिभ्यो मृत्स्वभावेभ्योऽपि तद्वयावृत्ताव स्वभावत्वप्रसङ्गात् ; यथैवामृत्स्वभावेभ्यो व्यावृत्तः सन् मृत्स्व भावो भवति, एवं मृत्स्वभावेभ्योऽपि व्यावृत्तोऽमृत्स्वभावः स्यात न्यायानुगतमेतत्; अन्यथाऽमृत्स्वभावव्यावृत्तावपि मृत्स्वभाव त्वानुपपत्तेः ॥
;
आरेकान्तरनिरासायाह- न चेत्यादि । न चासौ कपालमृद् घट मृदः सकाशात्,सर्वथाऽन्यैवाऽर्थान्तरभूतैव । कुत इत्याह- तदन्त्यतभे घटमृदोऽत्यन्तभेदेऽभ्युपगम्यमाने, तस्याः कपालमृदः, अमृत्त्वप्रसङ्गात् कथमित्याह - यथोदकं न मृत् ततो घटमृदः, अत्यन्तभेदात् एवम सावपि कपालमृत् स्यात् अमृदेव । कुत इत्याह- तस्य अत्यन्तभेद घटमृदा सह,अविशेषादिति । पराभिप्रायमाह - स्यादेतदित्यादिना स्यादेतत् अतत्स्वभावेभ्योऽमृत्स्वभावेभ्य उदकादिभ्यः, व्यावृत्तत्वा कारणात्, कपालपदार्थस्याधिकृतस्य मृत्स्वभावता नोदकस्य मृत्स्वभा
Page #99
--------------------------------------------------------------------------
________________
स्वोपज्ञटीकासहिता।
१०७, वता।कुत इत्याह-तेभ्यः अमृत्स्वभावेभ्य उदकादिभ्य एव, व्यावृत्त्यभावात् ; न ख़ुदकममृत्स्वभावेभ्यो व्यावृत्तममृत्त्वादेव,इत्येतदप्यसमीक्षिताभिधानं वर्तते । कुत इत्याह-वस्तुनः कपालमृदादेः, असजातीयेतरेभ्यो व्यावृत्ताव्यावृत्ततयोभयस्वभावाऽऽपत्तेः। एतदेव भावयति-तथाहीत्यादिना । तथाहीति पूर्ववत् । असृत्स्वभावेभ्य एवोदकादिभ्यः, आ. दिशब्दाद् दहनादिग्रहः, व्यावृत्तस्वभावो भिन्नस्वभावः, एवं सत्यतत्स्वभावव्यावृत्त्यभ्युपगमे सति, कपालपदार्थः स्याद् न तु मृत्पिण्डशिवकघटादिभ्यो मृत्स्वभावेभ्योऽपि व्यावृत्तस्वभावः । कुत इत्याहतव्यावृत्तौ यथोदितमृत्स्वभावव्यावृत्तौ सत्याम्,अमृत्स्वभावत्वप्रसङ्गात् कपालपदार्थस्येति प्रक्रमः । एतद्भावनायैवाह- यथैवेत्यादि । यथैवामृत्स्वभावेभ्यो व्यावृत्तः सन् कपालपदार्थः, मृत्स्वभावो भवति, एवं मृत्स्वभावेभ्योऽपिव्यावृत्तःसन्नमृत्स्वभावः, स्याद् भवेत् ,न्यायानुगतमेतत्, न्यायश्च यो यत्स्वभावेभ्यो व्यावर्तते नासौ तत्स्वभावो भवतीत्ययम्। इत्थं चैतदङ्गीकर्तव्यमित्याह- अन्यथेत्यादि । अन्यथैवमनभ्युपगमे। किमित्याह- अमृत्स्वभावव्यावृत्तावपि सत्यां, प्रक्रमात् कपालपदाथस्य मृत्स्वभावत्वानुपपत्तेः, यो यत्स्वभावेभ्यो व्यावर्तते न स तत्स्वभाव एव भवतीति कृत्वा न्यायानुगतमेतदिति ।। ____स्यादेतत् , वस्तुतःसजातीयेतरव्यावृत्तस्वरूपत्वात् प्रतिनियतैकस्वभावत्वात् सर्वभावानां यथोक्तदोषाभावः, तथा च यथैवासौ कपालभाव उदकादिभ्यो व्यावृत्तः सन् मृत्स्वभावः, एवं घटादिभ्योऽपि, तस्यैकखभावत्वात् तेनैव रूपेण व्यावृत्तत्वात् । इत्येतदप्ययुक्तम् , अनुभवविरुद्धत्वात् , तथाहि- यदि स येनैव खभावेनामृत्स्वभावेभ्यो व्यावृत्तस्तेनैव मृत्स्वभावेभ्योऽपि,हन्त ! बर्हि यथैवामृत्स्वभावभावैकान्तविभिन्नावभासहेतुस्तथाव्यावृत्तेः, एवं मृत्स्वभावापेक्षयाऽपि स्यात् ,तदत्यन्तविलक्षणबुद्धिजननस्वः भावव्यावृत्त्यन्यथानुपपत्तेः, न च भवति, मृत्स्वभावस्य तत्रा: नुभूयमानत्वात् । प्रतिनियतैकस्वभावानुभवनिबन्धनाभ्युपगमे च
Page #100
--------------------------------------------------------------------------
________________
१०८
अनेकान्तजयपताका
पर्यायतः समानपरिणाम एवाभ्युपगत इति न काचिन्नो वा घेति । अतो न चासौ कपालमृद् घटमृदः सर्वथाऽन्यैव, तद त्यन्तभेदे तस्या अमृत्त्वप्रसङ्गादिति स्थितम् ॥
"
"
पराभिप्रायमाह - स्यादेतदित्यादिना । स्यादेतत् वस्तुतः पर मार्थतः, सजातीयेतरव्यावृत्तस्वरूपत्वात् कारणात्, प्रतिनियतै कस्वभाव त्वात् सर्वभावानां कपालादीनाम् । किमित्याह- यथोक्तदोषाभाव अमृत्स्वभावव्यावृत्तावपि मृत्स्वभावत्वानुपपत्त्यवसानदोषाभावः । एत द्भावनायैवाह - तथा चेत्यादि । तथा च यथैवासौ कपालभाव उदकादिभ्यो व्यावृत्तः सन् मृत्स्वभावः, एवं घटादिभ्योऽपि व्या वृत्तो मृत्स्वभाव एव । कुत इत्याह- तस्यैकस्वभावत्वात् तेनैव एकस्व भावेन रूपेण व्यावृत्तत्वादिति । एतदाशङ्कयाह - एतदप्ययुक्तम् कुत इत्याह- अनुभवविरुद्धत्वात् कारणात् । एतदेव भावयति - तथाहीत्यादिना । तथाहीत्युपप्रदर्शने, यदि स कपालपदार्थः, येनै स्वभावेनाऽमृत्स्वभावेभ्यो व्यावृत्त उदकादिभ्यः तेनैव मृत्स्वभावे भ्योऽपि मृत्पिण्डादिभ्यः । एतदाशङ्कयाह - हन्त ! तहीति, हन्तशब्द विवादे, तर्ह्यक्षमायां यथैव येनैव प्रकारेण, अमृत्स्वभावेभ्यो भावेभ्य उदकादिभ्य एकान्तविभिन्नावभासहेतुरसौ । कुत इत्याह- तथा ते प्रकारेण व्यावर्त्यमानाऽत्यन्तविलक्षणबुद्धिजननस्वभावलक्षणेन, व्या वृत्तेः कारणात् ; एवं मृत्स्वभावापेक्षयाऽपि स्यात्तदेकान्तविभिन्नावभा सहेतुरेव । कुत इत्याह- तदत्यन्तविलक्षणबुद्धिजननस्वभावव्या श्यन्यथाऽनुपपत्तेः। व्यावर्त्यमानात्यन्तविलक्षणबुद्धिजनन स्वभावेन व्या वृत्तेरन्यथाऽनुपपत्तेरिति । नच भवति तदेकान्तविभिन्नावभासहेतुः । कु इत्याह- मृत्स्वभावस्य तत्र कपालपदार्थे, अनुभूयमानत्वात् का णात् । अथ ज्वरादिशमनौषधिनिदर्शनेन प्रतिनियतं मृत्पिण्डादिषु तथैकस्वभावानुभवनिबन्धनं किञ्चिदिष्यते, इत्येतदाशङ्कयाह- प्रतिनि यतेत्यादि । प्रतिनियतं च तदेकस्वभावाऽनुभवनिबन्धनं च तुल्य भावानुभवकारणं चेति विग्रहः, तस्याभ्युपगमः, तस्मिन् सवि पर्यायतः पर्यायेण, समानपरिणाम एवाभ्युपगतः प्रतिनियतशब्देन
"
Page #101
--------------------------------------------------------------------------
________________
स्वोपज्ञटीकासहिता।
इत्येवं, न काचिन्नोऽस्माकं, बाधेति । अतो नचासौ कपालमृद् घटमृदः सर्वथाऽन्यैव, तदत्यन्तभेदे तस्या अमृत्त्वप्रसङ्गात् । इति स्थितं निगमनमेतत् पूर्ववत् ।। ... तत्तन्मृत्त्वेनान्वयः साधयितुमिष्टः, एतच्च मृत्त्वमधिकृतघटमृदोऽत्यन्तभिन्नायामपि घटान्तरकपालमृदि विद्यत एवेति व्यभिचारि तत्कथं न बाधेति ?। अत्रोच्यते-- अधिकृतघटमृद एव खकपालमृत्त्वात् एकवस्तुसन्तानत्वात् , सतः सर्वथा असत्त्वानापत्तेः,तदुत्पत्यादिदोषप्रसङ्गात् इति नैवासौ कपालमृद् घटमृदः सर्वथाऽन्यैव, तस्या एव तथाभावात् , अन्यथाऽवीजत्वेन कपालानुपपत्तेः, असत एव सत्तायोगादतिप्रसङ्गादिति । न चैवं घटान्तरकपालमृदधिकृतघटमृदात्मिका, अतत्पूर्विकत्वात् , सदन्तरस्य सदन्तरत्वविरोधात् तद्भावेनेतरोच्छेदाऽऽपत्तेः, तद्वदितरस्यातदुपादानत्वप्रसङ्गात् , अहेतुकत्वाऽऽपत्तेः, युक्त्यनुभवविरोधात मृत्समानपरिणामा तु भवति, तथाप्रतीतेः । न चैतावदन्वयलक्षणम् , अपि त्वनेकखभावे वस्तुनि तत्तन्मृत्त्वम् , एतच्च तद्रूपशक्तिपरिणामादिसङ्गतं तत्तथाभावाध्यवसायहेतुरविगानप्रतीयमानं विशिष्टमेव, इति नात्यन्तभिन्नायां मृदि वर्तत इति बाधाभावः ।। __ पराभिप्रायमाह- तत्तन्मृत्त्वेनेत्यादिना । तस्या विवक्षितकपालसूदः,तन्मृत्त्वमधिकृतघटमृत्त्वं तत्तन्मृत्त्वं,तेन तस्या एव तथाभावेनेत्यर्थः, अन्वयः साधयितुमिष्टो जैनस्य, मृत्त्वमत्र साधनम् ,तन्मृत्त्वं तुसाध्यम्, एतञ्च मृत्त्वम् , अधिकृतघटमृदः सकाशात् ,अत्यन्तभिन्नायामपि। कस्यामित्याह-घटान्तरकपालमृदि,भिन्नसन्तानवर्तिन्यां,विद्यत एवेति कृत्वा, व्यभिचार्यकान्तिकम्-तन्मृत्त्वेऽतन्मृत्त्वे च भावात् प्रमेयत्ववदनित्यत्वसिद्धौ । यस्मादेवं तत्तस्मात् , कथं न बाधा, येनोच्यते न काचिन्नो बाधेति ? । एतदाशङ्कयाह-अत्रेत्यादि । अत्रोच्यते । किमित्याहअधिकृतघटमृद एव खकपालमृत्त्वाद् बाधाभाव इति वक्ष्यमाणकियायोगः, स्वग्रहणं घटान्तरकपालमृव्यवच्छेदार्थ, स्वकपालमृत्त्वं च
Page #102
--------------------------------------------------------------------------
________________
अनेकान्तजयपताका
,
एकवस्तुसन्तानत्वात् एक एवासौ वस्तुसन्तानो भावाव्यवच्छेदेन एकवस्तुसन्तानत्वं च सतः सर्वथाऽसत्त्वानापत्तेः नहि सदस भवति । कुत इत्याह- तदुत्पत्यादिदोषप्रसङ्गात् असदुत्पत्तितन्ना शसदन्तरोन्मज्जनप्रसङ्गादित्यर्थः इत्येवम्, नैवासा कपालमृद्विवक्षिता घटदो विवक्षिताया एव, सर्वथाऽन्यैव । अन्या तु भवत्यूर्ध्वाद्य पृथग्भ वनात्मस्वभावनिवृत्त्या, किन्त्वन्यैव न । कुत इत्याह- तस्या एव विवक्षितघटमृदः, तथाभावाद् विवक्षितकपालमृत्त्वेन भावात्, भावश्चा न्यथाऽन्येन प्रकारेण, तस्या एव तथाऽभवनलक्षणेन अबीजत्वेन हेतु ना, कपालानुपपत्तेर्विवक्षितकपालानुपपत्तेः । अनुपपत्तिश्च असत एवं सत्ताऽयोगात्, अयोगश्चातिप्रसङ्गात्, तत्प्रतिनियतशक्त्यभावेन तद्व तदन्तरापत्तेरिति हृदयम् । न चैवमित्यादि । न चैवं घटान्तर कपालम दविवक्षिता, अधिकृतघटमृदात्मिका विवक्षितघटमृदात्मिका । कुर इत्याह- अतत्पूर्विकत्वात् । सा अधिकृतघटमृत् पूर्वा यस्या विवक्षि तकपालमृदः सा तत्पूर्विका, न तत्पूर्विकाऽतत्पूर्विका तद्भावस्तस्मात् इहैव युक्तिमाह- सदन्तरस्येत्यादिना । सदन्तरस्य अधिकृतघट मृदादेः सदन्तरत्वविरोधाद् घटान्तरकपालमृत्त्वादिविरोधात् एनमेवाह - तद्भावेन सदन्तरस्य सदन्तरत्वभावेन, अधिकृतघटमृदादे र्घटान्तरकपालमृदादिभावेनेत्यर्थः । किमित्याह - इतरोच्छेदापत्तेः घटान्तरकपालमृदाद्युच्छेदाऽऽपत्तेः, अधिकृतघटमृदादौ तत्प्रवेशादित्यर्थः ततः किमित्याह - तद्वदितरस्येति । अत्र तद्वदिति घटान्तरकपालमृदा द्युच्छेदापत्तिवदितरस्य सदन्तरस्याधिकृतघटमृदादिनिबन्धनस्य, विव क्षितकपालमृदादेरुच्छेदापत्तिः । कुत इत्याह- अतदुपादानत्वम सङ्गात् । तदधिकृतघटमृद्वस्तूपादानं यस्य सदन्तरस्य विवक्षितक पालमृलक्षणस्य तत्तदुपादानं तद्भावस्तदुपादानत्वं तस्य नञ प्रतिषेधः, न तदुपादानत्वमतदुपादानत्वं, तत्प्रसङ्गात्, तस्यान्यः प्रविष्टत्वादित्यर्थः । यदि नामैवं ततः किमित्याह- अहेतुकत्वापत्तेः । इतरस्य प्राग्निदर्शितस्वरूपस्यं, एवं युक्त्यनुभवविरोधात् कारणात्, घटान्तरकपालमृधिकृत घटमृदात्मिकेति योजनीयम् । किन्तु मृत्समाने
ラ
११०
"
Page #103
--------------------------------------------------------------------------
________________
स्वोपज्ञटीकासहिता।
१११
सादि । मृत्समानपरिणामातु भवति घटान्तरकपालमृत् । कुत इत्याहतथाप्रतीतेः । तथा मृत्समानपरिणामतया प्रतीतेः परिच्छेदात् । अधिकृतघटकपालमृदप्ययमेवास्तु,इति तद्वदन्वयाभाव इत्येतदाशङ्कयाहन चैतावदित्यादि। नचैतावत्समानपरिणाममात्रम् , अन्वयलक्षणम् , अपि त्वनेकस्वभावे वस्तुनि घटमृदादौ, तत्तन्मृत्त्वमिति पूर्ववत् । एतच्च तत्तन्मृत्त्वं, तद्रूपशक्तिपरिणामादिसङ्गतमधिकृतघटमृद्रूपशक्तिपरिणामादिना सङ्गतं युक्तियुक्तम् , आदिशब्दात् तद्गन्धादिग्रहः । एतदेव विशिव्यते- तत्तथाभावाध्यवसायहेतुः तस्या अधिकृतघटमृदः, तथाभावो विवक्षितकपालमृद्भावः, तत्तथाभावः, तस्मिन्नध्यवसायस्तत्तथाभावाध्यवसायः ; तथा तत्स्वरूपग्राहको बोधविशेषस्तस्य हेतुः कारणं तत्तन्मृत्त्वम् ; तथा च सोऽयं घट इति तत्कपालेषु भवत्यध्यवसायः । एवमविगानप्रतीयमानं विशिष्टमेव तत्तन्मृत्त्वमिति नात्यन्तभिन्नायां मृदि प्रक्रमात् घटान्तरकपालमृदि, वर्तत इत्येवं बाधाऽभावः । ततश्च साधूक्तं न काचिद् नो बाधेति ॥ . एवमन्वयव्यतिरेकवद्वस्तुसिद्धौ यदपि परैश्चोद्यते-- तथापि तत्र किश्चिन्निवर्तत एवापरं तिष्ठत्येवेति तद्भेदापत्त्याऽनेकान्तवादहानादि । तदपि परिहतमेव, केवलोभयासिद्धेः, वस्तुन एव शबलरूपत्वाद् निवर्तमानस्य कथञ्चिदनिवर्तमानाव्यतिरिक्तस्वभावत्वात् , तत्तदनुभवसिद्धेस्तदेतदित्यवगमात् , न तदवेदिमोऽक्षयोपशमात् , अनिवर्तमानस्यापि कथञ्चिनिवर्तमानाव्यतिरिक्तस्वभावत्वात् , स्वभावस्य चापर्यनुयोगाद् न्याययुक्तत्वात् , अन्यथा वस्त्वनुपपत्तेरिति ॥ ... अतिदेशेन दूषणान्तरं परिहरन्नाह- एवमित्यादि । एवमुक्तभीत्या, अन्वयव्यतिरेकवद्वस्तुसिद्धौ सत्यां, यदपि परैश्चोद्यते कुशाग्रीयबुद्धिभिः, तथापि तत्र नित्यानित्ये वस्तुनि, किञ्चिद् निवर्तत एव, अ. न्यथैकान्तनित्यत्वाऽऽपत्तेः अपरं तिष्ठत्येव अन्यथैकान्तानित्यतापत्तेः । इत्येवं, तयोनिवर्तमानतिप्रतोश्रृंदापत्त्या कारणेन. अनेकान्तवादहानादि
Page #104
--------------------------------------------------------------------------
________________
अनेकान्तजयपताका
अनेकान्तवादहानम् - निवर्तमानस्यैकान्तानित्यतया, तिष्ठतश्च नित्यंत आदिशब्दात् तदेकान्तदोषश्वोक्तनीत्येति । तदपि परिहृतमेव । कु इत्याह- केवलोभयासिद्धेः । केवलयोरुभयोर्निवर्तमान तिष्ठतोरसि कारणात् परिहृतम् । एतदेव भावयति - वस्तुन इत्यादिना । वस्तुना शबलरूपत्वादुक्तनीतेः । एवं च निवर्तमानस्य कथञ्चित् केनचित् प्रकार सत्संबन्धबीजनिबन्धनेन, अनिवर्तमानाव्यतिरिक्तस्वभावत्वात्; एतते भावत्वं च तत्तदनुभवसिद्धेः, तस्मिन्ननिवर्तमाने तदनुभवसिद्धेर्निवर्त नानुभवसिद्धेः, सिद्धिश्च तदेतदित्यवगमात् कपालेषु घटकपालानी परिच्छेदात् । नायं नालिकेरद्वीपवासिनः प्रथमदर्शने, इत्याशङ्काऽपो याह - न तदवेदिनोऽक्षयोपशमात् । कपालेषु न घटकपालानी परिच्छेदः, कस्य?, तदवेदिनो घटावेदिनः । कस्मादित्याह अक्षयोपशम क्षयोपशमाभावात् धूमाग्निजन्यत्ववदिति भावनीयम् । लेशतः प्रा ङ्गिकमभिधाय प्रकृतमेवाह - अनिवर्तमानस्यापि कथञ्चिदिति पूर्वव निवर्तमान स्वभावाव्यतिरिक्तस्वभावत्वात् तत्तदनुभवसिद्धेरित्यादि थायोगं योजनीयम् । किमयमेवंभूतस्वभाव इत्येतत्परिजिहीर्षयाSS स्वभावस्य चापर्यनुयोगात् पर्यनुयोगाभावात्, अभावश्च न्या युक्तत्वात् । अनुभवसहायत्वेन विपक्षे ) बाधामाह- अन्यः वस्त्वनुपपत्तेः । तद्भेदाभेदमन्तरेण निवर्तमान तिष्ठतोरग्रहणेनाभा प्रसङ्गादित्युक्तप्रायम् । ततश्चैतदुक्तं भवति - अनेकान्तात्मके ि वस्तुतत्त्वे एकान्तविकल्पानवसर एव, यथा मेचके एकान्तकृष्ण दिविकल्पस्य । एवं च न तत्र किञ्चिदेकान्तेन निवर्तते, ना तिष्ठति, किं तर्हि ?, वस्त्वेव तत् तथा भवतीति सिद्धमेतत् । एविं चास्मिन्नेकान्तविकल्पनं सत्त्वादिनाऽग्न्यौष्ण्यादिप्रतिषेधकल्पम् । ३ भावितस्याद्वादमार्गेणाऽपकर्णयितव्यम् । इत्यलं विस्तरेण ॥
1
११२
न चेह किञ्चिद् न निवर्तते, एकान्तानिवृत्तौ तद्विलक्षण द्ध्यभावतः कपालप्रतिपन्यसिद्धेः, विशेषाभावात् तस्याप्रच्युतं नुत्पन्नस्थिरैकस्वभावत्वात् । न चोर्ध्वायाकार एवं कपालार्थ
Page #105
--------------------------------------------------------------------------
________________
खोपज्ञटीकासहिता।
११३ कारः,प्रतीत्यादिभेदतस्तद्भेदसिद्धेः। न चासन्ताविमौ,तथाप्रतिपतेः। न च द्विचन्द्रादिप्रतिपत्तिवद् भ्रान्तेयम् , अविगानतस्तद्भाचात् । न च चित्रे निम्नोन्नतप्रतिपत्त्या व्यभिचारः,तत्र समस्पर्शज्ञानबाधकोपलब्धेः । न चैवमस्यास्तत्सिद्धिः, तथानुभवाभावात् । न च दोषक्षये तद्भावे तत्तुल्यता, तद्भादे प्रमाणाभावात् । न च योगिज्ञानं प्रमाणमत्र, तत एव हेतोः। न च तथाविधस्तदुपदेश एव प्रमाणम्, तस्याप्याकारशून्यत्वे तदसंभवात् । न चासत्यपृष्ठा भ्रान्तिप्रतिपत्तिः, कचिददर्शनात् । अन्तरुपप्लवसमुद्भवाया अपि तद्रष्टुस्तदध्यारोपेण प्रवृत्तेः । न चाजन्मानुपलब्धपीवभावकामलिशङ्खपीतप्रतिपत्त्या व्यभिचारः, तद्भावजन्मान्तरोपलब्धिबलेन तत्प्रवृत्तेः, अन्यथाऽतिप्रसङ्गात् । इत्यनुपचरिताऽऽकारसिद्धया पर्यायसिद्धिः॥ नचेत्यादि। न चेह वस्तुनि, किञ्चिद् न निवर्तते,अपि तु निवर्ततेऽपि किञ्चित् । कुत इत्याह-एकान्तेत्यादि । एकान्तानिवृत्तौ सत्या, तत्तत्त्वेन तद्विलक्षणबुद्धथभावतः प्रक्रमाद् घटविलक्षणबुद्ध्यभावतः कारणात्। किमित्याह- कपालप्रतिपयसिद्धेः । असिद्धिश्च विशेषाभावात् , विशेषाभावश्च तस्य प्रक्रमाद् घटवस्तुनः, अप्रच्युतानुत्पन्नस्थिरैकस्वभावत्वात्। न चेत्यादि । न चोर्ध्वाद्याकार एवैकान्तेन कपालाद्याकारः 'प्रतीत्यादिभेदतः, आदिशब्दात् कार्यभेदग्रहः, तद्भेदसिद्धेरूर्वाद्याकारकपालाद्याकारयोर्भेदसिद्धेः। न चासन्ताविमौ ऊर्ध्वाधाकारकपालाद्याकारी, तथाप्रतिपत्तेरस्तित्वेन प्रतिपत्तेः । न च द्विचन्द्रादिप्रतिपत्तिवद् भ्रान्तेयमूर्ध्वाद्याकारकपालाद्याकारप्रतिपत्तिः । कुत इत्याह- अविगानतः अविगानेन, तद्भावादधिकृतप्रतिपत्तिभावात् । न च चित्रे निम्नोन्नतप्रतिपत्त्या अविगानभावोत्पन्नया,व्यभिचारोऽनैकान्तिकता। कुत इत्याहतत्र चित्रनिम्नोन्नतप्रतिपत्तौ, समस्पर्शज्ञानबाधकोपलब्धेः । न चैवमस्या ऊर्ध्वादिभेदप्रतिपत्तेः, तत्सिद्धिरभेदज्ञानबाधकसिद्धिः । कुत इत्याह- तथाऽनुभवाभावात् तथा तेन प्रकारेण भेदज्ञानबाधक
Page #106
--------------------------------------------------------------------------
________________
emamaliniashain
११४
अनेकान्तजयपताकाभावलक्षणेनाऽनुभवाभावात् । न च दोषक्षये सत्यात्मन एव, तदा अभेदज्ञानबाधकभावे, तत्तुल्यता चित्रनिम्नोन्नतप्रतिपत्तितुल्यता । कुत इत्याह- तद्भावे अभेदज्ञानबाधकभावे, प्रमाणाभावात्- दोषक्षये एवंभूतं ज्ञानं भविष्यति नान्यादृशमित्यत्र न प्रमाणम् । न च यो गिज्ञानं प्रमाणमत्र तद्भावे । कुत इत्याह- तत एव हेतोःप्रमाणाभावा देवेत्यर्थः । न चेत्यादि । न च तथाविधो भेदाभावप्रतिपादक: “अस न्तो भेदाः सदाभावात्" इत्यादिस्तदुपदेश एव योग्युपदेश एव/ प्रमाणमत्र । कुत इत्याह- तस्यापि योगिनः, आकारशून्यत्वे सति) तदसंभवात् उपदेशासंभवात् , किं ह्यनाकार उपदिशति ? । दोषान्तर माह-न चेत्यादिना । न चासत्यपृष्ठाऽसत्यपूर्वा, भ्रान्तिप्रतिपत्तिः। कुन इत्याह- कचिददर्शनात् असत्पृष्ठाया भ्रान्तेः । अन्तरुपप्लवसमुन वाया अपि चिन्मात्रोपलब्ध्यादिरूपायाः, तद्रष्टुः सत्यमात्राद्रष्टुः, तदध्यारोपेण सत्यमात्राध्यारोपेण केशायपेक्षया प्रवृत्तेः कारणात् । न चेत्यादि । न च आजन्मानुपलब्धपीतभावश्चासौ कामली च ना लिकेरद्वीपवासिप्रख्यस्तस्य शङ्खपीतप्रतिपत्तिस्तया व्यभिचारो न च । कुत इत्याह- तद्भावश्च पीतभावश्च जन्मान्तरोपलब्धिश्च संसारानादि तया तद्भावजन्मान्तरोपलब्धी एतयोर्मलं सामर्थ्य तेन, तत्प्रवृत्ते अनन्तरोदितपीतप्रतिपत्तिप्रवृत्तेः, अन्यथैवमनभ्युपगमे । किमित्याहअतिप्रसङ्गात् पञ्चवर्णातिरिक्तवर्णान्तरप्रतिपत्तिप्रसङ्गादित्यर्थः । इत्येवम् , अनुपचरिताकारसिद्धया हेतुभूतया, पर्यायसिद्धिराकारस्यैव पर्यायत्वादिति ॥
एतेन स्यादारेका-न हि कूटस्थनित्यतयेत्यादि यदाशङ्कयोक्तं पर्यायव्यतिरिक्तस्य द्रव्यस्यासिद्धरित्यादि, तदपि प्रतिक्षिप्तमेवा ऽवगन्तव्यम् , कथञ्चिद्वयतिरेकसिद्धरिति, तथाहि
"अन्योन्यव्याप्तिभावेन द्रव्यपर्याययोः कथम् । भेदाभेदो विरुद्धः स्यात् तद्भावानुपपत्तितः ? ॥१॥ नान्योन्यव्याप्तिरेकान्तभेदेऽभेदे च युज्यते ।
Page #107
--------------------------------------------------------------------------
________________
खोपज्ञटीकासहिता । अतिप्रसङ्गादैक्याच शब्दार्थानुपपत्तितः ॥२॥ अन्योन्यमिति यद्भेदं व्याप्तिश्चाह विपर्ययम् । ... भेदाभेदे द्वयोस्तस्मादन्योन्यव्याप्तिसंभवः ॥ ३॥ एवं शबलरूपेऽस्मिन् व्यावृत्त्यनुगमावपि । स्याद्वादनीतितः सिद्धौ तथानुभवसुस्थितौ ॥४॥ इत्थं प्रमाणसिद्धऽस्मिन् विरोधोद्भावनं नृणाम् । व्यसनं धीजडत्वं वा प्रकाशयति केवलम्" ॥५॥ इत्यलं विस्तरेण ॥ ॥ नित्यानित्यवस्त्वधिकारः समाप्तः ।।
॥ इति द्वितीयः परिच्छेदः ।। एतेनेत्यादि । एतेनानन्तरोदितेन, स्यादारेका-न हि कूटस्थनित्यतयेत्यादि यदाशङ्क्योक्तं पूर्वपक्षग्रन्थे, पर्यायव्यतिरिक्तस्य द्रव्यस्यासिद्धेरित्यादि । तदपि सर्व प्रतिक्षिप्तमेवावगन्तव्यम् । कुत इत्याहकथश्चिद्ध्यतिरेकसिद्धः पर्यायेभ्यो द्रव्यस्येति । एतदेवोपदर्शयतितथाहीत्यादिना । तथाहीति पूर्ववत् । अन्योन्यव्याप्तिभावेन हेतुना। कयोरित्याह-द्रव्यपर्याययोः। किमनयोरित्याह-कथं भेदाभेदो विरुद्धः स्यात् नैव । कुत इत्याह- तद्भावानुपपत्तितः अन्योन्यव्याप्तिभावानुपपत्तेः।।१।। तथाहि-नान्योन्यव्याप्तिरेकान्तभेदेऽभेदे च युज्यते। कुत इत्याह-अतिप्रसङ्गात , एकान्तभेदे हिमवद्विन्ध्ययोरप्यन्योन्यव्याप्तिप्रसङ्गात् , ऐक्याच एकान्ताभेदेऽणोरप्यात्मनैवान्योन्यव्याप्तिप्रसङ्गात् । तथा, शब्दार्थानुपपतित्तः कारणात् ।। २ ।। अनुपपत्तिश्च अन्योन्यमिति यद्भेदं व्याप्तिश्वाह विपर्ययमभेदम् । यस्मादेवं, भेदाभेदे द्वयोस्तस्मादन्योन्यव्याप्तिसम्भवः ।। ३ ॥ एवं जात्यन्तरात्मकभेदाभेदविकल्पसिद्धया, शबलरूपेऽस्मिन् वस्तुनि, व्यावृत्त्यनुगमावपि स्याद्वादनीतितः सिद्धौ, तथा तच्चित्रभावतयाऽनुभवसुस्थितौ व्यावृत्त्यनुगमानुभवसुस्थिताविति निदर्शितमेतत् ॥४॥ इत्थमेवं, प्रमाणसिद्धेऽस्मिन् भेदाभेदे, विरोधोद्भावनं नृणां। किं करोतीत्याह- व्यसनं धीजडत्वं
Page #108
--------------------------------------------------------------------------
________________
११६
अनेकान्तजयपताकावा प्रकाशयति केवलं, न किञ्चिदन्यत्॥५॥ इत्यलं विस्तरेणेति पूर्वपक्षोपन्यस्तस्य समस्तस्यैव निराकृतत्वात् ।।
॥ इति नित्यानित्यवस्त्वधिकारः समाप्तः ॥
Page #109
--------------------------------------------------------------------------
________________
अहम्
अथ तृतीयः परिच्छेदः।
यच्चोक्तम्-एतेन सामान्यविशेषरूपमपि प्रतिक्षिप्तमवगन्तव्यमित्यादि । तदप्ययुक्तम् , सामान्यविशेषरूपस्य वस्तुनोऽनुभवसिद्धत्वात् , तथाहि-घटादिषु घटो घट इति सामान्याकारा बुद्धिरुत्पद्यते, मार्तिकस्ताम्रो राजत इति विशेषाकारा च, पटादिर्वा न भवतीति । न चार्थसद्भावोऽर्थसद्भावादेव निश्चीयते, सर्वसत्वानां सर्वज्ञत्वप्रसङ्गात्, सर्वार्थानामेव सद्भावस्याविशेषात् । कि तहि अर्थज्ञानसद्भावात् । ज्ञानं च सामान्यविशेषाकारमेवोपजायत इति । अतोऽनुभवसिद्धत्वात् सामान्यविशेषरूपं वस्त्विति ॥
अधिकारान्तरमधिकृत्याह-यच्चोक्तमित्यादिना । यच्चोक्तं पूर्वपक्षप्रन्थे- एतेन सामान्यविशेषरूपमपि प्रतिक्षिप्तमवगन्तव्यमित्यादि । तदप्ययुक्तम् । कुत इत्याह- सामान्यविशेषरूपस्य वस्तुनोऽनुभवसिद्धत्वात्। एतदेवाह- तथाहीत्यादिना, तथाहि-घटादिषु पदार्थेषु, घटो घट इत्येवं सामान्याकारा बुद्धिरुत्पद्यते, तथा मार्तिको मृदादिनिवृत्तो मार्तिकः, ताम्रविकारस्ताम्रः, रजतविकारो राजतः, इति विशेषाकारा च बुद्धिरुत्पद्यते, पटादिर्श न भवतीत्येवम् । इयं च वस्तुतत्त्वव्यवस्थानिबन्धनमित्यधिकृत्याह- न चेत्यादि । न चाऽर्थसद्भावोऽर्थसद्भावादेव कारणात् , निश्चीयते । कुत इत्याह- सर्वसत्वानां सर्वनत्वप्रसङ्गात् , प्रसङ्गश्च सर्वार्थानामेव भवनोदरवर्तिनां सद्भावस्याविशेषात् , किं तर्हि ? अर्थज्ञानसद्भावाद् अर्थसद्भावो निश्चीयते। यदि नामैवं, स्वतः किमित्याह- ज्ञानं च सामान्यविशेषाकारमेवोपजायत इति निदर्शितम् । अतोऽनुभवसिद्धत्वात् कारणात् , सामान्यविशेषरूपं बस्त्विति ॥
न चैतद्विज्ञानं भ्रान्तमिति युज्यते, घटादिसन्निधावविकलतदन्यकारणानां सर्वेषामेवाविशेषेणोपजायमानत्वात् । भ्रान्तमेजत, विकल्पकत्वादिति चेत् । अभ्रान्तं तर्हि कीदृग् ? इति वाच्यम् ।
Page #110
--------------------------------------------------------------------------
________________
११८
अनेकान्तजयपताकानिर्विकल्पकमिति चेत् । न, तस्यापि निर्विकल्पकत्वेन भ्रान्ततापत्तेः । अर्थसामर्थ्यजन्यत्वादनापत्तिरिति चेत् । न, अस्य विकल्पकेपि तुल्यत्वात् । कचिद्वयभिचारदर्शनादतुल्यत्वमिति चेत् । न, तस्य निर्विकल्पकेऽपि भावात् । न तन्नः प्रमाणं, तदाभासत्वादिति चेत् । विकल्पकेऽपि तुल्यः परिहारः। अर्थधर्मातिरिक्तशब्दभावतोऽस्यार्थसामर्थ्यजन्यत्वानुपपत्तिरिति चेत् । न, बोधनियतार्थतादिभिर्व्यभिचारात् । न ते, अर्थादन्यतोभावादिति चेत् । शब्दोऽपि तद्योग्यद्रव्येभ्यः, इति समानः समाधिः॥
.: न चेत्यादि । न चैतद्विज्ञानमनन्तरोदितं, भ्रान्तमिति युज्यते। कुत इत्याह- घटादिसन्निधौ सति, अविकलतदन्यकारणानां संपू.
लोकादिकारणानामित्यर्थः । सर्वेषामेव 'प्रमातृणाम्' इति सामर्थ्यगम्यम्,अविशेषेण सामान्येन भिक्षूपासकादीनामपि,उपजायमानत्वात् का. रणात्। भ्रान्तमेतदधिकृतज्ञानम् । कुत इत्याह-विकल्पकत्वादिति चेत्। एतदाशङ्क्याह-अभ्रान्तं तर्हि कीदृगिति एतद् वाच्यम् । निर्विकल्पकमिति चेत् अभ्रान्तम् । एतदाशङ्कयाह-न, तस्यापि निर्विकल्पकस्य, निर्विकल्पकत्वेन हेतुना, भ्रान्ततापत्तेः, स्वरूपमेव भ्रान्तिनिबन्धनम् , एतास्यापि विद्यत एवेत्यभिप्रायः । अर्थसामर्थ्यजन्यत्वाद् निर्विकल्पकस्य,अनापत्तिरिति चेद् भ्रान्तताया इति प्रक्रमः । एतदाशङ्क्याह-न, अस्य अर्थसामर्थ्यजन्यत्वस्य, विकल्पकेऽपितुल्यत्वात् , एतदप्यर्थसामयजन्यमेवेत्यर्थः । कचिच्छात्रमनोराज्यविकल्पादौ, व्यभिचारदर्शनात कारणात् , अतुल्यमिति चेद् न ह्यसावर्थसामर्थ्यजन्य इति । एतदाशङ्कयाह-न, तस्य कचियभिचारस्य, निर्विकल्पकेऽपि भावात् । न हि तदपि सर्वमर्थसामर्थ्यजन्यम् । न तत्-अर्थसामर्थ्याजन्यम् , नो. ऽस्माकं, प्रमाणम् , कुत इत्याह-तदाभासत्वात् प्रमाणाभासत्वात्, इति चेत् । एतदाशयाह- विकल्पकेऽपि तुल्यः परिहारः अर्थसामन जिन्यं विकल्पकमपि न नः प्रमाणं तदाभासत्वादेवेति । अर्थधर्माः
Page #111
--------------------------------------------------------------------------
________________
स्वोपज्ञटीकासहिता। तिरिक्तश्चासौ शब्दश्चेति विग्रहः, तद्भावतः कारणात् , अस्य विकल्पकस्य, अर्थसामर्थ्यजन्यत्वानुपपत्तिरसम्भव एवेति चेत्- उक्तं च धर्मकीर्तिना- "न गर्थे शब्दाः सन्ति तदात्मानो वा, येन तस्मिन् प्रतिभासेरन्" इति। एतदाशङ्क्याह-न,बोधनियतार्थतादिभिः आदिशब्दात् कुशलतादिपरिग्रहः, व्यभिचारात्-अर्थसामर्थ्यजन्यत्वानुपपत्तेरिति।न ते बोधादयः,अर्थादन्यतः समनन्तरादेर्भावादिति चेत्। एतदाशक्याह- शब्दोऽपि तद्योग्यद्रव्येभ्यः शब्दप्रायोग्यद्रव्येभ्योऽन्येभ्य एव, इत्येवं, समानस्तुल्यः, समाधिः परिहारः। अनेन च "अयमर्थासंस्पसे संवेदनधर्मोऽर्थेषु तन्नियोजनात्" इत्यपि प्रत्युक्तम् ,अनभ्युपगमादिति।।
न चैतदभ्युपगममात्रम् , तावत्सङ्घातजस्यैव तथार्थग्रहणस्वभावत्वात् , अविगानतस्तथानुभवसिद्धः, एवमेव व्यवहारदर्शनादिति; तथाहि-एतदिन्द्रियद्वारानुसार्येव विज्ञानमाविष्टाभिलापम् 'अहिरहिः' इति योजकं दर्शकं च धारावाहि तथाव्यवहारबीजं प्रतिप्राण्यनुभवसिद्धमेव । न चेहान्यदेव दर्शनम्,अन्य एव च विकल्पः, विकल्पेनाऽदर्शनात् , दर्शनेन चाविकल्पनात्, तयोरसहवृत्तेरुपादानादिभावात् । इत्येकमेवेदमिति ॥ .. न चेत्यादि । न चैतत्-शब्दोऽपि तद्योग्यद्रव्येभ्य इति यदुः तमेतत् , अभ्युपगममात्रं, अपि तु सोपपत्तिकमित्यभिप्रायः । कुत इत्याह- तावदित्यादि । तावत्संघातजस्यैव रूपालोकमनस्कारचक्षुःशब्दसंघातजस्यैव 'विकल्पज्ञानस्य' इति प्रक्रमः, तथा तेन निश्चितप्रकारेणाऽर्थग्रहणस्वभावत्वात् । एतच्चैवमर्थग्रहणस्वभावत्वं, अविगागानतोऽविगानेन, तथा तेन प्रकारेणाऽनुभवसिद्धेः, अनुभवसिद्धिश्चैवमेव व्यवहारदर्शनादिति । एतदेव निदर्शनेनाह- तथाहीत्यादि । तथाहीत्युपप्रदर्शने, एतद् वक्ष्यमाणम्, इन्द्रियद्वारानुसार्येव तद्व्यापाराऽभावेऽभावात् , विज्ञानम्। किंविशिष्टमित्याह- आविष्टाभिलापं प्रविष्टशब्दं शब्दसन्मिश्रमित्यर्थः । किंविशिष्टमित्याह- अहिरहिः। सर्पः सर्प इत्येवं योजकं शब्दस्य, दर्शकं चार्थस्येन्द्रियव्यापारेण,
Page #112
--------------------------------------------------------------------------
________________
१२०
अनेकान्तजयपताका
धारावाहि तथासन्तानप्रवृत्तम् । एतदेव विशेष्यते- व्यवहारबीज मिति । ततस्तथाविधव्यवहारसिद्धः, प्रतिप्राण्यनुभवसिद्धमेव प्राणिनं प्राणिनं प्रति तत्तद्रष्ट्रपेक्षया प्रतिपाणि, प्रतिग्रामभिक्षालाभवत् ,अनु। भवसिद्धमेव नेह कस्यचिद् विगानमिति । न चेहेत्यादि । न चेहः प्रस्तुते ज्ञाने, अन्यदेव दर्शनं निर्विकल्पकं, अन्य एव च विकल्पो निश्चयाः त्मकः । कुत इत्याह- विकल्पेनादर्शनात् । कान्तादिविकल्पे तथानुभवसिद्धमेतत् , दर्शनेन चाविकल्पनात् , अनभिप्रेतभूतृणादिदर्शने एत. दपि सिद्धमेव । तथा, तयोर्दर्शनविकल्पयोः,असहवृत्तेयुगपदवृत्तरित्यर्थः । कुत इत्याह- उपादानादिभावात् अवग्रहादिक्रमेणोपादानोपादेयभावादित्यर्थः । इत्येवम् , एकमेवेदमधिकृतं विज्ञानमिति ॥ .
स्यादेतत् , सविकल्पाविकल्पयोर्विज्ञानयोः स्वभावभेदेऽपि प्रतिभासभेदेन युगपद्वृत्तेर्विमूढः प्रतिपत्ता तमपश्यन्नैक्यं व्यव. स्यति, न तु तथा तत् , अन्यत्रानयोयौंगपद्येऽपि भेददर्शनात्, अतीताद्यर्थगतविकल्पेनापीन्द्रियज्ञानतो रूपादिग्रहणसिद्धेः । न च स विकल्पो रूपायेव गृह्णातीति शक्यं कल्पयितुम् , तस्यातीताधर्थाभिधायकत्वत्यागतो वर्तमानार्थयोजनेन प्रवृत्तिमाप्तः । नापि वर्तमानार्थाभिधानसंसर्गी तदाऽपरो विकल्पः समस्ति, द्वयोर्विकल्पयोः सममप्रवृत्तेः, अविगानेन तथानुभवा. भावात् । अतोऽत्र प्रत्युत्पन्नविषयग्रहणकाले दृश्यमानार्थनामाऽग्रहः स्पष्ट एव, तन्नामग्रहणसम्भूता च कल्पना, तन्नामग्रहाभावे कल्पनाऽभावः। इति सिद्धमविकल्पकमिन्द्रियज्ञानम् , अतोऽन्य एवं च विकल्पः । इति न कचिदनयोरक्यम् , न्यायानुपपत्तेः; भिन्नजातीयत्वादिति । इतश्चैतदेवम् । अन्यथा स्वाभिधानवि. शेषणापेक्षा एवार्था विज्ञानैर्व्यवसीयन्त इति प्राप्तम् ॥ __ पराभिप्रायमाह- स्यादेतदित्यादिना । स्यादेतदथैवं मन्यसे सविकल्पाविकल्पयोविज्ञानयोः सामान्येन, स्वभावभेदेऽपि सति, प्रतिभासभेदेन हेतुना, युगपद्वृत्तेः कारणात् , विमूढः प्रतिपत्ता पुरुष
Page #113
--------------------------------------------------------------------------
________________
स्वोपज्ञटीकासहिता 1.
,
षः, तमपश्यन् स्वभावभेदं, ऐक्यं व्यवस्यति तयोः सविकल्पाविकरूपयोः, न तु तथा तत् न पुनस्तदैक्यमेव । कुत इत्याह- अन्यत्र जा. तिभेदें, अनयोः सविकल्पाविकल्पयोः, यौगपद्येऽपि सति, भेददर्शनात् । एतदेवाह - अतीताद्यर्थगत विकल्पेनापि प्रमात्रा, इन्द्रियज्ञानत इन्द्रि यज्ञानेन, रूपादिग्रहणसिद्धेः । कस्येत्याह- अन्यस्याश्रुतस्वात् तस्यैव प्रमातुः । न चेत्यादि । न च स विकल्पोऽतीताद्यर्थगतः, रूपाद्येव गृह्णाति 'वर्तमानिकम्' इति प्रक्रमः, इत्येवं शक्यं कल्पयितुम् । कुतो न शक्यमित्याह - तस्येत्यादि । तस्यातीताद्यर्थगतविकल्पस्य, अतीताद्यभिधायकत्वत्यागतोऽतीतादिवाचकशब्दादित्यागतः। वर्तमानार्थयोजनेनेति । वर्तमानोऽर्थोऽभिधेयो यस्य 'अभिधायकस्य' इति प्रक्रमः, स वर्तमानार्थस्तद्योजनेन प्रवृत्तिप्राप्तेः कारणात् । नापीत्यादिना । नापि वर्तमानार्थाभिधानेन संसृज्यते तच्छीलश्चेति विग्रहः, तदा त स्मिन्नेव काले, अपरों विकल्पः समस्ति विद्यते । कुत इत्याहद्वयोर्विकल्पयोः समं युगपत्, अप्रवृत्तेः कारणात् । अप्रवृत्तिश्चाविगानेनाsविप्रतिपत्त्या, तथा तेन समकालभावेनाऽनुभवाभावात् । अत इत्यादि । अतः स्थितमेतत् प्रत्युत्पन्नविषयग्रहणकाले दृश्यमानानामाऽग्रहः स्पष्ट एव । यदि नामैवं ततः किमित्याह - तन्नामग्रहणेन संभूता तन्नामग्रहणसंभूता, एवंभूता च कल्पना । ततः किमित्याह - तन्नामग्रहाभावे कल्पनाभाव इति कृत्वा, सिद्धमविकल्पकमिन्द्रियज्ञानम् । अत इन्द्रियज्ञानात्, अन्य एव च विकल्प इत्येवं, न कचित् सजातीयादौ, अनयोर्दर्शन विकल्पयोः, ऐक्य मेकभाव:, न्यायानुपपत्तेः, इयं वोक्तव । सर्वगर्भ त्वाह- भिन्नजातीयत्वात् । सामान्येनैव दर्शनविकल्प्रयोरिति 'इतश्चैतदेवमङ्गीकर्तव्यम्' इति शेषः । अन्यथैवमनभ्युपगमे, स्वाभिधानविशेषणापेक्षा एवार्था विज्ञानैर्व्यवसीयन्त इति प्राप्तं, व्यवसीयन्ते प्रतीयन्त इत्यर्थः । कीदृशा इत्याह- स्वाभिधानेत्यादि । खाभिधानमेव विशेषणं व्यवच्छेदकत्वात् तस्मिन्नपेक्षा येषामर्थानामिति विग्रहः ॥
"
१६
१२१
Page #114
--------------------------------------------------------------------------
________________
१२२
अनेकान्तजयपताका... अस्त्वेवमपि को दोष इति चेत् । निवृत्तेदानीमिन्द्रियज्ञानपार्ता, अभिधानविशेषस्मृतेरयोगात् , सति ह्यर्थदर्शनेऽर्थसनिधौ दृष्टे शब्दे ततः स्मृतिः स्यात्, अग्निधूमवत् । न चायमशब्दमर्थ पश्यति, अपश्यन् न शब्दविशेषमनुस्मरति, अननुस्मरन योजयति, अयोजयन्न प्रत्येति, इत्यायातमान्ध्यमशेषस्य जगतः। अभिपतन्नेवार्थः प्रबोधयत्यान्तरं संस्कारं, तेन स्मृतिः, नार्थदर्शनादिति चेत्। न, तत्संबन्धस्यास्वाभाविकत्वात् , समयादर्शनेऽभावात् , पुरुषच्छातोऽर्थानां स्वभावापरावृत्तेर्न समयकालोत्पत्तिः, स्वभावस्य परावृत्तौ च तस्य तादात्म्यात्, अन्यस्यासमयदर्शिनोऽपि स्यात्, न हि प्रतिपुरुषमर्थानामात्मभेदः, नैरात्म्यप्रसङ्गात्, आस्मास्थितेरभावात् । तस्मादयमशब्दसंयोजनमेवार्थ पश्यति दर्शनादिति ॥ - अस्तु भवत्वेतत्, एवमपि को दोष इति चेत् । एतदाशङ्कयाहनिवृत्तेत्यादि। निवृत्तेदानीमिन्द्रियविज्ञानवार्ता । कस्माद् निवृत्तेत्याहअभिधानविशेष इत्यादि । अभिधानविशेषो योऽर्थस्तदानीं प्राह्य. स्तस्य यो वाचकः शब्दस्तत्र स्मृतिस्तस्याः स्मृतेरयोगात् । कथमयोग इत्याह- सति ह्यर्थदर्शन इत्यादि । यस्माद् व्यवहारकाले सत्यभिधेयार्थदर्शने तदभिधायिन्यभिधाने स्मरणं भवति । तत्रापि न सर्वस्य शब्दस्पत्याह- अर्थसंनिधौ संकेतकाले, दृष्टे शब्द इति, तत इत्यर्थदर्शनात्, स्मृतिः स्याद् नान्यथा। निदर्शनमाह- अग्निधूमवत् । यथाऽग्निधूमयोः संबन्धज्ञस्यानिदर्शने धूमे स्मृतिर्भवति, धूमदर्शने चाग्नौ स्मृतिः, तद्वदत्राप्यवसेयम् । स्यान्मतम्-अर्थ तर्हि दृष्टा शब्दं स्मरिष्यतीत्याह । न चायमित्यादि । न खल्वयं सविकल्पकप्रत्यक्षवादी, शब्द. रहितमर्थ पश्यति, स्वाभिधानविशेषणापेक्षा एवार्था विज्ञानैर्व्यवसीयन्त इति नियमात् । ततः को दोष इत्याह- अपश्यन् न शब्दविशेषमनुस्मरति 'नियमेन' इति शेषः, यस्मादर्थदर्शनं शब्दविशेषस्मृते हेतुः, सा च तेन व्याप्ता, कारणं निवर्तमान कार्य निवर्तयति । भवतु
Page #115
--------------------------------------------------------------------------
________________
-खोपशटीकासहिता।
मामैव ततः को दोष इत्याह- अननुस्मरन्न योजयति अत्रापि शब्दविशेषानुस्मरणं स्मृतियोजनायाः कारणं, तदभावात् कार्याभावः । अत्रापि को दोष इति चेदाह- अयोजयन प्रत्येति योजनं ह्यर्थप्रतीतेः कारणमित्यत्रापि कारणानुपलब्धिरेवेति । तस्मादायातमान्ध्यमशेषस्य जगतः, न चेष्यते । तस्मान्नेन्द्रियज्ञाने शब्दकल्पना संभवतीति । अथापि स्याद् नार्थदर्शनात् स्मृतिः, किं तर्हि ?, योग्यदेशावस्थितादेवार्थात् स्मृतिरित्याह- आभिपतन्नेवेत्यादि । अभिपतन्नभिमुखीभवन् । कोऽसावित्याह- अर्थो रूपादिको विषयः । किं करोति?, • प्रबोधयति कार्यनिर्वर्तनं प्रत्यनुकूलयति । कं प्रबोधयति ?, आन्तरं संस्कारं शब्दस्मृतिवासनाख्यं, तेन अर्थाभिपातमात्रेण, सा स्मृतिः, तेन वा कारणेन, स्मृतिः, नार्थदर्शनादिति चेत् , तथा च नान्ध्यं जगतः, -विकल्पकत्वं चेन्द्रियज्ञानस्योपपन्नमिति मन्यते । अर्थाभिपातस्य स्मृतिजनकत्वं निराकुर्वन्नाह-न, तत्संबन्धस्येत्यादि । यदेतदुक्तम्-अभिपतन्नेवार्थः प्रबोधयत्यान्तरं संस्कारमिति, तन्न । कुत इत्याह-तत्संबन्धस्य तयोः शब्दार्थयोः संबन्धस्तत्संबन्धस्तस्य,अस्वाभाविकत्वात् पौरुषेयत्वादित्यर्थः। कथमवसेयमित्याह-समयादर्शने संकेतस्याग्रहणे सति,अभावात् स्मृतिसंस्कारप्रबोधस्य, अर्थप्रतीतेर्वेति वाक्यशेषः । एतदुक्तं भवतिययोः स्वाभाविकः संबन्धो न तयोः समयं प्रति काचिदपेक्षा, यथा चक्षुरूपयोः, विपर्ययस्त्वत्र, इति नाकृत्रिमत्वं संबन्धस्येति। तत्रैतत् स्यात् समयादुत्तरकालं स्वाभाविकः शब्दार्थसंवन्धो न पूर्वम् , अतः कृतसमयस्याभिपतन्नेवार्थः प्रबोधयत्यान्तरं संस्कारमित्याह- पुरुषेच्छातः सकाशात् , अर्थानां स्वभावापरावृत्तेः पूर्वस्वभावपरित्यागेन विशिष्ट स्वभावान्तरानुत्पत्तेः कारणात् , न समयकालोत्पत्तिः- न समयकाले स्वाभाविकत्वेन शब्दार्थसंबन्धस्य प्रादुर्भाव इत्यर्थः । दोषान्तराभिधिसयाऽभ्युपगम्यापि स्वभावान्तरपरावृत्तिमाह-वभावस्य परावृत्तौ च सत्याम् , अन्यस्यासमयदर्शिनोऽपि स्यात् स्मृतिसंस्कारप्रबोधः, अर्थप्रतीतिति शेषः, न केवलं समयदार्शन इत्यपिशब्दार्थः । कस्मादि
Page #116
--------------------------------------------------------------------------
________________
१२४
अनेकान्तजयपताकात्याह- तस्य तादात्म्यात्। स स्मृतिसंस्कारप्रबोधकः, अर्थप्रतीतिहेतुको 'वा आत्मा स्वभावोऽस्येति तदात्मा, तदात्मनो भावस्तादात्म्यं, ब्राह्यणादेराकृतिगणत्वात् व्यञ् । अथोच्यते- समयदर्शिनं प्रति स्वभावः, न पुनरदृष्टसमयं प्रति,इत्यत आह- न हीत्यादि।न हि पुरुषं पुरुषं प्रति, अर्थानां, आत्मभेदः स्वभावभेदः, भवति । कुत इत्याह- नैरात्म्यप्रसङ्गात् । अयमभिप्रायः- पुरुषेच्छानामानन्त्यात्, तदनुवर्तिनश्च यद्यर्थाः स्युस्तदा तेषां नैःस्वभाव्यमेव स्यात्, एकस्यानेकस्वभावाभावात्। स्याद् मतम्- भवतु सामयिकस्वभावस्याभावः, अन्योऽपि तद्व्यतिरितो वस्तुसत्स्वभावोऽस्यास्त्येव, अतो नैरात्म्यप्रसङ्गो न भविष्यतीत्याहआत्मस्थितेरभावादिति । उपलब्धिलक्षणप्राप्तस्य तद्व्यतिरेकेणान्यस्य स्वभावस्यानुपलम्भादित्यभिप्रायः । अथवा नन्वेवं सति बहुतरस्वभावसिद्धिरेवः तत्किमुच्यते-नैरात्म्यप्रसङ्गात्?,इत्याह-आत्मस्थितेरभावात् । पुरुषाणां स्वाभिप्रायवशेनैकत्र विरुद्धस्याऽपि स्वभावस्याऽभ्युपगमसंभवात् ; न चैकस्य विरुद्धानेकस्वभावो युक्त इति मन्यते । तदेवं स्मृत्यसंभवेन निर्विकल्पतां प्रतिपाद्योपसंहरन्नाह- तस्मादित्यादि। यस्मादेवमनन्तरोक्तेन प्रकारेण शब्दविशेषस्मृतिर्न संभवति, तस्मादयं प्रतिपत्ता , अशब्दसंयोजनमेवार्थ पश्यति , अविद्यमानं शब्दसंयोजन यस्यार्थस्येति विग्रहः । कुत इत्याह- दर्शनात् । अयमस्याओं यस्मादयं प्रतिपत्ताऽर्थमुपलभते, तस्मादशब्दसंयोजनमेवार्थ पश्यतीति निश्चीयते। . किञ्च, विकल्पात्मकत्वेऽस्य निश्चयात्मकमिदमित्यनेकप्रमाणवादहानिः, तेनैव वस्तुनो निश्चयात्, नित्यत्वादी भ्रान्त्यनुपपत्तेः । अनेकधर्मके वस्तुन्यन्यतरधर्मनिश्चयात् तदन्यनिश्चयाय प्रमाणान्तरसाफल्यमिति चेत् । न, एकधर्मविशिष्टस्यापि निश्वये सर्वधर्मवत्तया निश्चयात्, प्रमाणान्तरस्य निश्चितमेव विषयीकुर्वतः स्मृतिरूपानतिक्रमात् , एकधर्मद्वारेणापि तद्वतो निश्चयात्मना प्रत्यक्षेण विषयीकरणे सकलधर्मोपकारकशक्त्यभिन्नात्मनो निश्चयात् । न ह्यन्य एवान्योपकारको नाम । ततो यदेवा
Page #117
--------------------------------------------------------------------------
________________
१२५
स्वोपज्ञटीकासहिता। स्यैकोपकारकत्वेन निश्चयनम् , तदेव तदन्योपकारकत्वेनापि । न चासत्युपकार्योपकारकभावे तव्यवस्थाऽतिप्रसङ्गतो युक्ता ॥
किश्चेत्यादि । किश्चायमपरो दोषः- विकल्पात्मकत्वेऽस्य प्रत्यक्षस्य, निश्चयात्मकमिदमित्येवं विकल्पात्मकत्वेन हेतुना । यदि नामैवं ततः किमित्याह- अनेकप्रमाणवादहानिः प्रत्यक्षानुमानागमप्रमाणवादहानिः। कुत इत्याह- तेनैव निश्चयात्मना प्रत्यक्षेण, वस्तुनो निश्चयात् कारणात् । यथोक्तनिश्चयेऽपि किमित्याह-नित्यत्वादी धर्मे, भ्रान्त्यनुपपत्तेरिति । पराभिप्रायमाह- अनेकधर्मके वस्तुनि नित्यत्वादिधर्मापेक्षया, अन्यतरधर्मनिश्चयाद् यथोचितप्रत्यक्षेण,तदन्यनिश्चयाय धर्मान्तरनिश्चयाथै, प्रमाणान्तरसाफल्यमनुमानादिसाफल्यमिति चेत् । एतदाशङ्क्याह-नकेत्यादि । न नैतदेवम् । कुत इत्याह-एकधर्मविशिष्टस्यापि वस्तुनः' इति प्रक्रमः । निश्चये सति किमित्याह-सर्वे च ते धर्माश्च सर्वधर्मास्तेऽस्य वस्तुनो विद्यन्त इति सर्वधर्मवत् तद्भाव: सर्वधर्मवत्ता तया, निश्चयात्। एवं च प्रमाणेत्यादि । प्रमाणान्तरस्याऽनुमानादेः, निश्चितमेव 'धर्मान्तरम्' इति प्रक्रमः, विषयीकुर्वतः सतः, स्मृतिरूपानतिकमात्, अनेकप्रमाणवादहानिः' इति वर्तते, एकधर्मविशिष्टस्यापि निश्चये सर्वधर्मवत्तया निश्चयादिति यदुक्तं तदुपदर्शयन्नाहएकधर्मेत्यादि । एकधर्मद्वारेणापि तद्वतोधर्मवतो वस्तुनः, निश्चयात्मना 'प्रत्यक्षेण सविकल्पकेन, विषयीकरणे सति । किमित्याह- सकलाश्च ते 'धर्माश्च तेषामुपकारिकाश्च ताः शक्तयश्चेति विग्रहः, ताभ्योऽभिन्नश्वासावात्मा चेति समासस्तस्य, निश्चयात् कारणात् , सर्वधर्मवत्तयां निश्चयः । एतत्समर्थनार्यवाह-न हीत्यादि । न यस्मात् , अन्य एव 'धर्मी वस्त्वात्मा'इति प्रक्रमः,अन्योपकारको नाम धर्मान्तरोपकारको नाम, किं तर्हि ?, स एव, धर्मिण एकत्वादिति हृदयम् । ततो यदेवाऽस्य वस्तुनो धर्मिणः, एकोपकारकत्वेनान्यतरधर्मापेक्षया, निश्चयनं तदेवान्योपकारकत्वेन धर्मान्तरोपकारकत्वेनापि, निश्चयनम् अन्यथा तदेकत्वहानिरिति गर्भः । न चासत्युपकार्योपकारकभावे तद्व्यवस्था वस्तुनो धर्मधार्म
Page #118
--------------------------------------------------------------------------
________________
१२६
अनेकान्तजयपताका
व्यवस्था, अतिप्रसङ्गतः कारणात्, युक्ता । अतिप्रसङ्गश्च तद्वद् धर्मा म्तराद्यपेक्षयापि धर्म्यादिभावप्रसङ्गः, निमित्ताभावाविशेषादिति ॥ "
न चोपकरिकाः शक्तयस्ततो भेदमनुभवन्ति, असत्युपकारेsस्येमाः शक्तय इति संबन्धायोगात्, आधाराधेयभावस्यापि तन्निबन्धनत्वात्, अन्यथा कल्पनामात्रं स्यात्, तथा च शक्ती नामनवस्था । ततः स्वात्मैवाऽस्याशेषधर्मोपकारिकाः शक्तयः, तस्य सर्वधर्मोपकारकत्वेन निश्चये तदुपकार्या अपि धर्मा निश्चिता एव, तन्निश्चय नान्तरीयकत्वादुपकारकनिश्वयस्य, न हि ये यदपेक्षस्थितयस्ते तदनिश्चये तथा निश्चीयन्ते, स्वस्वामित्वक -दिति । एवमपि सविकल्पकप्रत्यक्षानुपपत्तिरिति ॥
न चेत्यादि । न चोपकारिकाः शक्तय उपकारक संबन्धिन्यः, तत उपकारकाद् धर्मिणः, भेदमनुभवन्ति । कुत इत्याह- असत्युपकारे उपकारक संबन्धिनि, अस्योपकारकस्य धर्मिणः, इमाः शक्तयः, इत्येवं संबन्धाऽयोगात्, अयोगश्च निमित्ताभावेन । आधाराधेयभावः संबन्धों भविष्यतीत्याशङ्का पोहायाह- आधाराधेयभावस्यापि कुण्डबदरा
दाहरणादिसिद्धस्य, तन्निबन्धनत्वाद् उपकारनिबन्धनत्वात्, तथाहिपतनधर्मणां बदराणामपतनस्वभावाधानेनोपकारकं कुण्डं बदराणामिति भावनीयम् । इत्थं चैतदङ्गीकर्तव्यमित्याह- अन्यथेत्यादि । अन्यथैवम: नभ्युपगमे, कल्पनामात्रं स्याद् आधाराधेयभावः । न चैतदेवमित्युप कारसिद्धिः । तथाचेत्यादि । तथाचैवं चोपकारसिद्धौ सत्यां, शक्ती नामनवस्था - यकाभिः शक्तिभिः शक्तीनामुपकरोति ता अपि ततो भिन्ना इति तत्राप्ययमेव वृत्तान्त इत्यनवस्था । ततस्तस्मात्, स्वात्मैव स्योपकारकस्य धर्मिणः, अशेषधर्मोपकारिकाः शक्तय इति । यतश्चैवम् अतस्तस्योपकारकस्य धर्मिणः, सर्वधर्मोपकारकत्वेन निश्चये सति किमित्याह - तदुपकार्या अपि विवक्षितोपकारकोपकार्या अपि धर्मा निश्चिता एव । कुत इत्याह- तन्निश्चयनान्तरीयकत्वात् उपकार्यधर्मनि श्चयनान्तरीयकत्वात्, उपकारकनिश्वयस्य तदपेक्षमस्योपकारकत्वमि
Page #119
--------------------------------------------------------------------------
________________
स्वोपज्ञटीकासहिता।
१२७ त्यर्थः । एतत्स्पष्टनायैवाह- न हीत्यादि । न यस्मात् , ये भावाः पदपेक्षस्थितयः प्रकृत्या ते भावाः,तदनिश्चयेऽपेक्षाऽनिश्चये,तथा निश्चीयन्ते तदपेक्षकत्वेन निश्चीयन्ते नहि। निदर्शनमाह-वस्वामित्ववत्। स्खं च स्वामी. च स्वस्वामिनौ तद्भावः स्वस्वामित्वं तद्वत् 'स्वमस्य, अस्य स्वामी', इतीतरेतरप्रतिपत्तिनान्तरीयकी स्वस्वामिप्रतिपत्तिः। उपसंहरन्नाह-एवमपि अनेकप्रमाणवादहानितोऽपि, सविकल्पकप्रत्यक्षानुपपत्तिरिति ।।.
अत्रोच्यते- यदुक्तम्- सविकल्पा-विकल्पयोर्विज्ञानयोः स्वभावभेदेऽपि प्रतिभासभेदेन युगपद्वृत्तरित्यादि । तदयुक्तम्, एकविषययोः सविकल्पाविकल्पयोर्युगपत्त्यसिद्धेः, तदविकल्पपूर्वकत्वात् तद्विकल्पस्य, अन्यथाऽस्याहेतुकत्वापत्तिः, तथा च सदा सदसत्त्वप्रसङ्गः। सोऽपि तत्पूर्वक एवेति चेत् । कथमनयोयुगपवृत्तिः प्रबन्धापेक्षयेति चेत् । कथमाद्याविकल्पादुभयजन्म?। तत्तत्स्वभावत्वादिति चेत् । कथं कारणभेदो भेदहेतुः । यदि न, ततः को दोष इति चेत् । प्रधानादीनामनिषेधप्रसङ्गः। ते तथाभावजनका इति चेत् । ततः को दोष इति वाच्यम् । नैकस्मादनेकजन्म इति चेत् । कथं न ? । तत्तत्स्वभावत्वेन संक्वान्त्या तदयुक्तरिति चेत् । तदभावे तद्युक्तिरित्यद्भुतम् । ततोऽसद्भावादनद्भुतमिति चेत् । तत्तथाभावतोऽभवदसद् भवति, इस्यद्भुतमेव, इति परिभाव्यतामेतत् ॥ : एतदाशङ्कयाह- अत्रोच्यते- यदुक्तम्- सविकल्पाविकल्पयोंझानयोः स्वभावभेदेपि प्रतिभासभेदेन युगपट्टत्तेरित्यादि पूर्वपक्षे। तदयुक्तम्। कुत इत्याह-एकविषययोः सविकल्पाविकल्पयोः। किमित्याह- युगपत्त्यसिद्धेः असिद्धिश्च तदविकल्पपूर्वकत्वाद् विवक्षितैकविषयाविकल्पपूर्वकत्वात् , तद्विकल्पस्य सामान्येन विवक्षितैकविषयविकल्पस्य। अन्यथा अतत्पूर्वकत्वे, अस्य विकल्पस्य, अहेतुकत्वापत्तिस्तपरहेत्वयोगात्। तथा च सदा सर्वकालं, सदसत्त्वप्रसङ्गोऽधिकृतविकपस्य,"नित्यं सत्त्वमसत्त्वं वा हेतोरन्यानपेक्षणात्" इति वचनात् । सो
Page #120
--------------------------------------------------------------------------
________________
१२८
अनेकान्तजयपताका
ऽप्यधिकृतविकल्पः,तत्पूर्वक एव विवक्षितकविषयाविकल्पपूर्वक एव,इति चेत् । एतदाशङ्कथाह-कथमनयोः अविकल्पविकल्पयोः,युगपवृत्तिः। प्रबन्धापेक्षयेति चेद् युगपद्वृत्तिः । एतदाशङ्कयाह- कथमित्यादि। कथं केन प्रकारेण, आधं च तदविकल्पं चेति विग्रहस्तस्मात उभयजन्म सविकल्पाविकल्पजन्म । तत्तदित्यादि । तस्याद्याविक, ल्पस्य, तत्स्वभावत्वात् सविकल्पाविकल्पजननस्वभावत्वादुभयजन्म। इति चेत् । एतदाशङ्कथाह- कथं कारणभेदो भेदहेतुः कार्याणामिति शेषः, नैव, तदभावेऽपि तद्भेदसिद्धेरित्यभिप्रायः । यदि न कारणभेदो भेदहेतुः, ततः को दोष इति चेत् । एतदाशङ्कथाह- प्रधानादीनाम् । आदिशब्दात् परमपुरुषग्रहः,अनिषेधप्रसङ्गो दोषः,ते प्रधानादयः, तथा भावजनकास्तथाभावेन तत्तथाभवनलक्षणेन जनका महदादेरिति चेत्। एतदाशङ्कथाह- ततः को दोष इति वाच्यम् । नैकस्मादनेकजन्म तत्तद्भावेन दोष इति चेत् । एतदाशङ्क्याह- कथं न एकस्मादनेक जन्म ?। तत्तत्स्वभावत्वेन तस्य प्रधानादेस्तत्स्वभावत्वेन, तथाभावतो ऽनेकजन्मस्वभावत्वेनेत्यर्थः, संक्रान्त्या हेतुभूतया, तत्तद्भावेन तदयुक्तेन स्तत्तत्स्वभावत्वायुक्त कस्मादनेकजन्मेति चेत् । एतदाशङ्कयाह- तदा भावे संक्रान्त्यभावे, तदेकान्तनिवृत्त्या तयुक्तिस्तत्तत्स्वभावत्वयुक्तिः इत्यद्भुतमाश्चर्यमेतत् । ततः कारणात् , असद्भावादसतो भावेन, अन द्भुतमनाश्चर्यमिति चेत् । एतदाशङ्क्याह- तत्तथाभावतः तस्य कारणस्य तथाभावेन कार्यभावेन, अभवदेकस्मादनेकमसद् भव तुच्छातुच्छप्रतिपत्त्या, इत्यद्भुतमेवेति परिभाव्यतामेतत्, न ह्यसत् सई भवति, अतिप्रसङ्गादित्यभिप्रायः ॥ - न चानयोः स्वभावभेद एव, तत्त्वत एकविषयत्वात्, विकल्प स्यापि पारम्पर्येण तद्वस्त्वालम्बनत्वात्, तदुत्थज्ञानोपादानत्वात् तत्स्वभावानुकारातिरेकेण तदुपादानत्वायोगात् । न च तदती तमित्यनालम्बनम्, अविकल्पस्यालम्बनत्वात् । न च तद्भाव काले तद्भावः, तदसदुदयाभ्युपगमात् । न चैवमपि न तदतीतता तदा तदसत्त्वेन तदुपपत्तेः। न च तदाकारतादिना भेदः, द्वयोरी
Page #121
--------------------------------------------------------------------------
________________
१२९
स्वोपज्ञटीकासहिताः..... तदाकारतासिद्धेः, तस्य प्रतिभावनियमात् , बोधामूर्तत्वरूपतया तत्तुल्याकारताऽयोगात् , स्वाकारस्य तु विकल्पेऽपि भावात् , तस्यापि तनिश्चयात्मकत्वेन तदनुगुणत्वात् । इति व्यवहारतः खभावभेदाभावः ॥ - न चेत्यादि । न चानयोः प्रक्रमात् सविकल्पाविकल्पयोः प्रस्तुतज्ञानयोः, स्वभावभेद एवैकान्तेन । कुत इत्याह- तत्त्वतः परमार्थेन, एकविषयत्वात्। कथमेतदेवमित्याह-विकल्पस्यापि पारम्पर्येण तद्वस्त्वालम्बनत्वात् । एतच परदर्शने विकल्पस्य गृहीतग्राहित्वाभ्युपगमेन, खदर्शने त्ववग्रहा-ऽपायभावेन, इति सामान्येनैव तद्वस्त्वालम्बनत्वमाह । तदुत्थज्ञानोपादानत्वात् विवक्षितविषयोत्थाविकल्पज्ञानोपादानत्वाद् विकल्पस्य । यदि नामैवं ततः किमित्याह-तत्वभावेत्यादि । तत्स्वभावानुकारातिरेकेण तदुत्थज्ञानस्वभावानुकारातिरेकेण, विकल्पस्वेति प्रक्रमः, तदुपादानत्वायोगात् तदुत्थज्ञानोपादानत्वायोगाद् विकल्पस्य । न ह्यमृत्स्वभावमुदकं मृदुपादानम् , अपि तु घट एव, तत्स्वभावानुकारादिति भावनीयम् । दोषान्तरपरिजिहीषयाहन चेत्यादि। न च तद्विषयवस्तु अतीतमिति कृत्वा क्षणिकत्वेन, अनालम्बनं, प्रक्रमाद्विकल्पस्य, किन्त्वालबनमेव । कुत इत्याह- अविकल्पस्यालम्बनत्वात् अतीतत्वेऽपीत्यभिप्रायः । न च तद्भावकालेऽविकल्पभावकाले, तद्भावो विषयवस्तुभावः । कुत इत्याहतिदसदुदयाभ्युपगमात् तस्मिन् विषयवस्तुन्यसत्युदयाभ्युपगमात्, प्रक्रमादविकल्पस्य । न चैवमपि तदसदुदयेऽपि, न तदतीतता न विषयवस्त्वतीतता । कुत इत्याह- तदा विकल्पोदयकाले, तदसत्त्वेन विषयवस्त्वसत्त्वेन, तदुपपत्तेरतीततोपपत्तेः । न च तदाकारतादिना विषयवस्त्वाकारतादिना, आदिशब्दादानन्तर्याविग्रहः, भेदः सविकल्पाविकल्पयोरिति प्रक्रमः । कुत इत्याहइयोरपि अनयोः, तदाकारताऽसिद्धेविषयवस्त्वाकारताऽसिद्धेः , तस्याकारस्य प्रतिभावनियमाद् भावं भावं प्रति नियमात् । न ह्यन्य
Page #122
--------------------------------------------------------------------------
________________
१३०
अनेकान्तजयपताका
भावाकारोऽन्यभावे भवति, तदेकत्वप्रसङ्गादित्यर्थः । तत्तुल्याकारतेय तदाकारता,इत्यप्यसदित्यावेदयन्नाह-बोधेत्यादि । बोधाऽमूर्तत्वरूपेण हेतुनाऽविकल्पज्ञानस्य, तत्तुल्याकारताऽयोगाद् विषयवस्तुतुल्याका रतायोगात् । स्वाकार एव तदाकारतेत्यप्ययुक्तमित्याह- खाकारस्या तु विकल्पेऽपि भावात् । न ह्यविकल्प एव स्वाकारः, अपि तु विकन ल्पेऽपि । तदनुगुणत्वतदाकारतेत्यपि समानमित्यावेदयन्नाह- तस्यापीन त्यादि । तस्यापि विकल्पस्य, तनिश्चयात्मकत्वेन विषयवस्तुनिश्च यात्मकत्वेन, तदनुगुणत्वाद् बोधापेक्षया विषयवस्त्वनुगुणत्वात् । इत्येवं, व्यवहारतः स्वभावभेदाभावः । निश्चयतस्तु प्रतिव्यक्ति अयं विद्यत एवेति ॥ ____ यच्चोक्तम्-विमूढः प्रतिपत्ता तमपश्यनैक्यं व्यवस्यति, न तु तथा तदिति । एतदप्ययुक्तम् , अनालाोचताभिधानत्वात् ,विचा राक्षमत्वात् , तथाहि-कः पुनरत्र प्रतिपत्ता, यस्य तत्स्वभावर भेदादर्शनाद् विमोहः, ऐक्यव्यवसायो वा । न तावदेक उभयद्रष्टा, अनभ्युपगमात् । न च सविकल्पाविकल्पे विज्ञाने एव, तयोर्विमोहासिद्धेः, स्वसंवेदनरूपत्वेन स्वस्वभावदर्शनात् । इत्थमपि विमोहे तदनुच्छेदापत्तिः, उपायाभावात् । न चानयोरैक्यव्यवसाय:, मिथोभेदाभ्युपगमात् , स्वविषयनियतत्वेन तथा प्रतिभासानुपपत्तेः, एवमपि तदभ्युपगमेऽतिप्रसङ्गात् ॥ ___ यच्चोक्तं पूर्वपक्षप्रन्थे-विमूढः प्रतिपत्ता तमपश्यन्नैक्यं व्यवस्यति, न तु तथा तदिति । एतदप्ययुक्तम् । कुत इत्याह- अनालोचिताभिधानत्वात् । अनालोचिताभिधानत्वं च विचाराक्षमत्वात् । विचा राक्षमत्वमुपदर्शयन्नाह- तथाहीत्यादि । तथाहि कः पुनरत्र प्रतिपत्ता भवतोऽभिप्रेतः, यस्य तत्वभावभेदादर्शनाद् हेतोः, विमोहः, ऐक्यव्यवसायो वा?। न तावदेक आत्मा, उभयोः सविकल्पाविकल्प योर्द्रष्टा । कुत इत्याह- अनभ्युपगमात् एवंविधैकस्य । न च सविकल्पाविकल्पे ज्ञाने एव प्रतिपत्तॄणी । कुत इत्याह-तयोः सविक
Page #123
--------------------------------------------------------------------------
________________
खोपज्ञटीकासहिता।
१३१
ल्पाविकल्पज्ञानयोः, विमोहासिद्धेः, असिद्धिश्च स्वसंवेदनरूपत्वेन हेतुना ताभ्यां स्वस्वभावदर्शनादिति । इत्थमपि स्वस्वभावदर्शनेऽपि सति, विमोहे तदनुच्छेदापत्तिर्मोहानुच्छेदापत्तिः । कुत इत्याह- उपायाभावात् । न हि स्वसंवेदनरूपे कदाचिदन्यथा भवत इत्युपायाभावः । न चेत्यादि। न चानयोः सविकल्पाविकल्पयोविज्ञानयोः, ऐक्यव्यवसायः। कुत इत्याह- मिथः परस्परं, भेदाभ्युपगमात् । यदि नामैवं ततः किमित्याह- स्वविषयनियतत्वेन हेतुना, तथाप्रतिभासानुपपत्तेः, ऐक्यप्रतिभासानुपपत्तेः । प्रतिभासश्च व्यवसाय इति । एवमपि तथाप्रतिभासानुपपत्तावपि, तदभ्युपगमे ऐक्यव्यवसायाभ्युपगमे, अतिप्रसङ्गात् शशविषाणादिव्यवसायापत्तेः ।।
स्यादेतत्, ऐक्यव्यवसायस्तदपरो विकल्प एव, व्यवसायस्य परिच्छेदात्मकत्वात् । स किंविषय इति वाच्यम् । तदुभयविषय इति चेत् । कथमतत्प्रतिभासी तद्विषयः । तत्पतिभासित्वे वा कथमैक्यं व्यवस्यति ?; न चात्यन्तभिन्नयोस्तथाव्यवसाये निमित्तम्। भ्रान्त एवाऽयमिति चेत् । तदन्यैवंविधभावे कथं नेतरयोर्भेदव्यवसायः। व्यवसाय एवेति चेत् । न, तथायुक्त्यनुभवाभावेन चाङ्मात्रत्वात् । एतेन 'अन्यत्राऽनयोयोगपद्येऽपि भेददर्शनात्' इत्यादि प्रत्युक्तम् , तत्त्वतस्तुल्ययोगक्षेमत्वात् ।। ___स्यादेतदित्यादि । स्यादेतत्, ऐक्यव्यवसायोऽधिकृतः, ताभ्यां सविकल्पाविकल्पविज्ञानाभ्यामपरोऽन्यो विकल्प एव । कुत इत्याह-व्यघसायस्य परिच्छेदात्मकत्वात् । एतदाशङ्कयाह- स किंविषयो विकल्पः,इति वाच्यम्। तदुभयविषयः सविकल्पाविकल्पविज्ञानोभयविषय इति चेत् । एतदाशङ्कयाह- कथमतत्प्रतिभासी सविकल्पाविकल्पविज्ञानाऽप्रतिभासी सन् , तद्विषयः सविकल्पाविकल्पज्ञानविषयः?। तत्प्रतिभासित्वे वा सविकल्पाविकल्पविज्ञानप्रतिभासित्वे वा सति, कथमैक्यं व्यवस्यति परिच्छिनत्ति ? तद्भेदव्यवसायरूपत्वादित्यर्थः । न चेत्यादि। अचात्यन्तभिन्नयोर्जातिभेदेन, सविकल्पाविकल्पविज्ञानयोरिति प्रक्रमः,
Page #124
--------------------------------------------------------------------------
________________
१३२
अनेकान्तजयपताकातथाव्यवसाय ऐक्येन व्यवसाये, निमित्तं नीलपीतयोरिव । भ्रान्त वायमपरो विकल्प इति चेत् । एतदाशङ्कयाह- तदन्येत्यादि । तस्मा। भ्रान्तादन्योऽभ्रान्त एवंविध उभयविषयस्तस्य भावे सति,कथं न रयोः सविकल्पाविकल्पविज्ञानयोः, भेदव्यवसायस्तदन्येन?, न ह्यन स्मिन् सत्यरूपेऽसत्यस्य भ्रान्ततेति हृदयम् । व्यवसाय एवं चेद् अन्येनेतरयोः। इत्येतदाशङ्कयाह- नेत्यादि । न नैतदेवम् , तथ युक्तयनुभवाभावेन हेतुना, वाङ्मात्रत्वादर्थशून्यत्वादधिकृतवचसः युक्त्यभावश्चेह ' स्खलक्षणसामान्यलक्षणयोरेकत्राप्रतिभासनात् , अन भवस्य चासंकीर्णोभयग्राहिणोऽभावादिति । एतेनेत्यादि । एतेना नन्तरोदितेन दूषणजातेन 'अन्यत्राऽनयोयोगपद्येऽपि भेददर्शनात्' इत्य दि पूर्वपक्षोक्तं, प्रत्युक्तं निराकृतम्। कुत इत्याह- तत्त्वतः परमार्थतः, ल्ययोगक्षेमत्वादिति ॥
किञ्च, अनयोभिन्नविषयत्वेन तथापि जन्माऽयुक्तम् , अन्यद र्शनस्यान्यविकल्पानिमित्तत्वात् , निमित्तत्वे वाऽतिप्रसङ्गात्, नी लदर्शनादपि पीतादिविकल्पापः, तदभावप्रसङ्गात् , निश्चयब लाद्धि तद्भावसिद्धिः, स चेदन्यदर्शनादप्यन्याविषयः, अप्रमा णिकाऽन्यसत्तेति विश्वस्य नीलमात्रतापत्तिः। भिनदर्शनविषया पीतादय इति चेत् । न, तेषामनिश्चयात्मकत्वेन तथातानधिगते। न च तनिश्चयात् तदधिगतिर्युक्ता, तस्यान्यतोऽपि भावेन तत्प तिबन्धासिद्धः। स पारम्पर्येण तद्दर्शनसामोद्भूत एव, सदा ऽतद्दर्शिनोऽभावादिति चेत् । न, इत्थं सर्वत्रानाश्वासेनाऽसमञ्जस त्वापत्तेः, सनिहितार्थदर्शनबलोत्पन्ननिश्चयादपि पारम्पर्येणार्थी न्तरदर्शनशक्तिजत्वाऽऽरेकातः प्रवृत्त्याद्ययोगात्। समानविषययो पुनरनयोर्भावस्तथा भवन्नपि न नो बाधायै, अक्रमेणाऽप्रवृत्तः एवं च 'अतीताद्यर्थगतविकल्पेनापीन्द्रियज्ञानतो रूपादिग्रहणसि द्धेः' इत्यादि यावद् 'भिन्नजातीयत्वात्' इत्येतद् व्युदस्तमवसेयम्। अक्रमप्रवृत्तावतीतादिविकल्परूपादिग्रहणयोरस्य साफल्योपप
Page #125
--------------------------------------------------------------------------
________________
स्वोपज्ञटीकासहिता।
१३३
तेः, अन्यथा वाड्मात्रत्वात् ॥
किञ्चेत्यादिनाऽभ्युच्चयमाह-किञ्च, अनयोः सविकल्पाविकल्पज्ञानयोरुदाहृतयोः,भिन्नविषयत्वेन हेतुना, जातिभेदतः, तथापि प्रक्रमात् क्रमेणापि यथैकजातीययोस्तथापि, जन्मायुक्तमघटमानकम् । कुत इत्याह- अन्यदर्शनस्य रूपादिदर्शनस्य, अन्यविकल्पानिमिः त्तत्वाद् अतीताद्यर्थगतविकल्पानिमित्तत्वात् , निमित्तत्वे वाऽतिप्रसङ्गात् । एनमेवाह- नीलदर्शनादपि सकाशात् , पीतादिविकल्पापत्तेः । यदि नामैवं ततः किमित्याह- तदभावप्रसङ्गात् पीताद्यभावप्रसङ्गात् । एतदेव स्पष्टयति- निश्चयेत्यादिना- निश्चयबलाद् यस्मात् , तद्भावसिद्धिः पीतादिभावसिद्धिः, स चेद् निश्चयः, अन्यदर्शनादप्यन्यविषयो भवति, अप्रमाणिकाऽन्यसत्ता, इह तावत्प्रक्रमादन्यत् पीतादि, ततश्चाप्रमाणिका पीतादिसत्तेति कृत्वा, विश्वस्य सर्वस्य नीलमात्रतापत्तिः, यावत् किञ्चित् सत् तत्सर्व नीलामिति; पीतादिनिश्चयस्तु नीलदर्शनादेवेति न्यायोपपत्तेः; भिन्नदर्शनविषयाः पीतादिदर्शनविषयाः, पीतादय इति चेत् । एतदाशङ्क्याह- नेत्यादि। न नैतदेवं, तेषां दर्शनानाम् , अनिश्चयात्मकत्वेन हेतुना, तथातानधिगतेः पीतादिरूपतया भिन्नताऽनधिगतेः । न चेत्यादि । न च तन्निश्चयात् गीतादिनिश्चयात् , तदधिगतिर्दर्शनानां तथा भिन्नताधिगतिर्युक्ता । कुत स्याह- तस्य सामान्येन निश्चयस्य, अन्यतोऽपि दर्शनान्तरादपि, भान हेतुना, तत्प्रतिबन्धासिद्धेः पीतादिदर्शनभेदेन सह पीतादिनिश्चस्य प्रतिबन्धासिद्धेः । स पीतादिनिश्चयः, पारम्पर्येण तदर्शनसामोभूत एव पीतादिदर्शनसामोद्भूत एव । कुत इत्याह- सदाऽतहनः पीताद्यदर्शिनः, अभावादिति चेत् । एतदाशङ्क्याह- नेत्यादि। नैतदेवम् । इत्थमेवं, सर्वत्रानाश्वासन हेतुना । किमित्याहसमञ्जसत्वापत्तेः । एनामेवाह- सन्निहितार्थदर्शनबलोत्पन्ननियादपि सकाशात् , पारम्पर्येणार्थान्तरदर्शनशक्तिजत्वाऽऽरेकात आ
तः कारणात् , प्रवृत्त्याद्ययोगात् , आदिशब्दात् प्राप्तिपरिग्रहः । स्वावद् भिन्नविषययोः सविकल्पाविकल्पज्ञानयोयोगपद्यमसंभव्येत्र
Page #126
--------------------------------------------------------------------------
________________
१३४
अनेकान्तजयपताका
निदर्य साम्प्रतमिदमाह- समानेत्यादि । समानविषययोः पुन नयोः सविकल्पाविकल्पज्ञानयोर्भावः, तथा हेतुफलभावेन, भवन 'अहिरहिः' इत्यादौ, न नो बाधायै नास्माकं बाधार्थम् । कुत इत्याह अक्रमेणाप्रवृत्तेः अवग्रहकल्पादविकल्पादवायकल्पसविकल्पभावेन मेण प्रवृत्तरित्यर्थः । एवं चेत्यादि । एवं सति 'अतीतायर्थगतविकत नापि प्रमात्रा, इन्द्रियज्ञानतो रूपादिग्रहणसिद्धेः' इत्यादि पूर्वपक्षोक्तं य वद् ‘भिन्नजातीयत्वात्' इत्येतद् , व्युदस्तमपाकृतमवसेयम् । कुत इत्या अक्रमप्रवृत्तौ सत्याम् , अतीतादिविकल्परूपादिग्रहणयोरस्य पूर्वपक्षो स्य, साफल्योपपत्तेः अन्यथाऽक्रमप्रवृत्तिमन्तरेण वाङ्मात्रत्वादिति । ___आह- यद्यत्र क्रमः, कथं न संलक्ष्यत इति । उच्यते--उत्पत पत्रशतव्यातिभेदवत् कालसौक्ष्म्यात् , छद्मस्थप्रमातुरनाभोगवा लत्वात् , अदृष्टप्रतिबन्धात् , वस्तुनोऽनेकधर्मत्वात् , यथाक्षयो शममवबोधप्रवृत्तेः, तस्य च तत्तद्धतुभेदतो वैचित्र्यादिति ॥
आह-यद्यत्र सविकल्पाविकल्पविज्ञानद्वये, क्रमः, कथं न संद क्ष्यते? इति । उच्यते- उत्पलपत्रशतव्यतिभेदवत् कालसौक्षम्याद् न सं. क्ष्यत इति । किमेतदेवमित्याह- छमस्थप्रमातुरनाभोगबहुलत्वाता अनाभोगबहुलत्वं चादृष्टकर्मप्रतिबन्धात् , तथा, वस्तुनः प्रमेयस्य नेकधर्मकत्वात् , तथा, विभ्रमादिनिबन्धनत्वेन यथाक्षयोपशमं या यथा क्षयोपशमस्तथाऽवबोधप्रवृत्तेः; तस्य च क्षयोपशमस्य, तत्ता तुभेदतो द्रव्यादिभेदेन, वैचित्र्यात् , क्रमो न संलक्ष्यत इति ।।। . आह-यदि कालसौक्ष्मादत्र क्रमाऽलक्षणम् । एवं तर्हि 'सर इत्येवमादिकयोर्वर्णयोरुच्चारणे नितरां कालसौक्ष्यमित्यक्रमग्रहाँ स्यात् । तथाच क्रमालक्षणात् श्रुतिभेदो न भवेत् , यथा सर रस इति । इतश्च न भवेत्-युगपदगोचरीभूतविषयेन्द्रियवतः ऽविच्छेदेन सर्वोपलब्धौ क्रमपक्षेऽप्यक्रमस्यैव दर्शनात् , स वंशादिवादयितू रूपं पश्यति, तदैव ततः शब्दं शृणोति, नील त्पलादिगन्धं जिघ्रति, कर्पूरादे रसमास्वादयति, आसनादि
Page #127
--------------------------------------------------------------------------
________________
स्वोपज्ञटीकासहिता ।
१३५
स्पृशति, चिन्तयति च किञ्चित् इति ततोऽस्यानवरतं सर्वपरिच्छित्तिः । एवं यावदत्राप्ययुगपत्पक्षेऽपि समाश्रीयमाणे पञ्चभिविज्ञानैर्व्यवधानेऽपि क्रमभावि सत् तेषामेकैकं विज्ञानमविच्छिन्नमित्र प्रतिभाति, तथानुभूतेः । यदैतदेवम्, तदा कथमन्यविज्ञानावृत्तौ वर्णयोर्न सकृच्छ्रुतिः, इत्यविच्छिन्नमेकघनीभूतायतवर्णाकारं दर्शनं न भवतिः न च भवति, तथाऽप्रतीतेः, इति यत्र क्रमस्तत्र कालसौक्ष्म्येऽप्युपलभ्यत एव । न च प्रतीतिं विहाय पदातत्त्वव्यवस्थापनोपायः, इति यथाप्रत्ययं युगपद्विज्ञानप्रवृत्तिर्न्याविदाऽङ्गीकर्तव्या, अन्यथोक्तवद् न्यायोच्छेदप्रसङ्गादिति ॥
आह- यदि कालसौक्ष्म्यादत्र अधिकृते सविकल्पाविकल्पज्ञानद्वये, क्रमालक्षणम् ; एवं तर्हि 'सर' इत्येवमादिकयोर्वर्णयोः, आदिशदाद् रसादिग्रहः, उच्चारणे नितरां कालसौक्ष्म्यम्, अव्यवधानेनोच्चारमात् इत्यक्रमग्रहणं सरवर्णयोः स्यात् । तथा चेत्यादि । तथा च सति कुमालक्षणात् कारणात्, श्रुतिभेदः श्रवणभेदो भवेत्, यथा सरो रस रिति द्विवर्णविषयः । इतश्च न भवेच्छ्रतिभेदः । कुत इत्याह- युगपदित्यादि । युगपदेकदैव, गोचरीभूतविषयाणि च तानीन्द्रियाणि चेति विग्रहः, तान्यस्य विद्यन्त इति तद्वान्, तस्याऽविच्छेदेन प्रबन्धवृत्त्या, षां प्रक्रमाद्विषयाणामुपलब्धिः सर्वोपलब्धि:, अस्यां सर्वोपलब्धौ त्याम् । किमित्याह- क्रमपक्षेऽपि विज्ञानविषये, अक्रमस्यैव दर्शनात् । देवाक्रमदर्शनमाह- स हीत्यादिना । स हि युगपद्गोचरीभूतविषये+ अग्रवान् वंशादिवादयितू रूपं पश्यति, तदैव ततः वंशादिवादयितुः काशात्, शब्दं शृणोति, तथा, नीलोत्पलादिगन्धं जिघ्रति, तथा, सुरादे रसमास्वादयति ; एवमासनादिस्पर्श स्पृशति, चिन्तयति च चिन्मनसा, इत्येवं तत्त्वतोऽस्य युगपद्गोचरीभूतविषयेन्द्रियवतः प्र+ दुः किमित्याह- अनवरतं सर्वपरिच्छित्तिः अनवरत सर्वपरिच्छिरेव, युगपदेवेन्द्रियविषयसंबन्धसिद्धेः । एवं तत्त्वव्यवस्थिते सति यावदयुगपद्नुभवेऽपि तात्त्विके, अयुगपत्पक्षेऽपि समाश्रीयमाणे किमित्याह
Page #128
--------------------------------------------------------------------------
________________
अनेकान्तजयपताका
पञ्चभिर्विज्ञानैर्व्यवधानेऽपि सत्ति अधिकृतन्यायेन, क्रमभावि सद्भ तेषां षण्णां विज्ञानानाम्, एकैकं विज्ञानं शब्दादिगोचरादि, अविच्छि मिव युगपदिव, प्रतिभाति । कुत इत्याह- तथानुभूतेः अविच्छेदेनानुभू प्रकृतयोजनामाह- यदेत्यादि । यदैतदेवमनन्तरोदितम्, तदा मन्यविज्ञानावृत्तावपान्तराले, वर्णयोः सरादिरूपयोः, न सकृच्छ्रा युगपच्छ्रवणमिति । एतदेवाह - अविच्छिन्नं एकदेव एकघनी तश्चासावायतवर्णश्चेति विग्रहः, तदाकारं दर्शनं न भवति । स्यादेतद् त्येव, इत्याशङ्कानिरासार्थमाह - न च भवति । कुत इत्याह- तथा तीतेः । इत्येवं यत्र क्रमस्तत्र कालसौक्ष्म्येऽप्युपलभ्यत एव या ऽधिकृतवर्णयोः । न च प्रतीतिं विहाय परित्यज्य पदार्थतत्त्वव्यवस्थाप पायः इत्येवं यथाप्रत्ययं यथानुभवं युगपद्विज्ञानप्रवृत्तिः षडपेक्ष प्रस्तुतद्वयापेक्षया वा, न्यायविदा प्रमात्रा, अङ्गीकर्तव्या, अन्यथैवम भ्युपगमे, उक्तवद् यथोक्तं तथा, न्यायोच्छेदप्रसङ्गात् प्रतीतिबा न्यायानुपपत्तेस्तस्यापि प्रतिबीजत्वादित्यभिप्राय इति ॥
"
"
अत्रोच्यते - यत्किञ्चिदेतत्, वर्णयोः सावयवत्वेनोक्तदोष नुपपत्तेः, सरादयो हि वर्णाः सावयवत्वेनानेकक्षणलब्धवृत्त तथोपलब्धितस्तत्तत्स्वभावत्वात्, अन्यथा तदनुपपत्तेः, न | णिकज्ञानग्राह्याः, तस्य परमाणुव्यतिक्रान्तिमात्रत्वेनात्यन्त क्ष्मत्वात्, तदनुभवस्य तत्त्वेनैवावग्दर्शिनाऽनुपलक्षणात्, त प्रतीतेः इति पूर्ववर्णज्ञानेनोत्तरवर्णज्ञानस्य मिश्रणाभावा उभयोः प्रदीर्घस्थूरोपयोगरूपत्वात् ; तथा, आलम्बनजाति दात्, तत्तत्वाभाव्यात्, तथाक्षयोपशमयोगात्, दृढानुभ सिद्धेः, अविगानेन तथावेदनात्, कोटिसङ्गस्याप्रयोजकत्वा तद्वीर्यतिरस्करणात् इत्थमपि तदापादनेऽतिप्रसङ्गात्, नील तज्ञानयोरपि तद्भावेन क्वचिन्मिश्रणप्रसङ्गात् । इति कथं सर्व 'रादाविवाविच्छिन्नमेकघनीभूतायतवर्णाकारं दर्शनं भवेत सकारादौ तु कालादिभेदेऽपि प्रभूततरधर्मप्रच्या सत्तेर्भवा
१३.६
Page #129
--------------------------------------------------------------------------
________________
१३७
खोपाटीकासहिता। वयानुभवादिति । एतेनाऽलासचक्रादिदशेनं प्रत्युक्तम्, प्रत्यवअवं प्रदीर्घस्थूरोपयोगादिविपर्ययाद, अन्यथा तत्रापि तथादर्शनानुषपचेः ॥ '. अत्रोच्यते- यत्किश्चिदेतत् असारमित्यर्थः । कुत इत्याह-वर्णयोः सरादिलक्षणयोः, साववचत्वेन हेतुना, उक्तदोषानुपपत्तेः । एतदेव प्रकटयति- सरादय इत्यादिना । सरादयो हि वर्णाः सावयवत्वेन जातिभेदतः, अनेकक्षणलब्धवृत्तयो वर्तन्ते . । कुत इत्याहनथोपलन्धितः अनेकक्षणवृत्तित्वेनोपलब्धेः, 'उपलब्धिश्च तचस्वभावत्वात् तयोरुपलब्धवर्णयोस्वत्स्वभावत्वात् अनेकक्षणवृचिनोपकब्धिस्वभावात् । इत्थं चैतदङ्गीकर्तव्यमित्याह- अन्यथा तदनुपपत्तेः एवमनभ्युपगमे, वर्णोपलव्ययोगादित्यर्थः । यत एवम् ,अतो न क्षणिकक्षानमाह्याः । कुत इत्याह- तस्य क्षणस, परमाणुमात्रव्यतिका. तिमानत्वेन परमाणुव्यतिक्रान्तिकाल एकः क्षणो मत इति न्यायेनाऽत्यन्तसूक्ष्मत्वात् । तदनुभवस्य क्षणानुभवस्व, तत्त्वेनैव क्षणानुभव. विनैव, अर्वाग्दर्शिनाप्रमात्रा, अनुपलक्षणात्, अनुपलक्षणं च तथा तत्त्वेदिवाऽप्रवीतेः । इत्येवं पूर्ववर्णज्ञानेन सकारादिज्ञानेन, उत्तरवर्णज्ञाबस्स रेफादिज्ञानस्य, मिश्रणाऽभावात् कारणात् , कथं सकारादावि. अविच्छिन्नमेकघनीभूतायतवर्णाकारं दर्शनं भवेदिवि योगः। मिश्रपायावश्च उभयोर्ज्ञानयोः सकारादिगोचरयोः, प्रदीर्घस्थूरोपयोगरूपगत् तथालम्बनजातिभेदात् , बिन्नजातीयौ सकाररेफाविति कृत्वा, सा वचत्वाभाव्यात् वयोवर्णोपयोगयोस्तत्वाभाब्याद् मिश्रणअमाव्यात् । एतच तथाक्षयोपशमयोगात् तेन मिश्रणाभावज्ञानज. स्वत्प्रकारेण, क्षयोपशमयोगात् । एतद्योगश्च दृढानुभवसिद्धेः, मप्यविगानेन तथावेदनाद् दृढानुभवरूपेण बेदनात् । कोटिसवर्णज्ञानसंबन्धिनः, प्रयोजकत्वात् । प्रभूततराऽसनेन तद्वीरस्करणात् तयोर्वर्णज्ञानबोर्वीर्य प्रदीर्घस्थूरोपयोगलक्षणं सामवेत तिरस्करणात् कोटिसङ्गस्य । इत्थमप्येवमपि कोटिसङ्गस्य वदी
Page #130
--------------------------------------------------------------------------
________________
१३८
अनेकान्तजयपताकायतिरस्करणेऽपि, तदापादने प्रक्रमाद् मिश्रणापादने, अतिप्रसङ्गात् । एनमेवाह- नीलपीतज्ञानयोरपि तद्भावेन कोटिसङ्गभावेन, कचि चित्रपट्यादौ, मिश्रणप्रसङ्गात् , न चैतदेवम् , इत्येवं, कथं सकारादावि सजातीयव्यक्तिरूपे, अविच्छिन्नमेकदैव एकघनीभूतायतवर्णाकारं द शनं भवेत् , नैव भवति, निमित्ताभावात् । सकारादौ तु सजातीचे तथैकावयवित्वेन कालादिभेदेऽपि, आदिशब्दादजातिप्रहः । प्रभूततरधर्मी प्रत्यासत्तेस्तथैकारम्भकत्वेन भवत्येकघनीभूतायतवर्णाकारदर्शनम् । कुर इत्याह- तथानुभवात् । एकघनीभूतायतवर्णाकारदर्शनत्वेनाऽनुभ वादिति। एतेनानन्तरोदितेन, अलातचक्रदर्शनं प्रत्युक्तम् । कथमित्याहप्रत्यवयवं अवयवमवयवं प्रति अलातचक्रसंबन्धिनं, प्रदीर्घस्थूरोपयो गादिविपर्ययात् अप्रदीर्घसूक्ष्मोपयोगभावात् ; एवं च तत्र भवति तन्मिश्रणमित्यर्थः । अन्यथैवमनभ्युपगमे, तत्राप्यलातचक्रे, तथादर्श नानुपपत्तेः प्रत्यक्यवं प्रदीर्घस्थूरोपयोगभावेन तन्मिश्रणाभावेनेति भावः॥ ...न, चैवं सर्व क्रमोपलम्भानिबन्धनं सविकल्पाविकल्पयो, अविकल्पे क्षणिकत्वेन जात्यादिभेदेऽपीहादेस्तदितरवैकल्यादिति या च युगपद्गोचरीभूतविषयेन्द्रियवतोऽविच्छेदेन सर्वोपलधिरुक्ता, साऽसिद्धा, द्रव्येन्द्रियविषययोगेऽप्याग्दर्शिनः प्रति बन्धकसामर्थ्येन तावतां विज्ञानानामेकदाऽनुदयात् , तथाऽननु भूतेः, प्रतीत्यभावात् , युक्त्यनुपपत्तेः, उपादानायोगात् , एकोपा. दानतोऽनेकासिद्धेः, भिन्नोपादानत्वे तदत्यन्तभेदेनानुसन्धाना: योगात्, अस्य चानुभवसिद्धत्वात् । एवं च क्रमपक्षेऽप्यक्रमस्यैव दर्शनादित्ययुक्तम् , तथाननुभवात् , एकदैकज्ञानसंवेदनात्, कालसौम्यविभ्रमतस्तथाऽप्रतीतेः। ... प्रकृतयोजनायाह- न चैवं यथाधिकृतवर्णयोः, सर्व निरवशेष सावयवत्वादि, क्रमोपलम्भनिबन्धनम् । कयोरित्याह-सविकल्पाविक ल्पयोः प्रस्तुतविज्ञानयोः । कुत इत्याह-अविकल्पे क्षणिकत्वेन अव
Page #131
--------------------------------------------------------------------------
________________
खोपज्ञटीकासहिता।
१३९ महस्य क्षणिकस्वात् । जात्यादिभेदेऽपीहादः सविकल्पत्वेन, अदिशब्दात् प्रतिभासग्रहः, तदितरवैकल्यात् प्रदीर्घस्थूरोपयोगरूपवैकल्यादिति । या चेत्यादि । या च युगपद्रोचरीभूतविषयेन्द्रियवतः प्रमातुः, अविच्छेदेन सर्वोपलब्धिरुक्ता पूर्वपक्षग्रन्थे, साऽसिद्धा । कुत इत्याह- द्रव्यन्द्रियविषययोगेऽपि निर्युपकरणरसादिसंबन्धेऽपि, अर्वाग्दर्शिनः प्रमातुः, प्रतिबन्धकसामर्थेन हेतुना कर्मसामर्थेन, तावतां विज्ञानानां षण्णाम् , एकदैकस्मिन् काले,अनुदयात्.अनुत्पादात्, अनुदयश्च तथाननुभूतेः एकदाभावेनाननुभूतेः । अननुभूतिश्च प्रतीत्यभावात् । प्रतीत्यभावश्च युक्त्यनुपपत्तेः । युक्त्यनुपपत्तिश्च उपादा. नायोगात् । उपादानायोगश्च एकोपादानतोऽनेकासिद्धेः स्वतः परतश्च । भिन्नोपादानवे तेषां षण्णामत्यन्तभेदेन सन्तानान्तरवदनुसन्धानायोगात् 'मया रूपं दृष्टं, शब्दः श्रुतः 'इत्यनुसंधानायोगात् । अस्य चानुसन्धानस्यानुभवसिद्धत्वात् । यदि नामैवं ततः किमित्याह- एवं च 'क्रमपक्षेऽप्यक्रमस्यैव दर्शनात्' इत्ययुक्तं पूर्वपक्षोक्तम् । कुत इत्यहसथाननुभवात् । अक्रमदर्शनेनाऽननुभवात् । अननुभवश्व एकदैकज्ञानसंवेदनात्, इति कल्पनान्तरबाधिका युक्तिः । अत एवाहकालसौम्यविभ्रमतः कारणात् , तथाऽप्रतीतेः एकदैकशानसंवेदनत्वेनाऽप्रतीतेः, विभ्रमाद् युगपत्प्रवृत्तरित्यर्थः ॥ .. किश्च, कुतोऽयममीषामत्यन्तभेदे युगपत्सर्वानुभव इत्यवगमः ? , न तेभ्य एव, प्रत्यर्थनियतत्वात् इतरेतरानवगमात् , अवगमे स्वरूपहानिप्रसङ्गात् , ज्ञानान्तरालम्बनत्वापत्तेः, तस्यापि चायोगात् , युगपद्भावात् , प्रतिबन्धविरहात् , इतरेतरालबनत्वानुपपत्तेः, युक्तिभिरयोगात् , स्वभावभेदप्रसङ्गात् , तथा च तदयोगादिति । न चान्यतः, एकस्य तदालम्बनत्वाभावात , तेषां भिन्नजातीयत्वात् । अत एवैकाकरणादतदुत्पन्नात् तत्परिच्छित्यसिद्धेः, तदाकारत्वायोगात्, योगेऽपि प्रेचकरूपतापत्तेः, तत्सारूप्याभावात् ,तेषामसङ्कीर्णत्वात् ,एवमप्यवगमेऽतिप्रसङ्गात ,
Page #132
--------------------------------------------------------------------------
________________
१४०
अनेकान्तजयपताकातत एव सर्वार्थावगमापत्तेः, तथाऽनुभवाभावात् इत्यनवगतामि धानमेतद् यदुत- 'युगपत्सर्वानुभवः' इति । चित्रज्ञानवत्परामर्श विकल्पात् तदवगम इति चेत् । न, अस्याप्ययोगात् । तथानुन वसिद्धत्वात् कथमयोग इति चेत् । खकृतान्तप्रकोपात् । कम मत्र तत्प्रकोप इति चेत् । यथोक्तं प्राक् । परामर्शविकल्पोजन एवेति चेत्। न ततस्तदवगम इति यत्किश्चिदेतत् । क्रमानुभवों ऽपि कथं गम्यते ? इति चेत् । अन्वयिन्यात्मनि सुखेनैव , तस्यैव तथाभावात् , चित्रस्वभावत्वात् , बोधान्चयोपपत्तेः, तदावरण विगमात् , क्रमानुभवाविरोधात, तथामनोवृत्तेः। इति न युगपत्सा र्वथा सविकल्पाविकल्पज्ञानभावः ।। - दूषणान्तरमाह- किश्चेत्यादिना । किञ्चायमपरी दोषः- कुतों ऽयममीषां षण्णां विज्ञानानाम् , अत्यन्तभेदे सति, युगपत्सर्वानुमव इत्ये वंभूतः, अवगमः परिच्छेदः । न तेभ्य एव षड्भ्यो विज्ञानेभ्यः । कुत इत्याह- प्रत्यर्थनियतत्वात् तेषां; तथाहि- रूपादिविषयत्वेन नियतानि तानि । यदि नामैवं ततः किमित्याह- इतरेतरानवगमात । न रूपज्ञाने रसादिज्ञानमवगम्यते, नापि तैस्तत्, इतीतरेतरानवगमः। इत्थं चैतदङ्गीकर्तव्यमित्याह- अवगमे स्वरूपहानिप्रसङ्गात् । यदैव रूपज्ञानं रसादिज्ञानान्यवैति तदैव तदालम्बनत्वात् तदाकारतया रूपं ज्ञानतां परित्यज्यान्यथा तदवगमः, एवं रसादिज्ञानेष्वपि योजनीयम् इत्यवगमे स्वरूपहानिप्रसङ्गः । एतदेवाह-ज्ञानान्तरालम्बनत्वापत्ते न ह्येतदालम्बनं तदवगमयतीति भावः । यदि नामैवं ततः किमित्याहतस्यापि चायोगात् तस्यापि च ज्ञानान्तरालम्बनत्वस्य, अयोगात् । अयोगश्च युगपद्धावात् । रूपरसादिज्ञानानां युगपद्भावे दोषमाह प्रतिबन्धविरहात् तादात्म्यतदुत्पत्त्ययोगेन । दोषान्तरमाह- इतरे। तरालम्बनत्वानुपपत्तेः रूपज्ञानस्य रसान्तरालम्बनत्वानुपपत्ते. रसादिज्ञानस्य च रूपज्ञानान्तरालम्बतत्वानुपपत्तेः । अनुपपत्तिश्य युक्तिभिरयोगात् । युक्त्ययोगश्च स्वभावभेदप्रसङ्गात् । रूपज्ञानं हि
Hee
Page #133
--------------------------------------------------------------------------
________________
-स्वोपज्ञटीकासहिता।
१४१ रसादिज्ञानान्तरालम्बनमालम्ब्यं च । न चैतदुभयं स्वभावाभेदे इति स्वभावभेदः । यदि नामैवं ततः किमित्याह- तथाच तदयोगादिति । खभावभेदे च रूपादिविज्ञानायोगात् , ततस्तद्व्यतिरिक्ततरविकल्पद्वारेना; इति 'नतेभ्य एवाऽमीषां युगपत्सर्वानुभव इत्यवगमः' इत्येतत् स्थितम्। भन्यतो भविष्यतीत्याशङ्कापनोदायाह- न चान्यत इत्यादि । न चान्यतोऽमीषां युगपत्सर्वानुभव इत्यवगमः। कुत इत्याह-एकस्येत्यादि । एकस्यान्यस्य, तदालम्बनत्वाभावात् अधिकृतषविज्ञानालम्बनत्वाभा. वात् । अभावश्च तेषां भिन्नजातीयत्वात् षण्णां विज्ञानानाम् । यदि नामैवं ततः किमित्याह- अत एवैकाकरणात् । न हि भिन्नजातीया रूपादय एकं पृथगजनज्ञानं कुर्वन्ति । न चैतदुत्पनं तत्परिच्छेदकमित्येतदाह- अतदुत्पनादित्यादि । तेभ्यः षड्भ्यो विज्ञानेभ्यः, उत्पनं तदुत्पन्नं, न तदुत्पन्नमतदुत्पन्नं तस्मात् , एकस्मादिति प्रक्रमः। तत्परिच्छित्यसिद्धेः षड्ज्ञानपरिच्छित्त्यसिद्धेः, असिद्धिश्च तदाकारत्वायोगात् । उपचयमाह- योगेऽपि कथञ्चित् , तदाकारत्वस्य मेपकरूपतापत्तेरधिकृतप्राहकज्ञानस्य । यदि नामैवं ततः किमित्याहवत्सारूप्याभावात् । तैयिज्ञानैः षड्भिः सारूप्याभावात् , मेचकरूपस्य ग्राहकज्ञानस्य । अभावश्च तेषामसंकीर्णत्वात् ज्ञेयज्ञानानाम् । न च सारूप्याभावे तवगमो न्याय्य इत्येतदाह- एवमपीत्यादि । एवमपि सारूप्याभावेऽपि, ज्ञानज्ञेययोरवगमेऽभ्युपगम्यमाने, अतिप्रसङ्गात् । तिप्रसङ्गश्च, तत एव सर्वार्थावगमानुभवाच्च,इत्येवं,अनवगताभिधानमेत् पूर्वपक्षवचनं, यदुत 'युगपत्सर्वानुभवः' उक्तवत्तद्योगपद्याज्ञानादिति । पत्रज्ञानवदित्यादि । चित्रज्ञानवदिति निदर्शनम्, यथा चित्रने सामाञ्चित्रावगमः, तथा परामर्शविकल्पात् षड्ज्ञानगतात्, वामः, प्रक्रमादमीषां युगपत्सर्वानुभवावगम इति चेत् । एतदा. क्याह- नाऽस्याऽप्ययोगात् चित्रज्ञानस्य । तथेत्यादि । तथा अज्ञानत्वेनानुभवसिद्धत्वात् कारणात् , कथमयोग इति चेत् चित्रमस्य। एतदाशङ्क्याह- खेत्यादि। स्वकृतान्तप्रकोपात् स्वसि
Page #134
--------------------------------------------------------------------------
________________
१४२
अनेकान्तजयपताकाद्धान्तविरोधादयोगः । कथमत्र तथानुभवसिद्धौ, तत्प्रकोप इति । एतदाशङ्कयाह- यथोक्तं प्राक् पूर्व 'एकस्यानेकालम्बनत्वाभावार इत्यादिना । परामर्शविकल्पोऽनन्तरप्रस्तुतः, अन्य एव तथाविधा भवनिमित्तो न षड्ज्ञानगत इति चेत् । एतदासङ्ग्याह-न त परामर्शविकल्पादन्यस्मात् , तदवगमः प्रक्रमादमीषां युगपत्सर्वानुभवा गमः, इत्येवं, यत्किश्चिदेतदनन्तरोदितम्, सर्वमेवाऽसारमित्यर्थः। क्रम भवोऽपि रूपादिज्ञानगत इति प्रक्रमः, कथं गम्यत इति चेत्, तत मग्राह्यन्यद् विज्ञानान्तरं न विद्यत एवेत्यभिप्रायः । एतदाशक्या। अन्वयिन्यात्मनि सुखेनैव गम्यते । एतदेवाह- तस्यैव प्रक्रमा दिज्ञानानुभवितुरात्मनः, तथाभावाद् रसादिज्ञानरूपेण भावात् , प्सथाभावश्च चित्रस्वभावात् अनुवृत्तिव्यावृत्तिस्वभावत्वादित्यर्थः । एर बोधान्वयोपपत्तेः, न व्यावृत्तिमन्तरेणान्वय इत्युपपत्तिः । युक्तयर रमाह- तदावरणविगमात् क्रमानुभवज्ञानावरणविगमात् ।। चायमसिद्ध इत्याह- क्रमानुभवाविरोधात कारणसाकल्येनेत्यर्थः अविरोधश्च तथामनोवृत्तेः युगपज्ज्ञानानुपपत्तित्वेन मनोवृत्तेः कारणा प्रक्रान्तोपसंहारमाह- इति न युगपदित्यादिना । इत्येवं, न युगपर विकल्पाविकल्पज्ञानभावः ।। “ परमाप्तवचनविरुद्धश्चायम् , “अस्थानमेतत् , यद् द्वे चित्ते यु पदुत्पद्येयाताम्" इति वचनप्रामाण्यात् । अन्यार्थमेतदिति चेत कोऽस्यार्थ इति वाच्यम् । भिन्नजातीये नेति चेत् । न, आ कृतज्ञानयोरपि तत्त्वात् । भिन्नालम्बने नेति चेत् । न, तयोरी त्वन्मते भावात् । कथं पुनर्भाव इति चेत् । रसादिगतचित्तस्या रूपदर्शनाभ्युपगमादिति । न चाविकल्पके नेति,पश्चानां प्ररूपणा न चात एव न द्वे, छलमात्रत्वात् । न चेहैव न्याय्यो भर अस्थानप्रयासत्वात् । न च नास्थानप्रयासः, द्वयोरुपलक्षण त्वात् , अन्यथा यत्र पञ्च न तत्र द्वे इत्यतिकौशलमाप्तस्य त्र्यादीनामपि प्रतिषेधापत्तेः॥
Page #135
--------------------------------------------------------------------------
________________
खोपाटीकासहिता।
१४३ उपचयमाह- परमाप्तवचनविरुद्धश्चायं परमाप्तो भगवान् वृद्धसदचनविरुद्धश्च, अयं युगपत्सविकल्पाविकल्पज्ञानभावः । एतदेवाहअस्थानमित्यादिना । अस्थानमिति- एतन न्यायस्थानं यद् द्वे चित्ते द्वे बाने, युगपदेकदा, उत्पद्येयाताम्, इत्येवं वचनप्रामाण्यात् कारणात् परमाप्तवचनविरुद्ध इति । अन्यार्थमेतत् परमाप्तवचनमिति चेत् । एतदाशङ्क्याह- कोऽत्य परमाप्तवचनस्यार्थ इति वाच्यम् । भिन्नजातीये न द्वे चित्ते युगपदुत्पद्येयातामिति चेत् । एतदाशङ्क्याह-न, अधिकृतज्ञानयोरपि । सविकल्पाविकल्पयोः, तत्त्वाद् भिमजातीयत्वात्। भिन्नालम्बने न द्वे चित्ते युगपदुत्पद्येयातामिति चेत् । एतदाशङ्क्याह- न, तयोरपि भिन्नालम्बनयोरपि, स्वन्मते त्वत्पक्षे,भावात् । कथं पुनर्भावो भिन्नालम्बनयोर्मत्पक्षे, इति चेत् । एतदाशझ्याहरसादिगतचित्तस्यापि प्रमातुः, रूपदर्शनाभ्युपगमात् । अभ्युपगमश्च "अतीताद्यर्थगतविकल्पेनापि रूपादिग्रहणसिद्धेः" इतिवचनात् । न चाविकल्पके नेति द्वे चित्ते युगपदुत्पद्येयातामिति । कुत इत्याह- पश्वानां प्ररूपणात् । स हि वंशाविवादयितुः रूपं पश्यतीत्यादिना मन्थेन, न चात एव पश्वप्ररूपणादेव, न द्वे । कुत इत्याह- छलमात्रत्वात । यत्र पश्च तत्र द्वे अपि भवत इति कृत्वा । न चेहैव प्रक्रमाच्छलादौ,न्याय्यो भरस्तथाविधाऽऽस्थारूपः। कुत इत्याह- अस्थानप्रयासत्वात् । न च नास्थानप्रयास एषः, किन्त्वस्थानप्रयास एव । कुत इत्याह-द्वयोरुपलक्षणत्वात् पञ्चादीनाम् । इत्थं चैतदङ्गीकर्तव्यमित्याह- अन्यथा उपलक्षणत्वानभ्युपगमें, यत्र पञ्च न तत्र द्वे इत्य.. कौशलमाप्तस्य, इत्युपहासवचनम् । अत एव आह-ज्यादीनामपि तिषेधापत्तेः कारणात् ॥
स्यादेतत् , अलमनेन वाग्जालेन, सविकल्पे नोत्पद्यते इति चिनार्थात् । न, अत्र प्रमाणाभावात् , तद्विवक्षाया अत्यक्षत्वात् , जाधकवचनाभावात् ; भावेऽपि तदर्थनिश्चयायोगात् , विनेयानुगुयतोऽन्यथापि तद्वचनमहत्तेः। साऽऽभिप्रायिक्येवेति चेत् , कस्त
Page #136
--------------------------------------------------------------------------
________________
१४४
अनेकान्तजयपताकास्याभिप्राय इति क एतद्वेद । यो युक्तिवाधितो न स स इति येता कः पुनरसौ भवतोऽभिप्रेतः। विकल्पद्वयायुगपद्भाव इति चेता का खल्वन्यथा युक्तिवाधा? इति कथनीयम् । तथानुभव एवेति चे सोऽविकल्पकद्वयेऽपि तुल्य एवेत्युक्तम् । न च विकल्पयोरसाई शानुवेधतश्चिततैव युक्ता। न च तत्स्वसंविदो वस्तुत्वेनायमन राधः, तत्तद्व्यतिरिक्ततरविकल्पदोषापत्तेः, अन्यथा तदयोगात इति यत्किञ्चिदेतत् । अतः सामान्येनैवोभयचित्तप्रतिषेधोप, पत्तेः, आप्तवचनप्रामाण्यात् , तथानुभवभावतः सिद्धमिन्द्रियद्वारा नुसार्येव विज्ञानमाविष्टाभिलापम् 'अहिरहिः' इत्येवमादि ।
स्यादेतदलमनेन वाग्जालेनानन्तरोदितेन, सविकल्पे न उत्पद्यते द्वे चित्ते युगपदिति वचनार्थात् कारणात् , अलमनेन । एतदाश क्याह-न, अत्र वचनार्थे, प्रमाणाभावात् । अभावश्च तद्विवक्षा अत्यक्षत्वात्-अतीत्याक्षमिन्द्रियं वर्तत इत्यत्यक्षा तद्भावस्तस्मात् परो क्षत्वादित्यर्थः । अत्यक्षापि वचनान्तरावसेया भविष्यतीत्याइन बाधकवचनाभावात् । अविकल्पयोगपद्याभिधायि बाधकं वचनम् ,अत्र न च तदस्तीति गर्भः। उपचयमाह- भावेऽपीत्यादिना भावेs बाधकवचनस्य 'पञ्च बाह्यविज्ञानानि भिक्षवः! युगपदुत्पद्यन्ते' इत्यादेः किमित्याह- तदर्थनिश्चयायोगात् । अविकल्पज्ञानानां युगपद्भावस्त दर्थस्तनिश्चयायोगात् , अयोगश्च विनेयानुगुण्यतः शिष्यानुगुण्येन, मा न्यथापि श्रौतं शब्दार्थ विहायाऽपि, तद्वचनप्रवृत्तेः आप्तवचनप्रवृचे ब्राह्मणमृतजायाऽमृतवचनवत् । सेत्यादि सा तद्वचनप्रवृत्तिः, आमि प्रायिक्येव अभिप्रायेण निवृत्ता आभिप्रायिकी अभिप्रायस्तथार्थदर्श नमिति चेत् । एतदाशझ्याह-कस्तस्य आप्तस्याऽभिप्रायः ।अर्थया थात्म्यमाधिकृत्य किमविकल्पयोगपद्यमेव, उत विकल्पयोगपद्यमिति ! क एतद्वेद क एतज्ञानाति १, न ह्यसौ पृथग्जनप्रज्ञाविषय इत्यर्थः। य इत्यादि । योऽभिप्रायो युक्तिबाधितो युक्तिविरहितः, न सस इति नासौ तदभिप्रायः, अर्थयाथात्म्यमधिकृत्येति प्रक्रमः, इति चेत् ।
Page #137
--------------------------------------------------------------------------
________________
स्वोपज्ञटीका सहिता ।
१४५
एतदाशङ्कयाह- कः पुनरसौ अभिप्रायः, भवतोऽभिप्रेतः ? । विकल्पेत्यादि । विकल्पद्वया युगपद्भावोऽभिप्राय: 'अथानमेतत्' इत्यादिसूत्रे इति चेत् । एतदाशङ्कयाह- का खल्वन्यथा विकल्पद्वययुगपद्भावे, युक्तिबाधा? इत्येतत् कथनीयम् । तथा विकल्पद्वययौगपद्येन, अनुभव एव युक्तिबाधेति चेत् । एतदाशङ्कयाह- सोऽविकल्पद्वयेऽपि यौगपद्येनाननुभवः, तुल्य एवेत्युक्तं प्राक् 'किंच, कुतोऽयममीषामत्यन्तभेदे युगपत् सर्वानुभव इत्यवगम: ?' इत्यादिना सूत्रेण । उपचयमोहन चेत्यादिना । न च विकल्पयोरसदंशानुवेधतः कारणात्, अविपमानप्रतिभासित्वाभ्युपगमेन, चित्ततैव युक्ता, यदसत्प्रतिभासि तदसदेवेति भावनीयम् । पराभिप्रायमाह - न चेत्यादिना । न च तत् संविदो विकल्पस्य स्वसंविदः, वस्तुत्वेन हेतुना, अयमसर्दशातुवेधतश्चित्तताऽयोगलक्षणः, अनपराधोऽदोषो न च । कुत इत्याह तत्तद्व्यतिरिक्तेतरविकल्पदोषापत्तेः तस्याः स्वसंविदस्तद्व्यतिरिक्तेतर विकल्पदोषापत्ते:- असदंशव्यतिरिक्ताव्यतिरिक्त विकल्पदोषप्रसङ्गात् -- सा हि स्वसंविदसदंशाद् विकल्पानुवेधकाद् व्यतिरिक्ता वा स्यादव्यतिरिक्ता वा ? । व्यतिरिक्तत्वे तस्येति सङ्गायोगः । अव्यतिरिक्तत्वे तस्यापि वस्तुता, स्वसंविदो वाऽवस्तुतेत्यादि । अन्यचैवमनभ्युपगमे, तदयोगात्तत्स्वसंविदोऽयोगात्, तथाहि - यदि सा ततो नं व्यतिरिक्ता, नाप्यव्यतिरिक्ता, न विकल्प एवेति कुतस्तत्स्वसंवित् ? इत्यालोचनीयम् । इत्येवं यत्किंचिदसारमेतद् यदुत - 'तत्स्वसंविदो वस्तुत्वेनायमनपराध:' इति । अपान्तरालपूर्वपक्षमधिकृत्योपसंहारमाहमत इत्यादिना । अतोऽस्मात् कारणात्, सामान्येनैवोभयचित्तप्रतिघोपपत्तेः । प्रक्रमादधिकृतसूत्रे 'अस्थानमेतत् -' इत्यादौ सविकल्पाविकल्पोभयचित्तप्रतिषेधोपपत्तेः । किमित्याह- आप्तवचनममाण्यात् कारणात् Į तथा, अनुभवभावत एकचित्तरूपत्वेनानुभवभावतः, सिद्धं प्रतिष्ठितम् । किमित्याह - इन्द्रियद्वारानुसार्येव विज्ञानं, हादिक्रमेणाssविष्टाभिलापम् 'अहिरहि:' इत्येवमादि । आदिशब्दातदन्यैवंविधपरिग्रहः, तदपि सिद्धमित्यर्थः ॥
"
5
१९
Page #138
--------------------------------------------------------------------------
________________
१४६
न चेदं नेन्द्रियनिमित्तम्, तद्भावभावित्वानुविधाना अन्धादेरनुत्पत्तेः । इन्द्रियादविकल्पजन्म तत इदमिति तदनु त्तिरिति चेत् । न, आद्यविद्युत्संपातादौ तद्भावेऽपि तदभावाद समानसाभावतोऽभावो नाक्षव्यापाराभावत इत्यतोऽदोष चेत् । नात्र किञ्चिदुभयसिद्धं प्रमाणम् । इति यत् किञ्चिदेतत् तथाविधविकल्पानुत्पत्तिरेव प्रमाणमिति चेत् । न, अस्य विवादगोचरापन्नत्वात् । अत एवैतन्निर्णीतेर यमदोष चेत् । न चक्षुर्व्यापाराभावेऽप्यस्याः समानत्वादिति ॥
एव
अनेकान्तजयपताका
"
"
इहैवोपचयमभिधातुमाह- न चेत्यादि । न चेदं नेन्द्रियनिमि किं तर्हि, इन्द्रियनिमिचमेव । कुत इत्याह-तद्भावभावित्वानुविधाना इन्द्रियभावभावित्वानुकरणात् । तदेवाह - अन्धादेरनुत्पत्तेः । आदिश ब्दादव्यापृतेन्द्रियग्रहः । इन्द्रियादित्यादि । इन्द्रियात् सकाशात्, विकल्पजन्माऽविकल्पोत्पादः, ततोऽविकल्पात् इदं विज्ञानमाविष्टाि लापम्, इत्येवं तदनुत्पत्तिरन्धादेत्रिवक्षितविज्ञानानुत्पत्तिरिति चेत् एतदाशङ्कयाह- आद्यविद्युत्संपातादौ । आदिशब्दात् तदन्याद्भुत शेनग्रहः । तद्भावेऽपि - इन्द्रियादविकल्पजन्मभावेऽपि तदभावात् आविष्टाभिलापविज्ञानाभावात् । स मानसाभावतः स्वविषयानन्तरि षयसहकारीन्द्रियज्ञानजनितमानसाभावेन, अभाव:, आविष्टाभिला विज्ञानाभावः । नाक्षव्यापाराभावतो नेन्द्रियव्यापाराभावेन, इत्यत Sस्मात् कारणात्, अदोष: 'आद्यविद्युत्संपातादौ तद्भावेऽपि तदभावाद इत्ययमनपराध इति चेत् । एतदाशङ्कयाह - नात्र 'स मानसाभावत इत्यादौ किञ्चिदुभयसिद्धं वादिप्रतिवादिप्रतिष्ठितम्, प्रमाणमक्षव्याप रापोहेन मानसनिबन्धनत्वव्यवस्थापकम्, इत्येवं, यत्किञ्चिदेतदसं मित्यर्थः । तथाविधेत्यादि । तथाविधविकल्पानुत्पत्तिरेवाविष्टाभिलापवि ज्ञानानुत्पत्तिरेवेत्यर्थः, प्रमाणमक्ष व्यापाराभावेन मानसनिबन्धनत्व वस्थापकमिति चेत् । एतदाशङ्कयाह - न, अस्या एव तथाविधवि स्पानुत्पत्तेरेव, विवादगोचरापन्नत्वाद् विप्रतिपत्तिविषयत्वादिति योऽयं
9
Page #139
--------------------------------------------------------------------------
________________
स्वोपज्ञीका सहिता ।
१४७
अत एवेत्यादि । अत एव तथाविधविकल्पानुसत्तेरेव सकाशात्, एतन्निर्णीतेः ‘स मानसाभावतोऽभावो नाक्षव्यापाराभावतः' इत्येतन्निश्चयात् कारणात्, अयमनन्तरोदितः 'न, अस्या एव विवाद्गोचरापन्नत्वात् ' इत्यदोषोऽनपराध इति चेत् । एतदाशङ्कयाह- न, चक्षुर्व्यापाराभावेऽप्यस्याः अत एव तन्निर्णीतेः, समानत्वात् तुल्यत्वादितिः तथाहिअत एव तथाविधविकल्पानुपपत्तेरेव सकाशात्, एतन्निर्णीतेः सोऽक्षव्यापाराभावतोऽभावो न मानसा भावत इत्येतन्निश्चयात् कारणात्, इत्यपि वक्तुं शक्यत्वात् तुल्यत्वमिति भावनीयम् ॥
. किश्च, इदमपि मानसं तद्विषयमात्रग्राहकत्वेन न तद्भिनशक्तिकमिति, किञ्चानेन, निरंशैकस्वभावत्वाच्च वस्तुनोऽनुभवोऽपि न पटीयानपटीयांश्च युज्यते; अत्यन्ताऽसत उत्पादेन सर्वथा हेत्वनन्वयतोऽभ्यास वासने च; अन्यथाऽसंपूर्ण वस्तुग्रहणमपि स्यात्, तथा च न निरंशैकस्वभावमेवैतत् । न चान्यथाऽपटीयस्त्वादि, अनुभवस्य तन्मात्रग्रहणत्वात्, तदतिरिक्तरूपान्तराभावात्, अयेनोपकाराद्ययोगादिति । एवमभ्यासवासनोपगमाद् नात्यन्तासत एवोत्पादः, सत्यस्मिंस्तयोर्वाज्यात्रत्वात्, तदात्वातिरेकेणाकालं तदभावात् पूर्वस्मादत्यन्तभिन्नत्वात् तथापि तदद्भ्यासादावतिप्रसङ्गात् । इतीन्द्रियजमेवैतत् ॥
अभ्युच्चयमाह- किश्चेत्यादिना । किञ्च, इदमपि मानसं स्वविषमनन्तरेत्यादिलक्षणवत् तद्विषयमात्रग्राहकत्वेन प्रक्रमादक्षज्ञानविमात्र हकत्वेन हेतुना, स्वलक्षणमात्रग्राहकत्वनेत्यर्थः, न तद्भिमुक्तिकं नाक्षज्ञानभिन्नशक्तिकमिति । किञ्चानेन परिकल्पितेन, विधविकल्पोत्पत्ती समानमेतदक्षज्ञानेनेति भावः 1 पक्षान्तरजिहीर्षयाह- निरंशैकस्वभावत्वाच्च कारणात् वस्तुनः अनुभपि, प्रक्रमात्तदनुभवः, न पटीयानपटीयांश्च युज्यते, निरंशैकविवाद् वस्तुनस्तथाविधैकस्वभावस्यैवाऽस्य भावात् तदेतद्भेदोऽपि तथाविधविकल्पोत्पत्त्यनुत्पत्तिनिमित्तमिति प्रकृतयोजना । तथा,
,
Page #140
--------------------------------------------------------------------------
________________
१४८
अनेकान्तजयपताका
MAR1
अत्यन्तासत उत्पादन हेतुना, अनुभवस्य सर्वथा हेत्वनन्वयतः कारणा तत्तथाभावाभावेनाऽभ्यासवासने च 'अनुभवस्य न युज्यते' इति वत पौनःपुन्यकरणमभ्यासः, पूर्वानुभूतसंस्कारानुवेधश्च वासना, नैते । त्यन्तासत उत्पादे भवत इति भावनीयम् । इत्थं चैतदङ्गीकर्तव्यमित्या अन्यथा एवमनभ्युपगमे, असंपूर्णवस्तुग्रहणमपि स्यात् अनुभव पटीयस्त्वादिभावेन । यदि नामैवं ततः किमित्याह- तथा च निरंशैकस्वभावमेवैतद् वस्तु, किन्तु सांशानेकस्वभावमिात । चान्यथोक्तं प्रकारं विहाय, अपटीयस्त्वादि, आदिशब्दात्पटीयस्त्वग्रह अनुभवस्याधिकृतस्य । कुत इत्याह- तन्मात्रग्रहणत्वाद् वस्तुमा त्रग्रहणस्वरूपत्वात् , अनुभवस्य, तदतिरिक्तरूपान्तराभावात् तन्मा त्रग्रहणतत्त्वातिरिक्तरूपान्तराभावात् । अभावश्चान्येन वस्तुव्यतिरि क्तेनोपकाराद्ययोगात् । ततश्च वस्तुग्रहणभेदकृतमेवापटीयस्त्वाद्यस्य सांशानेकस्वभावमेतदिति स्थितम् । एवमभ्यासवासनोपगमात् का रणात् । किमित्याह- नात्यन्तासत एवोत्पादः । कुत इत्याह सत्यस्मिन् अत्यन्तासत उत्पादे, तयोरभ्यासवासनयोः, वाड्यात्री त्वात् । वाङमात्रत्वमेवाह- तदात्वातिरेकेण तदाभावातिरेकेणा आकालं यावदपि कालस्तावदपि, तभावादत्यन्तासत उत्पद्यमान स्याभावात् , अभावश्च पूर्वस्मादत्यन्तभिन्नत्वात् अत्यन्तासत जी त्पद्यमानस्य, तथाप्येवमपि, तदभ्यासादौ तस्यानभवस्याभ्यासवास नाभावे; आतप्रसङ्गादनुभवान्तरस्याप्यभ्यासादिशून्यस्य तद्भावप्रसङ्गम त्। इतीन्द्रियजमेवैतद् विज्ञानमाविष्टाभिलापम् 'अहिरहिः' इत्येवमादी त्यधिकारोपसंहारः ।।
एतच्चानेकधर्मके वस्तुनि ज्ञानावरणाच्छादितस्य प्रमातुः स्तथाविधक्षयोपशमभावत. उभयोस्तथास्वभावत्वेनावग्रहेहावाय धारणारूपं प्रवर्तत इति । अनेकधर्मकत्वं च वस्तुनोऽनेकविज्ञा नजनकत्वात् , योग्ययोगिभिर्भेदेनोपलब्धेः, अन्यथा तदभेदन सङ्गात् , द्वयोरपि तत्तनिमित्तत्वात् , तद्भावभाषित्वानुविधानात् ।
Page #141
--------------------------------------------------------------------------
________________
स्वोपज्ञटीकासहिता।
१४९
मरावल्पभावे महदर्शनमनिमित्तमिति चेत् । न, अल्पस्यैव तनिमित्तत्वात् , तदभावेऽभावात् , विप्रकर्षाद्युपप्लवात् , तत्तत्स्वभावत्वात् , अन्यथा तदनुपपत्तेः, ततस्ततोऽन्यत्वाच्च स्वभावभेदेन व्यावृत्तेः, अन्यथा तदेकत्वप्रसङ्गात् , तदन्यत्वहेतुत्वेनाविशेषात्, अन्यत्वस्य चाकल्पितत्वात् , कल्पितत्वे तत्त्वतस्तदभावापत्तेः। - एतच्चेत्यादि । एतच्चाधिकृतज्ञानम्, अनेकधर्मके वस्तुनि घटरूपादौ, ज्ञानावरणाच्छादितस्य प्रमातुर्जीवस्य, तथाविधक्षयोपशमभावतो द्रव्यादिनिमित्तचित्रक्षयोपशमभावात् , उभयोः प्रमातृविषययोः, तथास्वभावत्वेन चित्रग्राह्यग्राहकस्वभावत्वेन हेतुना, अ. वग्रहहावायधारणारूपं प्रवर्तत इति ग्रहणकवाक्यसमुदायार्थः । अवयवार्थ तु स्वयमेवाह ग्रन्थकारः- अनेकधर्मकत्वं च वस्तुन इत्यादिना ग्रन्थेन । अनेकधर्मकत्वं च वस्तुनो घटरूपादेः । कुत इत्याह- अनेकविज्ञानजनकत्वात् अनेकेषां विज्ञानजनकमनेकविज्ञानजनकं तद्भावस्तस्मात् । एकेनैव स्वभावेनैवं भविष्यतीत्याहयोग्ययोगिभिः प्रमातृभिः, भेदेनोपलब्धेः संपूर्णाऽसंपूर्णधर्मसाक्षाकरणेन दर्शनादित्यर्थः । अन्यथैवमनभ्युपगमे, तदभेदप्रसङ्गाद् योग्ययोगिनोरभेदप्रसङ्गात् । प्रसङ्गश्च द्वयोरपि योग्ययोगिनोः, तत्तनिमित्तत्वात् तस्या उपलब्धेस्तन्निमित्तत्वात् अधिकृतवस्तुनिमितत्वात् । तन्निमित्तत्वं च तद्भावभावित्वानुविधानात् अधिकृतस्तुभावभावित्वानुकरणात् । अतन्त्रमेतदर्वाग्मुशामित्येतदेवाह-मसावित्यादिना । मरौ विषये, अल्पभावेऽल्पस्य च्छगणादेः सत्तायां, हद्दर्शनं महतोवत्सादेरिव दर्शनम् , अनिमित्तम् , अल्पस्याप्रतिभासनेन मित्तत्वायोगादिति चेत् । एतदाशङ्कयाह-न, अल्पस्यैव च्छगणादेः, निमित्तत्वाद् महद्दर्शननिमित्तत्वात् । तन्निमित्तत्वं च तदभावेऽभावात् , साऽभावेऽभावाद् महद्दर्शनस्य । कथमिदमतत्प्रतिभासीत्याहमकर्षाद्युपप्लवात् । विप्रकर्षों देशविप्रकर्षः, आदिशब्दात् प्राविधज्ञानावरणक्षयोपशमपरिग्रहः, ताभ्यामुपप्लवाद् भ्रान्तेः । उप
Page #142
--------------------------------------------------------------------------
________________
१५०
अनेकान्तजयपताका
प्लवश्च तत्तत्स्वभावत्वात् तस्य विप्रकर्षादेः तत्स्वभावत्वादुपप्लक जननस्वभावत्वात् । इत्थं चैतदङ्गीकर्तव्यमित्याह-अन्यथा तदनुपपत्ते अन्यथैवमनभ्युपगमे, तदनुपपत्तरुपप्लवानुपपत्तेः, न ह्यसावन्यनिमित्तोऽनिमित्तो वेति भावनीयम् । मूलसाध्य एव हत्वन्तरमाह- ततस्ततोऽन्यत्वाच्च । ततस्ततः सजातीयेतरादेर्विचित्राद् वस्तुनः, अन्यत्वाच भिन्नत्वाच कारणात् , अनेकधर्मकं वस्त्विति । यदि नामैवं ततः किमि त्याह- स्वभावभेदेन व्यावृत्तेः ततस्ततः । किमित्येतदेवमित्याहअन्यथा एवमनभ्युपगमे, स्वभावभेदमन्तरेण ततस्ततो व्यावृत्त्यभ्यु. पगम इत्यर्थः, तदेकत्वप्रसङ्गाद् व्यावय॑मानैकत्वप्रसङ्गात् । प्रसङ्गश्च तदन्यत्वहेतुत्वेनाविशेषात् तस्य वस्तुनो व्यावृत्तिमतः अन्यत्वहतुत्वेन अविशेषाद् व्यावय॑मानानाम् ; तद्धि तेभ्योऽन्यत्, तदन्यत्वस्य च त एव हेतवः, यदेव चैकमपेक्ष्य तदन्यत्वं तदेवापरमपि, न चैतन तदभेदमन्तरेणेति हृदयम् । किमनेन कल्पितेनेत्याशङ्कानिरासा याह- अन्यत्वस्य चाकल्पितत्वात् तस्य व्यावृत्तिमतो व्यावत्व मानेभ्यः । इत्थं चैतदङ्गीकर्तव्यमित्याह- कल्पितत्वे तदन्यत्वस तेभ्यः, तत्त्वतः परमार्थतः, तदभावापत्तेस्तस्य व्यावृत्तिमतोऽभावाप त्तेः, व्यावय॑मानाऽनन्यत्वेन 11 . खहेतुत एव तत्तदन्येभ्योऽन्यत्वकस्वभावं भवतीति चेत् न, पटान्यत्वैकस्वभावान्यत्वे पटवत् कटादीनां तद्भावापत्ते तथास्वभावादन्यस्वभावत्वात् , अचित्रस्यानेकान्यत्वैकत्वायो तचित्रतयकान्तैकत्वाभावात् , पारम्पर्येणानेकजन्यजनकत्वास अन्यथा तद्भावासिद्धेः, परम्पराहेतुतोऽपि भावात् , तथाविधत द्भावभावित्वोपपत्तेः, पुष्कलस्य चानन्तरेणाप्ययोगात् , तदा द्भावाभावादिति । अनन्तरजन्यत्वमेव परम्पराजन्यत्वमिति चेत न, परम्पराजनकानामनन्तरजनकत्वायोगात् , तत्स्वभावादि दात् , तद्भेदेन च तत्तजनकत्वे न तदेव तत् ।। - पराभिप्रायमाह-वहेतुत एव तद् वस्तु प्रस्तुतम् ; तदन्येभ्यो व्या
Page #143
--------------------------------------------------------------------------
________________
स्वोपज्ञटीकासहिता ।
१५१
वर्त्यमानेभ्यः, अन्यत्वैकस्वभावम् । अन्यत्वमेवैकः स्वभावो यस्य तत्तथा भवतीति चेत् । एतदाशङ्कयाह- नेत्यादि । नैतदेवम् । कुत इत्याह-पटान्यत्वैकस्वभावान्यत्वे पटान्यत्वमेवैकः स्वभावो यस्य वस्तुनोऽधिकृतस्य तत्पटान्यत्वैकस्वभावं तस्मादन्यत्वं पटान्यत्वैकस्वभावान्यत्वं तस्मिन् पटान्यकत्वैकस्वभावान्यत्वे सति पटवदिति निदर्शनम्, कटशकटादीनां भावानां तद्भावापत्तेः पटभावापत्तेः ; आपत्तिश्च तथास्वभावात् पटान्यत्वैकस्वभावादधिकृतवस्तुनः ; अन्यस्वभावत्वात् कटादीनां परभावापत्तिः, पटकटादिसमुदायान्यत्वैकस्वभावं कथं पटान्यत्वैकस्वभावमुच्यत इत्युच्यते, अचित्रस्यानेकान्यत्वैकत्वायोगात् । तथा चाहअचित्रस्येत्यादि । अचित्रस्य विवक्षितवस्तुनः, एकस्वभावस्य अनेकान्यस्यैकत्वायोगे, अनेकेभ्यः पटादिभ्यः अन्यत्वमनेकान्यत्वं तस्यैकत्वमनेकान्यत्त्रैकत्वम्, तस्यायोगे, उक्तवत्तदेकत्वप्रसङ्गेन तस्मिन् सति तचित्रतया विवक्षितवस्त्वकस्वभावस्य चित्रतया । किमित्याहएकान्तैकत्वाभावात् । विवक्षितवस्तुनः एकस्वभावस्येति प्रक्रमः । हेत्वन्तरमाह - पारम्पर्येणानेकजन्यजनकत्वाच्च अनेकधर्मकत्वं वस्तुन इति । पारम्पर्येणैकादिव्यवधानापेक्षया जन्यश्च जनकश्च जन्यजअनेकेषां जन्यजनकः, अनेकजन्यजनकस्तद्भावस्तस्मात् । इत्थं चैतदङ्गीकर्तव्यमित्याह - अन्यथा एवमनभ्युपगमे, तद्भावासिद्धेरधिकृतवस्तुभावासिद्धेः । असिद्धिश्च परम्पराहेतुतोऽपि सकाशात्, भावादधिकृतवस्तुनः न हि पितामहाद्यभावेऽपि पौत्रादिभाव इति मावनीयम् । इहैव युक्तिमाह- तथाविधतद्भावभावित्वापत्तेः । तथाविधमेकादिव्यवधानवच्च तत् तद्भावभावित्वं च परम्पराकारण - मावभावित्वं चैतदेवोपपत्तिस्ततः । एतदप्यङ्गीकर्तव्यमित्याह - पुफलस्य च तद्भावभावितस्य, अनन्तरेणापि कारणेन, सहायोगात् । प्रयोगश्च तदा कारणादिकाले, तद्भावाभावात् कार्यादिभावाभावात् ; अन्यथा जन्यजनकत्वाभावः सव्येतरगोविषाणवदिति । अनन्तरअन्यत्वमेव कार्यस्य परम्पराजन्यत्वमिति चेत् । एतदाशङ्कयाह
9
नकः,
"
"
-
Page #144
--------------------------------------------------------------------------
________________
१५२
अनेकान्तजयपताकान, परम्पराजनकानां हेतूनाम् , अनन्तरजनकत्वायोगात् । अयोग स्वभावादिभेदात्, स्वभावभेदः प्रतीतः, आदिशब्दात कालभेदपरि ग्रहः । तद्भदेन च स्वभावादिभेदेन च, तत्तजनकत्वे तेषामन न्तरपरम्पराहेतूनां, तजनकत्वे प्रक्रमाद् विवक्षितकार्यजनकत्वे। कि मित्याह- न तदेव तत् नानन्तरजन्यत्वमेव परम्पराजन्यत्वमिति निगमनम् ॥ _____ एवं जनकत्वेऽपि योजनीयमिति तच्चित्रस्वभावता, सुखः दुःखादिहेतुत्वाच, स्वभावभेदेन सुखादिजनकत्वात् , तेषां चा; हादादिरूपत्वेन ज्ञानादन्यत्वात् , तत्स्वरूपेण बाह्यावेदनात, ज्ञानभावेऽपि कचित्तदभावात्, तथानुभवसिद्धत्वात् । अज्ञानत्वे कथममीषामनुभवः, इति चेत् । सत्त्वादिवत्कथश्चिज्ज्ञानाभेदात्, तदुदग्रत्वेन तथा तज्ज्ञानरञ्जनात्, उभयोस्तत्स्वभावत्वात् , युगपत्प्रवृत्त्यविरोधात् , सुखादिज्ञाने तथानुभवसिद्धत्वात् , तत्त द्वचनसिद्धेश्च 'आविर्भावतिरोभावधर्मकं वस्तु न कृतार्थे प्रकृ: तिप्रवृत्तिः, तद्विरागात् तद्वृत्तिसंक्षयाञ्च' इति वचनप्रामाण्यात् । तथा 'अनित्यता सर्वसंस्कृतानां, दुःखता सर्वसाश्रवाणां, शून्या नात्मकते सर्वधर्माणाम् , अविकारिणी तथाता' इति वचनप्रमा ण्याच्चैत्यनेकधर्मकं वस्तु ॥
एवमित्यादि । एवमुक्तनीत्या, जनकत्वेऽपि योजनीयम् । पार रम्पर्येणानेकजनकत्वादधिकृतवस्तुनः, अन्यथा तद्भावासिद्धेः ततो ऽनेकभावासिद्धेः परम्पराहेतुतोऽपि भावादनेकेषाम् । एवं शेषमणि स्वधिया योजनीयम् । इत्येवं, तच्चित्रस्वभावता तस्य वस्तुनश्चित्र स्वभावता। अनेकधर्मकत्वमित्यर्थः । हेत्वन्तरमाह- सुखदुःखादि हेतुत्वाच्च अनेकधर्मकं वस्तु । कथमेतदेवमित्याह- स्वभावभेदेन सुखादिजनकत्वाद् वस्तुनः । आदिशब्दाद् दुःखमोहज्ञानादिग्रहः) न ते तत्कृतज्ञानतोऽन्ये, इत्याशङ्कापोहायाह- तेषां च सुखादीनामाई ह्रादादिरूपत्वेन हेतुना, आल्हादरूपं सुखम् , परितापरूपं दुःखम्,
Page #145
--------------------------------------------------------------------------
________________
स्वापज्ञटीकासहिता।
१५३ असंवित्स्वभावो मोह इति कृत्वा । किमित्याह- ज्ञानादन्यत्वात् । इत्थं चैतदङ्गीकर्तव्यमित्याह- तत्स्वरूपेण आह्वादादिलक्षणेन ज्ञानेनैव, बाह्यावेदनात् । इतश्चैतदेवम्- ज्ञानभावेऽपि कचिद्विरक्तादो, तद्भावादाह्लादाद्यभावात् , अभावश्च तथाऽनुभवसिद्धत्वात् ; आह्लादाद्यभावेनापि भाववेदनादित्यर्थः । अज्ञानत्वे सति, कथममीषां सु. खादीनाम् , अनुभव इति चेत् । एतदाशङ्कथाह- सत्त्वादिवत् । इति निदर्शनम् । आदिशब्दाज्ज्ञेयत्वादिग्रहः, कथञ्चित् ज्ञानाभेदात् ; तथाहि-न सत्त्वमेव ज्ञानम् , सत्त्वमात्रत्वे ज्ञानस्य सर्वत्र ज्ञानप्रसङ्गः, अथ च ज्ञाने न तदात्मीयमनुभूयत इति । युक्तयन्तरमाह- तदुदनत्वेन सुखाादग्रत्वेन, तथैकलोलीभावेन, तज्ज्ञानरञ्जनात् सुखादिज्ञानरञ्जनात् । एतच्चैवमित्थमित्याह- उभयोः सुखादिज्ञानयोः, तत्स्वभावत्वात् रञ्ज्यरजकस्वभावत्वात् । अत एव युगपत्प्रवृत्त्यविरोधात , सुखादीनां ज्ञानस्य चेति प्रक्रमः । अविरोधश्च सुखादिज्ञाने, तथा कथञ्चिद्भिन्नसुखादिवेदकत्वेन, अनुभवसिद्धत्वात् कारणात् , अमीषामनुभव इति योगः । हेत्वन्तरमाह- तत्तद्वचनसिद्धेश्च हेतोः । अनेकधर्मकं वस्तु । तस्मिंस्तस्मिन् सांख्यादिवचने यथा सिद्धं तत् तथाभिधातुमाह- आविर्भावेत्यादि । आविर्भावः प्रकटभावः, तिरोभावस्त्वप्रकटभावः, एतद्धर्मकं वस्तु प्रधानाख्यम् , इत्यनेकधर्मकता । वथा न कृतार्थे पुंसि प्रकृतिप्रवृत्तिर्महदादिभावेन, तद्विरागात् पुरुषविरागात्, तवृत्तिसंक्षयाच प्रकृतिवृत्तिसंक्षयाच । ततश्चाविरक्त प्रवृ. त्तिः, विरक्ते वृत्तिसंक्षयश्च, पुरुषोऽपि विरक्तश्चाविरक्तश्चेत्यनेकधर्मकता, इति वचनप्रामाण्यात् । तथा, अनित्यता नश्वरता, सर्वसंस्कृतानां सर्वकृतकानां, दुःखता बाधायुक्तता, दुःखपरिणाम-दुःखसंस्कार-दुःखापेक्षया, यथासंभवं सर्वसाश्रवाणां सर्वरागादिक्लेशवताम् , शून्यानात्मकते तत्त्वतस्तुच्छरूपे, सर्वधर्माणां व्यावृत्तिद्वारपरिकल्पितानामनिस्वदुःखादिधर्मतोऽनेकधर्मकता; तथा, अविकारिणी उपादाननिमित्ततविकारशून्या, तथाता बुद्धता तथाभावरूपा प्राग्विकारभावेनानेक
२०
Page #146
--------------------------------------------------------------------------
________________
१५४
अनेकान्तजयपताका
धर्मता, इति वचनप्रामाण्याच्च, इत्येवम, अनेकधर्मकं वस्तु । एते. सर्व एव वस्तुनोऽनेकविज्ञानाद्युपाधिभेदभिन्ना स्वभावहेतुभेदाई गमकाः, तथाहि- अनेकविज्ञानजनकत्वं तत्स्वभावः, स च कथा तद्भिनयानेकधर्मकतया व्याप्तः, अन्यथा ततस्ततोऽन्यत्वाद्यभावः।। शेषेष्वपि हेतुषु भावनीयमिति ॥ . इह च ज्ञानावरणाद्याच्छादितश्छमस्थः प्रमाता, बोधी शेषदर्शनात् , तस्याहेतुकत्वेऽप्ययोगात् , सदाभावादिप्रसङ्गा बोधमात्रस्याहेतुत्वात् , भेदकाभावे विशिष्टत्वाभावात् , न्यायत ऽतिप्रसङ्गात् । तद्भावे च तस्यैवावरणत्वात्ः इति तथाविधनयन टलादिकल्पं तज्ज्ञानविशेषकारि विरुद्धचेष्टादिनिमित्तं ततोऽन्य तदिति तत्त्ववादः। क्षयोपशमभावश्चास्य कालपरिणत्या विशि नुष्ठानतश्च तत्तत्स्वभावतया नयनपटलादिहासरूपः प्रतिप्राण्ये यथोचितं तथाविधचित्रावबोधलिङ्गावसेयः । तस्मिंश्च सति तत्स मर्थ्यत एव विषयस्य तज्ज्ञेयत्वपरिणतिभावात् , विषयिणो तज्ज्ञातृत्वपरिणत्युपपत्तेः, उभयोस्तथास्वभावत्वात् , अन्या तदनुपपत्तेः,अतिप्रसङ्गात् ,नयनपटलादिहास इव स्थूरावबोधा तदानुरूप्यत आविद्वदङ्गनासिद्धं तथाविधवस्तुग्राह्येवाऽव हावायधारणारूपं मतिज्ञानसंज्ञितमिन्द्रियज्ञानमुपजायते. "तi न्द्रियानिन्द्रियनिमित्तम्" इति वचनात् ।।
इह चेत्यादि । इह चानेकधर्मके वस्तुनि, जगति वा । किमित्याए ज्ञानावरणाद्याच्छादितः तत्पुद्गलप्रतिबद्धसामर्थ्यः, छद्मस्थः प्रमा प्राणी । कुत एतदेवमित्याह- बोधविशेषदर्शनात बोधभेदोपलने इह वस्तुनि तस्य बोधविशेषस्य, अहेतुकत्वे सति, अयोगात् , अयोग सदाभावादिप्रसङ्गात् । आदिशब्दादभावग्रहः । बोधमात्रस्याऽहेतुत्वे “बोधविशेष प्रति, भेदकाभावे तदन्यवस्त्वभावे, विशिष्टत्वाभाद - बोधमात्रस्य, न्यायतोऽतिप्रसङ्गात् सर्वबोधविशिष्टत्वापत्त्या । तर च भेदकभावे च, तस्यैव भेदकस्य, आवरणत्वात, इत्येवं, तथा
Page #147
--------------------------------------------------------------------------
________________
खोपज्ञटोकासहिता।
१५५ नयनपटलादिकल्पं तथाविधं स्वच्छं नैकान्ततो बोधविघातकारि नयनपटलं प्रतीतम् , आदिशब्दाछोत्रादिमलग्रहः, एतत्कल्पमेतत्तुल्यं, तज्ञानविशेषकारि तस्य च्छद्मस्थप्रमातुर्बोधविशेषकरणशील क्षयोपशमतो भावाभावाभ्याम्, इति ज्ञानावरणव्यापार उक्तो वेदितव्यः । विरुद्ध चेष्टादिनिमित्तमित्यनेन त्वादिशब्दात् क्षिप्तचारित्रमोहनीयादिव्यापार इति; ततश्छद्मस्थप्रमातुः, तद्वोधादेर्वा, अन्यदर्थान्तरभूतं, तत् ज्ञानाधरणादिकर्म, इति तत्त्ववादः । क्षयोपशमभावश्चास्य कर्मणः, कालपरिणत्या मन्दानुभावस्य, विशिष्टानुष्ठानतश्च तीव्रविपाकस्य, अथवा कालपरिणत्या विशिष्टानुष्ठानतश्चेति समुच्चयपक्षः । तत्तत्स्वभावतया तस्य कर्मणः, तत्स्वभावतया कालपरिणत्यादिक्षयोपशमस्वभावतयेत्यर्थः, नयनपटलादिहासरूपः क्षयोपशमभावः, तदेकान्तानिवृत्तेः, इत्थं निदर्शनमिति भावनीयम् ; प्रतिप्राण्येव प्राणिनं प्राणिनं प्रति प्रतिप्राण्येव, यथोचितमिति क्रियाविशेषणम् , यस्य य उचितस्तथाविधचित्रावबोधलिङ्गावसेयः, तथाविध उच्चावचादिभेदेन चित्रावबोधस्तत्तद्विषयभदत एतल्लिङ्गावसेयः क्षयोपशमभावः । तस्मिंश्च सति क्षयोपशमभावे, तत्सामर्थ्यत एव क्षयोपशमभावसामर्थ्यत एव, अबग्रहादिरूपमिन्द्रियज्ञानमुपजायत इति योगः । कथमित्याह-विषयस्य घटरूपादेः, तज्ज्ञेयत्वपरिणतिभावाद् विवक्षितेन्द्रियज्ञानज्ञेयत्वपरिणतिभावात् , विषयिणोऽप्यधिकृतेन्द्रियज्ञानस्य, तज्ज्ञातृत्वपरिणत्युपपत्तेः प्रस्तुतविषयज्ञातृत्वपरिणत्युपपतेः । उपपत्तिश्च उभयोर्विषयज्ञानयोः,तथास्वभावस्वात् तज्ज्ञेयत्वतज्ज्ञातृत्वभवनस्वभावत्वात् ,अन्यथा तत्तत्स्वभावत्वमन्तरेगा, तदनुपपत्तेविषयविषयिणास्तज्ज्ञेयत्वतज्ज्ञातृत्वपरिणत्यनुपपत्तेः । अनुपपत्तिश्चातिप्रसङ्गात् तत्तत्स्वभावतामन्तरेण तज्ज्ञेयत्वतज्ज्ञातृत्वभावे तद्वत्तदन्तरापत्त्याऽतिप्रसङ्ग इति भावनीयम्। नयनपटलादि-हास इवेतिनिदर्शनम् । स्थूरावबोधादि, आदिशब्दात् तथाविधचेष्टाग्रहः । तदानुरूप्यतः प्रक्रमात् क्षयोपशमभावानुरूप्येण, आविद्वदङ्गनादिसिद्धमविप्रतिपत्त्या ,, तथाविधवस्तुग्राह्येव तज्ज्ञेयत्वपरिणतवस्तुग्राह्येव, न
Page #148
--------------------------------------------------------------------------
________________
१५६
त्वविषयं सदाभावादिप्रसङ्गेन; अवग्रहेहावायधारणारूपं परिस्थूर तिभेदेन, मतिज्ञानसंज्ञितं स्वतन्त्रे, इन्द्रियज्ञानमुपजायते सविकल्पमेव इन्द्रियज्ञानता चाऽस्य “ तदिन्द्रियानिद्रियनिमित्तम्” इति वचनात् तन्मतिज्ञानं, इन्द्रियानिन्द्रियनिमित्तम् । अनिन्द्रियं मनः । निमित्तम् । इति सविकल्पकमेतत् ॥
तत्राव्यक्तं यथास्वमिन्द्रियैर्विषयाणामालोचनावधारणम ग्रहः । अवगृहीते विषयार्थैकदेशात् शेषानुगमनेन निश्चयविशेष जिज्ञासाचेष्टा ईहा । अवगृहीते विषये सम्यगसम्यगिति गुण दोषविचारणाव्यवसायापनोदोऽवायः । धारणा प्रतिपत्तिः, य थास्वं मत्यवस्थानम्, अवधारणं च । न चैकत्वाद् बोधस्येह चातु विध्याभावः, सर्वथैकत्वासिद्धेः क्रमेण भावात्, संपूर्ण भवने
नियमात् । दृश्यत एवेहाद्यभावेऽपि कचिदवग्रहमात्रम्, तथा निस वाहा, अनिर्धारणचावायः, तथा तदनुभवसिद्धेः । अत एवैक त्वमपि कथञ्चिदेकाधिकरणत्वात्, तत्रैव प्रवृत्तेः, तद्वेद्यधर्माणा मितरेतरानुवेधात् । तथा च यदिदं तदा दृष्टमपि नोपलक्षितम् ईषल्लक्षितमपि न सम्यग्ज्ञातम्, तदिदानीमवधारितम्, इत्यस्ति व्यवहारः । न चायं भ्रान्तः, अविगानेन प्रवृत्तेः । अत इदमेका ऽनेकमन्वयव्यतिरेकवद् दीर्घमपि कालसौक्ष्म्यात् तथावभास इति ॥
अनेकान्तजयपताका
अवग्रहस्वरूपाभिधित्सयाऽऽह -- तत्राव्यक्तमित्यादि । तत्रे पूर्ववत्, अव्यक्तमस्फुटम्, आलोचनावधारणमिति योगः । तदेव विशिष ते यथास्वमिति यथात्मीयम्, इन्द्रियैः स्पर्शनादिभिः, विषयाणां स्पर्शा नां यथात्मीयं यो यस्य विषय इत्यर्थः, आलोचनावधारणमिति - आ मर्यादायां, लोचनं दर्शनम्। एतदुक्तं भवति- मर्यादया सामान्यस्यानि देश्यस्य स्वरूपनामादिकल्पनारहितस्य दर्शनमालोचनं तदेवावधारण मालोचनावधारणम्, एतदवग्रहोऽभिधीयते; अवग्रहणमवग्रह न्वर्थयोगादिति । एवमवग्रहं कथयित्वा ईहास्वरूप कथयन्नाह
Page #149
--------------------------------------------------------------------------
________________
स्वोपज्ञटीकासहिता ।
१५७
अगृहीत इत्यादि । अवगृहीत इत्यनेन क्रमं दर्शयति । अवगृहीते सामान्ये, ईहा प्रवर्तते । तामाह - विषयार्थैकेत्यादि । विषयः स्पर्शादिः, स एवार्यमाणत्वादर्थो विषयार्थः, तस्यैकदेश: सामान्यमानिर्देश्यादिरूपम्, तस्माद् विषयार्थैकदेशात् परिच्छिन्नादनन्तरं स्पर्श मात्रग्रहे तस्य सर्पमृणालस्पर्शसाधर्म्याच्छेषानुगमनेन सद्भूतासद्भूतोष्णत्वादिविशेषत्यागोपादानाभिमुख्यरूपेण, न संशय इव सर्वात्मपरिकुण्ठचित्तभावतोऽननुगमनेन । किमित्याह - निश्चयविशेषजिज्ञासाचेष्टेति । निश्चीयतेऽसाविति निश्चयः मृणालस्पर्शादिः, स एव विशेष्यतेऽन्यस्मादिति विशेषः, तस्य ज्ञातुमिच्छा जिज्ञासा तया चेष्टा बोधः स्वतत्त्वात्मव्यापाररूपा, ईहोच्यते । एवमीहामभिधायाऽवायमभिधातुमाह- अवगृहीत इत्यादि । अनेनापि क्रममाचष्टे । अवगृहीते विषये स्पर्शसामान्यादौ, ततः सम्यगसम्यगिति मृणालस्पर्श इत्येवमादानाभिमुख्यं सम्यक्, तत्र तद्भावानुगुण्यात्; न अहिस्पर्श इत्येवं परित्यागाभिमुख्यमसम्यक्, तत्र तद्भाववैगुण्यात् । इति - एवमीहायां प्रवृत्तायां सत्याम्, ततः किमित्याहगुणदोषविचारणाव्यवसायापनोदोऽवाय इति । इह मृणाले, साधारणो धर्मो गुणः, तत्रासंभवी तु दोषः, तयोर्विचारणा मार्गणा तया व्यवसायो विमलतरबोधः स एवापनोद :- मृणालस्पर्श एवेति नियादपनुदति तत्रेहामिति कृत्वाऽवाय इत्ययमेवंविधोऽपनोदोऽवाय इति, अवैतीत्यवाय: - निश्चयेन परिच्छिनत्तीत्यर्थः । एवमवायमभिधायाधुना धारणाभिधित्सयाह - धारणेत्यादि । धारणेति लक्ष्यं, प्रतिप्रत्तिरुपयोगाप्रच्युतिः । यथास्वमिति । यथाविषयं यो यः स्पर्शादिविषयः मृणालस्पर्शानुभवस्याऽनाश इत्यर्थः तथा मत्यवस्थानमित्युपयोगान्तरेऽपि शक्तिरूपाया मतेः क्वचिदवस्थानम्, तथाऽवधारणं चेति कालान्तरानुभूतविषयगोचरं स्मृतिज्ञानमिति भावः । एवमेतेनाविम्युति-वासना- स्मरणरूपा त्रिविधा धारणेत्युक्तं भवति । न चेत्यादि । चैकत्वादवबोधस्याऽवबोधसामान्यापेक्षया, इह मतिज्ञाने इन्द्रियप्रशे, चातुर्विध्याभावोऽवग्रहादिभेदेन । कुत इत्याह- सर्वथैकत्वासिद्धेः
"
Page #150
--------------------------------------------------------------------------
________________
१५८
अनेकान्तजयपताका
अवबोधस्य । असिद्धिश्च क्रमेण भावादवग्रहादानाम् , तथा संपूर्ण भवनेऽवग्रहादारभ्य धारणान्तभवने, अनियमात् कारणात् । अधिकृत तोपदर्शनायाह- दृश्यत इत्यादि । दृश्यत एव लोके, ईहाद्यभावे ऽपि, आदिशब्दावायादिग्रहः, कचिदेवदत्तादौ, अवग्रहमात्रम् , तथा निरवायेहा दृश्यते कचित् , निर्धारणश्चावायो दृश्यते क्वचित् ; तथा तदा नुभवसिद्धेः केवलत्वेनाऽवग्रहादीनामनुभवासद्धेः कारणात् , न चातु विध्याभावः । अत एव तथा तदनुभवसिद्धेरेव, एकत्वमप्यवग्रहादीनाम् युक्तिमाह- कथंचिदेकाधिकरणत्वात् । तत्तद्धर्मग्रहणेन । अत एवं आह- तत्रैव प्रवृत्तेः अवग्रहादिगृहीत एवेहादिप्रवृत्तेः, कथञ्चिदिदि वर्तते । एतत् स्पष्टनायैवाह- तद्वेद्यधर्माणां अवग्रहादिवेद्यस्वभावा नां, इतरेतरानुवेधात् अन्योन्यानुवेधात् । एतदेव भावयति- तथा चेत्यादिना । तथाच यदिदं तदा तस्मिन् काले, दृष्टमपि सदिति अनेनावग्रहव्यापारमाह । नोपलक्षितं न सामीप्येन तदितरधर्मा लोचनया लक्षितम् ,अनेनेहाव्यापारनिषेधमाह। तथेषल्लक्षितमपीहया; न सम्यगज्ञातमवायरूपेण, तदिदानीं यद् न सम्यग् ज्ञातं तत्सांप्रतम् , अब धारितं सम्यग्विज्ञाय चेतसि स्थापितम् , इत्यस्ति व्यवहारस्तद्वद्यधर्मा णामितरेतरानुवेधव्यवस्थापकः । न चायं व्यवहारो भ्रान्तः ।कुत इत्या अविगानेन प्रवृत्तेः कारणात् । प्रकृतयोजनया निगमनमाह- अ इत्यादिना । अतोऽस्मात् कारणात् , इदं मतिज्ञानसंज्ञितमिन्द्रि ज्ञानम् , एकानेकमवग्रहादिसमुदायात्मकत्वेन,अन्वयव्यतिरेकवदनुवृति व्यावृत्तिस्वभावम् दीर्घमप्यवग्रहादिक्रमभावित्वेन, कालसोक्षम्याद्धेत तथावभासते प्रक्रमाद् युगपदिवावभासते, न तु युगपदेवेत्यर्थः ।।। ___ आह- एवमपि तत्तद्धर्मावग्रहणादेः सर्वेषामवग्रहादित्वप्रसङ्गा न, स्थूरेतरधर्मालम्बनावरणभेदतः क्रमभवनेन तथापरूपणात तत्त्वतस्त्वयमदोष एव । एवं चावग्रहादिभावे तत्तद्धर्मबोधात् केप श्चित् तथास्वभावत्वेनाक्षरानुगतबोधबोध्यत्वात् , तेवन्य नीलादाविध पीतादित्वेन बोधाप्रवृत्तेः, क्षयोपशमसामर्थ्यतोऽ
Page #151
--------------------------------------------------------------------------
________________
स्त्रोपज्ञटीकासहिता।
१५९
रमायोग्यद्रव्यग्रहणाविरोधात् , तथाविधानुभवस्यान्यथानुपपत्तेः, स्वसंवेद्यत्वेन प्रतिक्षेपायोगात् सन्यायत एव सिद्धं सविकल्पकं प्रत्यक्षमिति ।। .. आह-एवमप्यवग्रहादिभावे, तत्तद्धर्मावग्रहणादेः, आदिशब्दात् तत्तधर्मासमर्थपर्यालोचनादिग्रहः, सर्वेषामवग्रहादीनां मतिभेदानाम् , अवप्रहादित्वप्रसङ्गोऽन्वर्थयोगेन, आदिशब्दादीहादिग्रहः। एतदाशङ्क्याह नेत्यादि । न नैतदेवम् । कुत इत्याह-स्थूरेतरधर्मालम्बनावरणभेदतः कारणात्, स्थूरेतराश्च ते धर्माश्च स्थूरेतरधर्माः, इतरे सूक्ष्माः, ते एवालम्बनं, एतच्चावरणं चेति विग्रहः, तयोर्भेदस्तस्मात् , क्रमभवनेन तथाप्ररूपणादवग्रहादित्वेन प्ररूपणात्; तथाहि- स्थूरधर्मालम्बनोऽवग्रहः, सूक्ष्मधर्मालम्बना ईहादयः, एवमन्यदवग्रहावरणम् , अन्यच्चेहादेः, इह चावरणग्रहणं क्षयोपशमोपलक्षणमवसेयम् । इत्थमुपन्यासस्तु भिन्नमेव तद् बोधावारकमिति निदर्शनार्थम् , क्रमभवनं तु प्रसाधितमेव,इत्यतस्तथाप्ररूपणं न्याय्यमेवेति भावनीयम् । तत्त्वतस्त्वयं सर्वेषामवग्रहादित्वप्रसङ्गः, अदोष एवान्वर्थयोगतस्तथाघटनादिति । एवं चोक्तनीत्या, अवग्रहादिभावे सन्न्यायत एव सिद्धं सविकल्पकं प्रत्यक्षमिति योगः । कुत इत्याह- तत्तद्धर्मबोधात् वस्तुसदादिधर्मबोधात् । तथा, केषांचिद्धर्माणां, तथास्वभावत्वेन हेतुना, अक्षरानुगतबोधबोध्यत्वादीहादिगोचराणां, विशिष्टमनोनुगतत्वोपलक्षणमेतत् । यदि नामैवं ततः किमित्याहतेषु अक्षरानुगतबोधबोध्येषु धर्मेषु, अन्यथा नीलादाविव वस्तुनि पीतादित्वेन रूपेण, बोधाऽप्रवृत्तेः कारणात् । कुतस्तत्राक्षरप्रायोग्यद्रव्यग्रहणमित्याशङ्कानिरासायाह-क्षयोपशमेत्यादि क्षयोपशमसामर्थ्यतः कारणात् , अक्षरप्रायोग्यद्रव्यग्रहणाविरोधात्; स हि क्षयोपशम एव तादृशो यो भाषाद्रव्याणि ग्राहयतीत्यर्थः । इत्थं चैतदङ्गीकर्तव्यमिन्याह- तथाविधानुभवस्य अक्षरानुगतबोधरूपस्य, अन्यथाक्षरप्रायोप्रबद्रव्यग्रहणमन्तरेण, अनुपपत्तेः कारणात् । अस्य च स्वसंवेद्यत्वेन
Page #152
--------------------------------------------------------------------------
________________
१६०
अनेकान्तजयपताकाहेतुना, प्रतिक्षेपायोगात् । किमित्याह-सन्यायत एव उक्तनीले सिद्धं सविकल्पकं प्रत्यक्षमिति ॥ - एतेन यत्परेणाभ्यधायि- 'इतश्चैतदेवम् , अन्यथा स्वाभिधा नविशेषणापेक्षा एवार्था विज्ञानैर्व्यवसीयन्त इति प्राप्तम् , अस्त्वे मपि को दोष इति चेत् , एतदाशङ्कय निवृत्तेदानीमिन्द्रियज्ञान वार्ता अभिधानविशेषस्मृतेरयोगात्' इत्यादि। तदपि परिहतम वगन्तव्यम्, अभिधानविशेषयोजनासिद्धेः वाच्यतद्धोधयो रेव तत्स्वभावत्वात् । न हि सर्वत्रैव स्मृत्यपेक्षो वाच्ये वाचक प्रयोगः, तथाऽननुभवात् , अन्तर्जल्पाकारबोधोपलब्धेः, प्रयो उच्चार्यमाणस्य शब्दान्तरत्वात् , तस्यापि तद्बलेनैव प्रवृत्त तदसंपृक्तबोधवताऽनुच्चारणात् । प्रष्ट्रा व्यभिचार इति चेत् । न, तस्यापि प्रश्नाभिलापसंपृक्तबोधवत्त्वात् ; अन्यथा प्रश्नाभावा वस्तुनश्चानेकस्वभावत्वेन तस्याप्यभिधेयत्वात् , सर्ववस्तूनामे प्रायस्तथा तथा सर्वशब्दवाच्यस्वभावत्वात् ,तत्तद्रव्याचपेक्षक्षय पशमभेदतस्ततस्ततस्तत्र तत्राविलम्बितादिप्रतीतिभावात् , अकि गानेन तथा व्यवहारसिद्धः,अस्य चान्यथाऽयोगात्,निमित्तानुपपर - एतेनानन्तरोदितेन न्यायेन, यत्परेण पूर्वपक्षवादिना, अभ्यधाव अभिहितं पूर्वपक्षग्रन्थे । यदभ्यधायि तदाह- 'इतश्चैतदेवम् अन्यर्थ स्वाभिधानविशेषणापेक्षा एवार्था विज्ञानैर्व्यवसीयन्त इति प्राप्तम् , अस्ते वमपि को दोष इति चेत् , एतदाशक्य निवृत्तेदानीमिन्द्रियज्ञानवात अभिधानविशेषस्मृतेरयोगादित्यादि' व्याख्यातमेवैतदिति न व्याख्या ते । तदपि परिहृतमवगन्तव्यम् । कथमित्याह- अभिधानविशेषयो जनाऽसिद्धेः कारणात् । असिद्धिश्च वाच्यतद्वोधयोरेवार्थतज्ज्ञान योरेव,तत्स्वभावत्वात् प्रक्रमात् स्मृत्यनपेक्षाभिधानविशेषप्रवर्तनस्वभा त्वात् । अमुमेवार्थ स्पष्टयन्नाह- न हीत्यादि । न यस्मात्सर्वत्रैव के च्य इति योगः, स्मृत्यपेक्षो वाचकप्रयोगः । कुतो नेत्याह-तथा स्मृत पेक्षप्रयोगरूपत्वेन, अननुभवात् कारणात् । कथमननुभव इत्या।
Page #153
--------------------------------------------------------------------------
________________
खोपज्ञटीकासहिता।
१६१ अन्तर्जल्पाकारबोधोपलब्धेः । इह प्रक्रमे तत्त्वतोऽस्यैव स्मृतित्वादित्यर्थः । तथा चाह-प्रयोगे भाषाविषये, उच्चार्यमाणस्य शब्दस्य, शब्दान्तरत्वात् , अन्तर्जलाऽऽकारबोधशब्दमधिकृत्य, तस्याऽपि प्रयोगे उचार्यमाणस्य शब्दान्तरस्य, तद्वलेनैवाऽन्तर्जल्पाकारबोधशब्दसाम
येनैव, प्रवृत्तेः । कुत एतदेवमित्याह- तदसंपृक्तबोधवता शब्दासंपृक्तबोधवताऽविकल्पबोधवतेत्यर्थः, भाणकेनेति प्रक्रमः । किमित्याहअनुच्चारणात् कारणात् , प्रष्ट्रा पुरुषेण व्यभिचारः, स हि तदसंपृक्तबोधवान् तत्पृच्छन् समुच्चारयति, अन्यथा प्रश्नायोगस्तदज्ञानादेवेति चेत्। एतदाशझ्याह- न, तस्यापि प्रष्टुः, प्रश्नाभिलापसंपृक्तबोधवत्त्वात् । इत्थं चैतदङ्गीकर्तव्यमित्याह-अन्यथा एवमनभ्युपगमे, अविकल्पबोधवत: प्रश्नाभावात् , तस्मात्किञ्चिबानन् किश्चिदजानानस्तत्रैव पृच्छतीति भावनीयम् । वस्तुनश्च वाच्यस्य, अनेकस्वभावत्वेन हेतुना, तस्यापि प्रश्नशब्दस्य, अभिधेयत्वात् कारणात् । अभिधेयत्वं च सर्ववस्तूनामेव, प्रायो बाहुल्येन, अनभिलाप्यधर्मान् विहाय, तथा चित्रसमयादियोगेन, सर्वशब्दवाच्यस्वभावत्वात् । एतदेव लेशतः प्रकटयतितत्तदित्यादिना । तञ्च तत् तद्रव्यं च तत्तद्रव्यमुदकादि, आदि. शब्दात् , क्षेत्रकालादिग्रहः, तत्तद्रव्याद्यपेक्षत इति तत्तद्रव्याद्यपेक्षः, सत्तद्रव्याद्यपेक्षश्चासौ क्षयोपशमभेदश्च भेदो विशेष इति विग्रहस्तस्मात् । अतस्ततः प्रक्रमाच्छब्दान्नीरोदकादेः, तत्र तत्रोदकादौ वस्तुनि, अविल. म्बिवादिप्रतीतिभावात् , अविलम्बिताऽव्यवहिता, यथा नीरशब्दादाक्षिणात्यस्योदकार्थे तत्प्रतीतिः, विलम्बिता तु तस्यैवान्यदेशमागतअ, अन्यथा समयग्रहणे उदकशब्दात् तत्रेति, इयमादिशब्देन गृह्यते । न्या च चित्रा सत्येतरादिरूपेति प्रतीतिभावश्च, अविगानेन तथाविलबतादित्वेन, व्यवहारसिद्धेः कारणात् , अस्य च व्यवहारस्य, अन्यथा तर्ववस्तूनामेव प्रायस्तथा सर्वशब्दवाच्यस्वभावतामन्तरेण, अयोगात् । प्रयोगश्च निमित्तानुपपत्तेः; तथाहि- किमत्रान्यन्निमित्तम् , तत्तत्स्वभा. सामन्तरेण?, अनिमित्तस्य च सदाभावादिदोष इति भावनीयम् ।।
Page #154
--------------------------------------------------------------------------
________________
१६२
अनेकान्तजयपताकाएवं च सर्वशब्दानामपि प्रायो यथोक्तं सर्ववस्तुवाचका मिति । क्षयोपशमानुरूपा च च्छद्मस्थानां प्रतीतिः । इति न सा सर्वथा वा तदवसायः । न ह्यनेकप्रदीपावभासितेऽपीन्द्रनीलाद मन्दलोचनादीनां सर्वाकारं समो वा तद्बोधः, तथाननुभवाद निमित्तभेदात् । न चासौ न तनिमित्तः, तद्भावे भावात् , तद भावे चाभावादिति । दीपमण्डलादिदर्शनाद् व्यभिचार इति चेत् न, तस्य तनिमित्तत्वेऽपि भ्रान्तत्वात् , आन्तरदोषवैगुण्येनोत्पत्ते तद्विकलेनादर्शनात् । इन्द्रनीलादिधर्माणां तु तदन्यवेदिनापि वेद नात् , सूक्ष्मधर्मद्रष्ट्राऽपि स्थूराणां ग्रहणात् , तथाप्रतीतेः।। चैवं दीपादिद्रष्ट्रा तद् गृह्यते, इति दोषविजृम्भितमेतत् ॥ ___ एवं च सर्वशब्दानामपि नीरोदकादीनां, यथोक्तम्- प्रायस्त सर्ववस्तुवाचकस्वभावत्वेन, इह प्रायोग्रहणाद् मृषाभाषावर्गणोत्थव न्ध्यशब्दव्यवच्छेदः, एवं यथोक्तम् , सर्ववस्तुवाचकत्वं सर्व ब्दानामपि । क्षयोपशमानुरूपा च च्छद्मस्थानां विशेषणान्य थानुपपत्त्या प्रमातॄणां, प्रतीतिरिति कृत्वा, न समं न युगपत सर्वथा वा सर्वैर्वा प्रकारैरविलम्बितादिभिः, तदवसायः प्रक्रमा वाच्यवस्तुस्वभावावसायः । अमुमेवार्थ दृष्टान्तद्वारेणोपदर्शयन्नाहाँ न हीत्यादिना । न यस्मादनेकप्रदीपावभासितेऽपीन्द्रनीलादौ से विशेषे, मन्दलोचनादीनां प्रमातॄणां, आदिशब्दादमन्दलोचनादिग्रह सर्वाकारं तत्तत्प्रतीपावभासापेक्षया, समो वा तुल्यो वा, तो इन्द्रनीलादिबोधः । कुतो नेत्याह- तथाननुभवात् सर्वाकारसमत्वेन ऽननुभवात् । अननुभवश्व निमित्तभेदात् प्रदीपावभासितेन्द्रनीला ज्ञेयधर्मभेदादित्यर्थः । न चासाकसर्वाकारोऽसमश्चित्रस्तद्बोधः, न ता मित्तो नेन्द्रनीलादिनिमित्तः। कुत इत्याह- तद्भावे प्रस्तुतेन्द्रनीलादिभा भावात् , तदभावे चाभावादिति । न तद्भावभावित्वमानं नियों तन्निमित्तत्वे निमित्तमित्याह- दीपमण्डलादिदर्शनात् आदिशब्द गुजादिग्रहः, व्यभिचारस्तद्भावभावित्वस्य नियमनिमित्तत्वे, उक्तं ।
Page #155
--------------------------------------------------------------------------
________________
स्वोपज्ञटीकासहिता।
. १६३ " मयूरचन्द्रकाकारं नीललोहितसंनिभम् ।
संपश्यन्ति प्रदीपादेर्मण्डलं मन्दचक्षुषः ॥ १॥" इत्यादीति चेत् । एतदाशङ्कयाह- न, तस्य मण्डलादिदर्शनस्य, तन्निमित्तत्वेऽपि प्रदीपनिमित्तत्वेऽपि, भ्रान्तत्वात् कारणात् । भ्रान्तत्वं चान्तरदोषाद् नयनरोगाद् वैगुण्यमान्तरदोषवैगुण्यं तेन प्रधा. नहेतुना, उत्पत्तेः । एतच्चैवमेवेति द्रढयन्नाह- तद्विकलेन आन्तरदोपविकलेन, द्रष्ट्रेति सामर्थ्यात् , अदर्शनाद् दीपे सत्यपि दीपमण्डलादेः, इयान्तरदोषवैगुण्यस्य प्रधानता। मा भूदिन्द्रनीलादावप्येवमिति व्यतिरेकमाह- इन्द्रनीलादिधर्माणां तु अनेकदीपावभासिताना, तदन्यवेदिनापि धर्मान्तरवेदिनापि प्रमात्रा, वेदनात् । एतदेवाहसूक्ष्मधर्मद्रष्ट्राऽपि प्रमात्रा, स्थूराणां ग्रहणात् । ग्रहणं च तथाप्रतीतेः, सत्संस्थानादिधर्मग्रहणसंगतैव तत्कान्त्यादिप्रतीतिरिति भावनीयम् । न चैवं दीपादिद्रष्ट्रा पुरुषण, अविशेषत एव तद् दीपमण्डलादि गृह्यते । इति दोषविजृम्भितमेतद् दीपमण्डलादिदर्शनमिति ।। - दोषादसदर्शनसिद्धः सर्वधर्मदर्शनमेव दोषजमस्त्विति चेत् । अदोषनं तर्हि कीहक् । निर्विकल्पेन निरंशवस्तुग्रहणम् । न, तत्राप्युक्तवत्तदाशङ्कानिवृत्तेः । एकस्यानेकस्वभावत्वविरोधात्, तस्यान्याय्यत्वात् तन्नित्तिरिति चेत् । किं तदेकमेकस्वभावम् ? । किमत्रोच्यते?, वस्तुस्वलक्षणमेव । न, तस्य स्थूराकारप्रतिभासिनोऽप्तत्त्वात् , अणूनां चाप्रतिभासनात् , समूहस्याद्रव्यसत्त्वात् , तेषामेव तत्त्वे तद्वदनुपलम्भात् , समुदायदृश्यस्वभावत्वेनैकस्वभावत्वप्रसङ्गात् , प्रत्येकमदृश्यस्वभावत्वात् , तत्तद्भदे तदनणुवप्रसङ्गात् समुदायदृश्यस्वभावतया; अन्यथा योगिभिरप्यदर्शनात् , तथापि तदणुत्वकल्पनेऽतिप्रसङ्गात् , अन्याणूनां समुदायादर्शनेऽपि तद्भावप्रसङ्गात् , तैस्तद्भेददर्शने चानेकस्वभावतापत्तेः, तेषामेवायोगिभिरन्यथा दर्शनात् , अन्यथाऽन्यतरविज्ञानस्याविषयत्वप्रसङ्गात् , दृष्टेष्टविरोधात , भिन्न संस्थानबुद्धयसिद्धेः.
Page #156
--------------------------------------------------------------------------
________________
१६४
अनेकान्तजयपताका
indi
..hndiaH
.-
तत्त्वतोऽणुसमुदायाविशेषतस्तदयोगात्, अस्याश्वानुभवसिद्धत्वात् , प्रतिक्षपायोगात् , सर्वत्रानाश्वासप्रसङ्गात् , विशेषहेस्वभावात् , तत्वव्यवस्थानुपपत्तेः। इति बाह्यालम्बनवादिनैकानेकस्वभावमेव तदङ्गीकर्तव्यम् । तत्राप्यनुपप्लुतप्रमात्रविगान संवेद्याः स्वभावाः वस्तुसन्तः, तदन्ये पुनर्नेति, तथालोकान नुभवसिद्धेः, अन्यथा तद्वाधया सर्वमेवासमञ्जसम् , अनिबन्धनत्वात्, इत्ययुक्तैकान्ततः शुष्कतर्कानुसारिणी सूक्ष्मेक्षिका अनया हि भवदध्यक्षलक्षणमप्यसंभव्येवेति वक्ष्यामः ॥ ।
दोषादित्यादि । दोषात सकाशात् , असद्दर्शनसिद्धेः कारणात्, सर्वधर्मदर्शनमेव सरवादिदर्शनमित्यर्थः, दोषजमस्त्विति चेत् । एत. दाशङ्कयाह- अदोषजं तर्हि काहग दर्शनम् , यदपेक्षयैतद्दोषजमित्यर्थः। निर्विकल्पेन ज्ञानेन, निरंशवस्तुग्रहणमदोषजं दर्शनमित्यभिप्रायः । एतदाशङ्कयाह- न, तत्रापि यथोदिते दर्शने,उक्तबद् यथोक्तम्-दोषा. दसद्दर्शनसिद्धरित्यादि, तदाशङ्काऽनिवृत्तोषजाशङ्काऽनिवृत्तेः । एकस्य वस्तुनः, अनेकस्वभावत्वविरोधात् कारणात् , तस्याऽन्याय्यत्वादनेकस्व. भावत्वस्य, तन्निवृत्तिनिर्विकल्पेन निरंशवस्तुग्रहणे दोषजाशङ्कानिवृत्तिः, तद्भावसंभवादिति चेत् । एतदाशङ्क्याह- किं तदेकमेकस्वभावं निरंशं, यद्भावसंभवेन तदर्शनमदोषजं स्यादिति । किमत्रोच्यते, वस्तु. स्खलक्षणमेवैकमेकस्वभावम् । एतदाशझ्याह-न, तस्य स्वलक्षणस्य, स्थूराकारेणो दिलक्षणेन प्रतिभासते . तच्छीलं चेति विग्रहस्तस्य घटादेरित्यर्थः, असत्त्वात् कारणात्, संचयात्मकत्वेनाऽणूनां चाप्रति भासनात्, इत्यादेबर्बाद्यालम्बनवादिनैकानेकस्वभावमतदङ्गीकर्तव्यमिति योगः । तथा, अणूनां चाप्रतिभासनादिति सिद्धमेव । न ह्मणवः पृथग्जनविज्ञाने प्रतिभासन्ते, तत्समूहः प्रतिभासत इत्येतन्निरासायाहसमहस्य प्रक्रमादणुसमूहस्य, अद्रव्यसत्त्वादपरमार्थसत्त्वात् । तद्व्यतिरिक्तोऽद्रव्यसन , त एव तु सन्त इत्येतव्यपोहायाह- तेषामेव अणूना, तत्त्वे समूहत्वे, तद्वदणुवत् , अनुपलम्भात् ; तथाहि- अणव एवं
Page #157
--------------------------------------------------------------------------
________________
स्वोपज्ञटीकासहिता।
समूहः, ते चाऽदृश्या इति । समुदायदृश्यस्वभावा इति समूह उपलभ्यन्त इत्यप्यसदित्याह- समुदायदृश्यस्वभावत्वे प्रक्रमादणूनाम् । किमित्याहअनेकस्वभावत्वप्रसङ्गात् । प्रसङ्गश्च प्रत्येकमदृश्यस्वभावत्वात् । अणूनां तेभ्य एव समुदितेभ्यो भेद इत्यत्रापि दोषमाह- तत्तद्भेदे तेभ्यः प्रत्येकमदृश्यस्वभावेभ्यः, तद्भदे समुदायदृश्यस्वभावाऽशुभेदऽभ्युपगम्यमाने, तदनणुत्वप्रसङ्गात् तेषां समुदायदृश्यस्वभावानामनणुत्वप्रसङ्गात् । प्रसजश्व समुदायदृश्यस्वभावतया कारणेन । अन्यथा प्रत्येकत्वेनादृश्यस्वभा. बतया, योगिभिरप्यदर्शनात् । ततश्च समुदायदृश्यस्वभावा अपर एवैते भावा नाणव इति भावार्थः । आह च-तथापि योगिभिरप्यदर्शनेऽपि, तदा णुत्वकल्पने समुदायदृश्यस्वभावानामणुत्वकल्पने । किमित्याह- अतिप्रसङ्गात् । प्रसङ्गश्च अन्याणूनां प्रत्येकमहश्यस्वभावानाम्, समुदा. यादर्शनेऽपि सति, तद्भावप्रसङ्गात् समुदायभावप्रसङ्गात्। तैरित्यादि। विर्योगिभिरिति प्रक्रमः, तद्भेददर्शने च तेषां समुदायदृश्यवभावानामेव भेददर्शने च प्रत्येकदर्शने चाभ्युपगम्यमाने, अनेस्वभावतापत्तेस्तेषाम् । आपत्तिश्च तेषामेव योगिभेददर्शनगोराणाम्, अयोगिभिरन्यथादर्शनात् समुदायत्वेन दर्शनादि. अर्थः । इत्थं चैतदङ्गीकर्तव्यमित्याह- अन्यथा एमनभ्युपमे, अन्यतरविज्ञानस्य योगिविज्ञानस्यायोगिविज्ञानस्य वा, अविषलप्रसङ्गात् तदालम्बनस्वभावाभावेन । न चायं न्याय्यः प्रसङ्ग ह- दृष्टेष्टविरोधात । अयोगिज्ञानाविषयत्वे दृष्टविरोधः, योनाविषयत्वे चाभ्युपगमविरोध इति भावः । दोषान्तरमाहसंस्थानबुद्ध्यसिद्धः अणुसमुदायाविशेषेण घटशरावादिबुद्ध्यरित्यर्थः । अमुमेवार्थ स्पष्टयन्नाह- तत्त्वतः परमार्थेन, अणुसमुदाशेषतः कारणात् , तदयोगाद् भिन्नसंस्थानायोगेन तद्बुद्ध्ययोगात्। नामैवं तत किमित्याह- अस्याश्व भिन्न संस्थानबुद्धेः, अनुभवसिद्धt, अत एव प्रतिक्षेपायोगात्, अयोगश्च सर्वत्रानाश्वासप्रस. L, अनुभवप्रतिक्षेपे सति । न चासावनुभवमात्रविषय इत्याह
Page #158
--------------------------------------------------------------------------
________________
अनेकान्तजयपताका
विशेषहेत्वभावात् अनुभवस्थाणुसमुदायमात्रालम्बनत्वेन । सर्व नाश्वासे च तत्त्वव्यवस्थानुपपत्तेविसंवादिषोधाशङ्कया; इति- एवं, की ह्यालम्बनवादिना सर्वेण, एकानेकस्वभावमेव तदालम्बनम् , अङ्गीकर व्यमित्याह-तत्रापि एवंभूत आलम्बने, अनुपप्लुतप्रमात्रविगानसंवेगा स्वभावा धर्माः, वस्तुसन्तः परमार्थसन्तः, इन्द्रनीलादौ स्थूरादिधर्मवत् तदन्ये पुनर्न- उपप्लुतप्रमातृविगानसंवेद्या दीपमण्डलादिवदिति । कुन एतदेवमित्याह- तथालोकानुभवसिद्धेः कारणात् । अन्यथैवमन भ्युपगमे, तद्वाधया लोकानुभवबाधया, सर्वमेवासमञ्जसम् । कुत इत्या अनिबन्धनत्वाद् नियामकाभावात् । इत्येवमयुक्तैकान्ततः शुष्कतान सारिणी जातिवादप्रधाना, सूक्ष्मेक्षिका । किमित्ययुक्तत्याह- अनय यस्माच्छुष्कतर्कानुसारिण्या सूक्ष्मेक्षिकया, भवदध्यक्षलक्षणमपि भव तोऽध्यक्षलक्षणं " प्रत्यक्षं कल्पनापोढम् ” इत्याद्यपि, असंभव्येवो वक्ष्यामः ॥ ___अतोऽनेकस्वभावे वस्तुनि क्षयोपशमानुरूपप्रतिपत्तावुत्ता वदन्तर्जल्पाकारबोधसिद्धरभिधानविशेषस्मृत्ययोगोऽबाधक व । यदपि कचिद् वाच्योपलब्धौ तद्वाचकविशेषास्मरणं तदप्य नेकवाचकवाच्यत्वेऽस्य तथाविधावरणभावाद् विकल्पबोधव एव, अभिलापाद्यसंमृष्टबोधेनाननुस्मरणात् तथाप्रतीतेरितिाए च 'सति ह्यर्थदर्शनेऽर्थसन्निधौ दृष्टे शब्द ततः स्मृतिः स्यात्, अपि धूमवत्' इति नैकान्तसुदरम् , तदर्थस्याभिलापासंमृष्टबोधेना दर्शनात् , तथास्वभावत्वात् , शब्दान्तरस्मृतौ चोक्तवददोषात एवं च 'न चायमशब्दमर्थ पश्यति' इति विचारणीयम् । या शब्दानास्कन्दितमिति । तदसिद्धम् , केवलस्यैव दर्शनात् । अंथ विकल्पज्ञानेन । ततः सिद्धसाध्यता, शब्दार्थस्य तेनादर्शनात एवं च 'अपश्यंश्च न शब्दविशेषमनुस्मरति' इत्येतदपि विचारास दमेव । यदि येनैव संसृष्टविज्ञानस्तमेव नानुस्मरतीति, सिद्धस ध्यता, तस्य तदा तेनैव वेद्यमानत्वात् । अथ तत्प्रतिबद्धं शब्द
Page #159
--------------------------------------------------------------------------
________________
खोपज्ञटीकासहिता।
१६७ न्तरमिति । तदसिद्धम् , तस्य सति क्षयोपशमे तदर्शनात् स्मरणोपपत्तेः । एवम् 'अननुस्मरन्न योजयति' इत्यप्ययुक्तम् , तद्विज्ञानसंसृष्टस्य तथा योजनात् , इतरस्यापि तत्संभवाविरोधात् । एवं "अयोजयन्न प्रत्येति' इत्यप्यसांप्रतमेव, शब्दान्तरमधिकृत्यायोजयतोऽपि प्रतीतेः, तद्वयतिरिक्तेन तूक्तवद्योग एव 'इत्यायातमान्ध्यमशेषस्य जगतः' इत्युक्तिमात्रम्, विवक्षिताभिधेयार्थशून्यत्वात् , उक्तवत्तदयोगादिति ॥ :: एवं प्रासङ्गिकमभिधाय प्रकृतमुपक्रमते । अत इत्यादिना। अतो. ऽनेकखभावे वस्तुन्युक्तनीत्या व्यवस्थिते, क्षयोपशमानुरूपप्रतिपत्तौ सत्याम् , उक्तवद् यथोक्तं तथा, अन्तर्जल्पाकारबोधसिद्धेः कारणात् , अभिधानविशेषस्मृत्ययोगोऽबाधक एव, स्मृतेरेवान्तर्जल्पाकारबोधरूपतयाऽप्रवृत्तिप्रसङ्गादिति हृदयम् । दोषान्तरपरिजिहीर्षयाहपदपि कचिद् वाच्योपलब्धौ सत्यां, तद्वाचकविशेषास्मरणं किमिदमेत्यादि सामान्यवाचकप्रवृत्तावेव, तदप्यनेकवाचकवाच्यत्वेऽस्य वतुनः, तथाविधावरणभावाद् वाचकविशेषस्मरणावरणभावात्, विकपबोधवत एवाऽस्मृतिपूर्वकशब्दसंपृक्तबोधवत एवेत्यर्थः । कुत इत्याहअभिलापाद्यसंसृष्टवोधेन आदिशब्दाद् विशिष्टमनःपरिग्रहः, अननुमरणात् कारणात् । अननुस्मरणं च तथाप्रतीतेः; न ह्यवग्रहमात्रात् मृतिः, एवं च कृत्वा, सति ह्यर्थदर्शनेऽर्थसन्निधौ दृष्टे शब्दे ततः स्मृत्तिः मादग्निधूमवदिति पूर्वपक्षोदितम्,नैकान्तसुन्दरम् । कुत इत्याह-तदर्थस्य ब्दार्थस्य, अभिलापासंसृष्टबोधेनादर्शनात् । अदर्शनं च तथास्वहावत्वात् अभिलापासंसृष्टबोधेनादर्शनस्वभावत्वात् । शब्दान्तरस्मृती वाचकविशेषस्मृतौ च, उक्तवद् यथोक्तम्- तथाविधावरणभावादिदि तथा, अदोषात् । एवं च कृत्वा न चायमशब्दमर्थ पश्यतीत्येतत् पक्षोदितम् , विचारणीयम् । किमुक्तं भवत्यशब्दमिति ?, यदि शब्दास्कन्दितमिति । तदसिद्धम् । कुत इत्याह- केवलस्यैव तच्छब्दानान्दितस्य, दर्शनात् । अथाविकल्पज्ञानेनाशब्दमर्थ पश्यति । एतदा
Page #160
--------------------------------------------------------------------------
________________
१६८
अनेकान्तजयपताकाशङ्क्याह- ततः सिद्धसाध्यता । कुत इत्याह- शब्दार्थस्य ते अविकल्पज्ञानेनाऽदर्शनात् । ततश्च विकल्पज्ञानेन सशब्दमर्थ पश्यती भवति । अयमेव च शब्दार्थ इति भावः । एवं चापश्यंश्च न शब्दा शेषमनुस्मरतीत्येतदपि पूर्वपक्षोपन्यस्तम् , विचारास्पदमेव ! किमु भवति न शब्दविशेषमनुस्मरति ?, यदि येनैव शब्दविशेषेण संस्थ ष्टविज्ञानः प्रमाता तमेव शब्दविशेष नानुस्मरतीति, एवं सिद्धसाध्यता कुत इत्याह- तस्य शब्दविशेषस्य, तदा तेनैव ज्ञानेन, वेद्यमानत्वा तबोधाविनिर्भागेन । अथ तत्प्रतिबद्धं प्रक्रमाद् दृश्यवस्तुप्रतिबई शब्दान्तरम् , न शब्दविशेषमनुस्मरतीति । एतदधिकृत्याह- तद सिद्धम् । सस्य शब्दान्तरस्य, सति क्षयोपशमे तज्ज्ञानावरणकर्मणः | सद्दर्शनाद् न्यायप्रापितशब्दार्थदर्शनात् , स्मरणोपपत्तेः स्मरणसंभवात् | एवमननुस्मरन्न योजयतीत्यपि पूर्वपक्षोक्तम् , अयुक्तम् । कुत इत्याह तद्विज्ञानसंसृष्टस्य शब्दस्यति प्रक्रमः । तथा वाचकत्वेन, योजनात् इतरस्यापि तत्प्रतिबद्धशब्दान्तरस्य तत्संभवाविरोधाद् योजनासंभवा विरोधात् । एवमयोजयन् न प्रत्येतीत्यपि पूर्वपक्षवचः, असांप्रतमे वाशोभनमेव । कुत इत्याह-शब्दान्तरमधिकृत्य तत्प्रतिबद्धम् । अयोजयतोऽपि प्रतीतेः, प्रक्रमाद् वस्तुनः, इति तद्व्यतिरिक्तेन । प्रक्रमाद् विज्ञानसंसृष्टेन, उक्तवद् यथोक्तम् तथा, योग एव, इत्येवम् आयातमान्ध्यमशेषस्य जगत इत्युक्तिमात्रं वचनमात्रम् । कु इत्याह-विवक्षिताभिधेयार्थशून्यत्वात् । शून्यत्वं चोक्तवद् यथोच तथा, तदयोगाद् विवक्षितार्थायोगादिति ॥ - यत्पुनरेतदाशङ्कितम्- 'अभिपतन्नेवार्थः प्रबोधयत्यान्तर संस्कारं, तेन स्मृतिर्नार्थदर्शनात्' इति । एतदर्थतः साध्वेव, क्षयो पशमस्य द्रव्यादिनिमित्तत्वाभ्युपगमात् , तदनुसारेण तत्प्रवृत्ति संभवात् । यत्पुनरिदमुक्तम्- 'न, तत्संबन्धस्याऽस्वाभाविकत्वा त्' इति । एतदसाधु, उक्तबदस्वाभाविकत्वासिद्धेः, वक्ष्यमाणका चापोहाधिकारे । अतः समयाऽदर्शनेऽभावादित्ययुक्तम् । तस्व
Page #161
--------------------------------------------------------------------------
________________
स्वोपज्ञटीका सहिता ।
१६९
क्षयोपशमव्यञ्जकत्वात्, तद्भावे तु तदभावेऽपि भावात्, क्वचित् तथोपलब्धेः, अन्यथा सदा तदपेक्षा स्यात् । एवं च 'पुरुषेच्छातोsर्थानां स्वभावापरावृत्तेरित्यादि यावदशब्दसंयोजनमेवार्थं पश्यति दर्शनात्' इति । एतन्निर्विषयमेव, अत्र ह्यनेकस्वभावतापच्या वस्तुनो नैरात्म्यमिति परं दूषणम् । एतच्चैकानेकस्वभावतयाऽस्य तत्त्वतोउदूषणमेव, अन्यथा तदसत्त्वप्रसङ्गादित्युक्तप्रायम् । अतो विरोविशब्दवाच्यत्वेऽपि तत्तत्स्वभावतया तथोपलब्धेर्न कश्चिद् दोषः ॥
यत्पुनरित्यादि । यत्पुनरेतदाशङ्कितं परेण । किमित्याह'अभिपतन्नेवार्थः प्रबोधयत्यान्तरं संस्कारं तेन स्मृतिर्नार्थदर्शनादिति । एतदर्थतः अर्थमधिकृत्य, साध्वेव शोभनमेव । कथमित्याह - तदनुसारेण अर्थाभिपतनानुसारेण तत्प्रवृत्तिसंभवात क्षयोपशमप्रवृत्तिसंभवादिति । यत् पुनरिदमुक्तं पूर्वपक्षप्रन्थ एव, - 'न, तत्संबन्धस्याऽस्वाभाविकत्वात्' इति । एतदसाधु अशोभनम् । कुत इत्याहउक्तवद् यथोक्तं प्राक् 'सर्ववस्तूनामेव प्रायस्तथा तथा सर्वशब्दवाच्यस्वभावत्वादित्यादिना' तथा अस्वाभाविकत्वासिद्धेस्तत्संबन्धस्य वक्ष्यमा - णत्वाचापोहाधिकारे, तदसाध्विति । अतः समयादर्शनेऽभावादिति यदुकम्, तदयुक्तम् । कुत इत्याह- तस्य समयस्य, क्षयोपशमव्यञ्जकत्वात्, सद्भावे तु क्षयोपशमभावे तु तदभावेऽपि समयाभावेऽपि, भावाद् शदविशेषस्मृतेरिति प्रक्रमः । शब्दविशेषस्मृतिग्रहणं चाऽत्र प्रतिपत्त्युपलक्षणं वेदितव्यम् । भावश्च कचिद् विशिष्टक्षयोपशमवति प्रमातरि, तथोपलब्धेः समयाभावेऽपि शब्दविशेषस्मृत्युपलब्धेः । इत्थं चैतदङ्गीकर्त्तव्यमित्याह- अन्यथेत्यादि । अन्यथा क्षयोपशमभावेऽपि, समयापेक्षाभ्युपगमे, सदा सर्वकालं, तदपेक्षा स्यात् समयापेक्षा स्यात्, ततश्च सदा संकेताकरणाप्त्या व्यवहाराभावः । एवं च 'पुरुषेच्छातोऽर्थानां स्वभावाउपरावृत्तेरित्यादि पूर्वपक्षवचनं यावदशब्दसंयोजनमेवार्थं पश्यति दर्शमात्' इत्येतत् निर्विषयमेव । कुत इत्याह- अत्रेत्यादि । अत्र यस्माद्, अनेकस्वभावतापत्त्या वस्तुनो नैरात्म्यमिति परं दूषणमुक्तम् । एतश्च दू
२२
:
"
Page #162
--------------------------------------------------------------------------
________________
१७०
अनेकान्तजयपताका
षणमेकानेकस्वभावतयाऽस्य वस्तुनस्तत्त्वतोऽदूषणमेव, अन्यथैवमनभ्युः पगमे, तदसत्त्वप्रसङ्गाद् वस्तुनोऽसत्त्वप्रसङ्गात् , इत्युक्तप्रायं प्रायेणोक्तम् अतो विरोधिशब्दवाच्यत्वेऽपि सति, वस्तुन इति प्रक्रमः, तत्तत्स्वभाः वतया कारणेन, तथोपलब्धेविरोधिशब्दवाच्यत्वेनोपलब्धेः, नित्यानित्या दिशब्दप्रवृत्तितया न कश्चिद् दोष इति प्रस्तुताधिकारनिगमनम् ।। .. स्यादेतत् , अनलशब्दो ह्यनले तदभिधानस्वभावतया यमन भिधेयपरिणाममाश्रित्य प्रवर्तते, स जले नास्ति, जलानलयों रभेदप्रसङ्गात् । प्रवत्तेते च समयाज्जलेऽनलशब्दः, तथाप्रतीतेः। इति कथमनयोर्वास्तवो योगः ? इति । उच्यते- शब्दस्यानेकखभा वत्वात् , न ह्यनलशब्दस्याऽनलगताभिधेयपरिणामापेक्षी तदभिधानस्वभाव एवैकः स्वभावः, अपि तु तथाविलम्बितादित्वेन जलगताभिधेयपरिणामापेक्षी तदभिधानखभावोऽपि, तथा तत्प तीते, तद्वैचित्र्येण दोषाभावात् , क्षयोपशमवैचित्र्यतस्तथाप्रवृत्ते, अन्यथा अहेतुकत्वेन तदभावप्रसङ्गादिति । एतेन तथानुभवसिद्धन शब्दार्थक्षयोपशमस्वभाववैचित्र्येण, एतदपि प्रत्युक्तम् , यदुक्तम् 'शब्देन्द्रियार्थयोर्भेद एव, अव्यापृतेन्द्रियस्याऽन्यवाङ्मात्रेणैवेन्द्रि यार्थाविभावनात् , इन्द्रियादेव च शब्दार्थाप्रतीतेः' इत्यादि। न ख ल्वव्यापृतेन्द्रियोऽपि तत्क्षयोपशमयुक्तः, अन्यवाङ्मात्रेण न वि भावयत्येवेन्द्रियार्थम् , तद्वर्णमानचिह्नादिनिश्चितेः, तदन्यतुल्यजा तीयमध्येऽपि भेदेन प्रवर्त्तनात् , कचित्तत्प्राप्तेस्तथा निवेदनात तथाऽस्पष्टं तु तत्साक्षात्कारेणाक्षव्यापारवैकल्यात् , न त्वतद्वि षयत्वेन । एवमिन्द्रियादपि क्वचित्तथाविधक्षयोपशमभावे, सङ्के तमन्तरेणापि भवति शब्दार्थविभावनम् , तथान्तर्जल्पाकारा दिबोधसिद्धेः, लोकानुभवप्रामाण्यादिति ॥ - स्यादेतदित्यादि। स्यादेतत् ,अनलशब्दोह्यनलेऽभिधेये तदभिधान स्वभावतया अनलाभिधानस्वभावत्त्वेन, यमभिधेयपरिणाममाश्रित्य प्रद तते, वास्तवं स जले नास्ति परिणामः । कुत इत्याह-जलानलयोरभे।
Page #163
--------------------------------------------------------------------------
________________
स्वोपज्ञटीकासहिता ।
१७१
दप्रसङ्गात् तदेकाभिधेयपरिणामभावेन । यदि नामैवं ततः किम् ?, इत्याहप्रवर्त्तते च समयात् सङ्केतेन, जलेऽनलशब्दः । कुत इत्याह- तथाप्रतीतेः समयद्वारेण प्रवृत्तिप्रतीतेः, इत्येवं कथमनयोः प्रक्रमाद् वस्तुवाचकयोः, वास्तवो योगस्तात्त्विकः सम्बन्धः ? इति । एतदाशङ्कयाह - उच्यते तत्र परिहारः, शब्दस्यानेकस्वभावत्वात्, शब्दग्रहणं वस्तूपलक्षणम्, उभयोरनेकस्वभावत्वात्, अनयोर्वास्तत्रो योग इति । अभुमेवार्थं प्रकटयन्नाह नानलेत्यादि । न यस्माद्, अनलशब्दस्याऽनलगताभिधेयपरिणामापेश्री अनलगतमभिधेयपरिणाममपेक्षते तच्छीलश्च इति विग्रहः, तदभिधानस्वभावः एव अनलाभिधानस्वभाव एव, एकस्वभावः, अपि तु तथाविलम्बितादित्वेन समयापेक्षितत्स्मृतिपूर्वकत्वेन, जलगताभिधेयपरिणामापेक्षी, तदभिधानस्वभावोऽपि जलाभिधानस्वभावोऽपि । कुत इत्याह- तथा तत्प्रतीतेः तथाविलम्बितादित्वेन जलप्रतीतेरिति । तद्वैचित्र्येण प्रक्रमादनलशब्दस्वभाववैचित्र्येण, दोषाभावात् पूर्वोक्तदोषनिवृत्तेरित्यर्थः । क्षयोपशमवैचित्र्यतः कारणात्, तथाप्रवृत्तेर्जलेऽनलशब्दसमयप्रवृत्तेः । अन्यथैवमनभ्युपगमे, अहेतुकत्वेन तदभावप्रसङ्गात् तथा प्रवृत्त्यभावप्रसङ्गादिति । एतेनाऽनन्तरोदितेन, तथानुभवसिद्धेनोक्तनीत्या, समयाद् जलेऽप्यनलशब्दात् प्रतीतिभावतः संवेदनसिद्धेन शब्दार्थक्षयोपशमानां स्वभाववैचित्र्येण, किमित्याह - एतदपि प्रत्युक्तम् । यदुक्तं परैः, किं तदित्याह- शब्देन्द्रियार्थयोः शब्दश्चेन्द्रियं च शब्दन्द्रिये, तयोरर्थो विषयौ तयोर्भेद एव । कुत इत्याह- अव्यापृतेन्द्रियस्य पुंसः, अन्यवाग्मात्रेणैव अन्यस्माद् वाग्मात्रं तेनैव, इन्द्रियापोऽविभावनात् इन्द्रियार्थाऽदर्शनाद्, विभावनं दर्शनं, तथाहि - प्रतीततत्, न शब्दादेव पश्यतीति । तथेन्द्रियादेव च सकाशात्, शब्दार्थाप्रतिर्नहि पनसं पश्यन्नप्यकृतसमयो वाहीकः पनसमित्यवैतीत्यादि । दिशब्दात्
"अन्यदेवेन्द्रियग्राह्यमन्यः शब्दस्य गोचरः । शब्दात् प्रत्येति भिन्नाक्षो न तु प्रत्यक्षमीक्षते " ॥ १ ॥
Page #164
--------------------------------------------------------------------------
________________
अनेकान्तजयपताका
,
66
,
इत्याद्येतत् समानं गृह्यते, इत्येतदपि प्रत्युक्तम् । यथा प्रत्युक्तम्, तथा मन्दमतिहिताय मनागुपदर्शयन्नाह - न खल्वित्यादिना । न खलु नैव, अव्यापृतेन्द्रियोऽपि पुमान् । किं विशिष्ट इत्याहतत्क्षयोपशमयुक्तः प्रक्रमात् इन्द्रियज्ञानावरणक्षयोपशमयुक्तः, अन्यवाङ्मात्रेण हेतुना, न विभावयत्येव न पश्यत्येव मत्या भोगेनेन्द्रियार्थम्, द्वौ प्रतिषेध प्रकृतमर्थ गमयतः " इति कृत्वा, किंतु विभावयत्येव । कुत इत्याह- तद्वर्णमानचिह्नादिनिश्चितेः तस्येन्द्रियार्थस्य वर्णः कृष्णादिः, मानं प्रमाणं महदल्पादि चिह्नं खण्डादि, आदिशब्दात मसृणत्वादिग्रहः, एतन्निश्चितेः । तथाहि - कृष्णं महान्तं खण्डं मसृ णमपूर्वमपवरका घटमानयेत्युक्ते तज्ज्ञानावरणक्षयोपशमयुक्तः पुमान: ध्यक्षमिव मत्या तथैव प्रतिपद्यते । कथमेतदेवम् ?, इत्याह- तदन्यतुल्यजातीयमध्येsपि तदाऽऽनयनाय तं प्रति भेदेन प्रवर्त्तनात् । न ह्यसौ तथा भोगशून्यः प्रवर्त्तत इति भावनीयम् । तथा कचित् प्रतिबन्धाभावे, तत्प्राप्तेः प्रक्रमात् तस्यान्यवाङ्मात्रोक्तस्य प्राप्तेः, तथा निवेदनात तथाऽन्यवाङ्मात्रबोधितत्वेन निवेदनात् नैव न विभावयति, इन्द्रियार्थ ति । तथाऽस्पष्टं तु तद्विभावनम्, साक्षात्कारेणाऽक्षव्यापारवैकल्यात्, न स्वतद्विषयत्वेन न पुनरिन्द्रियार्थाविषयत्वेन, प्रणिधानव्यापारेण तत्रेन्द्रि यव्यापारादिति । एवमिन्द्रियादपि सकाशात्, कचित् न सर्वत्र, तथावि धक्षयोपशमभावे सङ्केतानपेक्षशब्दार्थविभावनफलक्षयोपशमभावे, सहे तमन्तरेणाऽपि किमित्याह- भवति शब्दार्थविभावनम् । कुत इत्याह तथाऽन्तर्जल्पाकारादिबोधसिद्धेः किमिदमित्यालोचयतस्तदिदं पूर्वो क्तलिङ्गवत् पनसमितिबोधसिद्धेरित्यर्थः, सिद्धिश्च लोकानुभवप्रामाण्या दिति ॥
"
१७२
RED
स्यादेतत्, इत्थमनेकस्वभावत्वे वस्तुनोऽनेकस्यैवाऽनेकममातृ भिरवसायः, तथाहि - यदि य एव तत्स्वभाव एकावसायस्य नि मित्तं स एवापरावसायस्य ततस्तयोरैक्यं सर्वथैकनिमित
"
चोदितत्वेनेत्यपि ।
Page #165
--------------------------------------------------------------------------
________________
खोपाटीकासहिता!
१७३ त्वात् , इतरेतरखात्मवत् , तदभेदेऽपि तदवसायभेदे, तदेकस्वभावतापत्तिः, तदन्यकार्याणामपि तत्तथातयाऽविरोधादिति । अत्रोच्यते-एकान्तवादिन एवायं दोषः, नानेकान्तवादिनः, तस्य ह्यचित्रमेवैकम् । न चानेककार्यजननैकस्वभावतां विहाय ततोऽनेकं भवति, अनेककार्यजनने च नाचित्रमेकत्वं, तद्भावेऽपि कात्स्येनकेन तद्ग्रहात् तदपरावसायग्रहणप्रसङ्गः, तस्य तज्जननवतत्त्वस्याऽन्यथा ग्रहणायोगात् , तत्साविधकत्वात् न निरवधिकं ग्रहणं तद्ग्रहणमिति भावनीयम् । मलसामर्थ्यात् तदग्रहणं, तदग्रहणमेव सर्वथैकत्वात् , अन्यथाऽस्य ग्रहणाग्रहणमसङ्गः, तथा च सत्यस्मन्मतानुवाद एव गृह्यमाणागृह्यमाणयोरेकलविरोधादिति । तच्चित्रतयैव कथंचित् तद्ग्रहणादेकस्याप्यनेकममातृभिरवसाया,नान्यथा, इत्युक्तदोषानतिवृत्तरित्यलं प्रसङ्गेन। । स्यादेतत् , इत्थमुक्तनित्याऽनेकस्वभावत्वे, वस्तुन इन्द्रियार्थादेः, नैकस्यैवाऽनेकप्रमातृभिरवसायः । एतदेव भावयति- तथाहीत्यादिना। स्थाहिं यदि य एव तत्स्वभावो वस्तुस्वभावः, एकावसायस्यंत्येकस्य प्रमारिति प्रक्रमः, अवसाय एकावसायस्तस्य, निमित्तं स एवाऽपरा. वसायस्य प्रमात्रन्तरावसायस्य, ततस्तयोरवसाययोरैक्यम् । कुत माह- सर्वथैकनिमित्तत्वात्, अधिकृतवस्तुस्वभावकत्वेन इतरेतरस्वाबदिति निदर्शनम् । एतञ्च 'यतः स्वभावतो जातमेकम्' इत्यादिना पाऽप्युक्तमेव । तदभेदेऽपि तत्स्वभावाभेदेऽपि, तदवसायभेदे aऽपरप्रमात्रवसायभेदे, तदेकस्वभावतापत्तिः तस्य वस्तुनः खभावतापत्तिः । कुत इत्याह- तदन्यकार्याणामपि तस्माद् वि. तस्वभावादन्ये तदन्ये स्वभावा इति प्रक्रमः, तेषां कार्याणि दिविज्ञानादीनि तत्कार्याणि तेषामपि, तत्तथातया तस्स
तथाता एकजातीयविज्ञानापेक्षया एकस्वभावा अनेककार्यजननैशिवता, तया सामान्येनाऽप्येकस्वभावापेक्षया सदायनेकविज्ञाचार्यजननैकस्वभावतया, अविरोधात् तदेकस्वभावतापत्तिरिति । -
Page #166
--------------------------------------------------------------------------
________________
१७४
अनेकान्तजयपताकाएतदाशझ्याह-अत्रोच्यते, एकान्तवादिन एवायमनन्तरोदितः-'ततस्तयोरैक्यम्' इत्यादिलक्षणो दोषः, नानेकान्तवादिनः । कुत एतदित्याहतस्येत्यादि । तस्य एकान्तवादिनः, यस्मात् ,चित्रमेवैकमेकान्तैकरूपम्। यदि नामैवं ततः किमित्याह- न चानेककार्यजननैकस्वभावतां विहाय तत एकस्मात् , इह प्रक्रमे, अधिकृतैकस्वभावात् , अनेक भव त्येकापरविज्ञानादि । यदि नामैवं ततः किमित्याह- अनेककार्यजनने वा नाऽचित्रमेकत्वं । अनेकगर्भेकत्वस्य सर्वथैकत्वविरोधात् । दोषान्तरमाह- तद्भावेऽपीत्यादिना । तद्भावेऽपि अचित्रैकस्वभावेऽपि, का स्न्येन सामस्येन, एकेन प्रमात्रा, तद्ग्रहात् अधिकृतस्वभावग्रहात् , तद परावसायग्रहणप्रसङ्गः- तस्मादेकस्मात् प्रमातुरपरे प्रक्रमात्, प्रमाता एव तदपरे तेषामवसाया ज्ञानानि तेषां ग्रहणमवगमस्तत्प्रसङ्ग इति समासः । कुत इत्याह- तस्येत्यादि । तस्याऽधिकृतस्वभावस्य, किं वि शिष्टस्येत्याह- तज्जननवतत्त्वस्य अपरावसायजननस्वभावत्वस्या अन्यथा तदपराऽवसायग्रहणमन्तरेण, ग्रहणाऽयोगात्, अयोगश्च तता सावधिकत्वात् ,- तदपरावसायजननस्वभावो ह्यसाविति तत्सावा धिकः । यदि नामैवं ततः किमित्याह-न निरवधिकं ग्रहणं तदपरा वसायजननस्वभावविकलं ग्रहणम, तद्ग्रहणं तदपरावसायजननस्वभाव ग्रहणमिति भावनीयमेतत् । पराभिप्रायमाह- मलसामर्थ्याद् हेतो तदग्रहणं अपरावसायाख्यावध्यग्रहणम् । एतदाशङ्कयाऽऽह- तदग्रहण मेव तस्याधिकृतस्वभावस्याऽग्रहणमेव । कुत इत्याह- सर्वथैकत्वा एक एव ह्यसौ तदपराऽवसायजननस्वभाव इति, तद्ग्रहणेऽग्रहणमिी गर्भः। इत्थं चैतदङ्गीकर्तव्यमित्याह- अन्यथा एवमनभ्युपगमे तदा ग्रहणानभ्युपगमे, अस्य स्वभावस्य, ग्रहणाऽग्रहणप्रसङ्गः । सामान्यो ग्रहणात् अवधिमत्तयाऽग्रहणात् । यदि नामैवं ततः किमित्याह- तथा सति एवं च सति, अस्मन्मतानुवाद एव तच्चित्रताविधानेन, अत एवा गृह्यमाणाऽगृह्यमाणयोर्द्धर्मयोः,एकत्वविरोधादिति । एवं तचित्रतयैव भावचित्रतयैव, कथंचित् केनचित् प्रकारेण, तद्ग्रहणात् अधिकृत
Page #167
--------------------------------------------------------------------------
________________
स्वोपज्ञटीकासहिता
भावग्रहणात्, एकस्याऽपि वस्तुनः, सामान्येन अनेकप्रमातृभिरवसायः, नान्यथा । कुत इत्याह- उक्तदोषानतिवृत्तेः 'ततस्तयोरैक्यम्' इत्यायुक्तदोषानतिवृत्तेः इत्यलं प्रसङ्गेनेति ॥
,
यच्चोक्तम्- किञ्च विकल्पात्मकत्वेऽस्य 'निश्चयात्मकमिदम्' इत्यनेकप्रमाणवादहानिः तेनैव वस्तुनो निश्चयात्, नित्यत्वादौ भ्रान्त्यनुपपत्तेः, अनेकधर्मके वस्तुन्यन्यतरधर्मनिश्चयात्, तदन्यनिश्चयाय प्रमाणान्तर साफल्यमिति चेत्, इत्याशङ्कय- 'नैकधर्मविशिष्टस्यापि निश्चये सर्वधर्मवत्तया निश्वयात्, प्रमाणान्तरस्य निचितमेव विषयीकुर्वतः स्मृतिरूपानतिक्रमात्, एकधर्मद्वारेणाऽपि तद्वतो निश्चयात्मना प्रत्यक्षेण विषयीकरणे सकलधर्मोपकारकशक्त्यभिन्नात्मनो निश्चयात्' इत्यादि, तदप्ययुक्तम् । छद्मस्थज्ञानस्येत्थमप्रवृत्तेः, ज्ञेयतज्ज्ञानक्षयोपशमानां तथास्वभावत्वादित्युक्तप्रायम्, केवलिनां तु तथानिश्चयः, प्रमाणान्तराभावश्च, इति न कश्चिदोषः । आह- एवमप्यनेकस्वभावतया ततस्तथानियतात् कथमनन्तानां केवलिनां तदविकलात्मग्राहकज्ञानभावः, एकत्र कासत्योपयोगित्वेन तत्तज्जननस्वभावत्वात्, अपरस्यापि तद्भावापत्तेर्हेत्वविशेषादिति, न, हेत्वविशेषासिद्धेः, ज्ञानिनोऽन्यत्वात्, अधिकृतवस्तुनश्च विचित्रत्वात् तत्तज्ज्ञान्यपेक्षया तत्र तत्र तदा तदाऽविकलात्मग्राहकज्ञानाभिव्यञ्जकात्मकत्वेनैकत्र कात्स्न्यपयोगित्वादिति । न चैत्रमपरस्यापि तद्भावापत्तिः, अधिकृतवस्तुतिस्तथात्वविरोधादिति सूक्ष्मधिया भावनीयम् । एकान्तैकस्वसाववस्तुवादिनस्त्वेष दोषोऽनिवारितप्रसर एव तद्भेदनिबन्धअधिकृत वस्तुवैचित्र्यानुपपत्तेरिति । किञ्च निर्विकल्पकेनाऽपि यक्षेणैकस्वभावे वस्तुनि परिच्छिन्ने कथं नाऽनेकप्रमाणवादहारिति चिन्त्यम् । प्रत्यक्षस्यानिश्चयरूपत्वाच्चिन्तितमेवैतत् ॥ यच्चोक्तं पूर्वपक्षे, किञ्च विकल्पात्मकत्वेऽस्येत्यादि । यावदेकसद्वारेणाऽपि तद्वतो निश्चयात्मना प्रत्यक्षेण विषयकरणे सक
>
१
"
,
१७५
Page #168
--------------------------------------------------------------------------
________________
१७६
अनेकान्तजयपताकालधम्मोपकारकशक्त्यभिन्नात्मनो निश्चयादित्यादि, तदप्ययुक्तम्। कुत इत्याह- छमस्थज्ञानस्येत्थमप्रवृत्तेः कारणात् , अप्रवृत्तिश्च तज्ज्ञानक्षयोपशमानां त्रयाणामपि, तथास्वभावत्वात् चित्रतया असा धर्मवत्तया निश्चयनिबन्धनस्वभावत्वात् , इत्युक्तप्रायं प्रायेणोक्तम्। लिनां तु क्षीणसकलावरणानां, तथानिश्चयः सकलधर्मवत्तया निशा प्रमाणान्तराभावश्च केवलिनामनुमानाद्यभावश्चेति । न कश्चिदोषी आह-एवमपि केवलिनां तु तथानिश्चयेऽपि सति, अनेकवभावतया, वस्तुनः, तथानियतात् सममानेकस्वभावतया नियतात्, एकस्वमा त्वविकल्पादित्यर्थः । कथमनन्तानां प्रभातृणां केवलिनां वृषभादीना तद्विकलात्मकग्राहकज्ञानभावः तस्यानेकस्वभावतया तथानियतस्य । स्तुनोऽविकलो य आत्मा, तग्राहकज्ञानोत्पादस्ततः कथम्?, नैवेत्य कथं नेत्याह- एकत्रेत्यादि । एकत्र ऋषभादिज्ञाने, कात्योपयोगि न हेतुना, तत्तजननस्वभावत्वात् अधिकृतवस्तुन ऋषभादिज्ञानजन स्वभावत्वात् , नान्यथा ततस्तथा तदुत्पाद इति भावनीयम् । यदि ना ततः किमित्याह- अपरस्यापि वर्द्धमानादिज्ञानस्य, तद्भावापत्तेः । षभादिज्ञानापत्तेः । कथमित्याह-हेत्वविशेषादिति । ऋषभादिज्ञान ननस्वभावं ह्यधिकृतं वस्तु तद्धेतुस्ततस्तस्याऽपि तद्वत्तद्भावापत्तेः, न ततोऽनन्तानां तदविकलात्मग्राहकज्ञानभाव इति । उक्तं च य 'स्वभावतो जातम्' इत्यादे, असर्वज्ञता वा सर्वेषामन्योन्यमधिकृतवस्त ऽनुत्पत्तितस्तदनधिगमादिति पराभिप्रायः । एतदाशङ्कयाह- नेत्यादि न नैतदेवम् , यदभ्यधायि परेण, कुत इत्याह- हेत्वविशेषासिद्धेः।। मसिद्धिरित्याह- ज्ञानिनोऽन्यत्वाद् वर्द्धमानादेः, द्वयमिह ज्ञानहे जीव:, अधिकृतवस्तु च, न चैतदप्येकरूपमेवेत्याह- अधिकृतवस्तु अनेकस्वभावतया तथानियतस्य विचित्रत्वात्। ततः किमित्याहज्ज्ञान्यपेक्षया ऋषभवर्द्धमानादिज्ञान्यपेक्षया, तत्र तत्र सिद्धार्थ ऋजुपालिकातीरादौ क्षेत्र, तदा तदा सुषमदुःषमादुःषमसुषमान काले, अविकलात्मप्राहकज्ञानाभिव्यजकात्मकत्वेन एवंभूतेना
Page #169
--------------------------------------------------------------------------
________________
स्वोपज्ञटीकासहिता।
१७७ एकत्र ऋषभादिज्ञाने,कात्योपयोगित्वात् सामस्त्येनोपयोगित्वादिति।न चेत्यादि । न चैवमुक्तेन प्रकारेण, अपरस्याऽपि वर्धमानादिज्ञानस्य,तद्भावापत्तिः ऋषभादिज्ञानत्वापत्तिः । कुत इत्याह-अधिकृतवस्तुनः अनेकस्वभावतया तथानियतस्य उक्तवद् विचित्रस्य, तथात्वविरोधात् तत्तज्ज्ञान्यपेक्षया इत्यादित्वविरोधात् । तथाहि-ऋजुपालिकातीरादौ दुष्षम-सुषमान्ते च वर्धमानादिज्ञान्यपेक्षया, अविकलात्मग्राहकज्ञानाभिव्यजकात्मकत्वेन एव एकत्र ऋषभादिज्ञाने, अस्य कात्स्न्योपयोग इति वर्धमाजादिज्ञानाऽभावे तथात्वविरोधः । एवमन्यापेक्षयाऽप्यतिसूक्ष्मधिया भावनीयमेतद् अतिगहनत्वादिति । एकान्तेत्यादि । एकान्तकस्वभाववस्तुवादिनस्तु बौद्धादेः, एष दोषः-अनन्तानां तदविकलात्मग्राहकज्ञाना|ऽभावलक्षण अनिवारितप्रसर एव । कथमित्याह- तद्भदनिबन्धना अनन्तज्ञानभेदनिबन्धना, अधिकृतवस्तुवैचित्र्यानुपपत्तेः, उक्तवद् अधिकृतवस्तुवैचित्र्यमेवाऽत्रकारणमिति । दूषणान्तरमाह-किश्चेत्यादिना। किश्च निर्विकल्पकेनाऽपि प्रत्यक्षेण भवदभिमतेन, एकस्वभावे एकान्तक वभावे, वस्तुनि भवदभिमते परिच्छिन्ने सति कथं नाऽनेकप्रमाणवादहानिरिति चिन्त्यम् । प्रमेयान्तराभावेन प्रमाणान्तराभावाद् हानिरेवेत्यर्थः ।
राभिप्रायमाह-प्रत्यक्षस्य निर्विकल्पकस्य, अनिश्चयरूपत्वात् कारणाद् चिन्तितमेवैतद् ॥ | यदुक्तं भवता न च एतद् अपूर्वमिति उपदर्शयन्नाह
आह च न्यायवादी-न प्रत्यक्ष कस्यचिद् निश्चायकम् , तद् विमपि गृह्णाति तं न निश्चयेन, किं तर्हि ?, तत्मतिभासेन । तच्च पत्रांशे पाश्चात्य निश्चयं जनयितुं शक्नोति तत्रैव प्रामाण्यमात्मसात्कुरुते, यत्र तु भ्रान्तिकारणसद्भावाद् अशक्तं तत्र प्रमाणान्तरं न्याप्रियते, समारोपव्यवच्छेदार्थमितिभ्रान्तिव्युदासाय प्रमाणातरप्रवृत्तिरिति ॥ ___ आह च न्यायवादी धर्मकार्तिर्वार्तिके, किमाह ?, इत्याह- न
१ ज्ञानवादी, इत्यपि पाठः ।
२३
Page #170
--------------------------------------------------------------------------
________________
१७८
अनेकान्तजयपताका
प्रत्यक्षं कस्यचित् पदार्थस्य निश्चायकम् , तद् यमपि पदार्थ गृहानि तं न निश्चयेन 'एवमेतद्' इत्येवं रूपेण, किंतर्हि ?, तत्प्रतिभासेन आदर्श वत् गृह्यमाणाऽऽकारेण, तच्च एवंभूतं प्रत्यक्षम् , यत्रांशे वस्तुगते, पाश्चात निश्चयं जनयितुं शक्नोति नीलादौ, तत्रैवांऽशे प्रामाण्यमात्मसाकु रते नीलादौ । यत्र तु अंशेऽनित्यादौ, भ्रान्तिकारणसद्भावात कारणात् । अशक्तं पाश्चात्यं निश्चयं जनयितुम् , तत्रांशे प्रमाणान्तरं व्याप्रियतेऽना मानम् । किमर्थमित्याह- समारोपव्यवच्छेदार्थ परिकल्पितसमारो, पव्यवच्छेदार्थम् , इत्येवंभ्रान्तिव्युदासाय समारोपव्युदासाय, प्रमाणा न्तरप्रवृत्तिः अनुमानप्रवृत्तिः ।।
इत्येवं पूर्वपक्षमाशङ्कथाह- .
अत्रोच्यते- यदुक्तम्-"न प्रत्यक्ष कस्यचिद् निश्चायकम्" इति, अत्र कोऽयं निश्चयो नाम ?, स्वालम्बनाऽध्यवसाय एवेति चेत् , नाऽयं तदाकारोत्पत्तिव्यतिरेकेण । अस्त्वेवं ततः को दोषः?; इति चेत्, नासौ न प्रत्यक्षेऽपि, कथमनिश्चायक तत् ?; वस्तुमात्रप्रतिभासनाद् इति चेत् , अवस्तुप्रतिभासी ता निश्चयः। न, तत्रैव दृढः प्रत्यय इति चेत्, कथं तदाकारश न्यस्तत्रेति । किञ्च किं पुनरस्य दाळम् , किं निर्विकल्पकसम नन्तरत्वम् ?, किं वा वासनाजन्म?, उताऽध्यवसिततद्भावता आहोस्वित् ध्वनियोगः?। न तावद् निर्विकल्पकसमनन्तरत्वम्। तदपरनिर्विकल्पकेन व्यभिचारात् निर्विकल्पकसमनन्तरा निर्विकल्पकोत्पत्तेः । नाऽपि वासनाजन्म, निर्विकल्पकस्या तत उत्पत्तेः, तत्-तत्समनन्तराऽव्यतिरेकात् । नापि अध्यव सिततद्भावता, अतदाभेन तत्परिच्छेदाऽयोगात् तत्त्वतस्तदनु पपत्तेः । नाऽपि ध्वनियोगः, तत्तादात्म्योद्ययागतस्तदसिद्ध तद्युक्तस्यापि तदाकारोत्पत्तिप्रधानत्वादिति । न च सैव के वला. अनिश्चयः, स्वालम्बनपरिच्छेदात् , न च न सोऽपि
१ प्रत्यक्षामिति ।
Page #171
--------------------------------------------------------------------------
________________
स्वोपज्ञटीकासहिता।
१७९ सत्त्वतः तत्स्वभावतया ततस्तद्बोधोपपत्तेः। न च मूककल्पत्वाद् नेति, बोधस्याऽनिश्चयत्वविरोधात् । न चाऽस्पष्टतया नेति, तस्याः स्पष्टताऽभ्युपगमादिति ॥
अत्रोच्यते- यदुक्तमित्यादि । यदुक्तमादौ-'न प्रत्यक्षं कस्यचिद् निश्चायकम्' इति । अत्र व्यतिकरे कोऽयं निश्चयो नाम ?, स्वाऽऽलम्बनाध्यवसायः स्वविषयपरिच्छेद एवेति चेत् । एतदाशङ्कयाह- नायं यथोदिताध्यवसायः, तदाकारोत्पत्तिव्यतिरेकेण स्वालम्बनाऽऽकारोत्पत्तिव्यतिरेकेण, अस्त्वेवं भवतु स्वालम्बनाकारोत्पत्तिरेव निश्चयः, ततः को दोष इति चेत् ?। एतदाशङ्कयाह- नासौ स्वालम्बनाकारोत्पत्तिः, न प्रत्यक्षेऽपि, किं तर्हि अस्त्येव । अतः कथमनिश्चायकं तत् प्रत्यक्षम् ?, भवदभिप्रेतनिश्चयलक्षणोपपत्तेनिश्चायकमेव इत्यर्थः । वस्तुमात्रप्रतिभासनाद् अनिश्चायकं तद् इति चेत् । एतदाशङ्कयाऽऽह- अवस्तुप्रतिभासी तर्हि निश्चयः ततोऽनिश्चय इति गर्भः । नाऽवस्तुप्रतिभासी, किंतु तत्रैव वस्तुनि, दृढः प्रत्ययो निश्चयः इति चेत् । एतदाशङ्कयाहकथं तदाकारशून्यो वस्त्वाकारशून्यस्तन्मात्रप्रतिभासनेन, तत्रेति वस्तुनीति । अभ्युञ्चयमाह-किश्चेत्यादिना । किं पुनरस्य प्रत्ययस्यदायम्?, किं निर्विकल्पकसमनन्तरत्वम्- निर्विकल्पकं समनन्तरो यस्येति विग्रहस्तद्भावो निर्विकल्पकसमनन्तरत्वं तत्? । किंवा वासनाजन्म वासनातो जन्म तत् ? । उताऽध्यसितसद्भावता- अध्यवसितः परिच्छिन्नः तद्भावो वस्तुभावो येनेति विग्रहस्तद्भावोऽध्यवसितद्भावता ?। आहोस्वित् ध्वनियोगः शब्दसम्बन्धः प्रत्ययदायमिति ?। एवं विकल्पचतुष्टयमु. पन्यस्याऽऽह-न तावद् निर्विकल्पकसमनन्तरत्वं प्रत्ययदायम् । कुतइत्याह- तदपरनिर्विकल्पकेन व्यभिचारात्- तस्माद् अधिकृतप्रत्ययाद्, अपरं च तनिर्विकल्पकं च तेनाऽनैकान्तिकत्वात् । एतत्प्रकटनायैआऽऽह- निर्विकल्पकसमनन्तरात् सकाशात् , प्रबन्धेन निर्विकल्पकोत्पत्तेः । नाऽपि वासनाजन्म प्रत्ययदाढर्थम् । कुत इत्याह-निर्विकल्पकस्याऽपि ततो वासनातः, उत्पत्तेः कारणात् , उत्पत्तिश्च तत्-तत्स
Page #172
--------------------------------------------------------------------------
________________
१८०
अनेकान्तजयपताका
मनन्तराऽव्यतिरेकात्- तस्या वासनायाः तत्समनन्तराऽव्यतिरेका निर्विकल्पकसमनन्तराव्यतिरेकात् , समनन्तराञ्च अविकल्पकजन्मति भावना । नाऽप्यध्यवसिततद्भावता प्रत्ययदाढर्यम् । कुत इत्याह अतदाभेन अवस्त्वाकारेण ज्ञानेन, तत्परिच्छेदाऽयोगाद् वस्तुपरि च्छेदाऽयोगात् , अयोगश्च- तत्त्वतः परमार्थतः, तदनुपपत्तेरध्यवसित तद्भावतानुपपत्तेः, नाऽतदाभं तत्परिच्छेदकम् , नचाऽतो न, अध्यवसित तद्भावतेतिभावनीयम् । नाऽपि ध्वनियोगः प्रत्ययदाढर्यम् । कुत इत्याह तत्तादात्म्याद्यऽयोगतः तस्य प्रत्ययस्य, तेन ध्वनिना, तादात्म्याचा योगत:- तादात्म्यमेकत्त्वम् आदिशब्दात् तदुत्पत्तिग्रहः, तदसि । र्ध्वनियोगासिद्धेः, तथा तयुक्तस्याऽपि ध्वनियुक्तस्याऽपि प्रत्ययस्येति प्रक्रमः, तदाकारोत्पत्तिप्रधानत्वाद् विषयाकारोत्पत्तिप्रधानत्वादिति । न चेत्यादि । न च सा एव तदाकारोत्पत्तिः, केवला ध्वनियोगरहिता अनिश्चयोऽपरिच्छेदः । कुत इत्याह- स्वालम्बनपरिच्छेदात स्वविषयपरिच्छेदात् , केवलयाऽपि न च न सोऽपि स्वालम्बनपरि च्छेदः, तत्वतः परमार्थेन । कुत इत्याह- तत्स्वभावतया स्वालम्बी नपरिच्छेदस्वभावतया, ततः स्वालम्बनात् , तद्वोधोपपत्तेर्विवक्षिता लम्बनबोधोपपत्तेः, अन्यथा तदुत्तरक्षणवत् ततो भावेऽपि अबोधरूपते वेति हृदयम् । न चेत्यादि । न च मूककल्पत्वात् केवलायास्तदा कारोत्पत्तेरिति प्रक्रमः, नेति न निश्चयरूपता । कुत इत्याहन बोधस्याऽनिश्चयत्वविरोधात बोधो निश्चयोऽवगम इति तुल्या ऽर्थाः । न चेत्यादि । न चाऽस्पष्टतया कारणेन, नेति न निश्चय रूपता, केवलायास्तदाकारोत्पत्तेरिति प्रक्रमः । कुत इत्याह- तस्या तदाकारोत्पत्तेः, स्पष्टताभ्युऽपगमादिति ॥
यञ्चोक्तम्-"तच्च यत्रांऽशे पाश्चात्यं निश्चयं जनायितुं शक्नोति तत्रैव प्रामाण्यमात्मसात्कुरुते"। एतदप्ययुक्तम् , तस्य निरंशत्वा भ्युपगमात् , अन्यथा परसिद्धान्तापत्तिः। व्यावृत्तयोंऽशा इति चेत । न, तासां परमार्थतस्तदव्यतिरिक्तत्वेन तन्मात्ररूपत्वाव।
Page #173
--------------------------------------------------------------------------
________________
स्वोपज्ञटीकासहिता।
१८१ तस्यैव त्रैलोक्यव्यावृत्त्येकस्वभावत्वादिति । कथं च निश्चयस्य विकल्पात्मकत्वात् तत्त्वतो निर्विषयत्वात् तद्विषयता युक्ता ?, येनोच्यते “यत्रांशे पाश्चात्यं निश्चयं जनयितुं शक्नोति" इति । स ततो भवतीति तन्निश्चय इति चेत् । न, अतिप्रसङ्गात् नीलादि पश्यतः कचिद् भिन्नजातीयविकल्पाभ्युपगमात् तस्य च ततो भावात् , अन्यथा अहेतुकत्वापत्तेः। संवादको निश्चय इति चेत् । न, अप्राप्यदेशगतजलादिनिश्चयेन व्यभिचारात् । न च संवादनशक्तिरेव संवादनमित्यदुष्टम् , शक्तेरप्रत्यक्षत्वात् कार्यमन्तरेण तद्भावानवगतः, न च ततोऽनन्या शक्तिरिति तदवगतावेव तदवगतिः, तदाभासतोऽप्रवृत्तिप्रसङ्गात् तच्छक्त्यवगमापत्तेः, न च तदाभासत्वतो न तच्छत्यवगमः, तेनाऽपि आत्मवेदनात् तस्याश्च तदनन्यत्वात् , न च सम्यग् निश्चयशक्तरेवाऽवगतिरिति युक्तम्, तत्त्वतो वचनमात्रत्वात् तथाप्रतीत्यभावाद् इति । एवं च तत्रैव प्रामाण्यमात्मसात्कुरुत इति वचनमात्रम् ।।
यञ्चोक्तं पूर्वपक्ष ग्रन्थे एव- 'तच्च यत्रांशे पाश्चात्यं निश्चयं जनयितुं शक्रोति तत्रैव प्रामाण्यमात्मसात्कुरुते'। एतदऽप्ययुक्तम् । हत इत्याह- तस्य प्रक्रमात् प्रमेयवस्तुनः, निरंशत्वाऽभ्युपगमात् , न्यथा एवमनभ्युपगमे,परसिद्धान्तापत्तिस्तत्सांशतापत्त्या इत्यर्थः । व्यात्तयोंऽशा इति चेत् , तथाहि- त्रैलोक्यव्यावृत्तं तदिति । एतदाशयाह- न, तासां व्यावृत्तीनाम् , परमार्थतस्तदव्यतिरिक्तत्वेन वस्त्वयतिरिक्तत्वेन हेतुना, तन्मात्ररूपत्वाद् वस्तुमात्ररूपत्वात् । एतदेव स्पष्टआह- तस्यैव वस्तुनः, त्र्यैलोक्यव्यावृत्तिरेव एकः स्वभावो यस्य तत् पति विग्रहस्तद्भावस्तस्मादिति । दोषान्तरमाह- कथश्चेत्यादिना।
च निश्चयस्य विकल्पात्मकत्वात् कारणात् , तत्त्वतः परमार्थेन विषयत्वात् , तद्विषयता वस्तुविषयता युक्ता, येनोच्यते 'यत्रांशे पायं निश्चयं जनयितुं शक्नोति' इति, नहि एतद् अतद्विषयत्वे चारु । ति इत्यादि। स निश्चयः, ततो वस्तुनः, भवतीति कृत्वा
Page #174
--------------------------------------------------------------------------
________________
१८२
अनेकान्तजयपताका
तन्निश्चयो वस्तुनिश्चय इति चेत् । एतदाशङ्कयाह- न, अतिप्रसाद एनमेवाह- नीलादि पश्यतः प्रबन्धेन क्वचिद् अर्थान्तरावर भिन्नजातीयविकल्पाऽभ्युपगमात् स्मार्तपीतादिविकल्पाभ्युपगमा तस्य च विकल्पस्य, ततो नीलादिदर्शनाद् भावात् । अन्यथा ए मनभ्युपगमे, अहेतुकत्वापत्तेस्तस्याऽतिप्रसङ्ग इति। निश्चयमेवाऽधिको प्रकारान्तरमाह- संवादको निश्चय इति चेत् । एतदाशङ्कथाहअप्राप्यदेशगतजलादिनिश्चयेन व्यभिचारात् स हि निश्चयोऽ वादकश्च । न च संवादनशक्तिरेव संवादनमित्यदुष्टम् , किं तु दुष्टमेव कुत इत्याह-शक्तरप्रत्यक्षत्वात् । यदि नामैवं ततः किमित्याह-कार्य मन्तरेण संवादनादिरूपम् , तद्भावानगतेःशक्तिभावाऽनवगतेः । न चे त्यादि । न च ततो निश्चयात् , अनन्या शक्तिरिति कृत्वा तदवगताके निश्चयावगतावेव, तदवगतिः शक्त्यवगतिः । कुत इत्याह-तदाभासद निश्चयाभासतः । किमित्याह-अप्रवृत्तिप्रसङ्गात् । प्रसङ्गश्च- तच्छक्त वगमापत्तेः तदाभासशक्त्यवगमापत्तेः । न चेत्यादि । न च तदाभासत्व कारणात् ,न तच्छक्त्यवगमो न तदाभासशक्त्यवगमः,किन्तु अवगम ए कुत इत्याह- तेनाऽपि तदाभासेन,आत्मवेदनात् कारणात् । यदि नामै ततः किमित्याह- तस्याश्च तदाभासशक्तेः, तदनन्यत्वात् तदामा साऽनन्यत्वात् । न चेत्यादि । न च सम्यग् निश्वयशक्तेरेवाऽवगति रिति युक्तम् । कुत इत्याह- तत्वतो वचनमात्रत्वात् वचनमात्रत्वं तथा सम्यग् निश्चयशक्त्यवगमरूपेण प्रतीत्यभावादिति । एवं च यथो तनीत्या, तत्रैव प्रामाण्यमात्मसात्कुरुते इति वचनमात्रं निरर्थकमित्यर्थ
इतश्च वचनमात्रम्-“यत्र तु भ्रान्तिकारणसद्भावाद् अशत तत्र प्रमाणान्तरं व्याप्रियते" इत्याद्युपन्यासात् । तथाहि यदि तत्कचिद् अशक्तं पाश्चात्यं निश्चयं जनयितुमेवं ती अशक्तमेव, सर्वथैकत्वात् एकस्य चैकस्वभावत्वेन शक्तत्वा ऽशक्तत्वविरोधात् , कथश्चिद् अविरोधेऽप्यभ्युपगमविरोधात
१ अन्तरेणेति शेषः ।
Page #175
--------------------------------------------------------------------------
________________
स्वोपज्ञटीकासहिता।
१८३ भिमांशविषयनिश्चयभावाभावयोस्तु न तस्य किञ्चिद् इति कथं कचिद् प्रामाण्यमात्मसात्कुरुत इति ? । नैवं समारोपव्यवच्छेदार्थमपि प्रमाणान्तरप्रवृत्तिः, न्यायतः समारोपस्यैवाऽयोगात् , सजातीयेतरविविक्तैकस्वभावस्य वस्तुन इन्द्रियज्ञाने प्रतिभासनात् , रूपादिनिश्चयज्ञानवत् तन्निबन्धननिश्चयज्ञानानां तमन्तरेजैव प्रवृत्तिसम्भवात् । तथाहि-यद् रूपादिदर्शनानन्तरमलिङ्गं निश्चयज्ञानं भवति तत्कथमसति समारोपे भवत् तद्यवच्छेदविषयम् ॥
इतश्च वचनमात्रम्-“यत्र तुभ्रान्तिकारणसद्भावाद् अशक्तं तत्र प्रमाणान्तरं व्याप्रियते” इत्यागुपन्यासात् पूर्वपक्षग्रंथ एव । इहैव भावनार्थमाह- तथाहीत्यादिना । तथाहि- यदि तत् प्रक्रमाद् अविकल्पम् , कचिदशक्तं पाश्चात्यं निश्चयं जनयितुम् , एवं तर्हि अशक्तमेव एकान्तेन । कुत इत्याह- सर्वथैकत्वात् कारणात्, एकस्य च वस्तुनः, एकस्वभावत्वेन हेतुना, शक्तत्वाऽशक्तत्वविरोधात् । तथाहि- एकमेकस्वभावं यदि शक्तं शक्तमेव, अथाऽशक्तमशक्तमेवेति भावनीयम् । कश्चिद् अविरोधेऽपि निमित्तभेदेन शक्तत्वाऽशक्तत्वस्य, अभ्युपगमविरोधाद् अनेकान्तवादापत्त्या। अथ भिन्ना अस्यांऽशा इति। एतद् व्यपोहायाऽऽह-भिन्नांशेत्यादि । भिन्नौ च तो प्रत्यक्षादिति प्रक्रमः, शंशी च भिन्नांशौ, तो विषयौ ययोस्तौ भिन्नांशविषयौ भिन्नांशविषयौ बतौ निश्चयौ चेति विग्रहः, तयो वाऽभावौ, तयोः, पुनर्न तस्य प्रत्यक्षस्य, किश्चिद् इति एवम् , कथं कचित् प्रामाण्यमात्मसात्कुरुतति। नैवमित्यादि । नैवमुक्तेन प्रकारेण, समारोपव्यवच्छेदार्थमपि माणान्तरप्रवृत्तिः । कुत इत्याह- न्यायतो न्यायेन, समारोपस्यैव योगात् , अयोगश्च सजातीयेतरविविक्तैकस्वभावस्य वस्तुन इन्द्रियने प्रतिभासनात् कारणात् , रूपादिनिश्चयज्ञानवदिति निदर्शनम् । बन्धननिश्चयज्ञानानां अधिकृतवस्तुनिबन्धननिश्चयज्ञानानाम् , त१ शत्रन्तम् ।
Page #176
--------------------------------------------------------------------------
________________
१८४
अनेकान्तजयपताका
मन्तरेण समारोपमन्तरेणैव, प्रवृत्तिसंभवात् कारणात् , न समारोप वच्छेदार्थमपि प्रमाणान्तरप्रवृत्तिः, अनित्यत्वादिनिश्चयानामपि समापसे पव्यवच्छेदमन्तरेणैव भावप्रसङ्गादित्यर्थः । अधिकृतार्थभावनायक ऽऽह- तथाहीत्यादि । तथाहि इति उपप्रदर्शने । यद् रूपादिद नाऽनन्तरम्- अव्यवधानेन, अलिङ्ग लिङ्गरहितम् , निश्चयज्ञानं भव प्रक्रमाद् रूपादिविषयमेव, तत्कथमसति समारोपे अरूपादिविषा भवद् उत्पद्यमानम् , तद्व्यवच्छेदविषयं समारोपव्यवच्छेदविषयम् , नै समारोपाभावेन तब्यवच्छेदाऽयोगादिति ॥
स्यादेतद्, असमारोपविषये भावात् तद्व्यवच्छेदविषयम् यत्र हि अस्य समारोपो भवति यथा स्थिरः सात्मक इति का न तत्र निश्चयो भवति, तद्विवेक एव चान्यापोह इति तर्दा तन्मात्राऽपोहगोचरमेव,न वस्तुस्वभावनिश्चयात्मकमिति । एतदा यत्किञ्चित् , वाङ्मात्रत्वात् ॥
स्यादेतद् असमारोपविषये भावात् तब्यवच्छेदविषयमितिः समारोपस्य विषयः समारोपविषयः न समारोपविषयोऽसमारो विषयः तस्मिन् समारोपशून्य इत्यर्थः, भावाद् उत्पत्तेः कारणा अधिकृतनिश्चयज्ञानस्य, तद्व्यवच्छेदविषयीमति । एतद्भावना वाह- यत्र पदार्थे, हिशब्दोऽवधारणे, अस्य पुरुषस्य, समारो भवति, यथा स्थिरः सात्मक इति वायं पदार्थः । न तत्र निश्वर भवति अनित्यत्वादिनिश्चयस्तद्याथात्म्यविषयः, तद्विवेक एव । समारोपविवेक एव च, अन्यापोहः तद्व्यवच्छेदः, इति एवम् , तदा अधिकृतनिश्चयज्ञानम् , तन्मात्रापोहगोचरमेव समारोपापोहमात्रगोच मित्यर्थः । न वस्तुस्वभावनिश्चयात्मकं न स्वलक्षणनिश्चायकमिति के ऽर्थः । एवं पूर्वपक्षमाशङ्कयाह- एतदपि यत् किञ्चिद् असारम् , कुर इत्याह- वाङ्मात्रत्वात् , वाच्याऽर्थशून्यत्वात् ।।
यत्तावदुक्तम्-"असमारोपविषये भावाद्" इत्यत्र समारी पाभावेऽम्य उत्तिरुक्ता. अयं च समारोपाभावो यदि प्रसज्ज्य
Page #177
--------------------------------------------------------------------------
________________
स्वोपज्ञटीकासहिता
१८५
तिषेधरूपः, न कचिदस्य वृत्तिस्तस्य तुच्छत्वात्, तत्त्वत इत्थमेव इदमिति चेत्, कथमतुच्छप्रतिभासं रूपादिनिश्चयज्ञानम् ?, तुच्छप्रतिभासमेव तद् इति चेत्, अनुभवविरोधः- रूपादिप्रतिभासस्य वेद्यमानत्वात्, अन्यथा तदनाकारत्वेन वेदनाऽयोगादिति । अथ पर्युदासरूपः, कथं न वस्तुस्वभावनिश्चयात्मकं तत् ?, तत्रैव प्रवृत्तेन तत् तदा इति चेत्, कथमसमारोपविषयेऽस्य भावः ?, अयमस्यैव आत्मा न त्वन्य इति चेत्, स्वात्मन एव तदितरविकलस्य तवकल्पनायामतिप्रसङ्गः - स्खलक्षणज्ञानस्याऽपि तत्त्वेन तद्भावापत्तेरिति ॥
"
एतदेव दर्शयति- यत्तावदुक्तमित्यादिना । तत्र यत्तावदुक्तम्पूर्वपक्ष ग्रन्थे “ असमारोपविषये भावाद् " इत्यत्र ग्रन्थे, समारोषाऽभावे अस्य निश्चयस्य वृत्तिरुक्ता, एतद् ऐदंपर्यम् । यदि नामैवं ततः किमित्याsse - अयं च समारोपाभावो यदि प्रसज्ज्यप्रतिषेधरूपः समारोपाऽभवनमात्रलक्षणः 1 ततः किमित्याह - न कचिद् अस्य निश्चयस्य वृत्तिः । कुत इत्याह- तस्य प्रसज्ज्यप्रतिषेधरूपस्य समारोपाऽभावस्य तुच्छत्वाद् असत्त्वादित्यर्थः तत इत्यादि । तत्त्वतः परमार्थेन, इत्थमेवेदं न कचिद् अस्य वृत्तिः इति चेत् । एतदाशङ्क्याह- कथमतुच्छप्रतिभासं रूपादि वस्त्वाऽऽकारं रूपादिनिश्चयज्ञानम् ? । तुच्छेत्यादि । तुच्छप्रतिभासमेव तद् रूपादिनिश्चयज्ञानम् इति चेत् । एतदाशङ्क्याहअनुभवविरोधः । एवं कथमित्याह - रूपादिप्रतिभासस्य रूपादिनिश्चयज्ञाने वेद्यमानत्वात्, अन्यथा एवमनभ्युपगमे, तस्य पादिनिश्चयज्ञानस्य, अनाकारत्वेन हेतुना । किमित्याह- वेदनाsमोगाद् तद् हि अनाकारं कस्य वेदनम् ? इति भावनीयम् । एवं सज्ज्यपक्षे दोषमभिधाय पक्षान्तरे दोषमभिधातुमाह- अथ पर्युसरूपः प्रस्तुतः समारोपाभावः 1 एतदाशङ्क्याह- कथं वस्तु स्वभावनिश्चयात्मकं तद् रूपादिनिश्चयज्ञानम् ?, तत्रैव
२४
"
Page #178
--------------------------------------------------------------------------
________________
१८६
अनेकान्तजयपताका
रूपादावेव प्रवृत्तेः, न तद् रूपादि, तदा निश्चयज्ञानकाले, इति चेत् । एतदाशङ्कयाह- कथमसमारोपविषये समारोपाऽभावे पर्युदासास्मके, अस्य रूपादिनिश्चयज्ञानस्य, भावः । अयमित्यादि । अयम् । असमारोपविषयः, अस्यैव अधिकृतनिश्चयज्ञानस्य आत्मा, न तु अन्यो व्यतिरिक्तः, इति चेत् । एतदाशङ्क्याह- स्वात्मन एव ज्ञानसं बन्धिनः, तदितरविकलस्य विषयविकलस्य, तत्त्वकल्पनायां विषया त्वकल्पनायाम् , उक्तनात्या। किमित्याह- अतिप्रसङ्गः । कथमित्याह स्खलक्षणज्ञानस्याऽपि तत्त्वेन तदितरविकलत्वेन हेतुना, तद्भावाप तेरसमारोपविषयभावापत्तेः- निश्चयज्ञानत्वापत्तरित्यर्थः । ..... यच्चोक्तम्- “यत्र हि अस्य समारोपो भवति यथा स्थिरः सा त्मक इति वा, न तत्र निश्चयो भवति" एतदप्ययुक्तम्, परमार्थेन, तस्याऽस्थिरानात्मकस्यैव ग्रहणात् तत्र रूपादाविव समारोप प्रत्ययोगात् । स्यादेतद्, नहि तथा गृहीतोऽपि भावस्तथैव प्रत्यः भिज्ञायते, कचिद्भेदे व्यवधानसंभवात् यथा शुक्तेः शुक्तितो यत्र तु प्रतिपत्तुओन्तिनिमित्तं नास्ति तत्रैव अस्य दर्शनाविशेषेड़ पि स्मार्टो निश्चयो भवति, समारोप-निश्चययोर्बाध्यबाधकभावा इति । एतदप्यसत्, निरंशे तथा गृहीते कचिद् व्यवधानं कचिद् न। इत्यपन्यायत्वाद् भेदाभावेन तत्त्वत एकनिश्चयज्ञानप्रसङ्गात् , न खलु रूपे एव तदेकस्वभावनिबन्धनानि भूयांसि निश्चयज्ञानानि । • यच्चोक्तम् - अधिकृतपूर्वपक्षग्रन्थे-“यत्र हि अस्य समारोपो भी वति यथा स्थिरः सात्मक इति वा, न तत्र निश्चयो भवति" । एतदधि अयुक्तम् । कथमित्याह- परमार्थेन वस्तुस्थित्या, तस्य पदार्थस्य, जा स्थिराऽनात्मकस्यैव ग्रहणाद्, नान्यत् तस्य रूपमिति कृत्वा । तता किमित्याह- तत्र अस्थिरत्वादी, रूपादाविव समारोपप्रवृत्यऽयोगाद्र नहि रूपे रूपतया गृहीते. समारोपः । स्यादेतदित्यादि। स्यादेत नहि तथा स्वरूपेण, गृहीतोऽपि भावः पदार्थः, तथैव प्रत्यभिज्ञा यते निश्चयज्ञानेन गम्यते । कथमित्याह- कचिद् भेदे भावनि
Page #179
--------------------------------------------------------------------------
________________
स्वोपज्ञटीकासहिता।
१८७ शेषे, व्यवधानसंभवात् प्रत्यभिज्ञानस्य समारोपेण इति भावः । निदर्शनमाह- यथा शुक्तेः शीप्रकद्रव्यस्य, शुक्तित्वे व्यवधानसंभव: प्रत्यभिज्ञानं प्रति रजतसमारोपेण, यत्र तु भावभेदे पदार्थे, प्रतिपत्तः पुरुषस्य, भ्रान्तिनिमित्तं सादृश्यं नास्ति, तत्रैव भावभेदे, अस्य पुः रुषस्य, दर्शनाऽविशेषेऽपि-उभयत्र यत् तत्त्वं तद् दृश्यते इति दर्शना ऽविशेषस्तस्मिन्नपि सति, स्मार्तो निश्चयो भवतीति गृहीतग्राही । किमेतदेवमित्याह- समारोप-निश्चययोर्बाध्यबाधकभावात् समारोपो बाध्यः, निश्चयो बाधकः इति। पूर्वपक्षमाशङ्कयाह- एतदपि अनन्तरोदितम् , असद् अशोभनम् । कुत इत्याह-निरंश इत्यादि । निरंशे वस्तुनि, तथा निरंशतया गृहीते, क्वचिद् व्यवधानं कचिद् न इति अपन्यायत्वाद् एतद् अपि असत् , अपन्यायत्वं च भेदाऽभावेन हेतुना निरंशत्वेन, तत्त्वतः परमार्थेन, एकनिश्चयज्ञानप्रसङ्गात् निबन्धनैकत्वेन । एतद्भावनायैवाह-न खल्वित्यादि । न खलु नैव, रूपे एवं आलम्बने, तदेकस्वभावनिबन्धनानि तद् रूपमेव एकः स्वभावो निबन्धनं येषां तानि तथा, भूयांसि प्रभूतानि, प्रक्रमाद् जातिभेदमधिकृत्य निश्चयज्ञानानि रूप-रसादिलक्षणानि, किं तर्हि प्रभूतानि अपि व्यक्तिभेदाऽपेक्षया रूपज्ञानानि एव ?, एवं भेदाऽभावेन तत्त्वतः एका निश्चयज्ञानप्रसङ्गः॥ . किंच, असौ भावः स्वमत्यभिज्ञानजनने व्यवधानसम्भवखभावो वा स्याद्, न वा?, उभयथाऽपि कचिद् भेदे व्यवधानसंभवाद्, इत्यपि अयुक्तम् ,यथाक्रमं सर्वत्रैव तत्सम्भवाऽसम्भचा. इत्तेः,अन्यथा एकस्वभावत्वविरोधात् । अतन्निबन्धनत्वे च निश्चनां न तेभ्यस्तत्तत्वव्यवस्था,इत्यफला तत्कल्पना,एवं च “यथा तेः शुक्तित्वे" इत्यनुदाहरणमेव, भवनीत्या तदयोगात शुक्तिया अपि अक्षज्ञानेन नीलादिवत् तत्त्वेनैव ग्रहणात् ॥ ...: दूषणान्तरमाह- किंच, असौ भावः पदार्थः, स्वप्रत्यभिज्ञानजस्वनिश्चयज्ञानजनने, व्यवधानसंभवस्वभावो वा स्याद् न वा ?,
Page #180
--------------------------------------------------------------------------
________________
१८८
अनेकान्तजयपताका
इति द्वयी गतिः । उभयथाऽपि पक्षद्वयेऽपि, कचिद् भेदे व्यवधानसंभ इति अयुक्तम् । कुत इत्याह- यथाक्रमं यथासंख्यम्, सर्वत्रैव चिद् इत्येतद्व्युदासेन सर्वत्रैव वस्तुनि, तत्संभवाऽसंभवापत्तेःव्यवधानस्य, संभवश्चाऽसंभवश्च तत्संभवाऽसंभ्रवौ, तयोरापत्तिस्त एतद् उक्तं भवति- यदि असौ भावः स्वप्रत्यभिज्ञानजनने व्यवधा संभवस्वभावस्ततस्तत् संभवत्येव सर्वत्र व्यवधानम्, न चेद्, न संभ त्येव इति हृदयम् । इत्थं चैतदङ्गीकर्तव्यमित्याह- अन्यथा एक स्वभावत्वविरोधात् एकस्वभावो हि स्वप्रत्यभिज्ञानजनने व्यस धानसंभवैकस्वभावः, तदसंभवैकस्वभावो वा, अन्यथा तचित्र स्वभावता एव इति भावनीयम् । अतन्निबन्धनत्वे च विवि तभावाऽनिबन्धनत्वे च निश्चयानाम् । किमित्याह - न तेभ्यं निश्चयेभ्यः, तत्तत्त्वव्यवस्था विवक्षितभावतद्भावव्यवस्था, इति एवम् अफला निष्प्रयोजना, तत्कल्पना प्रक्रमाद् व्यवधान संभवकल्पन एवं च सति “यथा शुक्तेः शुक्तित्वे" इत्यनुदाहरणमेव । कथमित्याह भवन्नीत्या त्वदर्शनानुसारेण तदयोगात् प्रक्रमाद् व्यवधान संभव
योगात्, अयोगश्च शुक्तिकाया अपि अक्षज्ञानेन इन्द्रियज्ञानेन, नी लादिवद् इति निदर्शनम्, तत्वेन एवं शुक्तिकात्वेन एव ग्रहणात् ॥
इत्थमेव इदमिति चेत् कथं व्यवधानसम्भवः ?, ततस्त निश्रयानुत्पत्तेरिति चेत्, सैव तावत्किमिति चिन्त्यम् ?, निश्र यान्तरोत्पादाद् इति चेत्, कथमनुभवान्तराद् निश्चयान्तरोत्पादः तत्-तत्स्वभावत्वाद् इति चेत्, अनुभवान्तरवद् न तस्य तच्च तवे वा ततस्तदुत्पादे व्यवहारनियमोच्छेदः, एवं हि नीलानु भवजन्योऽपि तन्निश्वयः पीताद्यनुभवस्य तत्स्वभावतया तज्जन्य sपि सम्भाव्यत एक, एवमन्यत्राऽपि इति न न्यायविदस्ततो व्य हारे नियमतः प्रवृत्तिर्युक्ता सर्वत्राऽऽशङ्कानिवृत्तेरिति, न अनिवृति सर्वत्र बीजाभावाद् वैधम्र्म्येण साधर्म्याऽसिद्धेः साधर्म्या समारोप इति ॥
-
**
Page #181
--------------------------------------------------------------------------
________________
स्वोपज्ञटीकासहिता।
१८९
इत्थमेव इदमिति चेत् तत्त्वेनैव ग्रहणमित्यर्थः । एतदाशङ्क्याहकथं व्यवधानसंभवः ?, नहि तस्य व्यवधानजनकत्वमित्यर्थः । ततः शुक्तिकाज्ञानाद् इन्द्रियजात् , तनिश्चयाऽनुत्पत्तेः शुक्तिकानिश्चयाअनुत्पत्तेः, व्यवधानसंभव इति चेत् । एतदाशङ्क्याह- सैव तावद् निश्चयाऽनुत्पत्तिः, किं केन कारणेन?,इति चिन्त्यम् ,निश्चयान्तरोत्पादाद् रजतनिश्चयोत्पादात् इति चेत्, तनिश्चयाऽनुत्पत्तिः । एतदाशङ्कयाहकथमनुभवान्तरात् शुक्तिकाऽनुभवरूपात् , निश्चयान्तरोत्पादो रजतनिश्चयोत्पादः?, तस्य शुक्तिकाऽनुभवस्य, तत्स्वभावत्वाद् रजतनिश्वयोत्पादनस्वभावत्वात् , इति चेत् 1 एतदाशङ्क्याह- अनुभवान्तरवद् रजताऽनुभववद् इत्यर्थः, न तस्य शुक्तिकाऽनुभवस्य, तत्त्वं शुक्तिकानुभवतत्त्वम् , तत्त्वे वा शुक्तिकाऽनुभवतत्त्वे वा, ततः शुक्तिकाऽनुभवात, तदुत्पादे निश्चयान्तरोत्पादे । किमित्याह- व्यवहारनियमोच्छेदः । एनमेव भावयन्नाह- एवं हीत्यादि । एवं यस्माद् , नीलानुभवजन्योऽपि तनिश्चयो नीलनिश्चयः पीताद्यनुभवस्य, तत्स्वभावतया नीलनिश्चयजननस्वभावतया, तज्जन्योऽपि पीताद्यनुभवजन्योऽपि स. म्भाव्यत एव, विजातीयशुक्तिकाऽनुभवाद् विजातीयरजतनिश्चयोपपत्तेः, एवमन्यत्राऽपि रक्तादिनिश्चये, इति एवम्, न न्यायविदः पुरुषस्य, ततो निश्चयात् , व्यवहारे प्रस्तुते, नियमतो नियमेन, प्रवृत्तियुक्ता। कुतो न युक्ता इत्याह- सर्वत्र विकल्पे, उत्थापकं प्रति आशङ्कानिवृत्तेः कारणात् , न अनिवृत्तिराशङ्काया इति प्रक्रमः । कुत इत्याह- सर्वत्र बीजाऽभावात् आशङ्काबीजाऽभावात् , किन्तु निवृत्तिरेव । प्रस्तुत. मेवाऽऽह-वैधर्मेण हेतुना, साधाऽसिद्धेः सर्वत्र । यदि नामै
तः किमित्याह- साधाच समारोप इति । अस्ति च शुक्तिका-रतियोः तद् इत्यभिप्रायः ॥ । यद्येवम्, स्थिरेतरादीनां किं साधर्म्यम् ?, क वा तेषां हणम् ?, येन अस्थिरादिषु तत्समारोपः । सदृशाऽपराऽपरो. सत्तिविप्रलम्भाद् अयमिति चेत्, किमिदं सजातीयेतरवि
Page #182
--------------------------------------------------------------------------
________________
.१९०
अनेकान्तजयपताका"विक्तैकस्वभावानां भावानां सादृश्यम् ?, कथं वा सदपि एलई तदेकग्राहिणा ज्ञानेन गम्यते । तेषामेव तत्स्वभावतया तथा ग्रहणेन इति चेत् । आकालं तदेकग्रहणे कुतोऽयं नभस आ वादः?, अनेकभिन्नकालभावग्रहणे च एकेन अपैति क्षणिकता तथाविधभावाऽनुभवसामर्थ्यजनिश्चयात् तदवगम्यत इति चेत्। न युक्तमस्य इमामक्रमागतामवगमश्रियं प्रतिपत्तुम् , तत्पूर्वक्षणान च न्यायतस्तगीजाभाव उक्तः । तथानुभवसिद्धत्वात् सर्व भद्रकमिति चेत्, न खलु अनुभव इत्येव तत्त्वव्यवस्था हेतुः न्यायबाधितस्य तदनुपपत्तेः, अस्य च उक्तवद् न्यायबाधित त्वात् , क्षणिकत्वेन तथाऽसम्भवाच । एतेन “यत्र तु प्रतिपत्त भ्रान्तिनिमित्तं नास्ति तत्रैव अस्य दर्शनाविशेषेऽपि पाश्चाल निश्चयो भवति समारोप-निश्चययोर्वाध्यबाधकभावाद्" . इस यदुक्तम् , तदपि प्रत्युक्तमेव, सर्वथैकस्वभावत्वे वस्तुनो दर्श
चेत्थमभिधानाऽयोगात् , एकत्र भ्रान्तिनिमित्तसम्भवे' सर्वत्र "तदापत्तेः तत्तदेकस्वभावत्वतत्त्वात् , अन्यथा यत्र भ्रान्तिनिमित “न यत्र च अस्ति, अनयोः कथञ्चिद्भेद इति बलात् तदनेका स्वभावता, शुक्तिकादावपि तनियमाऽभावाच, अतनिवन्धनले च निश्चयानां न तेभ्यस्तत्तत्त्वव्यवस्था इत्युक्तम् ॥ ... एतदाशङ्कयाह- यद्येवम् , स्थिरतरादीनां नित्याऽनित्यादीनाम किं साधर्म्यम् ?, लक्षणभेदाद् न किञ्चिद् इत्यर्थः । कई तेषां ग्रहणम् ?, नित्यानामभावेन तदयोगात् , येनाऽस्थिरादिषु भाई आदिशब्दाद् अनात्मादिग्रहः, तत्समारोपो नित्याऽऽत्मादिसमारोप सदृशाऽपरामरोत्पत्तिविप्रलम्भात् कारणात् , अयमिति आत्मादिसम रोपः, इति चेत् । एतदाशङ्कयाह- किमिदं सजातीयेतरविवित कस्वभावानां भावानाम् अत्यन्तविलक्षणानामित्यर्थः; सादृश्यम्। न किञ्चित् । कथं बा सद् अपि एतत् सादृश्यम् , तदेकग्राहिः |
३ अपि इति अधिकः पाठः ।
Page #183
--------------------------------------------------------------------------
________________
स्वोपज्ञटीकासहिता।
१९१
तेषां भावानामेकग्रहणशीलं तदेकग्राहि तेन ज्ञानेन गम्यते ?, तदनेकग्रहणनान्तरीयकत्वात् तदवगमस्य न गम्यते इत्यर्थः । तेषामेवेत्यादि । वेषामेव भावानाम्, तत्स्वभावतया सदृशस्वभावतया, तथाग्रहणेन सदृशग्रहणेन , इति चेद् गम्यते । एतदाशङ्कथाह- आकालं यावदपि कालस्तावदपि- सर्वकालमित्यर्थः, एकग्रहणे सति कुतोऽयं “तेषामेव द्वत्स्वभावतया” इत्यादिलक्षणः, नभसः आकाशात् आप्तवादः ?, अनेकभिन्नकालभावग्रहणे च एकेन प्रक्रमाद् ज्ञानेन । किमित्याहअपैति क्षणिकता भावानामिति । तथाविधेत्यादि । तथाविधभा.
अनुभवसामर्थ्यजनिश्चयात् संतानप्रवृत्ताऽन्त्यक्षणभावाऽनुभववी. पोत्पन्ननिश्चयाद् इति भावः, तत् सादृश्यम्, अवगम्यते इति चेत् । इतदाशङ्कयाह-न युक्तमस्य निश्चयस्य, इमामक्रमाऽऽगतामन्वयाभावेन, अवगमश्रियं पदार्थतया विसदृशबोधरूपां प्रतिपत्तुम् , . यदाह कश्चित्"असत्सङ्गाद् दैन्यात् प्रखलचरितैर्वा बहुविधै
रसद्भूतैर्भूतिर्यदि भवति भूतेरभवनिः । .. सहिष्णो: सद्बुद्धेः परहितरतस्योन्नतिमतः ... परा भूषा पुंसः स्वविधिविहितं वल्कलमपि” ॥ १ ॥
स्वविधिश्च क्षणिकस्य परतो निरपेक्षिता इति भावनीयम् । पूर्वक्षणानां च विवक्षितक्षणभावाऽनुभवपूर्वक्षणानां च, न्यायतोप्रयेन, निरन्वयनश्वरतया तद्बीजाऽभावो विवक्षितक्षणबीजाऽभावः,
प्राग् नित्यानित्यवस्तुनिरूपणाधिकारे 'एकान्त' इत्यादिना अन । तथेत्यादि । तथाऽनुभवसिद्धत्वात् सहशत्वेनाऽनुभवसिद्ध
कारणात् , सर्वमस्मदुक्तम् , भद्रकमिति चेत्। एतदाशङ्कयाहउलु नैव, अनुभव इत्येव एतावता अंशेन, तत्त्वव्यवस्थाहेतुः । कथं इत्याह- न्यायबाधितस्य अनुभवस्य, तदनुपपत्तेः तत्त्वब्यवस्थाहे, अनुपपत्तेः, नीत्या द्विचन्द्रानुभवादौ तथाऽभ्युपगमादिति । यदि । अभवनं भूयादित्यर्थः ।
Page #184
--------------------------------------------------------------------------
________________
१९२
अनेकान्तजयपताका
नामैवं ततः किमित्याह- अस्य च प्रक्रान्तसदृशाऽनुभवस्य, उसका यथोक्तं तथा न्यायबाधितत्वात् , क्षणिकत्वेन हेतुना, तथा पदा । धाऽनुभवरूपेणाऽसम्भवाञ्च, तथाहि- निश्चयानुभवोऽपि क्षणिक इति भावना । एतेन इत्यादि । एतेन अनन्तरोदितेन वस्तुजा “यत्र तु प्रतिपत्तु_न्तिनिमित्तं नास्ति तत्रैव अस्य दर्शनाऽविशेषेः पाश्चात्यो निश्चयो भवति, समारोप-निश्चययोर्बाध्यबाधकभावाद् यदुक्तम् । तत् किमित्याह- तदपि प्रत्युक्तमेव । कथमित्याह-स थैकखभावत्वे वस्तुनो बाह्यस्य दर्शने च, तस्य इत्थं यथोक्तं व अभिधानाऽयोगात्, अयोगश्च एकत्र वस्तुनि, भ्रान्तिनिमित्तसम्भ सति, सर्वत्र तदापत्तेः भ्रान्तिनिमित्तसम्भवापत्तेः, आपत्तिश्च तत्वे कस्वभावत्वतत्त्वात् तस्य वस्तुनो भ्रान्तिनिमित्तसम्भवैकस्वभावद रूपत्वात् । अन्यथेत्यादि । अन्यथा एवमनभ्युपगमे, यत्र वस्त भ्रान्तिनिमित्तम् , न घट-पटादौ, यत्र च अस्ति शुक्तिका-रजता अनयोवस्तुनोः, कश्चित् स्वभावभेदः, वस्त्वभेदेऽपि स्वसत्तामे इति एवम् , बलात् तदनेकस्वभावता तस्य वस्तुनः, सामान्येनाऽने स्वभावता,तदेकान्तकस्वभावत्वे तु न एतद् उत्पद्यते इति । उपपत्त्यन्त माह- शुक्तिकादावपि शुक्तिका-रजतादौ अपि, तन्नियमाऽभावार्य प्रक्रमाद् भ्रान्तिनिमित्तसम्भवस्वभावत्वनियमाऽभावाच्च, बलाद् व मेकस्वभावता इति वर्तते । तथाहि- न शुक्तिकादौ, अपि सर्वस्य सम रोप्र. एव, कस्यचिद् दर्शनाद् अनन्तरं शुक्तिकानिश्चयः, अपरस्य व सत्रैव समारोप इति न एतद् एकान्तकस्वभावत्वे वस्तुन इति । वनीयम् । अतद्-इत्यादि । तद् वस्तु, निबन्धनं कारणम् , येषां तनिबन्धनाः, न तन्निबन्धना अतन्निबन्धनास्तद्भावस्तस्मिन, अतमि न्धनत्वे च अवस्तुनिबन्धनत्वे इत्यर्थः । केषामित्याह-निश्चयानां तेभ्यों निश्चयेभ्यः, तत्तत्त्वव्यवस्था वस्तुतत्त्वव्यवस्था, इति प्राक् ।।
एवं च यत्र खत एव निश्चयः स प्रत्यक्षः, यत्र तु
XSomrani
makalinsa
Page #185
--------------------------------------------------------------------------
________________
स्वोपज्ञटीकासहिता ।
१९३
सोनुमेय इति सन्न्यायप्राप्तिः, अन्यथाऽसमञ्जसत्वात् । न चैवं सविकल्पक प्रत्यक्षवादिनोऽपि अनेकस्वभावत्वाद् वस्तुनः क्षयोपशमवैचित्र्येण तथानिश्चयप्रवृत्तौ कश्चिद दोषः, निरुपचरिततनिबन्धनभावात् । दृश्यते च कथञ्चिद् एकत्र एव एकानेकममात्रपेक्षः शब्द - लिङ्गाऽध्यक्षैः प्रतीतिभेदः, तथाहि अत्र निकुञ्जे वह्निरस्तीति शब्दतस्तथाविधदेशमात्रावच्छिन्नमग्निसामान्यं प्रतीयते, धूमदर्शनात् तु विशिष्टदेशावच्छिन्नस्तद्विशेषः, अध्यक्षतंस्तु विशिष्टतरो ज्वालादिरित्याssगोपालाङ्गनाप्रसिद्धत्वाद् अत्याज्य एष इति । एवं च सन्न्यायसिद्धे प्रमाणानां वस्तुविषयत्वे यदुक्तं पुरस्तात् " नहि अन्य एव अन्योपकारको नाम" इत्यादि, तदयुक्तमेव । परमार्थतो निर्विषयत्वात् । न च वस्तु अपि तदेकमनेकधर्मोपकारकशक्तिमद् इष्यते जैनैः, एकाऽनेकस्वभावत्वाऽभ्युपगमात् पृथग्भूतधर्म्यसिद्धेः । इति कृतमत्र प्रसङ्गेन ॥
• एवं च यत्रांशे वस्तुज्ञानसंबन्धिनि नीलादौ, स्वत एव निश्चयः समारोप व्यवच्छेदमन्तरेण, स प्रत्यक्षोंऽशः, यत्र तु न अनित्यत्वादौ, सोनुमेय इति सन्न्यायप्राप्तिः । कुत इत्याह- अन्यथाऽसमञ्जसत्वात् इत्येतच्च निदर्शितमसकृत् । यदि नामैवं ततः किमित्याह - न चैवं सिविकल्पक प्रत्यक्षवादिनोऽपि वादिनः, अनेकस्वभावत्वाद् वस्तुनः, जियोपशमवैचित्र्येण हेतुना, तथानिश्चयप्रवृत्तौ अनन्तरोदितक्रमेण कश्चिद् दोषः, कथं न दोष: ? । इत्याह- निरुपचरिततन्निबन्धनमावाद वास्तव प्रवृत्तिनिबन्धनभावादित्यर्थः । अमुमेवाऽर्थमुपदर्शयतिहयते चेत्यादिना । दृश्यते च कथञ्चिद् एकत्रैव वस्तुनि, ओकाकप्रमात्रपेक्षः शब्द-लिङ्गाऽ-ध्यक्षैः आगमा- ऽनुमान- प्रत्यक्षैः प्रतीतिविः, तथाहि - ' अत्र निकुञ्ज वह्निरस्ति ' इति शब्दतः शब्दात्, याविधदेशमात्राऽवछिन्नं सद् अग्निसामान्यं प्रतीयते, धूमदजात् तु विशिष्टदेशावच्छिन्नस्तद्विशेषः अभिविशेष: पूर्वसामाअपक्षया, अध्यक्षतस्तु प्रत्यक्षेण पुनः, विशिष्टतरो ज्वालादिः प्रती
२५
+
1
S
.
+
6
Page #186
--------------------------------------------------------------------------
________________
१९४
अनेकान्तजयपताकायते इति, आगोपालाङ्गनाप्रसिद्धत्वात् कारणात् , अत्याज्य एवं प्रतीतिभेद इति । एवं च सन्न्यायसिद्धे सति, प्रमाणानां प्रत्यक्षा दीनां वस्तुविषयत्वे, यदुक्तं पुरस्तात् पूर्वपक्षप्रन्थे- “ नहि अन्य एव अन्योपकारको नाम" इत्यादि । तत् किमित्याह-तदयुक्तमेव । परमार्थतो निर्विषयत्वात् तस्य उक्तस्य। नचेत्यादि । न च वस्त्वा तद् एकं सद् अनेकधर्मोपकारकशक्तिमद् इष्यते वैशेषिकैरिव जैन कुत इत्याह- एकाऽनेकस्वभावत्वाऽभ्युपगमात् कारणात्, पृथग तधर्म्यऽसिद्धर्धर्म-धर्मिस्वभावत्वाद् वस्तुनः, इति कृतमत्र प्रसङ्गेन ।
यचोक्तम्-"समारोपनिश्चययोर्बाध्यबाधकमावाद्" इति, एत प्ययुक्तम् । परनीत्या समारोपनिश्चययोर्भेदासिद्धेः समारोपस्य ऽपि निश्चयत्वात् , तदभावभावित्वस्य च उभयत्राविशेषात, की ापर्यस्य च अनियामकत्वात् , कचित् तस्याऽपि तुल्यत्वात्। अनित्यादिप्रतिपत्तावपि पुनर्नित्यादिनिश्चयोपलब्धेः वस्तुन से पारम्पर्येण तद्भावात् , तदन्यतराऽपरनिमित्तत्वे तदितर तन्निमित्तत्वाऽनाश्वासात् , विशेषहेत्वभावात् अनित्यस्याज अर्थक्रियायोगादिति निर्लोठयिष्यामः ॥
' यञ्चोक्तमधिकृतपूर्वपक्षे- “समारोप-निश्चययोर्बाध्यबाधक वाद्" इत्येतदपि अयुक्तम् । कथमित्याह- परनीत्या समारोप निश्चययोर्मेदासिद्धेः असिद्धिश्च- समारोपस्याऽपि शुक्तिकादौ ख तादिरूपस्य निश्चयत्वात् , तथाहि- शुक्तिकायां रजतनिश्चय समारोपः, तदभावभावित्वस्य च शुक्तिकाद्यभावभावित्वस्य च ब्दात् तदनुभवोपादानत्वस्य च, उभयत्र समारोपे निश्चये चाऽकि षात्, नहि अत्र अन्यत् समारोपस्याऽपि उपादानम्, अपि तु आणि कृताऽनुभव एव, पौर्वापर्यस्य च पूर्व समारोपः पश्चानिश्चय इत्ये भावस्य च अनियामकत्वाद् भेदं प्रति, तथा कचित् तस्या पौर्वापर्यस्य तुल्यत्वात् । एतदेवाह- · अनित्यादिप्रतिपत्ता सत्यां तथागतवचनादेः, पुनर्नित्यादिनिश्चयोपलब्धेः कपिला
Page #187
--------------------------------------------------------------------------
________________
स्वोपाटीकासहिताः। ..
१९५ वचनादेः, वस्तुन एव सकाशात् तस्या नित्यादिनिश्चयोपलब्धेः पारम्पर्येण भावात् तदाश्रयत्वाद् वचनप्रवृत्तेः । यद्वा वचनमन्तरेणाऽपि स्वत एव कचिदेवभावात् , तथाहि- वस्तुनि अनित्यत्वविकल्पोऽपि. भवति, नित्यत्वविकल्पोऽपि भवतीति लौकिकमेतत् । एवं च सति तदन्यतराऽपरनिमित्तत्वे तयोः समारोप-निश्चययोरन्यतरस्य समारोपस्य, अपरनिमित्तत्वे अभ्युपगम्यमाने, तदितरत्र अपि निश्चये, तन्निमित्तत्वाऽनाश्वासात् अधिकृतवस्तुनिमित्तत्वाऽनाश्वासात्, इह तावद् अनित्यादिप्रतिपत्तिर्वस्तुनिमित्ता इति भवतो मतम्, इहाऽपि अनाश्वासः, तत्तुल्ययोगक्षेमाया नित्यादिनिश्चयोफा लब्धेः अतन्निमित्तत्वाऽभ्युपगमाद् इति भावः । अनाश्वासश्च- विशेपहेत्वभावाद् द्वयोरपि, नथा- तदर्शनाऽनन्तरभावित्वेन नित्यस्य सत्ता एव असंभविनी, क्रम-योगपद्याभ्यामर्थक्रियायोगाद् इति । विशेषहेतुनिराचिकीर्षया आह- अनित्यस्यापि निरन्वयक्षणस्थितिर्धामणः, अर्थक्रियाऽयोगाद् इत्येतद् निलोंठयिष्यामः पुरस्ताद्, अत एतद् अपि अयुक्तमिति स्थितम् ।। । किश्च, समारोपव्यवच्छेदभावाविशेषाद् अनुमानविकल्पवत् कथं रूपादिविकल्पो न प्रमाणम् ?, समुद्भूतसमारोपव्यवच्छेदेन अभावादिति चेत् । न, कचित् तथाऽपि भावदर्शनेन अविरोधात् , शुक्तिकाशकलादौ रजतादिसमारोपव्यवच्छेदेन तद्भावात् , न वन सोऽपि रूपादिविकल्पः तन्मात्रहेतुत्वात् , न च तत्त्वतएकस्यापि तदितरनाशनेन प्रवृत्तिः, नाशस्य निर्हेतुकत्वाऽभ्युपमात् तदभाव एव तद्भावोपपत्तेः । लिङ्ग-लिङ्गिसम्बन्धस्मरपादिना प्रवृत्तेरिति चेत् , कोऽयं गुणे भवतो दोषाभिनिवेशः, स्तुसमारोपाभावेऽस्य उपयोगाद् , न च नाऽसौ रूपादिविकअस्यापि तदभावे तत्प्रवृत्त्यनुपपत्तेः इति नानयोर्विशेषः । स बल गृहीतग्राही एव, प्रत्यक्षप्रतिभासिनोऽर्थस्य परामर्शात् , नहि नुमानविकल्पोऽपि नैवमिति परिभाव्यतामेतत् ॥ . .
Page #188
--------------------------------------------------------------------------
________________
अनेकान्तजयपताका
"
अभ्युच्चयमाह- किंचेत्यादिना । किंच, समारोप व्यवच्छेदभाषाऽविशेषात् कारणात्, अनुमानविकल्पवद् इति दृष्टान्तः, कथं रूपादिविकल्पो न प्रमाणं प्रमाणलक्षणयोगेऽपि ? । एतदाशङ्कयाह समुद्भूतसमारोपव्यवच्छेदेन अभावाद् इति चेत् । नहि अयमन मानविकल्पवत् समुद्भूतसमारोपव्यवच्छेदेन भवति । एतदाश कथाह - न, इत्यादि । न कचिद् वस्तुनि, तथापि समुद्भूतसमातें पव्यवच्छेदेनाऽपि, भावदर्शनेन उत्पाददर्शनेन हेतुना, रूपादिविक ल्पस्य अविरोधात् प्रमाणत्वस्य । एतदेवाऽऽह- शुक्तिकाशकलाद वस्तुनि, रजतादिसमारोपव्यवच्छेदेन तद्भावात् शुक्तिकादिविकल्पभा वात् । नचेत्यादि । न च न सोऽपि शुक्तिका विकल्पो रूपादिविकल्प किन्तु रूपादिविकल्प एव । कुत इत्याह- तन्मात्र हेतुत्वाद् रूपाद मात्र हेतुत्वात् न च तत्त्वतः परमार्थेन, एकस्याऽपि अनुमानविक ल्पस्य रूपादिविकल्पस्य वा तदितरनाशनेन समुद्भूतसमारोपनाश नेन, अब्जसा प्रवृत्तिः । कुतो न इत्याह- नाशस्य निर्हेतुकत्वाऽभ्यु पगमात् तथा तदभावे एव समारोपाऽभावे एव तद्भावोपक् अनुमानादिविकल्पभावोपपत्तेः । इहैव परिहारान्तरमुपन्यस्यन्नाह लिङ्ग-लिङ्गिसंबन्धस्मरणादिना प्रकारेण, अप्रवृत्तेः कारणाद् शी चेत्, रूपादिविकल्पो न प्रमाणमिति प्रक्रमः । एतदाशङ्कयाह- कोड गुणे भवतो दोषोऽभिनिवेश: ?, ननु लिङ्ग-लिङ्गसंबन्धस्मरणादिप्रवृि मन्तरेण तद्भवनं गुणः । प्रस्तुतसमर्थनाय आह- वस्तुसमारोपाऽभव अस्य अनुमानविकल्पस्य उपयोगात्, न च नाऽसौ रूपादिविकल्पस्या पिवस्तुसमारोपाऽभावे उपयोगः, किन्तु अस्त्येव । कुत इत्याह- तदभा वस्तुसमारोपाभावोपयोगाऽभावे समारोपभावेन तत्प्रवृत्त्यनुपपते रूपादिविकल्पप्रवृत्त्यनुपपत्तेः, अस्ति च प्रवृत्तिरिति नानयोरनुमान विकल्प- रूपादिविकल्पयोर्विशेषः, अतः कथमनुमानविकल्पवद् रू दिविकल्पो न प्रमाणमित्याख्येयमेतत् । प्रस्तुतमाचिख्यासुराह स खल्वित्यादि । स खलु प्रक्रमाद् रूपादिविकल्पः । किमित्याह
१९६
:
8
Page #189
--------------------------------------------------------------------------
________________
खोपाटीकासहिता। गृहीतग्राही एव । कुत इत्याह- प्रत्यक्षप्रतिभासिनोऽर्थस्य रूपादेः, परामर्शात् कारणात्, स हि तमेव स्पृशति नाऽधिकं परिच्छिनत्ति, अतो न प्रमाणमिति । एतदाशङ्कयाह- नहीत्यादि । नहि अनुमानविकल्पोऽपि नैवम् , किं तर्हि एवमेव गृहीतग्राही एव, इत्यादि परिभाव्यतामेतत् । स्वभावहेतौ सुज्ञानमेव कृतकस्य एव अनित्यत्वात् , कार्यहेतौ अपि वह्निजन्यस्वभावो धूमः, तत्त्वेन प्रत्यक्षेण प्रतिभासते, अन्यथा तत्प्रतिभासाऽभाव इति भावनीयम् ।। · नहि प्रत्यक्षं भागश उत्पद्यते, निरंशत्वात् , सत्यं न उत्पद्यत इति । अनुमानविकल्पपरामर्शालम्बनमपि तत्र गृहीतमेव केवलं गृहीतेऽपि येष्वाकारेषु, न तु तदनन्तरमेव निश्चयोत्पत्तिर्भूयसा व्याप्तिदर्शनात् तु भवति, तद्विषय एव अनधिगतार्थाऽधिगन्तृत्वात् प्रमाणमनुमानविकल्पो नेतर इति यत्किश्चिदेतत् , अनालोचिताभिधानत्वात् । अनालोचिताभिधानत्वं च ग्राह्य आकाराऽभावात् सर्वथा एकस्वभावत्वाऽभ्युपगमात् परिकल्पितानामसत्वात् तत्त्वेन, तत्सत्त्वे नियमतोऽतिप्रसङ्गात् , तथा युक्तितो व्यात्यसिद्धेः अतद्भावस्य कथञ्चिद् भेदनिमित्तत्त्वात् , अन्यथा तदयोगात् । नहि अभेदवत एव अनित्यत्वस्य स्वात्मना व्याप्तिः, मच भिन्नयोरेव हिमवद्-विन्ध्ययोः तथाऽनधिगतार्थाऽधिगन्तवाभावात् , वस्तुरूपस्य अध्यक्षत एव अधिगमात्, स्वाधिगमस्य च इतरत्राऽपि भावात् , तदन्यस्य च इतरत्रापि अभावादिति । एवं प्रवर्तकत्वादि अपि अस्य समानमितरेण, तत्रापि पादिनिश्चयादेव प्रवृत्तेः ।व्यवहारे प्रमाणमेवाऽयमिति चेत् , क हि अप्रमाणमिति?, रूपादावेव इति चेत् , कुतोऽयं तत्राऽकारणो स, प्रागेव तदधिगमादिति चेत् , समानोऽयं त्वत्रीत्या अनित्यजादौ, तथापि न तद्वत् तदर्शनमिति चेत् , न तर्हि प्राक् तद्वत् रधिगमोऽन्यथा रूपादिनिश्चयवत् स्यात् तदाएवाऽयं निमित्ताशेषात् , तदधिगमस्यैव तत्वतस्तनिमित्तत्त्वात् बाधकानुपपत्तेः
Page #190
--------------------------------------------------------------------------
________________
१९८
अनेकान्तजयपताका
विशेषेण भावात् एकान्तैकत्वात् , अन्यथा तदनुपपत्तेः ॥
तथा च आह- न हि प्रत्यक्ष भागशो भागेन उत्पद्यते। कुत इत्याहतस्य निरंशत्वात् सुलक्षणमेतद् इति निरंशम् , सत्यं नोत्पद्यते भा: गशः प्रत्यक्षम् ,इति अस्मात् ,अनुमानविकल्पपरामर्शाऽऽलम्बनम् , अपि तत्र वस्तुनि, गृहीतमेव प्रक्रमाद् प्रत्यक्षेण केवलं गृहीतेऽपि सति, येषु आर कारेषु अनित्यत्वादिषु, न तदनन्तरमेव न दर्शनाऽनन्तरमेव निश्चयोत्पन त्तिः, भूयसा बाहुल्येन, व्याप्तिदर्शनात् तु अविनाभावदर्शनेन पुनर्भवति, तद्विषय एव अनित्यत्वादिविषय एव, अनधिगतार्थाऽधिगन्तृत्वात् कारणात्, प्रमाणमनुमानविकल्पो नेतरो रूपादिविकल्प इति । एतदाशकथा यत् किश्चिदेतत् अनन्तरोदितमसारमित्यर्थः । कुत इत्याह-अनालोचिताभिधानत्वात् कारणात् , अनालोचिताऽभिधानत्वं च ग्राह्ये वस्तुनि आकाराऽभावात् , अभावश्च सर्वथा एकान्तेन, एकस्वभावत्वाऽभ्यु पगमाद् वस्तुन इति, परिकल्पितास्ते इति । एतदपोहाय आहपरिकल्पितानाम्- आकाराणाम् , असत्त्वात् तत्त्वेन, तत्सत्त्वे परि कल्पिताऽऽकारसत्वे, नियमतो नियमेन, अतिप्रसङ्गात् परिकल्पनया विरोध्याऽऽकारभावेन, तथा युक्तितो न्यायतः, व्याप्त्यऽसिद्धेः कार णात् , असिद्धिश्च तद्भावस्य व्याप्तिभावस्य, कश्चिद् भेदनिमित्त त्वात् व्याप्य-व्यापकयोरिति प्रक्रमः । किमित्येतदेवमित्याह- अन्यथा एवमनभ्युपगमे, व्याप्य-व्यापकयोः एकान्ताऽभेदादौ इत्यर्थः, तदयोह गात् ब्याप्तिभावाऽयोगात् । एतदेव भावयति- नहीत्यादिना । यस्माद्, अभेदवत एव एकान्तैकस्य एव इत्यर्थः, अनित्यत्वस्य वा त्मना अनित्यत्वेन एव व्याप्तिः, अनित्यत्वस्य अनित्यत्वेन व्याप्तिरिति व्यवहाराऽयोगाद्, न च भिन्नयोरेव एकान्तेन हिमवद्-विन्ध्ययोरिति भावनीयम् । तथा अनधिगतार्थाऽधिगन्तृत्वाऽभावाद् अनुमानविका ल्पस्य, अभावश्च वस्तुरूपस्य अध्यक्षत एव प्रत्यक्षेण एव इत्यर्थः अपि 'गमात् , ततश्च आत्मानमेव अधिगच्छति अनुमानविकल्प इति पराई भ्युपगमः । एनमेवाऽधिकृत्य आह- खाधिगमस्य च इतरत्राणी
Page #191
--------------------------------------------------------------------------
________________
स्वोपज्ञटीकासहिता।
१९९ रूपादिपिकल्पे भावात् , तदन्यस्य च अनधिगतस्य, इतरत्राऽपि अनुमानविकल्पेऽपि अभावाद्, इति अनालोचिताऽभिधानत्वमिति । एवं प्रवर्तकत्वादि अपि अस्य प्रक्रमाद् अनुमानविकल्पस्य समानम् , इतरेणं रूपादिविकल्पेन । कुत इत्याह- तत्रापि रूपादिविकल्पे सति, रूपादिनिश्चयादेव प्रवृत्तेरिति, व्यवहारे प्रवृत्त्यादिरूपे, प्रमाणमेवाऽयं रूपादिविकल्प इति चेत् । एतदाशङ्कयाह- क तर्हि अप्रमाणमिति ?, रूपादौ एव इति चेत् अप्रमाणम्, कुतोऽयं तत्र रूपादौ, अकारणो द्वेषः ?, प्रागेव अविकल्पेन, तदधिगमात् रूपाद्यधिगमात् इति चेत् । एतदाशङ्कयाह- समानोऽयम्- अधिगमः, त्वन्नीत्या अनित्यत्वादौ अनुमेये, तथाऽपि एवमपि, न तद्वद् रूपादिवद्, तदर्शनं नित्यत्वादिदर्शनमिति चेत् । एतदाशङ्कयाह-न तर्हि प्राग अविकल्पेन, तद्वद् रूपादिवत् , तदधिगमोऽनित्यत्वाद्यधिगमः, अन्यथा यदि स्यात्, ततो रूपादिनिश्चयवत् स्यात् तदा एवाऽयं नित्यत्वादिनिश्चयः । कुत इत्याह-निमित्ताविशेषात् अविशेषश्च तदधिगमस्य एव अविकल्पेन रूपाधऽधिगमस्य एव, तत्त्वतः परमार्थेन, तन्निमित्तत्वात् अनित्यादिनिश्चयनिमित्तत्वात् , बाधकाऽनुपपत्तेः रूपादिनिश्चयानुमानेन, तथा च आह- अविशेषेण भावात् रूपाद्यधिगमवद् अनित्यत्वाद्यधिगमत्वेन भावात् , भावश्च एकान्तैकत्वात् अधिकृताऽधिगमस्य । इत्थं
एतदङ्गीकर्तव्यमित्याह- अन्यथा तदनुपपत्तेः एकान्तैकत्वाऽनुपइत्तेरधिकृतानुभवस्य, रूपादिनिश्चयवत् स्यात् तदा एव अयमिति स्थितम् ।। किञ्च, अयमधिकृताधिगमः किं स्वगृहीतनिश्चयजननस्वभावः?, त समारोपजननस्वभावः?, आहोस्विद् उभयजननस्वभावः १, नेताहो अनुभयजननस्वभाव इति । यदि खगृहीतनिश्चयजननस्वअकः, निरवकाशः समारोपः, न चासौ अन्यनिमित्तोऽनिमित्तो
अथ समारोपजननवभावः, कुतोऽस्माद् निश्चयजन्म, अतभावभावे अतिप्रसङ्गात् । उभयजननखभावत्वे विरोधः.
Page #192
--------------------------------------------------------------------------
________________
.२००
अनेकान्तजयपताकान्यायाविरोधेऽपि अभ्युपगबाधा। अनुभयजननस्वभावत्यान भयाभावः, तथा च प्रतीतिविरोधः इति । एकान्तेन च निर्विका कप्रत्यक्षवादिनो न न्यायतो रूपादिनिश्चयाऽ-नुमाननिश्चय आंद इति सूक्ष्मधिया भावनीयम् ॥ - दूषणान्तरमभिधातुमाह- किश्वेत्यादि । किञ्च, अयमधिका धिगमः अविकल्परूपः, किं स्वगृहीतनिश्चयजननस्वभाव: ?, समारोपजननस्वभावः ?, आहोस्विद् उभयजननस्वभावः ?, उत्ता अनुभयजननस्वभाव इति । किञ्चातः ?, सर्वथाऽपि दोष इति । च-यदि स्वगृहीतनिश्चयजननखभावः । ततः किमित्याह-निरी काशः समारोपः तन्निमित्ताधिगमस्य स्वगृहीतनिश्चयजननस्वभी त्वात् , न च असौ समारोपः अन्यनिमित्तोऽनिमित्तो वा, किं ताह अधिकृताऽधिगमनिमित्त एव, तदा अन्यस्य अभावाद् । अथ सम रोपजननस्वभावोऽधिकृताधिगमः, कुतोऽस्माद् निश्चयजन्म ?, च न स्याद् ? , इत्याह- अतत्स्वभावात् अधिकृताऽधिगमा समारोपजननस्वभावत्वेन भावनिश्चयजन्मनः अतिप्रसङ्गात्, ना निश्चयान्तरभावेन । उभयजननस्वभावत्वे स्वगृहीतनिश्चयसमारों भयजननस्वभावत्वे विरोधः, न्यायाऽविरोधेऽपि तत्तथाचित्रस्वभाव तया अभ्युपगमबाधा · अनेकान्तवादापत्तेः । अनुभयजननवभ वत्वे अधिकृताधिगमस्य । किमित्याह- तदुभयाऽभावो निश्चय-सा रोपोभयाऽभावोऽस्तु इति आरेकाऽपोहायाऽऽह- तथा च एवं चसी प्रतीतिविरोधः, तदुभयस्य तथावेदनात्, इति एवमुक्तनीत्या, ए न्तेन निर्विकल्पकप्रत्यक्षवादिनो वादिनः, न न्यायतः उक्तनी रूपादिनिश्चयाऽनुमाननिश्चययोर्भेद इति एतद्, सूक्ष्मधिया भावन यम् ।।
कथं तर्हि अनुमानविकल्पो नाऽनन्तरम् ?, सन्न्यायतोऽक्षज्ञा तद्विषयानधिगतेः । वस्तुनोऽनेकधर्मत्वात् क्षयोपशमवैचिया इत्युक्तमायम् । अतो न निर्विकल्पकमेव प्रत्यक्षम् ।।
SINHRoward
Page #193
--------------------------------------------------------------------------
________________
खोपज्ञटीकासहिता। आह- यदि एवम् , कथं तर्हि अनुमानविकल्पो न अनन्तरं दर्श नस्य इति प्रक्रमः ? । एतदाशङ्कयाह- सन्न्यायतः तत्त्वनीत्या, अक्षज्ञानेन अबिकल्पेन, तद्विषयाऽनधिगतेः अनुमान-विकल्पविषयाऽनधिगतेः, कथं कस्यचिद् अधिगतिः, कस्यचिद् न इत्येतदपि युक्तिमादति ?। एसदाशङ्कयाह- वस्तुनोऽनेकधर्मत्वात् एतदपि युगप देव प्रायशः । इत्याह- क्षयोपशमवैचित्र्याद् इत्येतद् उक्तप्रायम् । प्रायेण उक्तम् , अतो न निर्विकल्पकमेव प्रत्यक्षमिति निगमनम् ॥
लक्षणायोगाच्च, "प्रत्यक्षं कल्पनापोहमभ्रान्तम्" इति लक्षणम न चैतद् न्याय्यं परनीत्याऽनेकदोषापत्तेः, कल्पनापोहत्वस्य अव्यापकत्वात् , कल्पनायामपि स्वसंविदःप्रत्यक्षत्वाभ्युपगमात. तस्याश्च तदव्यतिरिक्तत्वात् , व्यतिरिक्तत्वेऽधिकृतविशेषणायोगात् तत्त्वतो व्यवच्छेद्यानुपपत्तेः अवस्तुत्वात् कल्पनायाः । खसंविदा तत्त्वेतरविकल्पाभ्यां दोषापादनमयुक्तमिति चेत् । न, तदवस्तुतत्त्वेन विकल्पधियोऽभावप्रसङ्गात् स्वसंविन्मात्रस्यैव भावात् असत्योपरागायोगात् क्लिष्टतासिद्धेरिति ॥ ...
तथा लक्षणाऽयोगाच्च न निर्विकल्पकमेव प्रत्यक्षमिति । लक्षणाऽयोगमाह- "प्रत्यक्ष कल्पनापोढमभ्रान्तम्" इति लक्षणं परकीयम् , न च एतद् न्याय्यम् । कुत इत्याह- परनीत्या अनेकदोषापत्तेः भस्य लक्षणस्य, आपत्तिश्च कल्पनापोढत्वस्य लक्षणत्वेन उपन्यस्तस्य भव्यापकत्वात, अव्यापकत्वं च कल्पनायामपि स्वसंविदः परेण त्यक्षत्वाऽभ्युपगमात्, कल्पनाऽपि स्वसंवित्ताऽधिष्ठानार्थे विकल्पनाद् ति । तस्याश्च कल्पनायाः, तव्यतिरिक्तत्वात् स्वसंविदऽव्यतिक्तत्वात् । इत्थं चैतद् अङ्गीकर्तव्यमित्याह- व्यतिरिक्तत्वे कल्पयाः, स्वसंविदोऽभ्युपगम्यमाने । किमित्याह- अधिकृतविशेषणाऽगात अयोगश्च तत्त्वतः परमार्थेन, व्यवच्छेद्याऽनुपपत्तेः सर्वस्या स्वसंविदः कल्पनापोढत्वात् । अत्राह- अवस्तुत्वात् कल्पनायाः संविदा सह तत्त्वेतरविकल्पाभ्यां तत्त्वाऽन्यत्वविकल्पाभ्यामित्यर्थः,
Page #194
--------------------------------------------------------------------------
________________
२०२
अनेकान्तजयपताका
दोषापादनमनन्तरोदितमयुक्तमिति चेत् । एतदाशङ्कयाह-न, नैतद् एवम् , तदवस्तुत्वेन तस्याः कल्पनायाः अवस्तुत्वेन हेतुना। किमित्याहविकल्पधियः कल्पनाबुद्धः अभावप्रसङ्गात्, प्रसङ्गश्च स्वसंविन्मार त्रस्य एव भावात्, सर्वत्र "इयमेव कल्पना उपरक्ता विकल्पधीः" इत्य: पि असद् । इति आवदेयन्नाह- असत्याः कल्पनायाः अवस्तुत्वेन । किमित्याह-उपरागाऽयोगात् स्वसंविदेव क्लिष्टा विकल्पधीः, इत्यपि अयुक्तिमद् । इत्याह- क्लिष्टतासिद्धरिति स्वसंविनात्रत्वेन, अत: स्थितमेतद् न च एतद् न्याय्यमिति ।।
किञ्च, एकान्तवादिनः सर्वथा कल्पनाऽपोढत्वे कल्पनाऽपोन ढकल्पनातोऽपि अपोढत्वात् कल्पनाऽपोढत्वलक्षणायोगः । प्रत्यक्षसामान्य लक्षणविषय इति चेत् । न, तस्य ततो व्यति रिक्तरविकल्पायोगात्, व्यतिरिक्तत्वे न तदध्यक्षलक्षणम् । अव्यतिरिक्तत्वे तु उक्तवल्लक्षणायोगः । निरूपणाऽनुस्मरणविक ल्पाभ्यामविकल्पकं स्वभावविकल्पेन तु सविकल्पकमिति चेत् । न, विरोधात् , अन्यथा अनेकान्तापत्तेः खाभ्युपगमपरित्यागा दिति ॥ • दूषणान्तरमाह-किश्चेत्यादिना। किञ्च, एकान्तवादिनो वादिन एकान्तेन कल्पनापोढमेतत्, ततश्च सर्वथा कल्पनापोढत्वे सति किमित्याह- कल्पनापोढकल्पनातोऽपि अपोढत्वात् कारणात् , कल्प नापोढत्वलक्षणाऽयोगः, तत्र तद्योग्यताऽभावादिति । प्रत्यक्षसामान्यम् अप्रत्यक्षव्यावृत्तिरूपम् , लक्षणविषय इति चेत् तत्र तद्योगता झवि भावः । एतदाशङ्कथाह- न, तस्य प्रत्यक्षसामान्यस्य, ततः प्रत्यक्षात किमित्याह- व्यतिरिक्ततरविकल्पाभ्यामयोगात् । आह के व्यतिरिक्तत्वे प्रत्यक्षात् तत्सामान्यस्य, न तदध्यक्षलक्षणं तव्या रिक्ततत्सामान्यलक्षणत्वात् , अव्यतिरिक्तत्वे तु प्रत्यक्षात् तत्सा न्यस्य, उक्तवद् यथोक्तं तथा । किमित्याह- लक्षणाऽयोगः तद्योग्यताऽभावाद् इति । अत्राह-निरूपणाऽनुस्मरणविकल्पाभ्या
Page #195
--------------------------------------------------------------------------
________________
खोपज्ञटीकासहिता।
२०३ एवंभूतमेतद् इति, तदात्वे आयत्यां चैतद्गोचराभ्यामविकल्पकमेतत् , स्वभावविकल्पेन तु कल्पनापोढस्वभावत्वलक्षणेन सविकल्पकमेव इति चेत् । एतदाशङ्कयाह- न, विरोधात् 'अविकल्पकं सविकल्पकं च' इति विरोधः, अन्यथा निमित्तभेदतो विरोधमन्तरेण । किमित्याहअनेकान्तवादापत्तेः। ततः किमित्याह- स्वाभ्युपगमपरित्यागाद् नेति योगः ॥ ..... एवमभ्रान्तत्वविशेषणमपि असङ्गतमेव, परनीतितो व्यव. च्छेद्याऽयोगात् । इन्दुद्वयादिज्ञानं व्यवच्छेद्यमिति चेत् । न, तस्याऽभ्रान्तत्वात् , एतच्च लक्षणोपपत्तेः तस्याऽपि तत्प्रकाशकस्वभावहेतुजत्वतश्च भ्रान्तताऽसिद्धेः, अन्यथा तदयोगात् , तस्य चाऽनुभवसिद्धत्वात् , न च बहिस्तद्विषयाऽनुपलब्ध्या तत्सिद्धिः, तद्ग्रहणस्वभावधिया . तद्विषयाऽनुपलब्ध्यसिद्धेः, अन्यथाऽनुपलब्धौ तद्भावासिद्धरतिप्रसङ्गात् । न चाऽतैमिरिकस्याऽपि तत्प्रत्ययप्रसङ्गः, तस्य तिमिरतदन्यहेतुजन्यस्वभावत्वात् , अतैमिरिकाणां च तदभावात् तथा लोकप्रसिद्धेः। न च अधातो अस्य भ्रान्तता, बाधाऽसिद्धेः भिन्नकालविषयप्रत्ययेन तदभ्युपगमेऽतिप्रसङ्गात् , कचिद् अभ्रान्तस्याऽपि असादौ तदन्यतो बाधोपलब्धेश्च । न चाऽनर्थक्रियाकरणतः, अप्राप्यदेशगतजलादिज्ञानेन व्यभिचारात् , संविन्मात्रार्थक्रियाविधाने चास्य इतरत्रापि तद्भावात् तथाप्रतीतेः, न च लोकप्रतीतितः, अभ्युपगमविचारात् तेन च तदप्राप्तेः तस्य च इहाधिकृतत्वादिति अलमनया लोकागमानुभवविरुद्धया अतिसूक्ष्मेक्षिकया उक्तवत् सर्वत्र असमञ्जसतापत्तेः । यस्तु लोकादिसापेक्षा तस्यैव तद्भेद. स्य विद्वदङ्गनादिलोकप्रतिष्ठितत्वात् अविगानतस्तथाप्रतीतेः यवस्थाकारिसदागमभावात् उक्तदोषाभाव इति ।।
एवं यथा कल्पनापोढत्वविशेषणम् , तथा अभ्रान्तत्वविशेषणमपि संगतमेव । कुत इत्याह- परनीतितो व्यवच्छेद्याऽयोगात ।
Page #196
--------------------------------------------------------------------------
________________
२०४
अनेकान्तजयपताका
"
इन्दुद्वयादिज्ञानम् - आदिशब्दाद् वियत्केशज्ञानादिग्रहः, व्यवच्छेद्यमिति चेत् । एतदाशङ्कयाह- न, तस्य इन्दुद्वयादिज्ञानस्य अभ्रान्तत्वात्, एतश्चाऽभ्रान्तत्वं तल्लक्षणोपपत्तेः अभ्रान्तलक्षणोपपत्तेः, उपपत्तिश्च तस्याऽपि इन्दुद्वयादिज्ञानस्य, तत्प्रकाशकस्वभावत्वेन इन्दुद्वयादिप्रकाशकस्वभावत्वेन तादृक्फलजनन स्वभाव हे तुजत्वतश्च इन्दुर्गे द्वयादिज्ञानजननस्वभावहेतूत्पन्नत्वेन च अस्य भ्रान्तताऽसिद्धे अन्यथा एवमनभ्युपगमे, तदयोगात् इन्दुद्वयादिज्ञानाऽयोगात्, तस्त्र च इन्दुद्वयादिज्ञानस्य अनुभवसिद्धत्वात् न च बहिर्वियदा दौ, तद्विषयाऽनुपलब्ध्या इन्दुद्वयादिज्ञानविषयाऽनुपलब्ध्या कारणेन तत्सिद्धिः भ्रान्ततासिद्धि: । कुत इत्याह- तद्ग्रहणस्वभावधिया बहिस्तद्विषयग्रहणस्वभावधिया इन्दुद्वयादिग्रहणस्वभावबुद्ध्या इत्यर्थः तद्विषयानुपलब्ध्यऽसिद्धेः इन्दुद्वयादिज्ञानविषयानुपलब्ध्यसिद्धेः, ग्रहणस्वभावा हि तद् गृह्णात्येव, अन्यथा तत्स्वभावताऽयोगः अन्येत्यादि । अन्यथा अतद्ग्रहणस्वभावया धिया इति प्रक्रमः अनुपलब्धिः बहिस्तद्विषयस्य इति प्रक्रम एव इत्यन्यथानुपलब्धिस्त स्याम् । किमित्याह- तदभावाऽसिद्धेः बहिस्तद्विषयाऽभावाऽसिद्धे इन्दुद्वयाद्यभावासिद्धेरित्यर्थः । कुत इत्याह- अतिप्रसङ्गात् - पटादि ग्रहणस्वभावया धिया घटो न गृह्यत इति तस्य अपि अभावप्रसङ्गा इत्यर्थः । न चेत्यादि । न च अतैमिरिकस्याऽपि प्रक्रमात् प्रमातु तत्प्रत्ययप्रसङ्गः इन्दुद्वयादिप्रत्ययप्रसङ्गः, तदस्ति इति कृत्वा । कु इत्याह- तस्येत्यादि । तस्य इन्दुद्वयादिप्रत्ययस्य, तिमिरसहा तदन्यहेतुजन्यस्वभावत्वात् तिमिरसहायचक्षुरादिजन्यस्वभावो इन्दुद्वयादिप्रत्ययः । यदि नामैवं ततः किमित्याह- अतैमिरिकाण च प्रमातॄणाम्, तदभावात् तिमिराऽभावात्, ततश्च कारणवैकल्या कार्याऽभाव इति स्थितम् । इत्थं च एतदङ्गीकर्तव्यमित्याह- त लोकप्रसिद्धेः अमिरिकाणां तिमिराऽभावेन न इन्दुद्वयादिप्रत्य इति लोकप्रसिद्वेः । न चेत्यादि । न च वाघातः कारणात् अस्य
"
"
Page #197
--------------------------------------------------------------------------
________________
स्वोपज्ञटीकासहिता।
२०५ इन्दुद्वयादिज्ञानस्य इति प्रक्रमः भ्रान्तता । कुत इत्याह-बाधासिद्धेः तस्यैव तिमिराऽपगमे एकेन्द्वादिज्ञानभावतो बाधा। इत्यारेकानिरासाय आह-भिनेत्यादि । भिन्नौ काल-विषयौ यस्य स भिन्नकालविषयः, एवंभूतश्चासौ प्रत्ययश्च इति विग्रहस्तेन, तदभ्युपगमे बाधाऽभ्युपगमे । किमित्याह- आतप्रसङ्गात् - सर्व एवंभूतः तदन्यस्य बाधक इति अतिप्रसङ्गः । दोषान्तरमाह- कचिदित्यादिना । कचिद् मन्दमन्दप्रकाशादौ, अभ्रान्तस्याऽपि प्रक्रमाद् ज्ञानस्य, असादौ असादिविषयस्य, तदन्यतो भ्रान्ताद् ज्ञानाद् इति प्रक्रम एव । किमि स्याह-बाधोपलब्धेश्च तथा रज्जुचलनादेः सर्पज्ञाने न तदसर्पज्ञानस्य, इति नाऽलौकिकमेतद् अतो भावनीयमिति । दोषान्तरमभिधातुमाह- न चेत्यादि । न च अनर्थक्रियाकरणतोऽस्य भ्रान्तता इति वर्तते । कुत इत्याह- अप्राप्यदेशगतजलादिज्ञानेन व्यभिचाराद् इात भावितार्थमेतत् । संविमात्राऽर्थक्रियाविधाने च अस्य अनन्तरोदितज्ञानस्य । किमित्याह- इतरत्राऽपि प्रक्रमाद् इन्दुद्वयादिज्ञानेऽपि, तद्भावात् संविमात्राऽर्थक्रियाविधानभावाद्, भावश्च तथाप्रतीतेः । न चेत्यादि । न च लोकप्रतीतितोऽस्य भ्रान्तता इति प्रक्रमः । कुत इत्याह- अभ्युपगमविचारात् । यदि नामैवं सतः किमित्याह- तेन च अभ्युपगमेन, तदप्राप्तेः उक्तवद् भ्रान्तताऽप्राप्तः, तस्य च अभ्युपगमस्य, इह प्रक्रमे अधिकृतत्वात् , ततश्च ततो यत् सिद्ध्यति तत् तत्त्वम् , अतोऽन्यद् अतत्त्वमित्यलमनया एवंभूतया, होका-ऽऽगमाऽ-नुभवविरुद्धया अतिसूक्ष्मेक्षिकया । किमित्यत आहउक्तवद् यथोक्तं तथा, सर्वत्र असमञ्जसतापत्तेः, अतो जातिरियमिति तिपत्तव्या सर्वत्र तत्त्वेन । यस्तु लोकादिसापेक्षो लोका-ऽऽगमा-s. तुमवसापेक्षो वादी इति गम्यते, तस्य उक्तदोषाऽभाव इति संबन्धः । थमित्याह- एतद्भेदस्य प्रक्रमाद् भ्रान्तेतरज्ञानभेदस्य, आविद्वदङ्गगदिलोकप्रतिष्ठितत्वात् कारणात् , एतत् प्रतिष्ठितत्वं च अविगानत. तथा भ्रान्तेतरत्वेन प्रतीतेः, तथा तव्यवस्थाकारिसदागमभावाद्
Page #198
--------------------------------------------------------------------------
________________
२०६
अनेकान्तजयपताका
अधिकृतैतद्भेदव्यवस्थाकारि सर्वज्ञ प्रणीतागमभावादित्यर्थः, उक्तदोषाऽ भावः जातियुक्तिभिर्भ्रान्तेतरज्ञानयोः समत्वाऽऽपादनमुक्तो दोषस्तदभावः उपन्यस्तहेत्वन्यथानुपपत्तिरिति ॥
,
किञ्च, निर्विकल्पकं प्रत्यक्षमित्यत्र न प्रमाणम्, तेनैव तदनधिगतेः अर्थविषयत्वात् तस्य च ततोऽन्यत्वात् तथाहिनिर्विकल्पकत्वमेव तदर्थः, न चानर्थो विषयः, न चाऽविषये ऽधिगतिरिति न तत्राऽस्य प्रमाणता, अतिप्रसङ्गात् । उभयं विषय इति चेत् । न, उभयोस्तल्लक्षणाऽयोगात् स्वनिर्विकल्पकत्वस्य तद कारणत्वात् अकारणस्य चाऽविषयत्वात्, अन्यथा अभ्युपगमवि रोधात् । एतेन स्वसंविदित्वं प्रत्याख्यातम् ॥
दूषणान्तराऽभिधित्सयाऽऽह - किश्चेत्यादि । किंच, 'निर्विक रूपकं प्रत्यक्षम्' इत्यत्र अर्थे, न प्रमाणम् । कुत इत्याह- तेनैव प्रत्य क्षेण, तदनधिगतेः तस्य निर्विकल्पकस्य अनधिगतेः, अनधिगतित्र अर्थविषयत्वात् प्रत्यक्षस्य, तस्य च अर्थस्य, ततः प्रत्यक्षाद् अन्यत्वात् प्रस्तुतैदं पर्यमाह - तथाहीत्यादिना । तथाहि - न तद् निर्विकल्प कत्वमेव अधिकृत प्रत्यक्ष निर्विकल्पकत्वमेव, तदर्थः प्रत्यक्षाऽर्थः, न अनर्थो विषय:
"रूपाऽऽलोक-मनस्कार-चक्षुर्भ्यः संप्रवर्तते ।
विज्ञानं मणि- सूर्याऽशु-गोशकृद्भथ इवाऽनलः ॥ १ ॥” इवि वचनात्, न च अविषये अधिगतिः अपन्यायाद् इति एवम् न तत्र निर्विकल्पकत्वे, अस्य प्रत्यक्षस्य प्रमाणता । कुत इत्याह अतिप्रसङ्गात् विषयलक्षणाऽयोगेन प्रमाणताऽभ्युपगमे सर्वत्र प्रम णतापत्तिरिति अतिप्रसङ्गः, उभयं स्वनिर्विकल्पकत्वा ऽर्थोभयम्, षयः प्रत्यक्षस्य इति चेत् । एतदाशङ्क्याह- न, उभयोः स्वनिर्वि रूपकत्वार्थयोः, तल्लक्षणाऽयोगात् विषयलक्षणाऽयोगात्, अयोग स्वनिर्विकल्पकत्वस्य तदकारणत्वात् प्रत्यक्षाऽकारणत्वात्, अकारण 'च अविषयत्वात् । इत्थं चैतद् अङ्गीकर्तव्यमित्याह- अन्यथाऽम
Page #199
--------------------------------------------------------------------------
________________
स्वोपज्ञठीका सहिताः ।
२०७
-पगमविशेधात् विरोधश्च " नाकारणं विषयः " इति वचनप्रामाज्यात्, तदेवं नोभयं विषय इति । एतेनेत्यादि । एतेन अनन्तरोदितेन, स्वसंविदितत्वं प्रत्याख्यातं प्रत्यक्षस्य इति प्रक्रमः ॥
अनेन विषयाऽवेदनप्रसङ्गात् सर्वथैकस्वभावत्वाद् निर्विषयतापत्तः, न च स्वसंवेदनमेव विषयवेदनम्, तयोः कालादिभेदात् तद्वेदनस्यैकत्वाभावात् तच्चित्रताप्रसङ्गादित्येकस्वभावत्ववस्तुवादिनोऽन्याऽवेदनप्रसङ्ग एव । एवं च सति स्वनिर्विकल्पकत्ववेदनात् तत्सामर्थ्यतस्तत्पृष्ठभावी विकल्पः स्वतस्त द्विषय एव स्याद् रूपादिविकल्पवद्, न च भवति तथाऽप्रतीतेः, न च तमन्तरेण तत्तथाताव्यवस्थितिरतिप्रसङ्गादिति, एतेन चदाह न्यायवादी
"प्रत्यक्षं कल्पनापोढं प्रत्यक्षेणैव सिध्यति । प्रत्यात्मवद्यः सर्वेषां विकल्पो नाम संश्रयः ॥ १ ॥ संहृत्य सर्वतश्चिन्तां स्तिमितेनाऽन्तरात्मना । स्थितोऽपि चक्षुषा रूपमीक्षते साक्षजा मतिः ॥२॥ पुनर्विकल्पयन् किंञ्चिदासीद् मे कल्पनेदृशी । इति वेत्ति न पूर्वोक्तावस्थायामिन्द्रियाद् गतौ ॥३॥" इत्यादि, तदपाकृतमवसे यम् उक्तवत्प्रत्यक्षेणैव असिद्धेः तदेकस्वभावत्वविरोधादिति ॥
इहैव उपचयमाह- अनेन स्वसंविदितेन प्रत्यक्षेण । किमित्याह - विषयाऽवेदनप्रसङ्गात् प्रसङ्गश्च सर्वथा एकस्वभावत्वाद् अस्य । एवमपि को दोष इत्याह- निर्विषयतापत्तेः स्वसंविदितत्वेन । न चेत्यादि । न च स्वसंवेद्नमेव विषय वेदनम् । कुत इत्याह- तयोः स्व-विषययोः, कालादिभेदात् आदिशब्दात् स्वरूपग्रहः । यदि नामैवं ततः किमित्याहतद्वेदनस्य तयोः स्वविषययोर्वेदनं तद्वेदनं तस्य । किमित्याहएकत्वाऽभावात् उभयवेदनेन, अत एव तचित्रताप्रसङ्गाद् इत्येवमेस्वभावत्ववस्तुवादिनो वादिनः । किमित्याह - अन्याऽवेदनप्रसङ्ग एव
Page #200
--------------------------------------------------------------------------
________________
२०.८
अनेकान्तजयपताकास्वव्यतिरिक्तविषयाऽवेदनप्रसङ्ग एव इत्यर्थः, एवं च सति खनिर्विकल्पकत्ववेदनात्. कारणात् , तत्सामर्थ्यतः स्वनिर्विकल्पकत्ववेदनसा: मर्येन हेतुना, तत्पृष्ठभावी विकल्पः प्रक्रमात् सामान्येन प्रत्यक्ष पृष्ठभावी विकल्पः, स्वत आत्मना एव समारोपव्यच्छेदमन्तरेष तद्विषय एव स्यात् . स्वनिर्विकल्पकत्ववेदनविषय एव. भवेत्। रूपादिविकल्पवद् इति निदर्शनम् । न च भवति स्वत एवं तथाऽप्रतीतेः कारणात् , न च तमन्तरेण विकल्पम् , तत्तथाताव्य पस्थितिः तस्य प्रत्यक्षस्य तथाताव्यवस्थितिः- स्वनिर्विकल्पकत्वमें दनभावव्यवस्थितिः स्वसंविदितत्वव्यवस्थितिरित्यर्थः । कथं न इत्याही अतिप्रसङ्गात् विषयान्तरविषयवेदनाऽभावप्रसङ्गादिति, एतेन अं नन्तरोदितेन, यदाह न्यायवादी धर्मकीर्तिर्वार्तिके- “प्रत्यक्षमित्यादि तदपाकृतमवसेयमिति योगः- प्रत्यक्षं प्रस्तुतम् , कल्पनापोढमित्येतर प्रत्यक्षेणैव सिध्यति । कथमित्याह-प्रत्यात्मवेद्यो यस्मात् सर्वेष प्रमातृणाम् , विकल्पो नाम संश्रयः शब्दानुविद्ध इत्यर्थः ॥ १ ॥ तथ संहृत्य सर्वतश्चिन्तां विकल्परूपाम् , स्तिमितेन अन्तराऽऽत्मना प्रस ननियापारण, स्थितोऽपि सन् , चक्षुषा रूपमीक्षते पश्यति, यया बुद्ध्या सा अक्षजा मतिः ।। २ ।। ईक्षित्वा पुनर्विकल्पयन किंचिय पश्चाद् आसीद् मे कल्पना ईदशी एवंभूता इति वेत्ति, न पूर्वोक्ती वस्थायां चक्षुषा रूपेक्षणलक्षणायाम् , इन्द्रियाद् गतौ ॥ ३ ॥ इत्यादि यदाह न्यायवादी तद् · अपाकृतम् अपास्तमवसेयम् । कथमित्याहई उक्तवत् यथोक्तं तथा, प्रत्यक्षेण एव असिद्धेः 'प्रत्यक्षेणैव सिध्या इत्यस्य असिद्धेः, असिद्धिश्च तदेकस्वभावत्वविरोधात् तस्य प्रत्यक्षर एकस्वभावत्वविरोधात् स्वविषयपरिच्छेदकत्वेन इति भावितार्थमेत दिति ॥
न चानुमानमत्र प्रमाणम् , अस्य स्खलक्षणत्वात् अनुमानस्य च सामान्यलक्षणालम्बनत्वात् , न चेदं परे पक्षे चारु, गमक
१ अन्तरेणेति शेषेः ।
Page #201
--------------------------------------------------------------------------
________________
स्वोपज्ञटीकासहिता।
२०९ लिङ्गाऽसम्भवात् स्वभावकार्याऽसिद्धेः, स्वभावस्य तादात्म्येन तत्त्वात् तद्वत् तदग्रहणात् , तद्ग्रहे साध्यप्रतिपत्तेः, तदप्रतिपत्ती तद्ग्रहणाऽयोगात् एकान्तैकत्वात् , तथाग्रहे मोहाऽभावात, भावे वा निवृत्त्यनुपपत्तेः उपायाऽभावादिति । अनेन शिंशपादिपतिपत्तौ वृक्षाऽप्रतिपत्तिः प्रत्युक्ता, तुल्ययोगक्षेमत्वात् , अन्यथा कयश्चित् तद्भेदापत्तेः । व्यावृत्तिभेदोऽभ्युपगम्यत एव इति चेत् , न तर्हि तदेकस्वभावता । सोऽपारमार्थिक इति चेत्, किमर्थमस्योपन्यासः ?, व्यवहारार्थमिति चेत् , कीदृशोऽसता व्यवहारः १, परमार्थतो भ्रान्त इति चेत् , न तस्वतः साध्यसाधनभाव इति । एतेन "सर्व एव अयमनुमानाऽनुमेयव्यवहारोबुद्ध्यारूढेन धर्मधर्मिन्यायेन" इत्येतदपि प्रत्युक्तम् , अस्य तावदर्थाऽप्रतिबद्धस्वात् ,तस्य एकत्वेन अतथाभूतत्वाद् नीला नील-पीतबुद्ध्याकारतुल्यत्वात् परप्रतिपादनोपायत्वानुऽपपत्तेरतिप्रसङ्गादिति न स्वभावहेतोस्तदवगतिः ।। ... न चेत्यादि । न च अनुमानमत्र प्रक्रमाद् निर्विकल्पकत्वे प्रत्यक्षस्य प्रमाणम् । कुत इत्याह- अस्य प्रत्यक्षस्य, स्खलक्षणत्वात् । यदि नामैवं ततः किमित्याह- अनुमानस्य च सामान्यलक्षणाऽऽलम्बनत्वात तत् कथं अन्याऽऽलम्बनमन्यत्र प्रमाणं भवति ?। दृषणान्तरमाह- न चेदमित्यादि । न च इदमनुमानम् , परपक्षे ए. कान्तकस्वभाववादिपक्षे, चारु शोभनम् , गमकलिङ्गाऽसंभवात्, असंअवश्च स्वभाव-कार्याऽसिद्धेः- स्वभावश्च कार्य च स्वभाव-कार्ये लिङ्गे इति प्रक्रमः तयोरसिद्धः, असिद्धिश्व स्वभावस्य सत्त्वादेः, तादात्म्येन साध्यात्म्येन हेतुना, तत्त्वात् साध्यत्वात् । यदि नामैवं ततः किमिलाह- तद्वत् साध्यवत् , तदग्रहणात् खभावाऽग्रहणात् । इत्थं चैतद् अङ्गीकर्तव्यमित्याह- तद्ग्रहे स्वभावग्रहे, साध्यप्रतिपत्तेः। नान्यथा इदमित्याह- तदप्रतिपत्तौ साध्याऽप्रतिपत्तौ,तग्रहणाऽयोगात् स्वभामहणाऽयोगात् , अयोगश्च एकान्तैकत्वात् प्रक्रमात् साध्य हेत्वोः ।
२७
Page #202
--------------------------------------------------------------------------
________________
२१०
अनेकान्तजयपताकामोहव्यावृत्त्यर्थमपि अस्य प्रवृत्तिरयुक्ता इत्याह- तथाग्रहे एकत्वेन प्रहे मोहाऽभावात् , भावे वा तथाग्रहेऽपि मोहस्य । किमित्याहनिवृत्त्यनुपपत्तेः अनुपपत्तिश्च उपायाऽभावात् , तत्स्वरूपग्रहेऽपि तन्मो हस्य निवृत्तौ क उपाय इति ?, अनेन अनन्तरोदितेन, शिंशपादिप्रतिपत्तौ सत्यां वृश्नाऽप्रतिपत्तिः प्रत्युक्ता । कुत इत्याह- तुल्ययोगक्षेमत्वात शिंशपात्वस्य एव वृक्षत्वाद् इत्यर्थः । अन्यथेत्यादि । अन्यथा एवमनभ्युपगमे, कथंचित् तद्भेदापत्तेः शिंशपात्व-वृक्षत्वयोर्भेदापत्तेः/ व्यावृत्तिभेदोऽभ्युपगम्यत एव शिंशपात्व-वृक्षत्वयोः शास्त्राऽधि. कृताऽनित्यत्व-कृतकत्वयोर्वा इति चेत् । एतदाशङ्कयाह- न तर्हि तदेकखभावता शिंशपादेः एकस्वभावता, स व्यावृत्तिभेदः, अपारमार्थिक इति चेत् । एतदाशङ्कयाह- किमर्थमस्य अपारमार्थिकस्य उपन्यासः ?, व्यवहारार्थमिति चेत् । एतदाशङ्कयाह- कीडशोऽन सता व्यवहारः ?, परमार्थतो भ्रान्त इति चेद् व्यवहारः । एतदाशङ्कयाह- न तत्त्वतः परमार्थेन, साध्य-साधनभावो भ्रान्तव्यवहार विषयत्वादिति । एतेन इत्यादि । एतेन अनन्तरोदितेन, “सर्व एवं अयमनुमानाऽनुमेयव्यवहारो बुद्धयारूढेन धर्म-धर्मिन्यायेन" इत्येत दपि भवता उक्तं प्रत्युक्तम् । कुत इत्याह- अस्य तावद् बुद्धयाऽऽ रूढस्य धर्म-धर्मिभावस्य, अर्थाऽप्रतिबद्धत्वाद् वस्त्वऽप्रतिबद्धत्वात्। अप्रतिबद्धत्वं च तस्य अर्थस्य, एकत्त्वेन एकस्वभावत्वेन हेतु अतथाभूतत्वात् धर्म-धर्मितया अभूतत्वात् । यदि नामैवं ततः किमि त्याह- नीलात् सकाशात् , नील-पीतबुद्ध्याऽऽकारतुल्यत्वा बुद्ध्याऽऽरूढधर्म-धर्मिभावस्य ततोऽभावादित्यर्थः, ततश्च परप्रति पादनोपायत्वाऽनुपपत्तेः तदसद्रूपतया नाऽसत उपायत्वम् । इत्याह- अतिप्रसङ्गात् असत उपायत्वे सर्वसिद्धयापत्त्या अतिप्रसङ्गा इत्येवमुक्तनीतेः असिद्धेर्न स्वभावहेतोः सकाशात , तदवगति प्रक्रमात् प्रत्यक्षनिर्विकल्पकत्वाऽवगतिः ॥
एवं न कार्यहेतोरपि, तनिर्विकल्पकत्वकार्यत्वेन कस्यचि
Page #203
--------------------------------------------------------------------------
________________
खोपज्ञटीकासहिता।
२११
असिद्धेः,सदा एकेन एकवेदनात् , तत्कार्यत्वस्य च तदवधिकत्वात् तदग्रहणे तथा अग्रहणात् , अन्यथा न्यायाऽयोगात् । तत्तत्स्वभाचत्वतः तथाग्रहणेऽतिप्रसङ्गात्, अन्यतरदर्शनाद् अन्यतराऽवगः मापत्तेः तथा विशिष्टस्य ग्रहणाद्, अभ्युपगमे अनुभवविरोधात् अविनाभावग्रहणमन्तरेण तदयोगात् , लोके तथोपलब्धेः तस्य च परपक्षेऽभावात् , ज्ञानानां प्रतिनियताऽर्थत्वात् तत्तथाऽभावतोऽनुसन्धानाऽयोगात् , तथाविधविकल्पस्याऽपि असिद्धेः, तस्याऽपि क्षाणिकत्वात् , तथा तत्तनिश्चयाऽनुपपत्तेरित्यत्रापि बुद्ध्यारूढधर्मधर्मिन्यायतोऽपि अधिकृतव्यवहाराऽभावः, उक्तवद् न्यायतस्तदयोगात् , योगेऽपि अभिलषितार्थाऽसिद्धिरेव । अर्थस्याऽर्थगमकत्वाऽभ्युपगमात् तत्तथातायां च निश्चयाऽभावात् , तस्य तद्विषयत्वाऽनभ्युपगमात् , पारम्पर्यतस्तत्तद्भावे प्रमाणाऽभावात् , परनीतितस्तदसिद्धेरिति । एतेन धृमाद् अन्यनुमानं निषिद्धम् , सपानयुक्तित्वादिति । यस्य पुनरन्वयव्यतिरेकवद् एकाऽनेकस्वभावं निश्चयात्मकमेव प्रत्यक्षं तस्य उक्तदोषाऽभावः, सर्वत्र अनुपचरितनिबन्धनभावात् , प्रतीतिसचिवतचित्रस्वभावतया तदविरोधाद् इत्यलं प्रसङ्गेन ॥
एवमित्यादि । एवं न कार्यहेतोरपि सकाशात् तदद्वगतिरिति प्रक्रमः । कुतो न इत्याह- तनिर्विकल्पकत्वकार्यत्वेन प्रत्यक्षनिर्विकल्पकत्वकार्यत्वेन, कस्यचित् पदार्थस्य, असिद्धेः कारणात्, असिद्धिश्च सदा सर्वकालम् , एकेन ज्ञानेन इति सामर्थ्यम् , एकवेदनाद् एकाऽनुभवात् । यद्येवं ततः किमित्याह- तत्कार्यत्वस्य च प्रक्रमात प्रत्यक्षनिर्विकल्पकत्वकार्यत्वस्य च । किमित्याह- तदवधिकत्वात अधिकृतप्रत्यक्षाऽवधिकत्वात् । एवमपि किमित्याह- तदग्रहणे विवक्षिताऽवध्यग्रहणे सति । किमित्याह- तथा तदवधिकत्वेन अग्रहणात् । इत्थं च एतद् अङ्गीकर्तव्यमित्याह- अन्यथा एवमनभ्युपगमे, त्यायाऽयोगात् , अयोगश्च तत्तत्स्वभावत्वतः तस्य विवक्षितकारणकार्य
Page #204
--------------------------------------------------------------------------
________________
२१२
अनेकान्तजयपताका--
त्वस्य तत्स्वभावत्वतः तदवधिकस्वभावत्वतः तज्जन्यत्वेन, तथा तदवधिकत्वेन ग्रहणे सति । किमित्याह- अतिप्रसङ्गात् । ततः किमित्याह- अन्यतरदर्शनाद् हेतु-फलयोः । किमित्याह- अन्यतराम ऽवगमापत्तेः हेतु-फलयोरेव, आपत्तिश्च तथा इतरेतराऽवधिकत्वेन, विशिष्टस्य तत्स्वभावतया ग्रहणात् । अस्त्वेवमित्यधिकृत्य आहअभ्युपगमे अधिकृतग्रहणस्य अनुभवविरोधात्, विरोधश्च अविनाभावग्रहणमुभयगतमन्तरेण तदयोगात् तथाविशिष्टस्य ग्रहणाऽयोगात् , अयोगश्च लोके तथोपलब्धे: अविनाभावग्रहणमन्तरेण संबन्धिनः संबन्ध्यन्तरविशिष्टतया अग्रहणोपलब्धेः । अविनाभाक ग्रहणाद् एतदेवं भविष्यति इत्याह- तस्य च अविनाभावग्रहणस्या परपक्षे अभावात् , अभावश्च ज्ञानानां प्रतिनियताऽर्थत्वात् क्षणिकलेन, यथोत्तम्
"एकमर्थ विजानाति न विज्ञानद्वयं यथा ।
विजानाति न विज्ञानमेकमर्थद्वयं तथा ॥१॥" इत्यादि । तत्तथेत्यादि । तस्य हेतुज्ञानस्य, तथा फलज्ञानत्वेन, अभावतः कारणात् । किमित्याह- अनुसन्धानाऽयोगात् 'अत इदम् इत्यनुसन्धानम् , तथाविधविकल्पस्याऽपि तत्पृष्ठभाविनः असिद्धेः असिद्धिश्च तस्याऽपि विकल्पस्याऽपि, क्षणिकत्वात् स्वसंविनिष्ठितत्वेन, ततश्च तथा इतरेतराऽवध्यनुसन्धानत्वेन,तत्तन्निश्वयाऽनुपपत्तेःप्रक्रमात लस्य कस्यचित् तनिश्चयः तनिर्विकल्पकत्वकार्यत्वनिश्चयः तत्तन्निश्चय तस्य अनुपपत्तिः ततः, न कार्यहेतोरपि तदवगतिरिति क्रियायोगः अत्राऽपि कार्यहेतौ अपि,बुद्ध्याऽऽरूढधर्ममिन्यायतोऽपि अधिकृतव्या हाराऽभावः अनुमानाऽनुमेयव्यवहाराऽभावः । कुत इत्याह- उक्तवत यथोक्तं तथा, न्यायतो न्यायेन, तदयोगात् अधिकृतव्यवहा राऽयोगात् , योगेऽपिः - बुद्ध्यारूढधर्मधर्मिन्यायेन अधिकृत व्यवहारस्य अभिलषिताऽर्थाऽसिद्धिरेव । कुत इत्याह- अर्थ अर्थगमकत्वाऽभ्युपगमात् । यदि नामैवं ततः किमित्याह- तत्तथा ।
Page #205
--------------------------------------------------------------------------
________________
खोपज्ञटीकासहिता
२१३ तायां च अर्थाद् अर्थगमकतायां च निश्चयाऽभावात् , अभावश्च तस्य अर्थस्य, तद्विषयत्वाऽनभ्युपगमाद् विकल्पविषयत्वाऽनभ्युपगमात् , पारम्पर्यतः पारम्पर्येण, तत्तद्भावे तस्य विकल्पस्य तस्माद् अर्थाद् भावे । किमित्याह- प्रमाणाऽभावात् , अभावश्च परनीतितः परनीत्या, तदन सिद्धेः प्रमाणाऽसिद्धेः, स्वलक्षणात् स्वलक्षणज्ञानं ततो विकल्प इति, नहि एवं स्वलक्षणसामान्यलक्षणाऽऽलम्बनं परनीत्या प्रमाणमस्ति इति भावनीयम् , एवमभिलषिताऽर्थाऽसिद्धिरेव इति । एतेनेत्यादि। एतेन अनन्तरोदितेन, धूमाद् अग्न्यनुमानं निषिद्धम् । कुत इत्याहसमानयुक्तित्वाद् धूमाद् अग्न्यनुमानस्य । न च अयं सर्वस्यैव वार दिनो दोष इत्याह- यस्य पुनरित्यादि। यस्य पुनर्वादिनः, अन्वयव्यतिरेकवद् नित्याऽनित्यमित्यर्थः, अत एव एकाऽनेकखभावं निश्च: यात्मकमेव प्रत्यक्षम्-'इदम्-इत्थमिति' तस्य उक्तदोषाऽभावः, निर्विकल्पकं प्रत्यक्षमित्यत्र न प्रमाणं तेनैव तदनधिगतेः, अर्थविषयत्वाद् इत्येवमादयः उक्ता दोषाः तदभावः । कथमित्याह- सर्वत्र सविकल्पकादौ निरूप्ये । किमित्याह-अनुपचरितनिबन्धनभावात् तात्त्विकनिबन्धनभावादित्यर्थः । अत एव आह- प्रतीत्यादि । तस्य प्रत्यक्षस्य, चित्रस्वभावता स्वविषयग्रहणरूपा विच्छिन्नाऽर्थग्रहणस्वभावसंवेदनवेदनेन तच्चित्रस्वभावता, प्रतीतिसचिवा चासौ तथाप्रतीते: तचित्रस्वभा. बता च इति विग्रहः, तया प्रतीतिसचिवतचित्रस्वभावतया कारणेन, वदविरोधात् प्रक्रमाद् उक्तदूषणविपक्षतः, सविकल्पकत्वादौ तेनैक इदनधिगत्याद्यविरोधात् , अविरोधश्च पूर्वपक्षप्रन्थाऽनुसारतःप्रतिपक्षो. न्यासेन स्वतन्त्रनीत्या स्वयमेव भावनीय इति अलं प्रसङ्गेन ।।. । अस्तु वा निर्विकल्पकमपि प्रत्यक्षम् , तत्र असाधारणमेव वतु प्रतिभासते इत्येतद् अयुक्तम् , न्यायाऽ-नुभवविरोधात् । ततिभासो हि निश्चयबलेन व्यवस्थाप्यते, अन्यथा तदयोगात् , मावतस्तेनैव तदनधिगतेस्तया अनुभवाऽभावात्,एवमपि तत्कल्पअतिप्रसङ्गापत्तेः नियामकाऽभावादिति । न च द्वाग्दर्शनातू
Page #206
--------------------------------------------------------------------------
________________
२१४
अनेकान्तजयपताका
तन्निश्चयः अपि तु सदादिमात्रस्य, अतः प्रथमाऽक्षसन्निपाते तदेक प्रतिभासत इति एतद् युक्तम् ,सितेतरादिषु अपि क्षिप्रादिदर्शने ता. वन्मात्रनिश्चयात् , न च तत्र तदग्रहणमेव, तथा अनुभवविरोधात् , न च अन्यथाग्रहणेऽन्यथानिश्चयोत्पादः प्रमाणाऽभावात् , न च सन्नऽपि अयं न्याय्यः असमञ्जसत्वापत्तेः,न च वैभ्रमिक एव अयम तद्भावभावित्वोपलब्धेः। अवग्रहाद् अपि अयमयुक्त इति चेत् । सः त्यम्,अदोषस्तु तन्मात्राऽनभ्युपगमात् । एवमपि दृष्टबाधा इति चेत्। न, अन्तरालाऽवायत एव तद्भावात् । कथमेतद् अवगम्यत इति चेत् ?,अवग्रहबोधस्य अल्पत्वात् । यदि नामैवं ततः किमिति चेत) नाऽसौ विशिष्टाध्यवसायबीजम् , यस्तु भवति सोऽवान्तराऽवाय, रूपः,अवायबहुत्वात् । एवं सद्व्याधनेकस्वभावं वस्तु तदितरध माऽऽलोचनेन समानधर्मव्यवच्छेदतः तद्धोधपूर्वकत्वात् , तदितर बोधस्य तथाऽनुभवतस्तत्तथास्वभावत्वाऽवगमात्, प्रथममेव विशे षाऽग्रहणाद् इन्द्रियद्वारेणैव तथाऽर्थविशेषप्रतिपत्तिः, सकललोक सिद्धत्वात् , अन्यथा तदनुपपत्तेः, द्राग्दर्शने कचिदभावात शीघ्राऽवगमस्याऽपि दीर्घत्वात् कालसौम्यादिति । वस्तुनोऽने कस्वभावत्वात् सर्वेषां सदा भावात् , अन्यथा तदनुपपत्तेश्चित्रा ऽऽस्तरणवद् एकदैव किं नाऽर्थविशेषप्रतिपत्तिः ?, येन 'एतदेवम् इति ग्रहीतुः क्षयोपशमाऽभावादित्युक्तप्रायम् ॥ . इहैव उपचयमाह- अस्तु वा इत्यादिना । अस्तु वा भवतु का निर्विकल्पकमपि प्रत्यक्षम् , तत्र निर्विकल्पके प्रत्यक्षे, असाधारणमे सजातीयेतरविविक्तमेव, वस्तु रूपादि घटादि प्रतिभासते, हा एतद् अयुक्तम्-अघटमानकम् । कुत इत्याह-न्यायाऽ-नुभवविरोधा न्यायप्रधानो अनुभवो न्यायाऽनुभवः तेन विरोधात् , अथवा न्याई युक्तिः, अनुभवः प्रत्यक्षम् , ताभ्यां विरोधात् । एनमेवाऽऽ तत्प्रतिभासो हि इत्यादिना। तत्प्रतिभासो हि प्रत्यक्षाऽऽकारो यस्मा निश्चयबलेन व्यवस्थाप्यते, अन्यथा निश्चयबलमन्तरेण, तदयोगा
Page #207
--------------------------------------------------------------------------
________________
स्वोपज्ञटीकासहिता।
२१५ व्यवस्थाऽयोगात् , अयोगश्च भावतः परमार्थेन, तेनैव निर्विकल्पकप्रत्यक्षेण, तदनधिगतेः प्रत्यक्षाऽऽकारस्याऽनधिगतेः, अनधिगतिश्च तथा स्वाऽऽकारग्रहणतया अनुभवाऽभावात् , एवमपि अनुभवाऽभावेऽपि, तत्कल्पने तेनैव तदधिगतिकल्पने, अतिप्रसङ्गापत्तेः प्रतिभासान्तरकल्पनया इति भावः । इत्थं चैतद् अङ्गीकर्तव्यमित्याह- नियामकाऽभावाद् इति अतः स्थितमेतद् अयुक्तमिति । न चेत्यादि । न च द्राग्दर्शनात् शीघ्रदर्शनात् , तनिश्चयः प्रक्रमाद् असाधारणवस्तुनिश्चयः, अपि तु सदादिमात्रस्य निश्चयः, अतः अस्मात् कारणात् , प्रथमाऽक्षसन्निपाते अवग्रहणकाले, तदेव सामान्यं प्रतिभासते, इति एतद् युक्तम् । उपपत्त्यन्तरमाह- सितेतरादिष्वपि क्षिप्रादिदर्शने आदिशब्दाद् मन्ददर्शनग्रहः, तावन्मात्रनिश्चयात् सदादिमात्रनिश्चयात् , न च तत्र क्षिप्रादिदर्शने, तदग्रहणमेव सदादिमात्राऽग्रहणमेव । कुत इत्याह- तथा सदादिमात्रनिश्चयत्वेन अनुभवविरोधात् , न च अन्यथाग्रहणे सितेतरादित्वेन ग्रहणे इत्यर्थः, अन्यथा सदादिमात्रत्वेन निश्चयोत्पादः । कुत इत्याह- प्रमाणाऽभावात् न च सन् अपि अयं अन्यथाग्रहणे अन्यथानिश्चयोत्पादो न्याय्यः । कुत इत्याह- असमञ्जसत्वापत्तेः सितेतरादिव्यवस्थाऽभावेन, न च वैभ्रमिक एव अयं प्रक्रमाद् द्रागदर्शनेन निश्चयः सदादिमात्रस्य । कुत इत्याह- तद्भावभावित्वोपलब्धेः सदादिमात्रभावभावित्वोपलब्धेः, अवग्रहाद् अपि अनिर्देश्यसदादिमात्रगोचराद्, अयं सदादिनिश्चयः, न शब्दाऽरूषितत्वेन युक्त इति चेत् । एतदाशङ्कथाह- सत्यम् , एव मेतत् , अदोस्तु तन्मात्राद् अवग्रहमात्राद् अनिर्देश्यसदादिमात्रगोचरात् , अनयुपगमात् सदादिमात्रनिश्चयस्य, एवमपि दृष्टबाधा इति चेत्- तदवन्तरमेव भावाद् अधिकृतनिश्चयस्य इत्यऽभिप्रायः । एतदाशङ्कथाहर अन्तरालाऽवायत एव गेयत्वाद्यपेक्षया सदऽ-सदीहोत्तरकालभावनः सकाशात् , तद्भावात् सदादिमात्रनिश्चयभावात्- शब्दाऽरूषिजोधाऽनन्तरभावी एव अयं निश्चय इत्यर्थः । कथमेतद् अनन्तरो
Page #208
--------------------------------------------------------------------------
________________
२१६
अनेकान्तजयंपताकादितमवगम्यते इति चेत् ?। एतदाशङ्कयाह- अवग्रहबोधस्य प्रक्रमाद् नैश्चयिकाऽवग्रहसंबन्धिनः । किमित्याह- अल्पत्वाद् अनववोचल्लावृत्तिमात्ररूपत्वेन । यदि नामैवं ततः किमिति चेत् । एतदाशंकथाss नाऽसौ अल्पबोधरूपः सन् विशिष्टाऽध्यवसायबीजम् , नहि अणुमात्रा अणुकादिभावः, यस्तु भवति विशिष्टाऽध्यवसायबीजं सोऽवान्दो राऽवायरूपः शब्दाऽरूषितबोधस्वलक्षणः । कुत एतद् एवमित्याऽऽहन अवायबहुत्वात् कालक्षयोपशमादिभेदेन, अतः प्रथमाऽक्षसन्निपा तदेव प्रतिभासते इति युक्तमिति स्थितम्, एवमुक्तनीत्या, सद् व्याद्यनेकस्वभावे वस्तुनि इन्द्रियद्वारेण एव तथाऽर्थविशेषप्रतिपत्तिरिति योगः । कथमित्याह- सद्रव्याद्यनेकखभावं वस्तु प्रायशो निद र्शितमेव, तथा निदर्शयिष्यामः, ततश्च सद्रव्याद्यनेकखभा वस्तुनि सति । किमित्याह- तदितरधर्माऽऽलोचनेन ते अन्वयिन इतरे व्यतिरेकिणः, ते च इतरे च तदितरे, तदितरे च ते धर्माश्च तेषा मालोचनं स्वरूपनिरीक्षणमिति विग्रहः, तेन समानधर्मव्यवच्छेद गेयत्वादिव्यवच्छेदेन, व्यवच्छेदश्च तद्बोधपूर्वकत्वात् समानधर्मबोध र्वकत्वात् , तदितरबोधस्य सत्त्वादिविशेषधर्मबोधस्य, एतच्च अस्य तथ ऽनुभवतः इत्थंक्रमाऽनुभवेन, तथास्वभावत्वाऽवगमाद् वस्तुनः । इन चैतद् अङ्गीकर्तव्यमित्याह-प्रथममेव आदौ एव, विशेषाऽग्रहणात् सर्व किमित्याह- इन्द्रियद्वारेण एव तथा समानधर्मग्रहणपुरस्सरा ) विशेषप्रतिपत्तिः । इत्थं चैतद् अङ्गीकर्तव्यमित्याह- सकललोका |
द्धत्वात् कारणात् , अन्यथा उक्तप्रकारव्यतिरेकेण, तदनुपपत्तेः अ विशेषप्रतिपत्त्यनुपपत्तेः, अनुपपत्तिश्च द्राग्दर्शने कचिद् विद्युत्स। तादौ, अभावाद् अर्थविशेषप्रतिपत्तेः । अन्यत्र भविष्यति इल कानिरासाय आह- शीघ्राऽवगमस्याऽपि लोकदृष्ट्या दीर्घत तत्त्वदर्शनेन, दीर्घत्वं च कालसौक्ष्म्यात्, इति इन्द्रिया एव तथाऽर्थविशेषप्रतिपत्तिरिति क्रिया। आह- वस्तुनोऽनेकस्खा चत्वाद् भवन्नीत्या सर्वेषां. स्वभावानां सदा भावात् त्वन्नीत्या ।
Page #209
--------------------------------------------------------------------------
________________
खोपज्ञटीकासहिता। अन्यथा तस्य वस्तुनः, तदनुपपत्तेः अनेकस्वभावत्वाऽनुपपत्तेः । किमित्याह- चित्राऽऽस्तरणवद् इति निदर्शनम् , एकदा एव एकास्मन् एव काले, किं न अर्थविशेषप्रतिपत्तिः सनिधानाऽविशेषेऽपि इति गर्भः ?, येन, एतद् अनन्तरोदितम्- एवं तदितरधर्माऽऽलोचनादिस्वेन इति । एतदाशकंयाऽऽह-ग्रहीतुः क्षयोपशमाऽभावाद् एतद् एवमित्युक्तप्रायं प्रायेण उक्तं प्राक् ।। .. एवम् , ईहादेः कथञ्चिद् अनधिगतार्थाऽधिगन्तृत्वात् , एकाऽधिकरणत्वात् , बोधवृद्ध्युपपत्तेः, आलोचिताधिगमाव , तत्स्थैर्यसिद्धेः, तथाऽनुभवभावात् , प्रतिक्षेपाऽयोगाव , बाधकानुपपचेः न्यायत एव व्यवस्थितं प्रामाण्यम् ।। . एवमित्यादि । एवमुक्तनीत्या, ईहादेः मत्तिविशेषजातस्य न्यायत एव व्यवस्थितं प्रामाण्यमिति योगः । हेतूनाह-कथंचिद् अनधिगताऽर्थाऽधिगन्तृत्वाद् अवग्रहबोधाऽपेक्षया, तथा एकाऽधिकरणत्वात् तद्वस्तुतत्त्वाऽपेक्षया, तथा बोधवृद्ध्युपपत्तेः अर्थाऽनुभवभावेन, तथा आलोचिताऽधिगमाद् दृष्टपरिच्छेदेन, तथा तत्स्थैर्यसिद्धेः बोधाऽवस्थानेन, तथा अनुभवभावाद् अचिच्युतिरूपधारणया, तथा प्रतिक्षेपाऽयोगात् अधिकृताऽनुभवस्य, अयोगश्च बाधकाऽनुपपत्तेः कथंचिद् ग्रहणमपि यथायोग योजनीयम्, एवं न्यायत एव व्यवस्थितं प्रामाण्यम्-ईहादेरिति प्रक्रमः ।।
तथा सद्व्याद्यनेकस्वभावता च वस्तुनस्तथाऽनुभवसिद्धत्वादिति । किं हि सत्त्वाद् अन्यद् द्रव्यादि इति चेत् ? प्रतीतमेतद् यत् तस्मिन् गृहीतेऽपि कथञ्चिद् गृह्यत इति । नैवंविधं किश्चिद् अवगच्छाम इति चेत्, किं न भवति भवतः कचिद् घटादौ ससन्मात्रग्रहेऽन्याग्रहः । किं तद् यद् भूयो गृह्यत इति चेत् ?, ननु बालादिसिद्धं तदनुविद्धमेव विशिष्टं मृदूंपादि । न तत् तत्सचितोऽन्यद् एव इति चेत्, सत्यमेतत्., किन्तु तन्मात्रमपि न भवतीति । तथा प्रतीतेनिश्चयाऽनुभवेन अविगानत एव ए
Page #210
--------------------------------------------------------------------------
________________
२१८ .
अनेकान्तजयपताकाकत्र सन्मृद्पाऽऽकारवेदनात् , सन्मात्राद् एव एतदनुपपत्तेरतिप्रसङ्गात् , रूपमात्राद् रूप-रसादिनिश्चयापत्तेः । न च सत्त्वाऽऽकारयोरपि अभेद एव, अनेकदोषप्रसङ्गात् , तथाहि“घटसत्त्वं तावद् एकं तस्य मृद्रूपाधात्मकत्वे एकत्वहानि, तदनभ्युपगमे प्रतीतिबाधा। तथा एकत्वेऽपि कस्य असौ आकार इति वाच्यम् ?, न रूपसत्वस्य, त्वगिन्द्रियेणाऽपि ग्रहणात्। तस्य च रूपाऽविषयत्वात् तथाऽप्रतीतेः, तत्सत्त्वस्य च तत्त्वाद न स्पर्शसत्त्वस्य, चक्षुषाऽपि उपलब्धेः स्पर्शात् तत्सत्त्वभेदप्रसङ्गाद रूपेऽपि अनुगमोपपत्तेः,अन्यथा अनुभवविरोधात् ,न च उभयस स्वस्य तदेकत्वाऽयोगात् इन्द्रियसङ्करप्रसङ्गात् , लोकविरोधापत्ते असमञ्जसत्वादिति । न च तयोराकारयोर्भेद एव, तथा प्रती त्यभावात् , तत्वत उभयाऽयोगात् तत्सत्त्वैकत्वक्षतेः, तथा च अभ्युपगमविरोधादिति।। " तथा सद्व्याद्यनेकस्वभावता च वस्तुनोन्यायत एव व्यवस्थिता कथमित्याह- तथाऽनुभवसिद्धत्वाद् अवग्रहादिप्रकारेण अनुभव सिद्धत्वादिति । किं हि सत्वाद् अन्यद् अर्थान्तरभूतं द्रव्यत्वात इति चेत् ? । एतदाशङ्कयाह- प्रतीतमेतद् यत् तस्मिन् सत्त्वे गृहीतेऽपि सति कथंचिद् न गृह्यते इति, नैवंविधं किञ्चिद् या तस्मिन् गृहीतेऽपि कथञ्चिद् न गृह्यत इति, तद् अवगच्छाम ही चेत् । एतदाशङ्कयाह- किं न भवति भवतः कचिद् घटा वस्तुनि, सन्मात्रगहे सति अन्याऽग्रहो वस्त्वन्तराऽग्रहः ?, किंता वस्तु, यद् भूयः पुनः, सन्मात्रग्रहोत्तरकालं गृह्यत इति चेत् । एवं दाशङ्कयाऽऽह- ननु इति अक्षमायाम् , बालादिसिद्धं तदनुविद्धमे सन्मात्राऽनुविद्धमेव विशिष्टं मृद्रूपादि, न तद् मृद्पादि, तत्सत्त्व तः सन्मात्रसत्त्वाद्, अन्यद् एव इति चेत् । एतदाशङ्कथाह सत्यमेतद्, अन्यद् एव न किन्तु तन्मात्रमपि सन्मात्रमपि न भवति कुत इत्याह- तथा सन्मात्रत्वेन अप्रतीतेः, अप्रतीतिश्च निश्चयाऽनुभने
Page #211
--------------------------------------------------------------------------
________________
खोपज्ञटीकासहिता।
२१९ अवग्रहोत्तरकालम् , अविगानतः अविगानेन एव, एकत्र वस्तुनि । किमित्याह-सन्मृद्रूपाऽऽकारवेदनात् । यदि नामैवं ततः किमित्याहसन्मात्राद् एव एकस्वभावात् , एतदनुपपत्तेः सन्मृद्रूपाकारवेदनाऽनुपपत्तेः, अनुपपत्तिश्च अतिप्रसङ्गात् , अतिप्रसङ्गश्च रूपमात्रात सकाशात् , रूप-रसादिनिश्चयापत्तेः सन्मात्राद् इत्र विजातीयनिश्चयन्यायेन । इहैव दोषान्तरमधिकृत्य आह- न चेत्यादि । न च सत्त्वाऽऽकारयोः अपि इह अधिकृतयोः, अभेद एव एकान्तेन । कुत इत्याह- अनेकदोषप्रसङ्गात् । एनमेव आह- तथाहि इत्यादिना। तथाहि- "घट. सत्त्वं तावद् एकं निरंशं स्खलक्षणम्" इत्यऽविचारितरमणीयेन भवदs. भ्युपगमेन, तस्य मृद्पाद्यात्मकत्वे सकललोकाऽनुभवसिद्धे अभ्युपगम्यमाने एकत्वहानिः मृदादिशाबल्येन, तदनभ्युपगमे मृद्रूपाद्यात्मकत्वाऽनभ्युपगमे, प्रतीतिबाधा मृद्रूपादिप्रतीतेः, तथा एकत्वेऽपि सत्त्वाऽऽकारयोरिति प्रक्रमः, कस्य असौ आकारः रूपादिसवाऽपेक्षया इति वाच्यम् ? । किञ्च अतः ?, सर्वथा अपि दोष इत्याहन रूपसत्त्वस्य असौ आकारः । कुत इत्याह- त्वगिन्द्रियेण अपि ग्रहणात् कारणात् । यद्येवं ततः किमित्याह- तस्य च त्वगिन्द्रियस्य रूपाऽविषयत्वात् , अविषयत्वं च तथा त्वगिन्द्रियस्य रूपविषयत्वेन अप्रतीतेः, तत्सत्त्वस्य च रूपसत्त्वस्य च, तत्त्वाद् रूपत्वात् , एवं न स्पर्शसत्वस्य असौ आकार इति गम्यते । कुत इत्याह- चक्षुषा अपि उपलब्धेः कारणात् । ततः किमित्याह- स्पशोत् सकाशात् , तत्सविभेदप्रसङ्गात् स्पर्शसत्त्वभेदप्रसङ्गात् , प्रसङ्गश्च रूपे अपि अनुगमोअपत्तेः । इत्थं च एतद् इत्याह- अन्यथा एवमनभ्युपगमे अनुभववि.
धात् , चक्षुषा तदुपलब्धिरिति अनुभवः, न च उभयसत्त्वस्य रूप-स्पर्शसत्त्वस्य, असौ आकार इति प्रक्रमः । कुत इत्याहदेकत्वाऽयोगात् तस्य आकारस्य एकत्वाऽयोगात् , उभयाऽव्यतिकेण योगे अपि इन्द्रियसंकरप्रसङ्गाद् विषयसाङ्कर्येण, संकरें च लो. विरोधाऽऽपत्तेः, एवमसमञ्जसत्वादिति । न च इत्यादि । न च
Page #212
--------------------------------------------------------------------------
________________
२२०
अनेकान्तजयपताका
तयोराकारयोः चक्षुष्-त्वग्ग्राह्ययोः, भेद एव एकान्तेन । कुत इत्याहतथा भेदगर्भतया, प्रतीत्यऽभावात् स्पर्शनाद् अपि 'सोऽयं यो दृष्टः' इत्यवगमात् , तथा तत्त्वतः उभयाऽयोगात् तदभ्युपगमेन । तथा च आह- तत्सत्त्वैकत्वक्षतेः घटसत्त्वैकत्वक्षतेरित्यर्थः, तथा च एवं च अभ्युपगमविरोधाद् वस्तुनोऽनेकस्वभावत्त्वाऽऽपत्त्या, न च तयोराका. रयोः भेद एव इति स्थितम् । एवं बौद्धमतवक्तव्यतामधिकृत्य एतद् उक्तम् ।। - न च एतेभ्योऽन्य एव घटः, अग्रहणप्रसङ्गात् अरूपाद्यात्मकत्वात् , तत्तवृत्तौ अपि तत्तद्रूपताऽनापत्तेः, इत्थमपि तद्ग्रहणे इन्द्रियाणां स्वधर्माऽतिक्रमात् । कथमतिक्रम इति चेत् १, चक्षुरादेररूपादिग्रहणात् । एवमपि को दोष इति चेत् ?, ननु रसादिग्रहणापत्तिः, प्रतीतिबाधिता इयमिति चेत्, तदतिरिक्ततद्ग्रहे का प्रतीतिः ? । न तेभ्य एकत्वबुद्धिरिति चेत्, ततः किमिति वाच्यम् । अस्ति इयमिति चेत्, न खल अस्यां विगानम् , य एतनिमित्तः स स तेभ्योऽन्य इति चेत् । सङ्ख्यायाः तद्भावप्रसङ्गः । न सा तदनाश्रिता इति चेत्, एक मपि तत्वतोऽन्या एव । यदि नामैवं ततः किमिति चेत् ।। तनिमित्तैकबुद्धिः सा तद्विशेषणभूता इति चेत् , कथमेतद् विनि श्रीयत इति ?, एकोऽयमिति व्यवसायाद् इति चेत्, न अस सदादिभिन्नप्रतिभासीति तथाऽननुभवात् । एवमपि तत्कल्प नेऽतिप्रसङ्गात् तदन्तरापत्तनिराकरणाऽयोगात् , अननुभवादि शेषादिति तदेकत्वपरिणामनिबन्धन एव अयम् । तेषामेव एक ऽनेकात्मकत्वाद् भेदाऽभेदभावात् , तथास्वभावत्वाद् विरोधा नुपपत्तेः, प्रतीतिसिद्धत्वात् बाधाभावादिति । सद्व्याधन कस्वभावे वस्तुनि वस्तुमात्रग्राहि एव अवग्रहकल्पमविकल्प मङ्गीकर्तव्यम् , अन्यथा उक्तदोषाऽनतिवृत्तिः। एवंभूते च असि आवयोरविवाद एव,एवंविधाऽवग्रहस्यअस्माभिरप्यभ्युपगतत्वा
Page #213
--------------------------------------------------------------------------
________________
खोपज्ञटीकासहिता।
२२१ न च अत्र कश्चिद्दोषः, अपि तु शुक्तिकादौ अपि कचिद् रजतादिनिश्चयस्य न्यायत एव आपल्या गुणः, तस्य हि अवग्रहोत्तरकालमीहाप्रवृत्तस्य तथाविधसमानधर्मोपलब्धुरेक अस
क्षयोपशमभावतो भावात् , अन्यथा उक्तवत् तदयोगादिति ॥ - अधुना वैशेषिकमतमुररीकृत्य आह- न च एतेभ्य इत्यादि । न च एतेभ्यः सन्मृद्पाऽऽकारेभ्यः, अन्य एव घटः एकान्तेन । कुत इत्याह- अग्रहणप्रसङ्गाद् घटस्य, प्रसङ्गश्च अरूपाद्यात्मकत्वात् , एतच्च सन्सृद्पाकारेभ्योऽन्यत्वाऽभ्युपगमेन, उपन्यासश्च एवम्-चक्षुमहणाऽऽनुगुण्येन । तत्तद्वृत्तौ अपि इत्यादि । तेषां सन्मृद्पाऽऽ. काराणां तस्मिन् घटे वृत्तौ अपि सामान्यद्रव्यगुणानां यथासंभवं तद्वत्यऽभ्युपगमेन द्रव्यवृत्तौ कारणद्रव्येषु स एव वर्तते इति कृत्वा । किमित्याह- तत्तद्रूपताऽनापत्तेः तस्य घटस्य तद्रूपताऽनापत्तेः सन्मृद्पाऽऽकाररूपताऽनुपपत्तेः । इत्थमपि इत्यादि। इत्थमपि एवमपि तत्तद्रूपताऽनापत्तौ अपि, तद्ग्रहणे घटग्रहणे अभ्युपगम्यमाने । किमित्याह-इन्द्रियाणां स्वधर्माऽतिक्रमः स्वमर्यादापरित्यागः, कथमतिक्रमः इति चेत् ? । एतदाशङ्कयाह- चक्षुरादेः आदिशब्दात् त्वगिन्द्रियग्रहः, अरूपादिग्रहणाद् घटादिग्रहणाद् इत्यर्थः, एवमपि को दोष इति चेत् ?, द्विविधं हि द्रव्यम्- दार्शनं स्पार्शनं च, रूपादि. प्रतीतेः तद्गामित्वेन तदवसानत्वाद् इत्यभिप्रायः । एतदाशङ्कयाह-' ननु रसादिग्रहणाऽऽपत्तिः रसादेरपि घटवद् अरूपादित्वात , सावेन्द्रियं च एवं द्रव्यं प्राप्नोति, रसादिप्रतीतेरपि तद्गामित्वेन तदवसानत्वाद् इति भावनीयम् । प्रतीतिबाधिता इयं रसादिग्रहणाऽऽपत्तिः इति चेत् । एतदाशङ्कयाह- तदतिरिक्ततद्ग्रहे प्रक्रमाद् रूपादिव्यतिरिक्तघटग्रह का प्रतीतिः ?, ननु किमनया ?, न तेभ्यो रूपाविभ्यः एकत्वबुद्धिः, अनेकत्वाद् अमीषामिति चेत् । एतदाशङ्कयाऽऽहतिः किमिति वाच्यम् ?, किमपि, अत्राऽस्ति च इयमेकत्वबुद्धिरिति तत् । एतदाशङ्कथाह- न खलु अस्यामेकत्वबुद्धौ विगानम् , यः
Page #214
--------------------------------------------------------------------------
________________
२२२
अनेकान्तजयपताका
कश्चित् , एतन्निमित्तम्-एतस्या एकत्वबुद्धेः आलम्बनम् , स स इति स घटः, तेभ्यो रूपादिभ्योऽन्य इति चेत् । एतदाशङ्कयाह- संख्यायाः एकसंख्यायाः, एकत्वबुद्धिनिमित्तत्वेन तद्भावप्रसङ्गः घटभाव. प्रसङ्गः, न सा संख्या, तदनाश्रिता घटाऽनाश्रिता इति चेत् । एतदाशकथाह- एवमपि तदाश्रितत्वेऽपि, तत्त्वतः परमार्थेन, अन्या एव सन्मूदुपाऽऽकारेभ्य इति, यदि नामैवं ततः किमिति चेत् । एतदाशङ्कयाहतनिमित्ता सदादिभिन्नसंख्यानिमित्ता एकत्वबुद्धिः, सा संख्या, तद्विशेषणभूता प्रस्तुता एकाऽवयविविशेषणभूता इति चेत् । एतदाशङ्कयाह- कथमेतद् विनिश्चीयते यदुत सा तद्विशेषगभूता इति ?, एकोऽयमिति व्यवसायाद् इति, चेद् विनिश्चीयते इति । एतदाशङ्कयाहनाऽसौ व्यवसाय:, सदादिभिन्नप्रतिभासी इति । कुत इत्याह- तथा सदादिभिन्न प्रतिभासित्वेन अननुभवात् , एवमपि तथा अननुभवेऽपि, तत्कल्पने सदादिभिन्नाऽवयविकल्पने अतिप्रसङ्गात् , अतिप्रसङ्गश्च त. दन्तरापत्तेः तत्रैव अवयवि-अन्तरापत्तेः, आपत्तिश्च निराकरणाऽयोगात् तदन्तरस्य, अयोगश्च अननुभवाऽविशेषाद् द्वयोरपि इति, इत्येवं तदेकत्वपरिणामनिबन्धन एव अयं प्रक्रमात् सन्मृद्रव्याऽऽकारैकत्वपरिणामनिबन्धन एव अयम् , एकोऽयमिति व्यवसायः । तेषामेव सदादीनामेकाऽनेकात्मकत्वात् , एतच्च भेदाभेदभावात् , अयं च तथास्वभावत्वात् , तथास्वभावत्वे च विरोधाऽनुपपत्तेः, अनुपपत्तिश्च प्रतीतिसिद्धत्वात् । नहि प्रतीतिरेक सिद्धौ निमित्तमित्याशङ्काऽपोहाय आह-बाधाभावादिति तदेकत्वपरिणामनिबन्धन एव अयम् , इति एवम् , सद्व्याद्यनेकस्वभावे वस्तुनि । किमित्याह- वस्तुमात्रग्राहि एव अवग्रहकल्पमविकल्पकमङ्गीकर्तव्यम् । किमित्याह- अन्यथा उक्तदोषाऽनतिवृत्तिः उक्तदोषाः " न्यायाऽनुभवविरोधाद्" इत्येव मादयः तदऽनिवृत्तिः, एवंभूते च अस्मिन् अविकल्पके । किमित्याहआवयोः तव मम च, अविवाद एव । कुत इत्याह- एवंविधा ऽवग्रहस्य अविकल्पकस्य, अस्माभिः अभ्युपगतत्वात् , न चा
ALLSCAPER
Page #215
--------------------------------------------------------------------------
________________
'स्वोपज्ञटीकासहिता ।
२२३
अभ्युपगमे कश्चिद् दोष:, अपि तु शुक्तिकादी अपि आदिशब्दाद् मरीचिकाग्रहः, क्वचिद् रजतादिनिश्चयस्य आदिशब्दाद् जलनिश्चयग्रहः, न्यायत एवं आपच्या गुणः । न्यायत एव आपत्तिमाहतस्य इत्यादिना । तस्य हि शुक्तिकादौ रजतादिनिश्चयस्य, अवग्रहोत्तरकालमीहाप्रवृत्तस्य सतः । कस्य इत्याह- तथाविधसमानधर्मोपलब्धुरेव शुक्तिकादि-रजतादिसमानधर्मोपलब्धुरेव प्रमातुर्नान्यस्य, असत्क्षयोपशमभावतः असत्क्षयोपशमभावेन भावात्, अन्यथा एवमनभ्युपगमे, उक्तवद् यथोक्तम्- " शुक्तिकाया अपि अक्षज्ञानेन नीलादिवत् तत्त्वेन एव ग्रहणाद् " इत्यादि, तथा अयोगाद् इति ॥
यच्च उच्यते - " गृहीतग्राहित्वाद् विकल्पोऽप्रमाणम्" इति एतदपि अयुक्तम् । स्वमतविरोधात् निर्विकल्पक ज्ञानेन स्वलक्षणस्य गृहीतत्वाद् विकल्पस्य तद्ा । हित्वानुपपत्तेः, तत्प्रतिभासशून्यत्वात् एवमपि तत्तथाताऽभ्युपगमे अतिप्रसङ्गात्, नीलविकल्पस्य पीतग्राहित्वापत्तेः पारम्पर्येण तत्तज्जनकत्वाऽविशेपाद उपलब्धपीत - नीलद्रष्टुरपि तद्भावादिति ॥
यश्च उच्यते परैः- “गृहीतग्राहित्वाद् विकल्पः अप्रमाणम्” इति एतद् अपि अयुक्तम् । कथमित्याह- स्वमतविरोधाद्, विरोधश्व निर्विकल्पक ज्ञानेन स्वलक्षणस्य गृहीतत्वाद्, विकल्पस्य तदुग्राहित्वाऽनु पपत्तेः स्वलक्षणग्राहित्वाऽनुपपत्तेः, अनुपपत्तिश्च तत्प्रतिभासशून्यत्वात् स्वलक्षणाऽऽकारशून्यत्वाद् इत्यर्थः एवमपि तत्प्रतिभासशून्यत्वेऽपि सति तत्तथाताऽभ्युपगमे विकल्पस्य तदुद्मा हित्वाऽभ्युपगमे अतिप्रसङ्गात्, अतिप्रसङ्गश्च नीलविकल्पस्य पीतग्राहित्वाऽऽपत्तेः । नाऽसौ पारम्पर्येण अपि तज्जन्यः इत्याशङ्काऽपोहाय आह- तत्तज्जनकत्वा
"
"
विशेषात् तस्य पीतस्य नीलविकल्पजनकत्वाऽविशेषात् । एतद् मावनाय एव आह- उपलब्धपीत - नीलद्रष्टुरपि प्रमातुः, तद्भाद् नीलविकल्पभावात्, तदपि अयुक्तमिति स्थितम् ।। न च गृहीतग्राहि ज्ञानमप्रमाणमेव एकत्र नीलादौ अनेक
-
•
Page #216
--------------------------------------------------------------------------
________________
२२४
अनेकान्तजयपताका
प्रमातृज्ञानानां प्रमाणत्वाऽभ्युपगमात् , तेषां चान्योऽन्यं गृहीत. ग्राहित्वात् , अन्यथा तद्ग्रहणानुपपत्तेः, तथा अगृहीतग्राहिज्ञानाऽसम्भवात् सर्ववस्तूनां सर्वबुदैस्सदा ग्रहणात् , तेषां सर्वज्ञत्वात् अन्यथा तत्तत्त्वाऽयोगात् , एकसन्तानाऽपेक्षया च गृहीतग्राहिज्ञानाऽसम्भव एव, सर्वेषां सर्वदा अगृहीतग्रहणादिति ॥ - दूषणान्तरमाह- न च इत्यादिना । न च गृहीतग्राहि ज्ञानमप्रमाणमेव एकान्तेन भवतः । कुत इत्याह- एकत्र नीलादौ अने कप्रमाज्ञानानां प्रमाणत्वाऽभ्युपगमात् परेण अपि, तेषां च अधि कृतज्ञानानाम् , अन्योऽन्यं परस्परं गृहीतग्राहित्वात् । इत्थं च एतद् अङ्गीकर्तव्यमित्याह- अन्यथा तद्ग्रहणाऽनुपपत्तेः अधिकृतनीलादिग्रहणाऽनुपपत्तेः । तथा इत्यादि । तथा अगृहीतग्राहिज्ञानाऽसंभवात् । असंभवश्व सर्ववस्तूनां नीलादीनाम् , सर्वबुद्धः सदा ग्रहणात् , ग्रहण च तेषां बुद्धानां सर्वज्ञत्वादिति, अन्यथा तत्तत्त्वाऽयोगात् तेषां सवा ज्ञत्वाऽयोगात् । एकसन्तानेत्यादि । एकसन्तानाऽपेक्षया अवगृही तग्राहिज्ञानाऽसंभव एव तस्य अर्थस्य च क्षणिकत्वात् , सर्वेषां ज्ञाना नाम् , सर्वदा सर्वकालम् , अगृहीतग्रहणाद् द्वयोरपि क्षणिकत्वे इति, यद्वा तदभावे भावाद् अभिधानमात्रं ग्रहण मिति अगृहीतमा णमिति ॥ . स्यादेतद्, न तत्त्वतो गृहीतग्राहित्वेन अस्य अप्रामाण्यम
अपि तु अविषयत्वेन इति । कथमयमविषय इति वाच्यम् ?,यदन वेद्यते न तद् अस्तीति चेत् , क तद् नास्तीति । किं तत्रैव उच्यो उताहो बहिरिति । यदि तत्रैव कथं वेद्यते, वेद्यमानं वा कथं तत्रेति चिन्त्यम् । अथ बहिः, अविकल्पकेऽपि समानः प्रसन्न तेन अपि वेद्यमानस्य बहिरभावात् स्वरूपस्यैव वेदनात् । ता हिस्थतुल्यरूपमित्यदोष इति चेत् , केयं तत्तुल्यरूपतेति वाच्यम् किं तत्साधारणरूपभावः १, उताहो तत्तद्ग्रहणस्वभावता इति। तावत् साधारणरूपभावः, चेतनाऽचेतनत्वेन तद्वैलक्षण्यसि
Page #217
--------------------------------------------------------------------------
________________
स्वोपज्ञटीकासहिता..
सामान्य वेदनेन तदप्रामाण्यप्रसङ्गाच्च । तत्तद्ग्रहणस्वभावतातदङ्गीकरणे च विकल्पज्ञानेऽपि तुल्यः परिहारः, तस्यापि तद्महणस्वभावताऽभ्युपगमात् । तथाविधग्राह्याभावादस्य कुतस्तद्धहणस्वभावतेति चेत् । न, तथाविधग्राह्याभावे प्रमाणाभावाद, प्रत्यक्षस्य स्वलक्षणविषयत्वेन तत्राप्रवृत्तेः, अनुमानस्याप्युपलब्धिलक्षणप्राप्तार्थविषयत्वात्, तस्य च तदभावाभ्युपगमात् । न हि साधारणं रूपमुपलब्धिलक्षणप्राप्तमिष्यते भवद्भिः, तदवस्तुत्वप्रतिज्ञानात् ; अनीदृशानुपलब्धेश्वा भावनिश्चायकत्वानुपपत्तेः । एतेन तद्वाधकप्रमाणप्रवृत्तिः प्रत्युक्ता, उक्तवत्मत्यक्षादेस्तद्वाधकत्वायोगात् । युक्त्या तदयोगो बाधक इति चेत् । न, विकल्पानुपपत्तेः । युक्तिर्हि प्रमाणमप्रमाणं वा स्यात् ? । प्रमाणं चेत् । न प्रत्यक्षादेरन्यदिति, अत्र चोक्तो दोषः । अप्रमाणत्वे तु तद्वाधकत्वानुपपत्तिः, अतिप्रसङ्गात् ॥
स्यादेतद् न तत्त्वतो गृहीतग्राहित्वेन हेतुना, अस्य विकल्पस्याप्रामाण्यम्, अपि त्वविषयत्वेनेति । एतदाशङ्क्याह- कथमयं विकल्पोऽविषय इति वाच्यम् ? | यदनेन वेद्यते विकल्पेन न तदस्तीति अविषय इति चेत् । एतदाशङ्क्याह-- क्व तद् नास्ति यदनेन वेद्यते, किं तत्रैव विकल्पे, उत बहिरिति । यदि तत्रैव विकल्प एव नास्ति, कथं तेन वेद्यते ? ; वेद्यमानं वा कथं न तत्र विकल्पे ? इति चिन्त्यम् । द्वितीयं विकल्पमधिकृत्याह -- अथ बहिः यदनेन वेद्यते न तदस्तीति । एतदाशङ्क्याह-- अविकल्पकेऽपि समानः प्रसङ्गोऽविषयत्वप्रसङ्गः । कथमित्याह - तेनापि अविकल्पकेन वेद्यमानस्य बहिरभावात्; अभावश्च स्वरूपस्यैव वेदनात् । तदित्यादि । तदविकल्पकं वेद्यमानबहिः स्थतुल्यरूपं विषयतुल्यरूपम्, इत्यस्माददोष इति चेत् । एतदाशङ्क्याह- केयं तत्तुल्यरूपता बहिःस्थतुल्यरूपता ? इति वाच्यम् । किं तत्साधारणरूपभावो बहिःस्थसामान्यरूपभावोऽविकल्पकस्य, उत तद्ग्रहणस्वभावता बहिःस्थप्रहणस्वभाव वेति ? | किश्वातः ? उभय२९
२२५
-
Page #218
--------------------------------------------------------------------------
________________
२२६
अनेकान्तजयपताका
थापि दोष:, तथा चाह - न तावत् साधारणरूपभावः तत्तुल्यरूपता । कुत इत्याह- चेतनाचेतनत्वेन हेतुना तद्वैलक्षण्यसिद्धेःतयोरविकल्पक-बहिःस्थयोर्वैलक्षण्यसिद्धेः । दोषान्तरमाह- सामान्यवेदनेन हेतुना साधारणरूपभावतः तदप्रामाण्यप्रसङ्गाच्च - अविकल्पकस्याप्रामाण्यप्रसङ्गाच्च न तत्साधारणरूपभावस्तत्तुल्यरूपतेति । तत्तद्ग्रहणस्वभावतातदङ्गीकरणे च- तस्याविकल्पकस्य तदूग्रहणस्वभावता बहिःस्थग्रहणस्वभावता तस्यास्तदङ्गीकरणं तत्तुल्यरूपताङ्गीकरणमिति विग्रह:, तस्मिन् । किम् ? इत्याह- विकल्पज्ञानेsपि तुल्यः परिहारः तत्तद्बहिःस्थ तुल्यरूपमित्ययम् । कुतः ? इत्याह- तस्यापि विकल्पज्ञानस्य तद्ग्रहणस्वभावताभ्युपगमाद् बहिःस्थग्रहणस्वभावताभ्युपगमात् । तथाविधेत्यादि तथाविधप्राह्याभावाद् विकल्पज्ञानग्राह्याभावादस्य विकल्पज्ञानस्य कुतस्तद्ग्रहणस्वभावता बहिःस्थग्रहणस्वभावतेति चेत् । एतदाशङ्कयाह- न, तथाविधग्राह्याभावे विकल्पज्ञानग्राह्याभावे प्रमाणाभावात् । अभावश्च प्रत्यक्षस्य तावत् स्वलक्षणविषयत्वेन हेतुना तत्र तथाविधमान ह्याभावेऽप्रवृत्तेः, अनुमानस्याप्यनुपलब्धिरूपस्योपलब्धिलक्षणप्राप्तार्थ: विषयत्वात् । ततः किम् ? इत्याह- तस्य तथाविधग्राह्यस्य तदभावा भ्युपगमादुपलब्धिलक्षणप्राप्तार्थविषयत्वाभावाभ्युपगमात् । वनायैवाह - न हि साधारणं रूपं विकल्पप्राह्यमुपलब्धिलक्षणप्राप्तमिष्यते भवद्भिः । कुत इत्याह- तदवस्तुत्वप्रतिज्ञानात् तस्य साधा रणरूपस्यावस्तुत्वप्रतिज्ञानात्, अनीदृशानुपलब्धेश्चानुपलब्धिलक्षणप्रा सानुपलब्धेश्च । किमित्याह- अभावनिश्चायकत्वानुपपत्तेः तथा भ्युपगमात् । एतेनेत्यादि एतेनानन्तरोदितेन तथाविधग्राह्याभावे प्रम णाभावेन । किमित्याह- तद्बाधकप्रमाणप्रवृत्तिः प्रत्युक्ता तस्मि स्तथाविधप्राह्ये बाधकप्रमाणवृत्तिर्निराकृता । कुत इत्याह- उक्तव यथोक्तं तथा प्रत्यक्षादेः प्रत्यक्षानुमानद्वयस्य तद्बाधकत्वायोगात् तथा विधग्राह्यबाधकत्वायोगात् । युक्त्या तदयोगस्तथाविधग्राह्यायोग
एतद्भान
Page #219
--------------------------------------------------------------------------
________________
खोपज्ञटीकासहिता।
२२७ साधारणरूपायोग इत्यर्थः, बाधक इति चेत् । एतदाशङ्कयाह-न, विकल्पानुपपत्तेः । अनुपपत्तिश्च- युक्तिर्हि प्रमाणमप्रमाणं वा स्यात् ? । किश्चातः ?, उभयथापि दोष इत्याह-प्रमाणं चेत् । न प्रत्यक्षादेरन्यदिति, अत्र चोक्तो दोषः, प्रत्यक्षस्य स्खलक्षणविषयत्वेन तत्राप्रवृत्तरित्यादिः । अप्रमाणत्वे तु युक्तः, किमित्याह- तद्बाधकत्वानुपपत्तिः तथाविधग्राह्यबाधकत्वानुपपत्तिः । कुत इत्याहअतिप्रसङ्गात् स्वलक्षणस्यापि युक्तिबाधितत्वोपपत्तेः, अविषयेऽपीयं प्रवर्तत इति भावना । एवं विकल्पज्ञानस्यापि कस्यचित् प्रामाण्यमङ्गीकर्तव्यमित्यैदंपर्यम् ।
अखिलविकल्पज्ञानभ्रान्ततावादिनश्च तत्सामोत्थं वचनमपि तागेवेति सुस्थिता तत्तत्त्वनीतिः । न हि भ्रान्तमात्मनो भ्रान्ततामवैति, द्विचन्द्रज्ञानादावात्मनि भ्रान्तताधिगमव्यपोहेन चन्द्रद्रयाद्यधिगतिदर्शनात्, तत्स्थामोपजातवचसोऽपि स्वभ्रान्तताभिधानपरित्यागेन चन्द्रद्वयाद्यभिधानाद , इति सकलमेव शास्त्रज्ञानाभिधानं भ्रान्तिमात्रम्, इति कथं ततस्तत्त्वनिश्चय इति चिन्त्यम?, तथाहि-अस्य नित्या-ऽऽत्मादिविकल्पवत् कृतकत्वादिलिङ्गद्वारायाता अनित्या-ऽनात्मादिविकल्पा अपि भ्रान्ता एव, इति कथं तेभ्यस्तनिश्चितिः ? । निश्चितौ वा कथं न नित्यादावपि, तद्विकल्पानामपि ततो भावात् ? ॥
इत्थमनभ्युपगमे दोषमाह-अखिलेत्यादि । अखिलविकल्पज्ञानभ्रान्ततावादिनश्च, किमित्याह-- तत्सामोत्थं निःशेषविकल्पज्ञानभ्रान्ततासामोत्थं वचनमपि तादृगेव भ्रान्तमेव, इति-एवं सुस्थिता तत्तत्त्वनीतिस्ताभ्यां भ्रान्तविकल्पज्ञान-वचनाभ्यां तत्त्वनीतिरित्युपहसति, न सुस्थितेत्यर्थः । कथमित्याह-- न हीत्यादि न यस्माद् भ्रान्तं ज्ञानमिति प्रक्रमः, आत्मनो भ्रान्ततामवैति । कुत इत्याह- द्विचन्द्रज्ञानादौ आदिशब्दाद् मायाजलज्ञानग्रहः, आत्मनि खरूपे भ्रान्तताधिगमव्यपोहेन चन्द्रद्वयाधिगतिदर्शनात्, आदि.
Page #220
--------------------------------------------------------------------------
________________
२१८
अनेकान्तजयपताका
शब्दाद् मायाजलग्रहः, तत्स्थामोपजातवचसोऽपि भ्रान्तज्ञानसामोपजातवचनस्यापि स्वभ्रान्तताभिधानपरित्यागेन चन्द्रद्वयाद्यभिधानात्, इत्येवं सकलमेव शास्त्रज्ञानाभिधानं भ्रान्तिमात्रमिति कृत्वा कथं ततः शास्त्रज्ञानाभिधानात् तत्त्वनिश्चय इति चिन्त्यम् ?- नैव तत्त्वनिश्चय इति । एतद्भावनायैवाह- तथाहीत्यादि तथाह्यस्याखिलविकल्पज्ञानभ्रान्ततावादिनो नित्या-ऽऽत्मादिविकल्पवादिति निदर्शनम् , कृतकत्वा. दिलिङ्गद्वारायाताऽनित्या-ऽनात्मादिविकल्पा अपि भ्रान्ता एव, नाभ्रा. न्ताः, इत्येवं कथं तेभ्यो भ्रान्तविकल्पेभ्यस्तनिश्चितिरनित्या-ऽनात्मादिनिश्चितिः ?। निश्चितौ वा तेभ्योऽनित्या-ऽनात्मादेः कथं न नित्या. दावपि निश्चितिः ? ।कुत इत्याह- तद्विकल्पानामपि नित्या-ऽत्मादिवि. कल्पानामपि ततो वस्तुनो भावात् ॥
स्यादेतत्स्वलक्षणदर्शनाहितवासनाकृतविप्लवरूपाः सर्वे एव विकल्पाः, तथापि केषाश्चिदेव तत्प्रतिबद्धजन्मनां विकल्पाना मतत्प्रतिभासित्वेऽपि वस्तुन्यविसंवादः, मणिप्रभायामिव माणि भ्रान्तः, नान्येषाम्, तद्भेदप्रसवे सत्यपि यथादृष्टविशेषानुसरण परित्यज्य किश्चित्सामान्यग्रहणेन विशेषान्तरसमारोपात् , दीप भायामिव मणिबुद्धेः, इति संवादिभ्य एव तनिश्चितिनासंवा दिभ्यः ॥
स्यादेतदित्यादि स्यादेतदथैवं मन्यसे- स्वलक्षणदर्शनेनाहित या वासना तया कृतं विप्लवरूपं येषां ते तथाविधाः सर्व एव विका रूपाः सामान्येन, तथाप्येवमपि व्यवस्थिते सति केषाञ्चिदेवानित्य ऽनात्मादिरूपाणां तत्प्रतिबद्धजन्मनां वस्तुप्रतिबद्धजन्मनां विकल्पाना मतत्प्रतिभासित्वेऽपि वस्त्वप्रतिभासित्वेऽपीत्यर्थः; किमित्याह- वस्त न्यविसंवादः। निदर्शनमाह-मणिप्रभायामिव विषयभूतायां मणि न्तेः कुश्चिकादिविवरोपलम्भेन, नान्येषां नित्या-ऽऽत्मादिविकल्पानाम तद्भेदप्रसवे सत्यपि वस्तुभेदादुत्पादे सत्यपीत्यर्थः, यथादृष्टविशेषा सरणं परित्यज्य; कथमित्याह- किश्चित्सामान्यग्रहणेन सदृशापर ।
Page #221
--------------------------------------------------------------------------
________________
२२९
स्वोपज्ञटीकासहिता। परहेतुना विशेषान्तरसमारोपाद् हेतोः, 'नान्येषां' इति वर्तते । निद. शनमाह-दीपप्रभायामिव विषयभूतायां मणिबुद्धेः कुञ्चिकादिविवरोपलम्भेनेव, इत्येवं संवादिभ्य एव विकल्पेभ्यस्तनिश्चितिरभिप्रेततत्त्वनिश्चिति संवादिभ्यः ।।
एतदप्यसत, अविचारितरमणीयत्वात् । तत्र यत्तावदुक्तम्'स्वलक्षणदर्शनाहितवासनाकृतविप्लवरूपाः सर्व एव विकल्पाः' इति । अत्र किमिदं स्वलक्षणदर्शनं नाम?, का वा तदाहिता वासना, यत्कृतविप्लवरूपाःसर्व एव विकल्पाः? इति । वस्त्वनुभवः स्वलक्षणदर्शनम् , तदाहितवासना तु तथाविधविकल्पजननशक्तिः। यद्येवम् , कथं निरंशवस्तुविषयाद् निरंशानुभवात् तथाविधविकल्पजननशक्तीनां प्रभूतानां सम्भवः ?, कथं वैकस्या एवानेकविकल्पजन्म ? । समुत्पद्यन्ते च स्वलक्षणदर्शनानन्तरं नित्यानित्यादिविकल्पाः, क्रमेणैकस्य, अक्रमेण चानेकपमातृणाम् । न चैते शक्तिभेदैकानेकजनकत्वे विना । न च भूयसामपि निरंशवस्तुविषयनिरंशानुभवानां तत्त्वतस्तत्वे विशेषः, रूपादिस्वलक्षणानामिव । तन्न तेषामिवैकस्य बहूनां वानन्तरं पारम्पर्येण वा तथाविधफलभेदोऽमीषां न्याय्य इति भाव्यमेतत् । का चेयं तथाविधविकल्पजननशक्तिः, किं तदुत्तरं मानसम्, उतान्यैव काचित् ? । यदि मानसम् , कथं स्वलक्षणादस्वलक्षणजन्म?| अस्वलक्षणं च विकल्पः, असदाकाररूपत्वात् । न स्वसंवित्तिस्तत्रास्वलक्षणम् , अपि तु बहिमुखावभास एवेति चेत् । न खलु सा ततोऽन्या, इति कथं नास्वलक्षणम् । असनसौ, सा तु सती, स्वसंविदितत्वादेवेति चेत् । कथमसौ तन्मात्रतत्त्वा विकल्प इति चिन्त्यम् । असदाकारानुवेधादिति चेत् । कथमसताऽनुवेधो नाम ? । स निर्विषयत्वादसन् , न तु तथाप्रतिभासेनेति चेत् । न स्वसंवित्तिस्तथाप्रतिभासनादन्या, इत्यस्वलक्षणत्वमेव ।।
Page #222
--------------------------------------------------------------------------
________________
२३०
तजयपताका
एवं पूर्वपक्षमाशङ्कयाह- एतदप्यसत् अशोभनम् । कुत इत्याह अविचारितरमणीयत्वात् कारणात्। एतदेवाह- तत्रेत्यादिना । तत्र यत्तावदुक्तमादौ 'स्वलक्षणदर्शनाहितवासनाकृतविप्लवरूपाः सर्व एव विकल्पाः ' इति-एतत् । अत्र किमिदं स्वलक्षणदर्शनं नाम ?। का वा तदाहिता दलक्षणदर्शनाहिता वासना, यत्कृतविप्लवरूपाः सर्व एव विकल्पा इति ? । अत्राह-वस्त्वनुभव: शुद्धः स्वलक्षणदर्शनम् , तदाहिता वासना तु तथाविधविकल्पजननशक्तिः, तथाविधस्य संवादिनोऽसंवा दिनश्च । एतदाशङ्कयाह-यद्येवम् , कथं निरंशवस्तुविषयाद् निरंशाशानुभवात् तथाविधविकल्पजननशक्तीनां प्रभूतानां संभवा सामान्येन ? । कथं वैकस्या एव शक्तेरनेकविकल्पजन्म ? । को वा किमाह ? न चैतदेवम् , इत्याशङ्कानिरासायाह- समुत्पद्यन्ते च स्क लक्षणदर्शनानन्तरं नित्यानित्यादिविकल्पाः क्रमेणैकस्य प्रमा तुः सांख्यादेबौद्धादिमतप्रतिपत्त्या, अक्रमेण चानेकप्रमातृणां सांख्य बौद्धादीनां नित्यानित्यादिविकल्पाः । शक्तिभेदश्चैकानेकजनक चेति विग्रहः, ते चैते, एते विना, क्रमाक्रमपक्षद्वयेऽपीति । एतदेवाह न चेत्यादि । न च भूयसामपि क्रमपक्ष । केषामित्याह- निरंश वस्तुविषयनिरंशानुभवानां तुल्यस्वलक्षणानुभवानामित्यर्थः । किमि त्याह- तत्त्वतः परमार्थेन, तत्त्वे तद्भावे रूपादिस्वलक्षणानुभवत इत्यर्थः, विशेषो भेदः । किं तर्हि ? सर्व एवैते रूपादिस्वलक्षणानुभव एवेति । इहैव निदर्शनमाह- रूपादिस्वलक्षणानामिव 'एकस्य मातुः' इति प्रक्रमः, तथाविधानुभवनिबन्धनानामिति; तथाहि क्रमेणापि रूपादिस्वलक्षणानि स्वाकारमनुभवं कुर्वाणानि न रूपा दिस्वलक्षणत्वेन विशिष्यन्त इति । प्रकृतयोजनामाह- तत् तस्मा न तेषामिव रूपादिस्वलक्षणानामिव 'एकस्य प्रमातुः' इति प्रक्रमः, बहन वा प्रमातृणामनन्तरं बहूनां पारम्पर्येण वैकस्य तथाविधफलभेदो । अजातीयविज्ञानादिकार्यभेदोऽमीषां निरंशवस्तुविषयनिरंशानुभवा न्याय्य इति भाव्यमेतद् भावनीयमेतत् । एतदुक्तं भवति- यथा से।
Page #223
--------------------------------------------------------------------------
________________
खोपज्ञटीकासहिता।
२३१ रूपादिस्वलक्षणानां न रसादिफलभेदो न्याय्यः, एवमनित्या-ऽनात्मकक्षस्त्वनुभवानामपि न नित्या-ऽऽत्मादिविकल्पजननशक्तयाख्यः फलभेदो न्याय्यः । इहैवाभ्युच्चयमाह-का चेयमित्यादिना। का चेयं तथावि. धविकल्पजननशक्तिर्भवतोऽभिप्रेता ? । किं तदुत्तरं प्रक्रमादविकल्पप्रत्यक्षोत्तरं मानसं स्वविषयानन्तरेत्यादिलक्षणम् , उतान्यैव काचिदालयगता? । उभयथापि दोषमाह- यदि मानसम् , कथं स्वलक्षणाद् मानसादस्वलक्षणजन्म विकल्पोत्पादः ?। विकल्पास्वलक्षणत्वमाहअस्वलक्षणं च विकल्पो भवन्नीत्या । कुत इत्याह- असदाकाररूपत्वात्- असदाकारो' विकल्पबुद्धिप्रतिभासोऽस्वलक्षणत्वाभ्युपगमात् स एव रूपं यस्य स तथा तद्भावस्तस्मात् । न स्वसंवित्तिस्तत्र विकल्पेऽस्खलक्षणम् , अपि तु बहिर्मुखावभास एवास्वलक्षणमिति चेत् । एतदाशझ्याह- न खलु सा स्वसंवित्तिस्ततो बहिर्मुखावभासादन्या, इत्येवं कथं नास्वलक्षणम् ?-अस्वलक्षणमेव । असनसौ बहिर्मुखावभासः, सा तु स्वसंवित्तिः सती विद्यमाना, स्वसंविदितत्वादेव कारणादिति चेत्। एतदाशङ्कयाह- कथमसौ स्वसंवित्तिस्तन्मात्रतत्त्वा स्वसंवित्तिमातद्भावा विकल्प इति चिन्त्यम्, न तत्र स्खलक्षणातिरिक्तोऽश इति कृत्वा । असदाकारानुवेधादसौ विकल्प इति चेत् । एतदाशङ्कयाहकथमसता आकारेणानुवेधो नाम स्वसंविदः ?-नैवेत्यर्थः। स आकारो निर्विषयत्वात् कारणादसंस्तुच्छः, न तु तथाप्रतिभासनेन न पुनर्बहिमुंखावभासप्रतिभासनेनासन्निति चेत् । एतदाशङ्कयाह-न स्वसंवित्तिरधिकृता तथाप्रतिभासनाद् बहिर्मुखावभासप्रतिभासनादन्याऽर्थान्तरभूतेति कृत्वाऽस्खलक्षणत्वमेव स्वसंविदः ।।
तस्य विभ्रमरूपत्वात् तदन्या-ऽनन्यत्वकल्पनैवायुक्तति चेत् । कोऽयं विभ्रम इति कथनीयम् । अनिरूप्यस्वरूपस्तत्त्वतोऽसद्रूप इति चेत् । कथमयं स्वसंवित्तिभेदक इति वाच्यम् । न तत्त्वत इति चेत् । उत्सनो विकल्पः। अस्त्विति चेत् । प्रतीत्यादिबाधा । चेतनव तथाभूता विकल्प इति चेत् । किंभूतेति
Page #224
--------------------------------------------------------------------------
________________
२३२
अनेकान्तजयपताका
चिन्त्यम् ? असदाकारेति चेत् । अस्वलक्षणमेवेयम् , असदा. कारत्वात् । न स्वसंवित्तिस्तत्रास्वलक्षणम् , अपि तु बहिर्मुखावभास एवेति चेत् । न खलु सा ततोऽन्येति समानं पूर्वेण, इति यदि मानसं कथं स्वलक्षणादस्वलक्षणजन्म साधीयः ? इति कथं वा निर्विकल्पकत्वेनाभिन्नाद् भिन्नविकल्पसम्भवः । न हि नीलादिमात्रात् क्वचिद्रसादिभावः, तथाऽदर्शनात्।। चात्र किञ्चिद्भेदकम् , अनभ्युपंगमात् । अभ्युपगमेऽपि तसे ऽतिशयासिद्धेरिति निवेदयिष्यामः ॥
तस्य बहिर्मुखावभासप्रतिभासस्य विभ्रमरूपत्वात्कारणात् तदन्यान्यत्वकल्पनैव तया स्वसंवित्त्याऽन्यानन्यत्वकल्पनैवायुक्तेति चेत् । एवं दाशङ्कयाह-कोऽयं विभ्रमो यद्रूपत्वादन्या-ऽनन्यत्वकल्पनाऽयोग इस कथनीयम् ? । अनिरूप्यं स्वरूपं यस्य वैतथ्येन स तथा तत्त्वतः पा मार्थतोऽसद्रूप इति चेत् । एतदाशङ्कयाह- कथमयं विभ्रमोऽसद सन् स्वसंवित्तिभेदक इत्येतद् वाच्यम् ? । न तत्त्वत इति चेत् स्वसा त्तिभेदकः । एतदाशङ्कयाह- उत्सन्नो विकल्पः अविशिष्टस्वसं त्तिमात्रभावेन । अस्त्विति चेद् विकल्पाभावः। एतदाशकुयाह प्रतीत्यादिबाधा आदिशब्दाद् भावेतरभेदबाधाग्रहः । चेतनैव त भूता विशिष्टा विकल्प इति चेत् । एतदाशङ्कयाह- किंभूता तथा तेति चिन्त्यम् ?। असदाकारा असन्नाकारो यस्याः सा तथेति च एतदाशङ्कयाह- अस्खलक्षणमेवेयं चेतना, असदाकारत्वात् ।। स्वसंवित्तिस्तत्र चेतनायामस्वलक्षणम् , अपि तु बहिर्मुखावभास ए स्खलक्षणमिति चेत् । एतदाशङ्कयाह- न खलु नैव सा चेतना व वित्तिस्ततो बहिर्मुखावभासादन्येति समानं पूर्वेण 'कथं नास्वलक्षण इत्यादिनोक्तेन । इत्येवं यदि मानसं कथं स्वलक्षणादस्वलक्षणजन्म। धीयः शोभनतरम् ?- नैवेत्यर्थः । कथं वेत्यादि कथं वा निर्विक कत्वेनाभिन्नाद् मानसाद् भिन्नविकल्पसंभवो विकल्पकत्वेन । का न स्यादित्याह- न हि नीलादिमात्राद् वस्तुनोऽन्यरहितात् का।
Page #225
--------------------------------------------------------------------------
________________
स्वोपज्ञटीकासहिता ।
२३३ रसादिभावः । आदिशब्दाद् गन्धादिग्रहः । कथं न रसादिभाव इत्याह- तथाsदर्शनात् । न चात्र मानसाद् विकल्पजन्मनि किञ्चिद् भेदकमस्ति । कुत इत्याह- अनभ्युपगमात् । अभ्युपगमेऽपि सति भेदकस्य वासनादेः, ततो भेदकादतिशयासिद्धेरिति निवेदयिष्याम ऊर्ध्वम् । गतो मानसपक्षः ||
अथान्यैव काचित् । काऽसाविति वाच्यम् १ | अनादिमदालयगतशक्तेः स्वलक्षणदर्शन सहकारिभावतो विशेषकरणम्, तथाहि - सा तदनुभवं प्राप्याक्षेपेण तथाविधविकल्पजननस्वभावोपजायत इति स्वलक्षणदर्शनाहितेत्युच्यते । अत एव न भिन्नविकल्पसम्भवाभावः, तथाविधशक्तिसहकारित्वेन तदनुभवस्य तदविरोधादिति । एतदपि यत्किञ्चित् तस्य तत्सहकारित्वासिद्धेः, ततस्तस्या उपकाराभावात्, अनुपकार्योपकारकयोश्व सहकारित्वायोगात् । द्विविधो हि वः सहकारार्थः परस्परातिशयाधानेन सन्ताने विशिष्टक्षणोत्पादनलक्षणः, पूर्वस्वहेतोरेव समग्रोत्पन्नैककार्यक्रियालक्षणश्च । न चानयोरेकोऽपि सम्भवति, क्षणिकत्वेन परस्परातिशयाधानायोगात् । अतिशय उपकार इत्यनर्थान्तरम् । न चासावन्यतोऽन्यस्य, विकल्पायोगात् ॥
द्वितीयं विकल्पमधिकृत्याह - अथान्यैव काचित् तथाविधविकल्पजननशक्तिः । एतदुररकृित्याह- काऽसाविति वाच्यम् ? । अनादिमती चासावालयगतशक्तिश्चेति विग्रहः, तस्याः स्वलक्षणदर्शनसहकारिभावतः प्रवृत्तिविज्ञान सहकारिभावत इत्यर्थः, विशेषकरणमतिशयकरणं सा । एतदेव भावयति - तथाहीत्यादिना । तथाहि सानादिमदालय गतशक्तिस्तदनुभवं प्राप्य स्वलक्षणदर्शनमासाद्य, अक्षेपेणाव्यप्रधानेन, तथाविधविकल्पजननस्वभावा - अनित्यादिविकल्पजननखभावोपजायत इति कृत्वा स्वलक्षणदर्शनाहितेत्युच्यते । अत एव कारणाद् भिन्नविकल्प संभवाभावः, किं तर्हि ? संभव एव । कुत इत्याह
30
Page #226
--------------------------------------------------------------------------
________________
२३४
अनेकान्तजयपताकातथाविधशक्तिसहकारित्वेन हेतुना तदनुभवस्य स्खलक्षणानुभवस्य प्रवृत्तिविज्ञानस्येत्यर्थः तदविरोधादिति प्रक्रमाद् भिन्नविकल्पसंभवाविरोधात् शक्तिरस्योपादानमित्यभिप्राय इति । एतदाशङ्क्याहएतदपि यत् किश्चित् । कथमित्याह- तस्य स्वलक्षणानुभवस्य तत्सहकारित्वासिद्धेः प्रस्तुतशक्तिसहकारित्वासिद्धेः । असिद्धिश्च ततोऽधिः कृतानुभवात् तस्याः शक्तेः, किमित्याह- उपकाराभावात् । यदि नामैवं ततः किमित्याह- अनुपकार्योपकारकयोश्च भावयो: सहकारित्वायोगात् । एनमेवाह- द्विविधो हि वो युष्माकं सहकारार्थः । द्वैविध्यमाह- परस्परातिशयाधानेन क्षणपरम्परया संताने प्रबन्धे विशिष्टक्षणोत्पादनलक्षणो विवक्षितकार्ययोग्यताकारीत्यर्थः, तथा पूर्वस्वहेतोरेवोपादानादेः समग्रोत्पन्नैककार्यक्रियालक्षणश्च समग्रोत्पन्नाना. मेककार्यक्रियाऽन्त्यानां विवक्षितकार्योत्पत्तिः सैव लक्षणं यस्य सहका. रार्थस्य स तथेति समासः। न चेत्यादि न चानयोः सहकारार्थयोरेकोऽपि संभवति । कुत इत्याह- क्षणिकत्वेन हेतुना परस्परातिशयाने धानायोगात् । एतदेव भावयति- अतिशय उपकार इत्यनर्थान्तरम् । न चासावतिशयोऽन्यतः सकाशादन्यस्य । कथं नेत्याहविकल्पायोगात् ॥
तदनुभवो हि तच्छक्तेरनुत्पन्नायाः, उत्पन्नायाः, निरुद्धाया एवं वोपकुर्यात् । न तावदनुत्पन्नायाः, तस्या एवासत्त्वात्, असतो पकाराकरणात् । नाप्युत्पन्नायाः, तस्या अनाधेयातिशयत्वात्। क्षणादूर्ध्वमनवस्थितेः। द्वाभ्यामप्येकीभूय तदन्यकरणमेवाति शयाधानम् , तदेव चोपकार इति चेत् । न, उपादानकारणविशेषा धानमन्तरेण ततः कार्यविशेषासिद्धेः। न चैककालभाविनाऽन्यतो भवन्त्या अन्यत एव भवता तस्या अतिशयाधानम् , तनिबन्ध नस्य तत्कृतविशेषासिद्धः । तदभ्युपगमे च तत्राप्ययमे वृत्तान्तः, एवं निबन्धनपरम्परायामपि वाच्यम्, इत्यत्राणं नि बन्धनपरम्परा॥
RELi
Page #227
--------------------------------------------------------------------------
________________
'स्वोपज्ञटीकासहिता ।
एनमेवाह - तदनुभवो हीत्यादिना । तदनुभवोऽधिकृतस्वलक्षणानुभवो यस्माच्छक्तेरनादिमदालयगतशक्तेरनुत्पन्नाया उत्पन्नाया निरुद्धाया एव वोपकुर्यादिति संभविनो विकल्पाः । न तावदनुत्पन्नाया उपकरोति तदनुभवः । कुत इत्याह- तस्या एव शक्तेरसत्त्वात् । न चासावनुत्पन्नाऽस्ति । यदि नामैवं ततः किमित्याह- असतश्च सामान्येनोपकाराकरणात् । नाप्युत्पन्नाया उपकरोति तदनुभवः । कुत इत्याहतस्या उत्पन्नाया निष्पन्नत्वेनानाधेयातिशयत्वात् । एतच्च क्षणादूर्ध्वमनवस्थितेः कारणात् । द्वाभ्यामपि शक्त्य ऽनुभवाभ्यामेकीभूय तदन्यकरणमेव विशिष्टशक्तिकरणमेवातिशयाधानम्, तदेव चान्यकरणमुपकार इति चेत् । एतदाशङ्क्याह- नेत्यादि न नैतदेवम् । कुत इति युक्तिमाह- उपादानकारणविशेषाधानमन्तरेण इह तावदधिकृतशक्तिविशेषाधानं विना, ततो विवक्षितानुभवात्, कार्यविशेषासिद्धेः प्रस्तुत विकल्पकार्यभेदासिद्धेरित्यर्थः । न चैककालभाविना शक्त्या सहानुभवेनान्यतो भवन्त्याः शक्तेरन्यत एव स्वहेतोर्भवताऽनुभवेन तस्याः शक्तेरतिशयाधानं 'न्याय्यम्' इति शेषः । कुत इत्याह- तन्निबन्धनस्य अधिकृतशक्त्युपादानस्य तत्कृतविशेषासिद्धेर्विवक्षितानुभवकृतविशेषासिद्धेः । तदभ्युपगमे च सामान्येन तन्निबन्धनस्य तत्कृतविशेषाभ्युपगमे च तत्रापि तन्निबन्धनेऽयमेवानन्तरोदितो 'नोपादानकारणविशेषाधानमन्तरेण ततः कार्याविशेषासिद्धेः' इत्यादिर्वृत्तान्तः । एवमुक्तनीत्या निबन्धनपराम्परायामपि वाच्यम् । इति - एवम्, अत्राणं निबन्धनपरम्परा, अनादावपि संसारे कस्यापि निबन्धनस्योक्तनीत्या विशेषाधानायोगादिति भावनीयम् ॥
स्वहेतु परम्परात एव सा शक्तिस्तथास्वभावोत्पन्ना याऽनुपकारिणमपि तदनुभवं सहकारिणमपेक्ष्य विशिष्टं कार्य जनयत्यतो न दोष इति चेत् । न, अनुपकारिणोऽपेक्षायोगात् । तदभ्युपगमेऽतिप्रसङ्गात्, तत्तथाविधस्वभावाधायक हेतोरप्यस्थानपक्षपातित्वापत्तेः, स्वभावापर्यनुयोगस्य च प्रमाणोपपन्नस्वभावविषय
२३५
Page #228
--------------------------------------------------------------------------
________________
२३६
अनेकान्तजयपताकात्वात् । स्वपरिकल्पनागर्भवाङ्मात्रोदितस्वभावविषयत्वे तु तत्त्व-. व्यवस्थानुपपत्तिः, अतथाविधस्वभावानामपि तथाविधस्वभावत्वाभिधानाविरोधात् । एवं च सहेतुकनाशापत्तिः, स्वहेतुपरम्परातस्तथास्वभाव एवासावुत्पन्नो भावो योऽकिञ्चित्करमपि नाशहेतुमपेक्ष्य नश्यति' इत्यपि वक्तुं शक्यत्वात्, स्वभावपर्यनुयोगासिद्धः, अचिन्त्यशक्तित्वात् ; अन्यथा त्वत्पक्षेऽपि तुल्यत्वादिति । नापि निरुद्धायाः, तस्या एवासत्वात् , असतश्वोपकाराकरणात् । न च प्रकारान्तरेणोपकारकरणं संभवति । एवं तावदाद्यपक्षे सहकारार्थाभाव इति ॥ . वहत्वित्यादि स्वहेतुपरम्परात एव सा शक्तिरधिकृता तथा स्वभावोत्पन्ना, याऽनुपकारिणमपि तदनुभवमधिकृतस्वलक्षणानुभव सहकारिणमपेक्ष्य विशिष्ट कार्य जनयत्यधिकृतविकल्पाख्यम् ; अतों न दोष इति चेत् अधिकृतः । एतदाशङ्कयाह-- न, अनुपकारिणः, तदनुभवस्य । किमित्याह- अपेक्षाऽयोगात् । तदभ्युपगमेऽनुपका रिणोऽपेक्षाऽभ्युपगमेऽतिप्रसङ्गात् ; तद्वद् विश्वापेक्षापत्तः । तत्तथाविधेत्यादि तस्याः शक्तेस्तथाविधस्वभावाधायकोऽनुपकारिणमपि तदनुभवं सहकारिणमपेक्ष्य विशिष्ट कार्य जनयतीत्येवंविधस्वभावाः धायकश्चासौ हेतुश्चेति समासः, तस्यापि; किमित्याह- अस्थानपक्षपातित्वापत्तेः नेति क्रियायोगः । उक्तं च--
"अस्थानपक्षपातश्च हेतोरनुपकारिणि ।
अपेक्षायां नियुङ्क्ते यत् कार्यमन्याविशेषतः ॥१॥" इत्यादि । स्वभावापर्यनुयोगस्य च 'न स्वभावः पर्यनुयोगमहति इत्यस्य । किमित्याह- प्रमाणोपपनस्वभावविषयत्वात् प्रतीतिसचि वस्वभावविषयत्वादित्यर्थः, स्वपरिकल्पनागर्भश्वासौ वाड्मावोदितख भावश्चेति समासः स एव विषयो यस्य स्वभावापर्यनुयोगस्य सस परिकल्पनागर्भवाङ्मानोदितस्वभावविषयस्तस्य भावस्तस्मिन् पुनरस्या भ्युपगम्यमाने, किमित्याह- तत्वब्यवस्थानुपपत्तिः। कुत इत्याही
Page #229
--------------------------------------------------------------------------
________________
स्वोपज्ञटीकासहिता ।
अतथाविधस्वभावानामपि भावानां तथाविधस्वभावत्वाभिधानाविरोधात् । ततः किमित्याह एवं च सहेतुकनाशापत्तिः । कथमित्याह'स्व हेतु परम्परातः सकाशात् तथास्वभाव एवासावुत्पन्नो भावः पदार्थो योऽकिश्चित्करमपि नाशहेतुमपेक्ष्य नश्यति' इत्यपि वक्तुं शक्यत्वात् तथास्वभावपर्यनुयोगासिद्धेरुक्तनीत्या । असिद्धिश्चाचिन्त्यशक्तित्वात् स्वभावस्य । इत्थं चैतदङ्गीकर्तव्यमित्याह- अन्यथा त्वत्पक्षेऽपि स्वहे - तुपरम्परात एव सा शक्तिस्तथास्वभावोत्पन्नेत्यस्मिन्नपि, तुल्यत्वात् पर्य - योगस्य । इति सर्वत्र 'न, अनुपकारिणोऽपेक्षाऽयोगात्' इत्यतो यथायोगं 'न' इति क्रिया योजनीया । नापि निरुद्धायाः 'शक्तेरुपकरोति तदनुभवः' इति प्रक्रमः । कुत इत्याह- तस्या एव निरुद्धायाः शक्तेरसत्वात्, असतश्च तुच्छस्य चोपकाराकरणात् । न चेत्यादि न च प्रकारान्तरेणोक्तप्रकारत्रयातिरिक्तेनोपकारकरणं संभवति, वस्तुतस्तस्यैवाभावात् । एवं तावदाद्यपक्षे- उपन्यासक्रमप्राधान्यात् 'परस्परातिशयाधानेन संताने विशिष्टक्षणोत्पादनलक्षण:' इत्यस्मिन्, सहकारार्थाभाव इति ॥
--
एतेन पूर्वस्वहेतोरेव समग्रोत्पन्नैककार्यक्रियालक्षणोऽपि सहकारार्थो निषिद्धः, तत्त्वतः प्रथमसहकारार्थाविशेषात् ' स्वहेतुपरम्परात एव सा शक्तिस्तथास्वभावोत्पन्ना' इत्यादिना तु सुतरामभेदात्, प्रत्येकं तत्तथाविधकार्यजननसमर्थस्वभावेतर विकल्पदोषापत्तेश्व - प्रथमपक्षे किमन्योन्यापेक्षया ?, एकत एव तत्सि - द्धेः । द्वितीयपक्षे चापेक्षायामपि तदसिद्धेः, प्रत्येकमतत्स्वभावत्वात् ॥
२३७
एतेनेत्यादि । एतेनानन्तरोदितेन, पूर्वस्वहेतोरेव समप्रोत्पन्नैककार्यक्रियालक्षणोऽपि सहकारार्थः प्राग् निदर्शितस्वरूपो निषिद्धः । कुत इत्याह- तत्त्वतः परमार्थेन, प्रथमसहकारार्थाविशेषात् । अस्य सहकारार्थस्य परस्परातिशयाधानेन संताने विशिष्टक्षणोत्पादनलक्षण: प्रथमः, तदयमपि पूर्वस्वहेतोरेव समप्रोत्पन्नैक कार्यक्रियालक्षणः सदा
•
Page #230
--------------------------------------------------------------------------
________________
अनेकान्तजयपताका
9
9
संतानापेक्षयैवंभूत एव तस्य तस्य कार्यस्य विशिष्टक्षणोत्पादजलक्षणत्वादिति भावनीयम् । 'स्वहेतुपरम्परात एव सा शक्तिस्तथास्वभाबोत्पन्ना' इत्यादिना त्वनन्तरोदितग्रन्थेन सुतरामभेदात्- द्वयोरपि सहकारार्थयोः फलाभेदादिति गर्भः । दोषान्तरमाह - प्रत्येकमित्यादिना । प्रत्येकमेकमेकं प्रति तेषां समग्रोत्पन्नानां तथाविधं विशिष्टं यद् विवक्षितं विज्ञानादि कार्य तज्जननसमर्थस्वभावश्चेतरश्चातज्जनन समर्थस्वभावश्चेति विकल्पाभ्यां दोषास्तदापत्तेश्व कारणाद् 'द्वितीयो: Sपि सहकारार्थी निषिद्ध:' इति क्रिया । एतदुक्तं भवति - पूर्वस्वहेतो: रेव समप्रोत्पन्नैककार्यक्रियालक्षणो द्वितीयः सहकारार्थः । तत्र ये समग्रा उत्पन्नास्ते प्रत्येकं तथाविधकार्यजननसमर्थस्वभावाः स्युः, न वा तथाविधकार्यजननसमर्थस्वभावा इति द्वयी गतिः । तत्र प्रथमः पक्षे- प्रत्येकं ते तथाविधकार्यजननसमर्थस्वभावा इत्यस्मिन्, किमन्यो न्यापेक्षया ?, एकत एव तथाविधकार्यजननसमर्थस्वभावात् समग्रात्, तत्सिद्धेस्तथाविधकार्यसंसिद्धेः; अन्यथा तत्तत्स्वभावत्वानुपपत्तिरिति हृदयम् । द्वितीयपक्षे च- - प्रत्येकं ते न तथाविधकार्य जननसमर्थस्वभावा इत्यस्मिन् । किमित्याह- अपेक्षायामपि सत्यां तदसिद्धेः- विवक्षितः कार्यासिद्धेः । असिद्धिश्च प्रत्येकमतत्स्वभावत्वात् समप्राणाम् । न हि प्रत्येकं तैलाजननस्वभावाः सिकताणवः परस्परापेक्षयापि तैलं जनयन्ति तदतत्स्वभावत्वविरोधादिति ॥
"
२३८
तेषामत एव प्रत्येकत्वाभावादमत्येकत्वत एव तत्स्वभावत्वा ददोष इति चेत् । न, अनेकतः सर्वथैकभवनासिद्धेः तद्भि अस्वभावत्वात्; अन्यथाऽनेकत्वायोगात् । एवं चेतरेतरस्वभा ववैकल्येन तत्रानुपयोगात् । तत्स्वभावविकलस्तद्रूपो न स्या नातत्कार्य इति चेत् । न तत्स्वभावविकलस्य तत्कार्यत्वा विरोधात्, तज्जननैकस्वभावादेव ततस्तदुत्पत्तेः, अन्यतस्तव भावात्, तस्यापि तत्वेऽन्यत्वाभाव इति निरूप्यतां सम्यग अन्यथा कार्यैकत्वानुपपत्तिः, समग्रस्यैव तस्योत्पत्तेः, अनेक
Page #231
--------------------------------------------------------------------------
________________
स्वोपज्ञटीकासहिता।
२३९
जन्यत्वे च तदयोगात्, सर्वेषां तज्जनकत्वात्, एकभाविनोऽपरभावासिद्धेः, तद्वैयर्थ्यप्रसङ्गात् , समग्रजनकत्वेऽप्येकस्यापि जनकत्वात् , अन्यथा समग्रजनकत्वविरोधात् , भेदशस्तद्भावापत्तेः, अन्यतज्जनकत्वे च कुतस्तत्स्वभाववैकल्यम् ? इति यत्किञ्चिदेतत् ॥
तेषामित्यादि । तेषां समग्रोत्पन्नानां समग्राणाम् ; किमित्याहअत एव हेतोः, प्रत्येकत्वाभावात् कारणात्, अप्रत्येकत्वत एवअप्रत्यकत्वेनैव समग्रतयेत्यर्थः, तत्स्वभावत्वात् तथाविधकार्यजननसमर्थस्वभावत्वादोष इति चेदनन्तरविकल्पयुगलकोपनीतः। एतदाशङ्कयाह- नानेकेत्यादिना । न नैतदेवम् । कुत इत्याह--अनेकतोऽनेकेभ्यः समग्रेभ्यः, सर्वथैकभवनासिद्धनिरंशभवनासिद्धरित्यर्थः । असिद्धिश्च तद्भिन्नखभावत्वात् तेषामनेकेषां भिन्नस्वभावत्वात् । इत्थं चैतदङ्गीकर्तव्यमित्याह- अन्यथा एवमनभ्युपगमेऽभिन्नस्वभावत्वादनेकत्वायोगात् । एवं चेत्यादि । एवं चानेकत्वे सति, इतरेतरस्वभाववैकल्येन- न य एवैकस्य स्वभावः स एवापरस्य, तदभेदप्रसङ्गादितीतरेतरस्वभाववैकल्यं तेन, तत्र सर्वथैकभवने, अनुपयोगाद् नानेकतः सर्वथैकभवनमिति । तत्स्वभावविकलस्तस्य विवक्षितस्य कस्यचित् तथाविधकार्यजननसमर्थस्य समग्रस्य खभावस्तत्स्वभावस्तेन विकलो रहितोऽपरः समग्र एव तत्स्वभावविकलः सः, तद्रूपोऽधिकृतसमग्रान्तररूपः, न स्याद् न भवेत् तद्वैकल्येन, नातत्कार्यों न समग्रान्तराकार्यः, किन्तु तत्कार्य एव, समग्रान्तरवत् , तस्यापि तजननस्वभावत्वादिति चेत् । एतदाशङ्कयाह- नेत्यादि । न नैतदे. वम् । कुत इत्याह- तत्स्वभावविकलस्य विवक्षितसमग्रतथाविधकार्यजननसमर्थस्वभावविकलस्य समयान्तरस्येति प्रक्रमः । किमित्याहतत्कार्यत्वविरोधात समग्रान्तरकार्यत्वविरोधात् । विरोधश्च तज्जननैकस्वभावादेव तथाविधकार्यजननैकस्वभावादेव, ततः प्रथमसममात्, तदुत्पत्तेस्तथाविधकार्योत्पत्तेः, अन्यतः समग्रान्तरात् , तद्
Page #232
--------------------------------------------------------------------------
________________
२४०
अनेकान्तजयपताकाभावादन्योत्पन्नकार्याभावात् , तत एवोत्पन्नं तदिति किमन्यस्मादुत्पादेन ?। सोऽपि तज्जननस्वभाव इत्येवं तज्जनयतीत्याशङ्कानिरासायाह- तस्यापि अन्यस्य समयान्तरस्य, तत्त्वे तज्जननैकस्खभावत्वे । किमित्याह- अन्यत्वाभावः तत्स्वभावस्य तत्त्वादिति मिरूप्यतां सम्यक् । अन्यथैवमनभ्युपगमे, किमित्याह- कार्यैकत्वानुपपत्तिः। कुत इत्याह- समग्रस्यैव अखण्डस्यैव, तस्य कार्यस्योत्पत्तेः । यदि नामैवं ततः किमित्याह- अनेकजन्यत्वे च सति कार्यस्य, तदयोगात् समग्रोत्पत्त्ययोगात् । अयोगश्च सर्वेषां समग्राणां तज्जनकत्वाद् विवक्षितैककार्यजनकत्वात् । किमेवं न समग्रोत्पत्तिरि. त्याह- एकभाविनः इति, एकस्माद् भवितुं शीलमस्येत्येकभावि कार्य गृह्यते तस्य; किमित्याह- अपरस्माद् भावोऽपरभावः, भवनं भाव उत्पादः, तदसिद्धेः । असिद्धिश्च तद्वैयर्थ्यप्रसङ्गादपरवैयर्थ्य, प्रसङ्गात् । नैको जनकः समग्रा एव जनका इत्यसद्ग्रहव्यपोहायाहसमग्रजनकत्वेऽपि सति, किमित्याह- एकस्यापि जनकत्वात् इत्थं चैतदङ्गीकर्तव्यमित्याह- अन्यथा एवमनभ्युपगमे, समग्रजन कत्वविरोधात्, नैकाद्यभावे सामग्यमिति भावनीयम् । यदि नामै ततः किमित्याह- भेदशः भेदैः, तद्भावापत्तेः कार्यभावापत्तेः, 4 तत्रैकोऽप्यजनकः, न चांशजनक इति कृत्वा । अथान्योऽपि तदेव जनयति यदेकेन जनितमित्यत्राह- अन्यतज्जनकत्वे च अन्यस्या समग्रस्य तज्जनकत्वे समपान्तरजनकत्वे चाभ्युपगम्यमाने । किमि त्याह- कुतस्तत्वभाववैकल्यं समग्रान्तरस्वभाववैकल्यम् ?- नैप तज्जन्यजनकत्वान्यथानुपपत्तेः; उक्तं च
"उत्पद्यते यदेकस्मादनशं नान्यतोऽपि तत् ।
समग्रभावे सामग्य नैकं कार्य सुनीतितः ॥ १॥" इति यत् किञ्चिदेतत्- 'तत्स्वभावविकलस्तद्रूपो न स्याद् ना। कार्यः' इति ॥
हेतुभेदात् फलभेद इति चापन्यायः । तथा च सत्यय
Page #233
--------------------------------------------------------------------------
________________
खोपज्ञटीकासहिता।
२४१ खलु भेदो भेदहेतुर्वा भावानां यदुत विरुद्धधर्माध्यासः कारणभेदश्वेत्युक्तिमात्रम् , भावार्थशून्यत्वात् , सामग्रययोगात् , समग्रेभ्यस्तद्भेदाभेदासिद्धेः, तस्वतः समग्रमात्रत्वात् । तदुपादानादिभेदेन तद्भेद इति चेत् । न, तत्स्वभावभेदमन्तरेण तदसिद्धेः, तद्भेदे चानेकस्वभावतापराधः; अन्यथोभयोस्तुल्यतापत्तेस्तकार्ययोरपि तुल्यता, सामस्त्येनोभयजनमस्वभावादुमयादुभयप्रसूतेः, तत्तथात्वकल्पनायास्तद्वैचित्र्यापादनेनायोगात् । इति प्रपश्चितमेतदन्यत्र, नेह प्रतन्यते । इति परमते सहकारासिद्धेरशोभनस्तदुपन्यास इति परिचिन्त्यतामेतत् ॥
. दोषान्तरमाह- हेतुभेदात् सकाशात् फलभेद इति चापन्यायः, तथानेकैकभावेन । तथा च सति 'अयमेव खलु भेदो भेदहेतुर्वा भावानां, यदुत-विरुद्धधर्माध्यासो भेदः, कारणभेदश्च भेदहेतुः' इत्युक्तिमात्रम् । कुत इत्याह- भावार्थशून्यत्वात् । भावार्थशून्यत्वं च सामग्रययोगात् । अयोगश्च समग्रेभ्यः सकाशात्, तद्भेदाभेदासिद्धेस्तस्याः सामग्रया भेदाभेदाभ्यामसिद्धेः, तत्त्वत: परमार्थतः, समग्रमात्र. त्वात् सामग्रथा इति । तदुपादानादिभेदेन- तेषां समग्राणामुपादाननिमित्तभेदेन, तद्भेदः सामग्रीभेदः तथाहि-रूपा-ऽऽलोकादिसामग्ऱ्यामेकत्र रूपमुपादानमालोकादयो निमित्तम् , अपरत्रालोकादय उपादानं रूपं निमित्तमिति सामग्रीभेद इति चेत् । एतदाशङ्कयाह-नेत्यादि । न नैतदेवम् । कुत इत्याह- तत्स्वभावभेदमन्तरेण तेषां समग्राणां स्वभावभेदमन्तरेण, तदसिद्धेः सामग्रीभेदासिद्धेः; उक्तं च
"रूपं येन स्वभावेन रूपोपादानकारणम् । निमित्तकारणं ज्ञाने तत् तेनान्येन वा भवेत् ? ॥ १ ॥ यदि तेनैव विज्ञानं बोधरूपं न युज्यते ।
अथान्येन, बलाद् रूपं द्विस्वभावं प्रसज्यते ॥२॥” इति । तद्भेदे च स्वभावभेदे च, समग्राणामनेकस्वभावताऽपराधो महानयमेकान्तकस्वभाववादिनः । अन्यथेत्यादि । अन्यथैवमनभ्युप
Page #234
--------------------------------------------------------------------------
________________
२४२
अनेकान्तजयपताका
गमे, उभयोः समग्रयोरिति सामग्युपलक्षणम् । किमित्याह- तुल्यतापत्तेः कारणात् , तत्कार्ययोरपि रूपा-ऽऽलोकादिरूपयोः, तुल्यता। कुत इत्याह- सामस्त्येनोभयजननस्वभावात् । उभयादेकस्वभा. वात् समग्रोभयात् , उभयप्रसूतेरुभयभावात् । तत्तथात्वेत्यादि । तस्याधिकृतस्वभावद्वयस्य तथात्वकल्पनाया भिन्नजातीयोभयजननैक स्वभावत्वकल्पनायाः, तद्वैचित्र्यापादनेनाधिकृतस्वभावद्वयवैचित्र्यापा दनेन हेतुना, अयोगात् ; तथाहि- नाचित्रात् स्वभावद्वयाच्चित्रद्वयः भावः, भवन्नपि द्वयभावोऽचित्रादेकस्वभावतया तुल्य एव स्यादिति प्रपञ्चितमेतदन्यत्रानेकान्तसिद्धौ, नेह प्रतन्यते । इति- एवं, परमते सहकारासिद्धेः कारणात् , अशोभनस्तदुपन्यासः सहकार्युपन्यास इति परिचिन्त्यतामेतत् ॥ . भिन्नविकल्पसंभवाभावोऽपि न्यायतस्तदवस्थ एव, तदनुभवस्यानेकशक्तिसहकारित्वविरोधात् , एकस्वभावत्वात्, तस्य चानित्याद्यन्यतमाविकल्पशक्तिसहकारित्वतत्त्वात् ; अन्यथा तदेकस्वभावत्वासिद्धेः । एकान्तकस्वभावत्वे च कथमस्य नित्या दिविकल्पशक्तिसहकारिभावः ? इति चिन्त्यम् । न हि नीलविज्ञानजन्मसहकारिस्वभावं नीलं कदाचिद् रसादिविज्ञानजन्मसहकारितां प्रतिपद्यते, तत्तत्त्वविरोधादिति ॥ .
भिन्नविकल्पसंभवाभावोऽपि निमित्तान्तराभावेन पूर्वोक्तः, न्यायतस्तदवस्थ एव । कुत इत्याह- तदनुभवस्य प्रस्तुतस्वलक्षणानुभवस्य, अनेकशक्तिसहकारित्वविरोधात् । विरोधश्चैकस्वभावत्वात् । तस्य चैकस्य स्वभावस्यानित्याद्यन्यतमविकल्पशक्तिसहकारित्वतत्त्वात् सहकारित्वस्वभावत्वात्। अन्यथैवमनभ्युपगमे तदेकस्वभावत्वासिद्धेःतस्यानुभवस्यैकस्वभावत्वासिद्धेश्चित्रशक्तिसहकारिभावेन । एकान्तैकस्वभावत्वे च कथमस्यानुभवस्य नित्यादिविकल्पशक्तिसहकारिभाव इति चिन्त्यम्-- नैवानित्यादिविकल्पशक्तिं विहाय सहकारिभाष इत्यर्थः । अमुमेवार्थ निदर्शनेनाह- न हीत्यादिना । न यस्माद् नील
Page #235
--------------------------------------------------------------------------
________________
स्वोपज्ञटीकासहिता ।
२४३
विज्ञानजन्म सहकारिस्वभावं नीलं कदाचिद् रसादिविज्ञानजन्म सहकारितां प्रतिपद्यते । किं न प्रतिपद्यते ? इत्याह- तत्तत्वविरोधात् तस्य नीलस्य नीलविज्ञानजन्मसहकारिस्वभावत्वं तत्त्वं तद्विरोधादिति ॥
अनेनानेकशक्तिसहकार्येकस्वभावत्वकल्पना प्रत्युक्ता, अनेकगर्भस्य तस्यैकत्वायोगात्, अतिप्रसङ्गात्, निबन्धनव्यवस्थाभावात्, विश्वस्यैकनिबन्धनतापत्तेः । इति 'स्वलक्षणदर्शनाहितवासनाकृतविप्लवरूपाः सर्व एव विकल्पाः' इति वचनमात्रमेव ।।
अनेनानेकशक्ति सहकार्येकस्वभावत्वकल्पना प्रत्युक्ता । कथमित्याहअनेकगर्भस्य तस्य अधिकृतस्वभावस्य एकत्वायोगात् । अनेकगर्भश्वानेकशक्तिसहकार्येकस्वभाव इति परिभावनीयम् । योगेऽप्यतिप्रसङ्गात् सर्वस्य सर्वसहकारिकल्पनया । ततश्च निबन्धनव्यवस्थाभावात् 'नेदमस्य कारणम्' इति । व्यवस्थाभावे च विश्वस्यैकनिबन्धनतापत्तेः, ‘अनेककार्यकरणैकस्वभावत्वादेकस्य' इत्यपि वक्तुं शक्यत्वात् । इति 'अनन्तरोदिता कल्पना प्रत्युक्ता' इति क्रियायोगः । इति एवं 'स्वलक्षणदर्शनाहितवासनाकृत विप्लवरूपाः सर्व एव विकल्पाः' इति वचनमात्रमेव, अभिप्रेतार्थशून्यत्वादिति गर्भः ॥
तत्प्रतिबद्धजन्मत्वासिद्धेश्व, तथाहि - कस्तेषां वस्तुना प्रतिबन्धः ? इति वाच्यम् । न तादात्म्यम्, तद्देशादिभेदात्, अनभ्युप्रगमाच्च । न तदुत्पत्तिः, तदसरूपत्वात्, तदनन्तराभावाच्च । पारम्पर्येण तत्तदुत्पत्तिरिति चेत् । न, विहितोत्तरत्वात्, तत्तद्भावेऽपि तन्निमित्तत्वाविशेषात् नित्यादिविकल्पेभ्योऽपि तन्निश्चितिसिद्धेः, वस्तुनस्तथात्वप्रसङ्गात्, अनेकान्तापत्तेरिति । न च न नित्यादिविकल्पानामपि तत्प्रतिबन्धः, तेषामपिः तद्भेदमसवाभ्युपगमात्, 'नान्येषाम्, तद्भेदप्रसवे सत्यपि' इत्याद्युपन्यासात् । तद्भेदप्रसवश्चार्थभेदादुत्पादः । स चानित्यादिविकल्पानामिवामीषां तत इति । तत्कथं न तेभ्यस्तन्निश्चितिः ? ॥ इहैवोपपत्त्यन्तरमाह- तत्प्रतिबद्धजन्मत्वासिद्धेश्च वस्तुप्रतिम
,
Page #236
--------------------------------------------------------------------------
________________
२४४
अनेकान्तजयपताकाद्धजन्मत्वासिद्धेश्च विकल्पानाम्' इति प्रक्रमः । तथाहि' इत्युपप्रदर्शने। कस्तेषामधिकृतविकल्पानां वस्तुना सह प्रतिबन्धः ? इति वाच्यम् । न तादात्म्यं प्रतिबन्धः, तद्देशादिभेदाद् वस्तुदेशादिभेदात् । आदिशब्दात काल-स्वभावादिग्रहः । अनभ्युपगमाञ्च । न हि परेणापि वस्तु-विकल्पयोस्तादाम्यमभ्युपगम्यते । न तदुत्पत्तिः प्रतिबन्धः, विकल्पानां वस्तुना । कुत इत्याह- तदसरूपत्वात् वस्त्वसरूपत्वाद् विकल्पानाम । उपपत्यन्तरमाह- तदनन्तराभावाच्च वस्त्वनन्तराभावाच कारणादिति । पारम्पर्येण स्वलक्षणज्ञानव्यवधानजेन, तत्तदुत्पत्तिःतस्माद् वस्तुनो विकल्पोत्पत्तिरिति चेत् । एतदाशङ्क्याह- न. विहितोत्तरत्वात् परदर्शने निमित्तान्तराभावेन विहितोत्तरमतत 'कथं वा निर्विकल्पकत्वेनाभिन्नाद् भिन्नविकल्पसंभवः ?' इत्या. दिना ग्रन्थेन । इतश्चैतद् न- तत्तद्भावेऽपि वस्तुनो विकल्पभावेऽपि, तन्निमित्तत्वाविशेषाद् वस्तुनिमित्तत्वाविशेषात्, नित्यादिविकल्पे. भ्योऽपि सकाशात् , तन्निश्चितिसिद्धवस्तुनिश्चितिसिद्धेः कारणात् । किमित्याह- वस्तुनस्तथात्वप्रसङ्गात् नित्यत्वादिप्रसङ्गात्, अने। कान्तापत्तेरिति, न नैतदेवमिति क्रिया । न चेत्यादि न च न नित्या दिविकल्पानामपि, तत्प्रतिबन्धो वस्तुप्रतिबन्धः, किन्तु प्रतिबन्ध एव । कुत इत्याह- तेषामपि नित्यादिविकल्पानाम् , तद्भेदप्रसवाभ्युपगमाद् वस्तुभेदप्रसवाभ्युपगमात् । अभ्युपगमश्च 'नान्येषाम् । तद्भेदप्रसवे सत्यपि' इत्याा पन्यासात् प्राक् । तद्भदप्रसवश्व कः । उच्यते- अर्थभदादुत्पादः स्वलक्षणादित्यर्थः । स चेत्यादि में चानित्यादिविकल्पानामिवामीषां नित्यादिविकल्पानाम् , तत इति वस्तुनः । तत् तस्मात् , कथं न तभ्यो नित्यादिविकल्पेभ्यः, तन्निश्चितिन वस्तुनिश्चितिः ? इति ॥ ... ननूक्तमत्र 'यथादृष्टविशेषानुसरणं परित्यज्य किश्चित्सामा न्यग्रहणेन विशेषान्तरसमारोपात्' इति । उक्तमिदम् , अयुत्ता तूक्तम्, इतरत्राप्युक्तन्यायतुल्यत्वात्, 'अनित्यादिविकल्पानामात्र
Page #237
--------------------------------------------------------------------------
________________
खोपाटीकासहिता ।।
२४५ नित्यादिरूपयथादृष्टविशेषनिश्चयपरित्यागेनावस्थाभेदग्रहणतो विशेषान्तरसमारोपेण प्रवृत्तेः' इत्यपि वक्तुं शक्यत्वात् । नित्यस्य भेदाभेदविकल्पद्वारेणावस्थाभेद एवायुक्त इति चेत् । न, ततस्तनेदाभेदविकल्पाप्रवृत्तेः, अवस्थानामुत्पक्षितत्वात् , तथातत्त्वानामपि समचित्रनिम्नोन्नतसमारोपवत् तथासमारोपहेतुत्वावि. रोधः, आन्तरदोषसामोत् , तस्य चासदर्शनवासनारूपत्वात् , नित्यप्रमातुरपि तत्स्वभावत्वतोऽनित्यस्याभेदवासनावत् तथावासनोपपत्तेः । इतीतरवाप्युक्तन्यायतुल्यत्वमिति ।। . आह- ननूक्तमत्र प्राक् , 'यथादृष्टविशेषानुसरणं परित्यज्य किश्चित्सामान्यग्रहणेन विशेषान्तरसमारोपाद् न तेभ्यस्तनिश्चितिः इति । एतदाशङ्क्याह- उक्तमिदम् , अयुक्तं तूक्तम् । कथमित्याहइतरत्रापि प्रक्रमाद् वस्त्वनित्यत्वःदौ, उक्तन्यायतुल्यत्वात् 'यथाद्दष्टविशेषानुसरणं परित्यज्य' इत्यादिरुक्तो न्यायः, अस्य तुल्यत्वात् । तुल्यत्वमेवाह- अनित्यादिविकल्पानामपीत्यादिना । तत्र 'यथादृष्टविशेषानुसरणं परित्यज्य' इत्यादि भङ्ग्यन्तरेणाधिकृतपक्षविपक्षे योजयति- अनित्यादिविकल्पानामपीति न केवलं नित्यादि. विल्पानाम् , नित्यादिरूपथथादृष्टविशेषनिश्चयपरित्यागेन नित्यादिरूपस्य यथादृष्टविशेषो नित्यादिरूप एव तन्निश्चयपरित्यागेन । परित्यागश्चावस्थाभेदग्रहणतोऽवस्थाभेदग्रहणात् कारणात् , विशेषान्तरसमारोपण्णाभेदसमारोपेण, प्रवृत्तेरनित्यादिविकल्पानामपि । इत्यपि एवमपि, वक्तुं शक्यत्वात् , नात्र जिह्वान्तरे डोङ्गरः। नित्यस्येत्यादि नित्यस्य वस्तुनः, भेदाभेदविकल्पद्वारेण- एतन्मुखेनेत्यर्थः, अवस्थाभेद एवायुक्तोऽघटमानकः, तथाहि-तास्ततो भेदेन वा स्युः, अभेदेन वा ? । भेदे 'अस्य ताः' इति कः संबन्धः ? । अभेदेऽवस्थातैवासौ, अवस्था वा, इति नित्यस्यावस्थाभेदाभाव इति चेत् । एतदाशङ्क्याह- नेत्यादि म नैतदेवम् , व्रतो नित्याद् वस्तुनः, तद्भेदा-ऽभेदविकल्पाप्रवृत्ते:- तासामवस्थानां दाभेदविकल्पाप्रवृत्तेः । अप्रवृत्तिश्चावस्थानामुत्प्रेक्षितत्वात- अवस्त
Page #238
--------------------------------------------------------------------------
________________
२४६
अनेकन्तिजयपताका
"
त्वादिर्थः । तथातत्त्वानामपि - उत्प्रेक्षितनद्भावानामपि 'अवस्थानाम्' इति प्रक्रमः, समचित्रांनम्नो-न्नतसमारोपवादितेि निदर्शनम्, समचित्रे निम्नो-न्नतसमारोप इति विग्रहः, तद्वत्; तथासमारोपो भेदसमारोपस्तद्धेतुत्वाविरोधस्तथातत्त्वानामप्यवस्थानामिति । कुत इत्याह- आ न्तरदोषसामर्थ्यात् कारणात् तस्य चान्तरदोषस्य, असद्दर्शनवासनारूपत्वात् - असद्दर्शन वासनाऽनित्यादिदर्शन वासना तद्रूपत्वात्, नित्यप्रमातुरपि तत्स्वभावत्वतोऽस दर्शनवासनास्वभावत्वेन, अनेत्यस्य प्रभातुः, अभेद वासनावदिति निदर्शनम्, 'तत्स्वभावत्वत:' इति योज्यते, तथावासनोपपत्तेर्भेदप्रकारेण वासनोपपत्तेः । इति एवम्, इतरत्रापि वस्त्वनित्यत्वादौ, उक्तन्यायतुल्यत्वमिति निगमननिदर्शनमेतत् ॥
किश्व, 'यथादृष्टविशेषानुसरणं परित्यज्य, इत्यत्र 'तथा दृष्टो नान्यथा' इत्यत्र न प्रमाणम् । प्रत्यक्षमेवात्र प्रमाणमिति चेत् । न तत्कस्यचिद् निश्चायकम् । तथ्यमपि गृह्णाति न तद् निश्चयेन, किं तर्हि ?, तत्प्रतिभासेन । स चैवंभूत एव नान्यथेति ऋतेती. न्द्रियार्थदर्शि तामतिशयश्रद्धां वा न विनिश्वयोपायः । न तदेव, संप्रमुग्धमूककल्पत्वात् । नानुमानम्, तथाविधलिङ्गासिद्धेः । न चान्यत्, अनभ्युपगमात् । अनित्यतादिरूपस्यैव वस्तुनि विद्य मानत्वात् स एवंभूतो नान्यथेति चेत् । कुतस्तत्रास्यैव विद्य मानतासिद्धि: ? इति वाच्यम् । तत्तथाप्रत्यक्ष प्रतिभासादेवेति चेत् । सोऽयमितरेतराश्रयदोपोऽनिवारितप्रसरः । कथं वा तत्त त्यतिभासत्वे तन्नीलत्वादिवत्तदनिश्चयः ।। किञ्चित्सामान्यग्रहणे विशेषान्तरसमारोपादिति चेत् । किमत्यन्तभेदिनां सामान्यम्। सदृशा परापरोत्पत्तिरिति चेत् । प्रतिनियतैकग्राहिज्ञानता कुतोऽस्याः खल्ववगमः । न हि कथञ्चिदेकस्यानेकग्राहिण विज्ञानस्याभावे 'केनचित् सदृशोऽयम्' इति भवति, अतिप्रसङ्ग -त्, रूपग्रहणस्यापि रसग्रहणसदृशतापत्तेः । एवं च व्यवस्थानु
Page #239
--------------------------------------------------------------------------
________________
खोपाटीकासहिता ।।
२४७ त्तिः । न रूपज्ञानं रसज्ञानोपादानमतोऽयमंदोष इति चेत् । न न भवति, क्वचित्तथाभावोपपत्तेः, रूपज्ञानसमनन्तरभाविनो रसज्ञानस्य तदनुपादानत्वेऽनुपादानत्वप्रसङ्गात् । किं वा तत्तथाभावाभावेऽत्यन्तासत एव भवतोऽस्योपादानचिन्तया?, तत्तथाभाचे चानिवारितोऽन्वयः । एतेन सदा सत्त्वोपलम्भः प्रत्युक्तः, तत्त्वतस्तस्यापि सादृश्यनिबन्धनत्वात् , तस्य चोक्तवद् ग्रहणायोगात् , आन्तरतद्विकल्पबीजस्याप्रमाणत्वात् , तथापि तत्कल्पनायाश्चेतरत्रापि तुल्यत्वादित्युक्तप्रायम् ॥
इहैव दूषणान्तरमाह-किश्चेत्यादिना । किञ्च, 'यथादृष्टविशेषानुसरणं परित्यज्य' इत्यत्र 'तथादृष्टोऽनित्यादिरूपत्वेन, नान्यथा न नित्यादिरूपत्वेन, इत्यत्र न प्रमाणम्- नास्मिन् विषये प्रत्यक्षं प्रवर्तते, नाप्यनुमानमित्यर्थः । प्रत्यक्षमेवात्र 'तथादृष्ट-' इति विषये प्रमाणमिति चेत् । एतदाशङ्क्याह-न तदित्यादि न तत् प्रत्यक्षं कस्यचिद् वस्तुनो निश्चायकम् । तथ्यमप्यर्थविशेषं गृह्णाति न तत् , निश्चयेन 'एवमेतत्' इत्येवंरूपेण । किं तर्हि ?, तत्प्रतिभासेन तदाकारेण ग्राह्याकारेणेत्यर्थः । स चेत्यादि स च प्रतिभास एवंभूत एव- अनित्या. दिरूप एव, नान्यथेति न नित्यादिरूपः, इति- एवं, ऋते विना, अतीन्द्रियार्थदर्शितामतिशयश्चद्धां वा न विनिश्चयोपायः । न तदेव प्रत्यक्षं विनिश्चयोपायः । कुत इत्याह- संप्रमुग्धमूककल्पत्वात् तस्य, संप्रमुग्धो हि मूकः स्वप्रतिभासमपि न विनिश्चिनोतीति लौकिकमेतत्। अतोऽत्र न प्रत्यक्षमेव प्रमाणमिति । अनुमानं तर्हि भविष्यतीत्याशङ्कानिरासायाह- नानुमानम् 'अत्र प्रमाणम्' इति प्रक्रमः । कुत इत्याहतथाविधलिङ्गासिद्धेः स एवंभूत एवेत्थाद्यर्थाविनाभूतलिङ्गासिद्धेः । न चान्यत् 'अत्र मानम्' इति प्रक्रमः । कुत इत्याह- अनभ्युपगमात् अन्यस्य मानस्य । अनित्यत्वादिरूपस्यैव वस्तुनि रूपादौ विद्यमानत्वात् कारणात् , स प्रतिभासः, एवंभूतोऽनित्यादिरूप एव नान्यथेति न नित्यादिरूप इति चेत् । एतदाशङ्कयाह- कुतस्तत्र
Page #240
--------------------------------------------------------------------------
________________
२४८
अनेकान्तजयपताका
वस्तुनि, तस्यैवानित्यत्वादिरूपस्यैव, विद्यमानतासिद्धिः ? इत्येतद् वाच्यम् । तत्तथेत्यादि तस्मिन् वस्तुनि तथाऽनित्यादिरूपतया प्रत्यक्षप्रतिभासः प्रत्यक्षाकारस्तत्तथाप्रत्यक्षप्रतिभासस्तस्मादेवेति चेत् त. स्यैव विद्यमानतासिद्धिरिति । एतदाशङ्कयाह- सोऽयमितरेतराश्रयदोषोऽनिवारितप्रसरः तथाहि- अनित्यत्वादिरूपता वस्तुनः प्रत्यक्षप्रतिभासबलेन, सोऽपि तथा वस्तुनोऽनित्यत्वादिरूपतया, इतांतरेतराश्रयदोषः । कथं वेत्यादि कथं वा तस्य प्रत्यक्षस्य, तत्प्रतिभासत्वे प्रक्र. मादनित्यत्वाद्याकारत्वे, तन्नीलत्वादिवत् तस्य वस्तुनो नीलत्वादिवदिति निदर्शनं व्यतिरेकेण, तदनिश्चयोऽनित्यत्वाद्यर्थानिश्चयः । किश्चित् सामान्यग्रहणेनापरसदादिग्रहणेनेत्यर्थः, विशेषान्तरसमारोपात् सर्व सदादिसमारोपादिति चेत् तदनित्यत्वाद्यानिश्चयः । एतदाशङ्क्याहून 'किमत्यन्तभेदिनां सामान्य वस्तूनाम्' इति प्रक्रमः । सदृशाप
रापरोत्पत्तिरिति चेत् प्रस्तुतसामान्यम् । एतदाशझ्याह- प्रति 'नियतैकग्राहिंज्ञानतत्त्ववादे क्षणिकत्वेन कुतोऽस्याः सदृशापरापर स्पत्ते: खल्ववगम: ?- नैवेत्यर्थः । एतदेव भावयति-न हीत्या दिना । न हि कथञ्चिदेकस्यानेकग्राहिणो विज्ञानस्याभावेऽन्वकि इत्यर्थः, 'केनचित् सदृशोऽयम्' प्रक्रमाद् 'भावः' इति भवति ।। 'न भवति ? इत्याह- अतिप्रसङ्गात् । एनमेवाह- रूपग्रहणस्या रसग्रहणसदृशतापत्तेः, तेन तदग्रहणाविशेषादिति भावः ।। चातिप्रसङ्गे सति व्यवस्थानुपपत्तिः । न रूपज्ञानं रसज्ञानोपादान यथा रूपज्ञानोपादानमेव, अतोऽयमतिप्रसङ्गदोषोऽदोष चेत् । दाशङ्क्याह- न न भवति रूपज्ञानं रसज्ञानोपादानम्, कि भिवत्यपि कचित् सामान्यन, तथाभावोपपत्तेः-रूपज्ञानस्य रसशाम ‘पादानभावोपपत्तेः । एतेदवाह- रूपज्ञानसमनन्तरभाविनोरा ज्ञानस्य तदनुपादानत्वे रूपज्ञानानुपादानत्वे, अनुपादानत्वा गात् । न तदपरं ज्ञानमुपादानम् , न च न भवति रूपज्ञानाना रसज्ञानमिति भावनीयम् । किं वा तत्तथाभावाभावे सस्य रूपमा
Page #241
--------------------------------------------------------------------------
________________
स्वोपज्ञटीकासाहता।
२४९ तथा रसज्ञानतया भावाभावे, अन्वयानभ्युपगमेनात्यन्तासत एव भवतः, अस्य रसज्ञानस्य, उपादानचिन्तया, परमार्थतः सर्वत्रासत् सद् भवतीति कृत्वा ? । तत्तथाभावे च तस्य रूपज्ञानस्य तथाभावे च रसज्ञानभावे चाभ्युपगम्यमाने सति । किमित्याह- अनिवारितोऽन्वयः बलादापद्यत इत्यर्थः । एतेनेत्यादि एतेनानन्तरोदितेन, सदा सत्त्वोपलम्भः प्रत्युक्तः । कथमित्याह-तत्त्वतः परमार्थतः, तस्यापि सदासत्त्वोपलम्भस्य, सादृश्यनिबन्धनत्वात् । यदि नामैवं ततः किमित्याह- तस्य च सादृश्यस्य, उक्तवद् यथोक्तम्- 'प्रतिनियतैकग्राहिज्ञानतत्त्ववादे' इत्यादि तथा, ग्रहणायोगात् ; आन्तरतद्विकल्पबीजस्य- असद्दर्शनवासनाख्यनित्यत्वादिविकल्पबीजस्य, अप्रमाणत्वात् , नैतग्राहकं प्रमाणमस्ति; तथापि प्रमाणाभावेऽपि, तत्कल्पनायाश्चान्तरताद्विकल्पबीजकल्पनायाश्च, इतरत्रापि प्रक्रगादनित्यत्वादौ, तुल्यत्वादित्युक्तप्रायं प्रायेणोक्तं 'आन्तरदोषसामर्थ्यात्' इत्यादिना ग्रन्थेन । ____ एवं प्रदीपप्रभोदाहरणं सर्वत्रगत्वादनुदाहरणमेव । न च दीपप्रभाया मण्यर्थेन प्रतिबन्धः, अस्ति च मणिप्रभायाः । न चैवमनित्ये-तरादिविकल्पानां केषांचिदेव वस्तुना प्रतिबन्धो नान्येषाम्, इति वैषम्यमपि दान्तिकेन । अयोनिशो मनस्कारपूर्वकत्वान्नित्यादिविकल्पानां न वैषम्यमिति चेत् । न, अस्यापि तुल्यत्वात् , अनित्यादिविकल्पानामप्येवंभूतभावस्य वक्तुं शक्यत्वात् , उभयत्र तनियामकत्वानुपपत्तेः, निबन्धनाविशेषादिति । अतः स्थितमेतत्- 'अखिलविकल्पज्ञानभ्रान्ततावादिनश्च तसामोत्थं वचनमपि तागेव' इति दुःस्थिता तत्त्वनीतिः॥
पूर्वपक्षान्तरमधिकृत्याह- एवमित्यादि । एवमुक्तनीत्या, प्रदीपप्रभोदाहरणं परप्रणीतं, सर्वत्रगत्वात् कारणाद् विपक्षेऽप्युपनयकरणेन, किमित्याह- अनुदाहरणमेव । अभ्युच्चयमाह- न चेत्यादिना । न च दीपप्रभाया मण्यर्थेन सह प्रतिबन्धोऽस्ति, अस्ति च मणिप्रभाया इत्युभयसिद्धमेतत् । न चैवमनित्येतरादिविकल्पानामनित्य-नित्यादि.
Page #242
--------------------------------------------------------------------------
________________
अनेकान्तजयपताका
विकल्पानाम्, केषाञ्चिदेवानित्यादिविकल्पानामेव, वस्तुना प्रतिबन्धो नान्येषां नित्यादिविकल्पानाम्, किं तर्हि ? अविशेषेण, 'नान्येषां तद्भेदप्रसवे सत्यपि' इत्यादिवचनात् इत्येवं, वैषम्यमपि दाष्टन्तिकेन । अयोनिशोमनस्कारपूर्वकत्वाद् नित्यादिविकल्पानां सर्वथा वस्तुशून्यत्वादित्यर्थः, न वैषम्यमिति चेद् दाष्टन्तिकेन । एतदाशक्याह - न, अस्यापि तुल्यत्वात् । एतदेवाह - अनित्यादिविकल्पानामपि पराभिमतानाम्, एवंभूतभावस्य - अयोनिशोमनस्कारपूर्वकत्वभावस्य, वक्तुं शक्यत्वात्; तथाहि - अनित्यादिविकल्पा एवायोनिशोमनस्कारपूर्वका वस्त्वसंस्पर्शिनः सतोऽसत्त्वानापत्त्या, असतश्च सद्भावविरोधेन वस्तुन एवंभूतस्यासंभवात् इति बाधक -- प्रमाणवृत्तिः, अतः स्थितमेतत् – 'अनित्यादिविकल्पानामप्येवंभूत: भावस्य वक्तुं शक्यत्वात्' इति । उभयत्रेत्यादि उभयत्र नित्यान दिविकल्पपक्षेऽनित्यादिविकल्पपक्षे च, तन्नियामकत्वानुपपत्तेःतस्य योनिशोमनस्कारपूर्वकत्वस्य नियामकत्वानुपपत्तेः । अनुपपत्तिश्च निबन्धनाविशेषात् । निबन्धनाविशेषश्च सर्वेषां तद्भेदप्रसवत्वेनेति । अतः स्थितमेतत्- 'अखिल विकल्पज्ञानभ्रान्ततावादिनश्च तत्साम र्थ्योत्थं— विकल्पसामर्थ्योत्थं वचनमपि ताद्यगेव - भ्रान्तमेव, इत्येवं, दुःस्थिता तत्त्वनीतिः ॥
"
भ्रान्तिज्ञानवन्तोऽपि कामलिप्रभृतयः शङ्खादौ संस्थानादितत्त्वनिश्चयनिबन्धनं दृश्यन्त एवेति चेत् । न तेषां तत्राभ्रान्तत्वात्; अन्यथा पीतवर्णादिवत्तवनिश्चयनिबन्धनाभावः । विकल्पज्ञानमपि स्वसंवित्तावभ्रान्तमेवेति चेत् । क्व तर्हि भ्रान्तम् ? इति वाच्यम् । कल्पनायामिति चेत् । न तस्यास्तदव्यतिरेकात् अन्यथा विकल्पाज्ञानायोगात्, स्वसंवित्तेर्भेदकासिद्धेः, बोधमात्राद् बोधमात्रभावात् तदतिरिक्तदोषानभ्युपगमात् । अभ्युपगमे । च तद्वस्तुत्वेन तद्योगजविकार कल्पनाया वस्तुत्वापत्तेरिति ॥ भ्रान्तीत्यादि । भ्रान्तिज्ञानवन्तोऽपि कामलिप्रभृतयः प्रमातारः
२५०
-
"
,
Page #243
--------------------------------------------------------------------------
________________
स्वोपज्ञटीकासहिता।
२५१ शङ्खादौ प्रमेये, संस्थादितत्त्वनिश्चयनिबन्धनं दृश्यन्त एवेति चेत् ; ततश्च तद् भ्रान्तं च ज्ञानं, तत्त्वनिश्चयनिबन्धनं च, एवमनित्यादिविकल्पा अपि भविष्यन्ति; इत्याह-नेत्यादि न, तेषां कामलिप्रभृतीनां, तत्र श. लादिसंस्थानादितत्त्वनिश्चयनिबन्धनाभावः, अभ्रान्तत्वात् । इत्थं चैतदङ्गीकर्तव्यमित्याह- अन्यथा पीतवर्णादिवद् यथा पीतवर्णादौ तथा, तत्तत्त्वनिश्चयनिबन्धनाभावः शङ्खादिसंस्थानादितत्त्वनिश्चयनिबन्धनाभावः, सर्वथा भ्रान्तत्वादिति भावना । विकल्पज्ञानमपि स्वसंवित्तौ, किमित्याह- अभ्रान्तमेवेति चेत् ततश्च किलोक्तदोषानुपपत्तिः; इत्याशङ्कयाह- क तर्हि भ्रान्तम् ? इति वाच्यम् । कल्पनायामिति चेद् भ्रान्तम् । अत्राह- न, तस्याः कल्पनायाः, तदव्यतिरेकात् स्वंसंवित्त्यव्यतिरेकात् । इत्थं चैतदित्याहअन्यथा व्यतिरेके सति स्वसंवित्तेः कल्पनायाः, विकल्पज्ञानायोगात्। अयोगश्च स्वसंवित्तश्चिद्रूपायाः, भेदकासिद्धेरञ्जकासिद्धेः । असिद्धिश्च बोधमात्रात् सकाशात् कारणगतात्, बोधमात्रभावात् । तत्कार्ये तदेव दोषसंपृक्तं विकल्पज्ञानमित्येतन्निरासायाह- तदतिरिक्तदोषानभ्युपगमात् बोधमात्रातिरिक्तदोषानभ्युपगमात् । अभ्युपगमे च तदतिरिक्तदोषाणां, तद्वस्तुत्वेन दोषावस्तुत्वेन हेतुना, तद्योगजविकारकल्पनाया दोषयोगजविकारकल्पनायाः, वस्तुत्वापत्तेः 'न, तेषां तत्राभ्रान्तत्वात्' इत्यतो नेति क्रियायोग इति ।।
आह- अस्तु दोषजं वस्तुत्वमस्याः, शङ्खपीतादिप्रतिभासतुल्यं तु तत् , संस्थानादितत्त्वनिश्चयकल्पा तु स्वसंवित्तिरिति । यदि नामैवम्, ततः किम् ? इति वाच्यम्। विकल्पज्ञानस्याप्यभ्रान्तता । एवमपि का भवत इष्टसिद्धिः। ननु ततस्तत्त्वनीतिभावः। अनिश्चयात्मिकायाः कथमसौ? । हन्त ! कल्पनानुवेधात् । स खलु नित्यत्वादिकल्पनयापि । इति विपक्षसाधारणत्वाद् नेष्टसिद्ध्यर्थमेवेत्ययुक्त एव । न च निरंशवस्तुवादिनो यथोक्तकल्पनैव संभवति, तदैकखभावत्वेन कल्पनाबीजायोगात्, स्वभाव
Page #244
--------------------------------------------------------------------------
________________
२५२
अनेकान्तजयपताकाभेदमन्तरेण हेत्वभेदतः फलभेदासिद्धः ।।
- आह- अस्तु दोषजं वस्तुत्वमस्याः कल्पनायाः । शङ्खपीतादिप्रति. भासतुल्यं तु तद् वस्तुत्वम् , संस्थानादितत्वनिश्चयकल्पा तु स्वसंवि. त्तिरिति । एतदाशङ्कयाह- यदि नामवं, ततः किम् ? इति वा: च्यम् । विकल्पज्ञानस्याप्यभ्रान्तता। एतदाशङ्कयाह-एवमपि का भवत इष्टसिद्धिः ? । ननु ततः अभ्रान्तायाः स्वसंवित्तेः, तत्त्वनी तिभाव इतीष्टसिद्धिः । एतदाशङ्कयाह- अनिश्चयात्मिकायाः स्वसं वित्तेः, कथमसौ तस्वनीतिभावः ? । हन्त ! कल्पनानुवेधात् । एत दाशङ्कयाह- स खलु कल्पनानुवेधः, नित्यत्वादिकल्पनयाऽपि सह, इति विपक्षसाधारणत्वात् कारणात्, 'नेष्टसिद्धयर्थमेव' इति कृत्वाऽयुत्त एवेति न किञ्चिदनेन । अभ्युच्चयमाह- न च निरंशवस्तुवादिनः परस्य, यथोक्तकल्पनैव संभवति । कुत इत्याह- तदेकस्वभावत्वेन निरंशवस्तुन एकस्वभावत्वेन हेतुना, कल्पनाबीजायोगात् । अयोगश्चं स्वभावभेदमन्तरेण प्रक्रमादविकल्पज्ञानवस्तुनः, हेत्वभेदतः कारणात फलभेदासिद्धेः । फलभेदश्चादिकल्पज्ञानात् कल्पनेति भावनीयम् ॥ . भवतोऽपि कथमेकं भ्रान्ताभ्रान्तम् ? इति चेत् । चित्रस्वभाः वत्वेन तथात्वाविरोधात्, तत्त्वत एकत्वासिद्धेः, दोषसामोपर योगात् , अविगानतस्तथा तत्पतीतेरिति । अतो निर्विकल्पकवद विकल्पकमप्यक्षव्यापारानुसारि यथावस्थितवस्तुविषयमविगा नतः स्पष्टतुल्यविनिश्चयं सत्क्षयोपशमजन्म बाधविज्ञानरहितमव गमादिफलमभ्रान्तमेष्टव्यम् ; अन्यथोक्तवत् तत्तत्त्वनिश्चयाभावः। इति विकल्पकत्वेऽपि न भ्रान्तमधिकृतविज्ञानमिति । अतः सा मान्यविशेषरूपवस्तुसिद्धिरिति । - भवतोऽपि कथमेकं प्रक्रमात् कामलिशङ्खपीतज्ञान, भ्रान्ताभ्रान्तम इति चेत् । एतदाशङ्कयाह- चित्रस्वभावत्वेन अधिकृतज्ञानस्य, 1 थात्वाविरोधाद् भ्रान्ताभ्रान्तत्वाविरोधात्, तत्त्वतः परमार्थेन, एकत्वा सिद्धेरेकानेकत्वादित्यर्थः । हेतुभेदमाह- दोषसामोपयोगा।
Page #245
--------------------------------------------------------------------------
________________
खोपज्ञटीकासहिता।
२५३ कामलस्य सामर्थ्याद्धि तत् तथा, तदभावेऽभावात् । इत्थं चैतदङ्गीकर्तव्यमित्याह- अविगानतोऽविगानेन लोके, तथा दोषजत्वेन, तत्प्र. तीतेः शङ्खपीतज्ञानप्रतीतेरिति निर्लोठ्यानुषङ्गिकम्, प्रकृतमाह- अतो निर्विकल्पकवत् इति निदर्शनम् । विकल्पकमप्यभ्रान्तमेष्टव्यमिति योगः । किंविशिष्टमित्याह- अक्षव्यापारानुसारि- अक्षव्यापारानुसरणशीलम् , यथावस्थितवस्तुविषयं सामान्य-विशेषरूपवस्तुगोचरम् , अविगानतोऽविगानेन, स्पष्टतुल्यविनिश्चयं प्रमात्रन्तरमधिकृत्य, सत्क्षयोपशमजन्म विशिष्टक्षयोपशमोत्पादम्, बाधविज्ञानरहितं तथानुभवदायेन, अवगमादिफलं परिच्छित्ति-प्रवृत्ति-प्राप्तिफलमर्थमधिक. त्य, अभ्रान्तमेष्टव्यम् । अन्यथा तदनिष्टौ, उक्तवद् यथोक्तं तथा, तत्तत्त्वनिश्चयाभावो यथावस्थितवस्तुतत्वनिश्चयाभावः, प्रत्यक्षस्यानिश्चायकत्वात् , विकल्पानां च मिथोविरुद्धानामपि प्रवृत्तेरिति । इतिएवं, विकल्पकत्वेऽपि सति, न भ्रान्तमधिकृतविज्ञानं सामान्यविशेषावसायरूपमिति । अतोऽस्माद् विज्ञानात्, सामान्यविशेषरूपत्रस्तुसिद्धिरिति ।
__ यच्चोक्तम्-'एक सामान्यमनके विशेषाः' इत्यादि । तदप्ययु. क्तम् , तथानभ्युपगमात् । न हि यथोक्तस्वभावं सामान्यमभ्युपगम्यतेऽस्माभिः, युक्तिरहितत्वात् । तथाहि- तदेकादिस्वभावं सामान्यमनेकेषु दिगदेश-समय-स्वभावभिन्नेषु विशेषेषु सर्वात्मना वा वर्तेत, देशेन वा । न तावत्सर्वात्मना, सामान्यानन्त्यप्रसङ्गात् , विशेषाणामनन्तत्वात् , एकविशेषव्यतिरेकेण वाऽन्येषां सामान्यशून्यतापत्तेः, आनन्ये चैकत्वाविरोधात् । नापि देशेन, सदेशवप्रसङ्गात् । न च गगनवद् व्यापित्वाद् वर्त्तत इति ब्रूम इत्यकलङ्कन्यायानुसारि चेतोहरं वचः, अविचारितरमणीयत्वात्, कात्स्य-देशव्यतिरेकेण वृत्यदर्शनात् । उभयव्यतिरेकेण नभसो वृत्तिरिति चेत् । न, असिद्धत्वात् , नमसः सप्रदेशत्वाभ्युपगमात् , निष्प्रदेशत्वे चानेकदोषप्रसङ्गात् ; तथाहि- येन देशेन विन्ध्यन
Page #246
--------------------------------------------------------------------------
________________
२५४
अनेकान्तजयपताका
सह संयुक्तं नभः, हिमवद् - मन्दरादिभिरपि किं तेनैव, आहोखिदन्येनेति ? | यदि तेनैत्र, विन्ध्य - हिमवदादीनामेकत्रावस्थानमसङ्गः, निष्प्रदेशैकाकाशसंयोगान्यथानुपपत्तेः । अथान्येन, आ यातं तर्हि सदेशत्वमाकाशस्य ॥
,
"
यच्चोक्तम्– ‘एकं सामान्यमनेके विशेषाः' इत्यादि मूलपूर्वपक्षे । तदप्ययुक्तम् । इत्याह- तथानभ्युपगमात् । एतदेवाह न हीत्यादिना । न हि यथोक्तस्वभावमेकादिधर्मकं सामान्यमभ्युपगम्यतेऽस्माभिः । कुत इत्याह--- युक्तिरहितत्वात् । एवदेवाहतथाहि तदेकादिस्वभावं सामान्यम् एकं नित्यं, निरवयवं निः ष्क्रियं च अनेकेषु दिग्देश समय स्वभावभिन्नेषु विशेषेषु घटादिषु, सर्वात्मना वा वर्तेत, देशेन वा ? । न तावत् सर्वात्मना वर्तते । कु इत्याह- सामान्यानन्त्यप्रसङ्गात् । प्रसङ्गश्च विशेषाणामनन्तत्वात् । दोषान्तरमाह - एकविशेषव्यतिरेकेण वाऽन्येषां विशेषाणाम्, किमित्याह - सामान्यशून्यतापत्तेः एकत्रैव सामान्यवृत्तेरिति । आ नन्त्ये च सामान्यानाम्, एकत्वविरोधाद् न तावत् सर्वात्मनेति नापि देशेन वर्तते 'सामान्यं विशेषेषु' इति प्रक्रमः, संदेशत्वप्रसङ्गात् सामान्यस्य । न च गगनवदिति दृष्टान्तः, व्यापित्वात् कारणात् वर्तत इति क्रमः, इत्यकलङ्कन्यायानुसारि चेतोहरं वचः । कुत इत्याहअविचारितरणीमयत्वात् । एतदेवाह - कात्सर्न्य देशव्यतिरेकेण वृत्त्यदर्शनाल्लोके । उभयव्यतिरेकेण कात्र्न्य देशो भयव्यतिरेकेण, नभस आकाशस्य, वृत्तिरिति चेद् भावेष्वाधेयादित्वेन । एतदाशङ्क्याहन, असिद्धत्वात् अधिकृतनभोवृत्तेः । असिद्धिश्च नभसः सप्रदेश त्वाभ्युपगमाज्जैनैः । यदा च सप्रदेशं नभः, तदा देश- कात्स्यभ्यां नियोगतोऽस्य वृत्तिः, उभयनिमित्तभावात् । इत्थं चैतदङ्गीकर्तव्य मित्याह - निष्प्रदेशत्वे च नभसः, अनेकदोषप्रसङ्गात् । एतदेव भावयति तथाहीत्यादिना । तथाहीत्युपप्रदर्शने । येन देशेन वि न्ध्येन सह पर्वतेन संयुक्तं नभः, हिमवद् मन्दरादिभिरपि पर्वतैः, प्रिं
--
Page #247
--------------------------------------------------------------------------
________________
स्वोपज्ञटीकासहिता ।
२५५
तेनैव देशेन, आहोस्विदन्येन ? इति । किञ्चात: ? उभयथापि दोष इत्याह- यदि तेनैव ततो विन्ध्य- हिमवदादीनां पर्वतानाम्, एकत्र देशे, अवस्थानप्रसङ्गः । कुत इत्याह- निष्प्रदेशं च तदेकाकाशं च तेन संयोगस्तदन्यथानुपपत्तेरिति । अथान्येन । एतदाशङ्क्याहआयातं तर्हि सप्रदेशत्वमाकाशस्य, तथाऽभ्युपगमात् ॥
स्यादेतददेशत्वाद् वियतो यथेोक्तविकल्पासंभवः, तत्रैकस्मिन्नेव तेषामवस्थितत्वात् । इदमप्ययुक्तम्, वस्तुतः पूर्वोक्तदोषानतिवृत्तेः । न च सर्वव्यापिनो विन्ध्यादय इति, येन 'तस्मि भैव तेषामवस्थितत्वात्' इति सफलं भवेदिति । अतो यत्र विन्ध्यभावो यत्र चाभाव इत्यनयोर्नभोभागयोरनन्यत्वम्, अन्यत्वं वेति वाच्यम् ? । किञ्चातः १ । यद्यनन्यत्वम्, किमु सर्वथा, आहोस्त्रित्कथञ्चित् १ | यदि सर्वथा, हन्त ! तर्हि यत्र विन्ध्यभावस्तत्राप्यभावः स्यात्, तदभाववन्नभोभागाव्यतिरिक्तत्वात्, तद्भाववन्नभोभागस्य विपर्ययो वा । अथ कथञ्चित्, अनेकान्तवादाभ्युपगमात् स्वकृतान्तप्रकोपः । अथान्यत्वम् । किं सर्वथा, उत कथञ्चित् । यदि सर्वथा, अन्यतरस्यानभोभागत्वप्रसङ्गः, सर्वथा भेदान्यथानुपपत्तेः । अथ कथञ्चित्, स्वदर्शन परित्यागदोष इति । स्यादेतद्भागानभ्युपगमाद् व्योम्नो यथोक्तदोषानुपपत्तिरिति । अभ्युपगममात्र भक्तो देवानांप्रियः सुखैधितो नोपपत्तिप्राप्तानपि भागांनवगच्छतीतिः ननु विशिष्टभावभावा ऽभावगम्या एव भागा इत्यवगमे निवेश्यतां चित्तमित्यलं प्रसङ्गेन । एतेन नित्यव्यापिनिर्देश सामान्यवृत्तिरपि प्रत्युक्ता ॥
स्यादेतददेशत्वाद् वियत आकाशस्य यथोक्तविकल्पासंभवः । तत्र वियति, एकस्मिन्नेव निष्प्रदेशे, तेषां विन्ध्यादीनाम्, अवस्थितत्वात् । एतदाशङ्कयाह- इदमप्ययुक्तम्, वस्तुतः परमार्थतः पूर्वोक्तदोषानतिवृत्ते :- विन्ध्य - हिमवदादीनामेकत्रावस्थानादिप्रसङ्गः पूर्वोक्तो दोष:,
Page #248
--------------------------------------------------------------------------
________________
२५६
अनेकान्तजयपताकातदनतिवृत्तेः । एनमेव प्रकारान्तरेण समर्थयन्नाह-न च सर्वव्यापिनो विन्ध्यादय इति येन 'तस्मिन्नेकस्मिन्नेव तेषामवस्थितत्वात्' इति सफलं भवेत् । अतो यत्रेति देशे विन्ध्यभावः, यत्र चाभावः, इत्यनयोनभोभागयोराकाशदेशयोः, किमित्याह- अनन्यत्वमन्यत्वं वेति वाच्यम् । किश्चातः। यद्यनन्यत्वम् , किं सर्वथा, आहोस्वित् कथञ्चित् ? । यदि सर्वथाऽनन्यत्वम्, हन्त! तर्हि यत्र विन्ध्यभावस्त. त्राप्यभावः स्यात् । कुत इत्याह- तदभाववन्नभोभागाव्यतिरिक्तत्वात् विन्ध्याभाववनभोभागाव्यतिरिक्तत्वात् , तद्भाववनभोभागस्य विन्ध्यभाववन्नभोभागस्य, विपर्ययो वा, यत्राभावस्तत्रापि भाव. प्राप्तः। अथ कथञ्चिदनन्यत्वम् । एतदाशङ्क्याह- अनेकान्तवादाभ्युपगमात् स्वकृतान्तप्रकोपः स्वसिद्धान्तविरोध इत्यर्थः । द्वितीय विकल्पमधिकृत्याह- अथान्यत्वम् अधिकृतनभोभागयोः; किं सर्वथा न्यत्वम् , उत कथञ्चित् ? । यदि सर्वथा- एकान्तेनान्यत्वम् । ततः किमित्याह- अन्यतरस्य यत्र विन्ध्यभावो यत्र चाभाव इत्यनयोरे, कस्य । किमित्याह- अनभोभागत्वप्रसङ्गः । कुत इत्याह- सर्वथा भेदान्यथानुपपत्तेः सर्वधर्मवैलक्षण्ये हि सर्वथा भेदः, तस्मिथ सत्येकस्य भावरूपता, अपरस्य सापि न, इत्येतदेव भवतीति भावना अथ कथञ्चिदन्यत्वमधिकृतनभोभागयोरित्यत्राह- खदर्शनपति त्यागदोषः एकान्तदर्शनं हि परस्य स्वदर्शनं तत्परित्यागदोष इति । स्या देतद् भागानभ्युपगमाद् व्योम्न आकाशस्थ, यथोक्तदोषानुपपत्तिरिले तदधिकृत्याह- अभ्युपगममात्रभक्तो देवानांप्रियो मूर्ख इत्यर्थः, सुख धितः शास्त्रग्रहणपरिश्रमत्यागेन सुखवर्धितः, नोपपत्तिप्राप्ताना विन्ध्यभावभावा-ऽभावाभ्यां भागानवगच्छतीति । एतद्भावनायैवाह ननु विशिष्टभावभावा-ऽभावगम्या एव भागाः- विशिष्टभावोऽन व्यावृत्ततया विन्ध्यभाव एव तद्भावा-ऽभावगम्या एव भागा व्योम्नः । हि निर्भागे परमाणौ कार्यस्य द्वयणुकादेः कचिद् भावः कति नेति स्वदर्शनस्थित्याप्यवगमे निवेश्यतां चित्तमित्यलं प्रसङ्गेन। एते ।
Page #249
--------------------------------------------------------------------------
________________
खोपज्ञटीकासहिता।
२५७ त्यादि । एतेनैकसामान्यवृत्तिनिराकरणेन, नित्यव्यापिनिर्देशसामान्यवृत्तिरपि प्रत्युक्ता विशेषेषु, नित्यस्यैकस्वभावतया कालभिन्नासु व्यक्तिषु वृत्त्ययोगः, व्यापिनः सर्वगतत्वेन निर्देशस्य देशाभावेनेति भावनीयम् ।।
आह- अनुभवसिद्धत्वात् सामान्यस्य न युज्यते सहृदयतार्किकस्य तत्प्रतिक्षेपेणात्मानमायासयितुम् , आयासस्य निफलत्वात् ; तथाहि- यदि सनातनं वस्तुसद् व्याप्येकमनवयवं सामान्यवस्तु न स्याद् न तदा देश-काल-स्वभावभेदभिन्नेषु घट-शरावो-ष्ट्रिको-दश्चनादिषु बहुषु विशेषेषु सर्वत्र 'मृद् मृद्' इत्यभिन्नौ बुद्धि-शब्दौ स्याताम् । न खलु हिम-तुषार-करकोदकाङ्गार-मुर्मुर-ज्वालानलझञ्झा-मण्डलिको-त्कलिकापवनखदिरो दुम्बर-बदरिकादिष्वत्यन्तभिन्नेषु बहुषु विशेषेष्वेकाकारा बुद्धिर्भवति, नाप्येकाकारः शब्दः प्रवर्तत इति । अतोऽस्य यथोक्ताभिन्नबुद्धि-शब्दद्वयप्रवृत्तिनिबन्धनस्य वस्तुसतः सामान्यस्य सत्त्वमाश्रयितव्यमिति ॥
आह परः, अनुभवसिद्धत्वात् सामान्यस्य, विशेषेषु तुल्यबुद्धिभावेन, न युज्यते सहृदयतार्किकस्य भावाशून्यस्य, तत्प्रतिक्षेपेण सामान्यप्रतिक्षेपेण, आत्मानमायासयितुम् । कुतो न युज्यत इत्याहआयासस्य निष्फलत्वात् । एतदेवाह- तथाहीत्यादिना । तथाहीति पूर्ववत् । यदि सनातनं नित्यम् ; वस्तुसत्- अपरिकल्पितम् , व्यापि विशेषव्यापनशीलम् , एकं स्वरूपेण, अनवयवम्- अवयवराहतम् , सामान्यवस्तु न स्यात् ; ततः किं स्यादित्याह- न तदा देश-कालखभावभेदभिन्नेषु, केष्वित्याह- घट-शरावो-ष्ट्रिको दश्चनादिषु उदञ्चनो लोट्टकः, आदिशब्दादलिजरादिग्रहः, बहुषु विशेषेषु सर्वत्र 'मृद् मृद्' इत्येवम् , अभिन्नौ तुल्यावेकरूपावित्यर्थः; कावित्याहबुद्धि-शब्दौ स्याताम् । किमिति न स्यातामित्याह- न खल्वित्यादि नैव 'हिम-तुषार-करकोदकानि च' इत्यनेन जलभेदानाह, 'अङ्गार
Page #250
--------------------------------------------------------------------------
________________
२५८
अनेकान्तजयपताका
मुर्मुर ज्वालानलाच' इत्यनेन त्वग्निभेदान्, 'झञ्झा - मण्डलिकोत्कलिकापवनाश्च' इत्यनेन वायुभेदान्, 'खदिरो-दुम्बर- बदरिकादयश्च' इत्यनेन च वनस्पतिभेदानाह, आदिशब्दः प्रत्येकं धारादिसंग्रहार्थः; एतेष्वत्यन्तभिन्नेषु, जातिभेदापेक्षया बहुषु विशेषेषु भेदेषु, एकाकारा बुद्धिर्भवति, तथाननुभवात् । नाप्येकाकारः शब्दः प्रवर्तत इति 'मृद् मृद्' इत्यादिशब्दवत् । अतोऽस्य सामान्यस्येति योगः । यथोक्तं च तद् 'मृद् मृद्' इत्यादिरूपतयाऽभिन्नं च तद् बुद्धि-शब्दद्वयं चेति विग्रहः, प्रवृत्तिनिबन्धनं प्रवृत्तिकारणम्, तस्य वस्तुसतः पारमार्थिकस्य सामान्यस्य सत्त्वमाश्रयितव्यमिति ||
अत्रोच्यते - न खल्वस्माभिर्यथोक्त बुद्धि-शब्दद्वयप्रवृत्तिनिबन्धनं निषिध्यते । किं तर्हि १ । एकादिधर्मयुक्तं परपरिकल्पितं सामान्यमिति । तच्च यथा विशेषवृत्त्ययोगेन न घटां प्राञ्चति तथा लेशतो निदर्शितमेव प्रपञ्चतस्त्वन्यत्र वृत्त्ययोग-सङ्ख्यादिव्यभिचार- तद्वत्प्रत्ययप्रसङ्गादिना युक्तिकलापेन निराकृतमिति नेह
प्रयासः ।।
9
I
एतदाशङ्क्याह- अत्रोच्यते न खल्वस्माभिः जैनै:, यथोक्तबुद्धि-शब्दद्वयप्रवृत्तिनिबन्धनं निषिध्यते । किं तर्हि ? । एकादिधर्मकं परपरिकल्पितं सामान्यमिति सामान्यं निषिध्यते । तच्चैकादिधर्मकं सामान्यम्, यथा विशेषवृत्त्यायोगेन हेतुना, न घटां प्राश्वति- नं घटनं गच्छति, तथा लेशतो निदर्शितमेव, प्रपश्चतस्त्वन्यत्र स्याद्वाद कुचोद्यपरिहारादौ वृत्त्ययोगश्च संख्यादिव्यभिचारश्च तद्वत्प्र त्ययप्रसङ्गादिश्चेति समास:, तेन; केनेत्याह- युक्तिकलापेन उपपत्ति संघातेन, निराकृतमिति कृत्वा, नेह प्रयासो नेह प्रयत्नविशेषः । तत्र वृत्त्ययोगो दर्शित एव । 'यदेकबुद्धयेक शब्द प्रवृत्तिनिमित्तं तत् सामा न्यम्' इत्यभ्युपगमे संख्यादिभिर्व्यभिचारः - एकसंख्यापि भवेत्येक बुद्धधेकशब्दप्रवृत्तिनिमित्तम्; आदिशब्दात् तत्समवायश्च न चासौ सामान्यमिति व्यभिचारः । तथाभावेऽपि सामान्यस्य विशेषेषु तद्वत
"
"
Page #251
--------------------------------------------------------------------------
________________
खोपाटीकासहिता। प्रत्ययप्रसङ्गः- 'एक सामान्यवन्तो विशेषाः' इति प्रययः प्राप्नोति, न 'समानाः' इति । आदिशब्दाद् विशेषविनाशे तत्र तत्केवलग्रहणप्रसङ्गः । इति संक्षेपगर्भार्थः । इत्यलं प्रसङ्गेन ।। ___आह-किं पुनर्यथोक्तबुद्धि-शब्दद्वयप्रवृत्तिनिवन्धनम् ? इति । उच्यते- अनेकधर्मात्मकानां वस्तूनां तथाविधः समानपरिणाम इति । न चात्र सामान्यवृत्तिपरीक्षोपन्यस्तविकल्पयुगलप्रभवदोषसंभवः, समानपरिणामस्य तद्विलक्षणत्वात् , तुल्यज्ञानपरिच्छेद्यवस्तुरूपस्य समानपरिणामत्वात् , अस्यैव च सामान्यभावोपपत्तेः, समानानां भावः सामान्यमिति यत्तसमानैस्तथा भूयत इत्यन्वर्थयोगात्, अर्थान्तरभूतभावस्य च तव्यतिरेकेणापि तत्समानत्वेऽनुपयोगात्, अन्यथा समानानामित्यभिधानाभावादयुक्तैव तत्कल्पना । समानत्वं च भेदाविनाभाव्येव, तदभावे सर्वथैकत्वतः समानत्वानुपपत्तेः । इति तथाविधः समानपरिणाम एव समानबुद्धि-शब्दद्वयप्रवृत्तिनिमित्तम् ॥ ____ आह- किं पुनर्वथोक्तबुद्धि-शब्दद्वयप्रवृत्तिनिबन्धनम् ? इति । उच्यते- अनेकधर्मात्मकानां सत्त्व-ज्ञेयत्वाद्यपेक्षया, वस्तूनां घटशरावो-ष्ट्रिको-दञ्चनादीनाम् , तथाविधो 'मृद् मृद्' इत्यभिन्नबुद्धिशब्दद्वयप्रवर्तकः, समानपरिणाम इति । न चात्र समानपरिणामे, सामान्यवृत्तिपरीक्षायामुपन्यस्तं च तद् विकल्पयुगलकं च 'तथाहितदेकादिस्वभावं सामान्यमनेकेषु दिग्देश-समय-स्वभावमिन्नेषु विशेषेषु सर्वात्मना वा वर्तते, देशेन वा' इत्येतत्, तत्प्रभवाश्च ते दोषाश्च सामान्या. नन्त्यादयः, तेषां संभबो न च । कुत इत्याह- समानपरिणामस्य तद्विलक्षणत्वात् एकादिधर्मकसामान्यविलक्षणत्वात् । वैलक्षण्यमेवाहतुल्येत्यादिना । तुल्यज्ञानपरिच्छेद्यं च तद् वस्तुरूपं चेति विग्रहस्तस्य, समानपरिणामत्वात् । अस्यैव समानपरिणामस्य, सामान्यभावोपपत्तेः । उपपत्तिश्च, सामनानां भावः सामान्यमिति यत् तत्स.
Page #252
--------------------------------------------------------------------------
________________
२६०
अनेकान्तजयपताका
"
मनस्तथा भूयत इति कर्तरि षष्ठी, इत्येवमन्वर्थयोगात् । नायं परपक्ष इत्याह- अर्थान्तरभूतभावस्य च संबन्धपक्षे समानानां संबन्धिनः, तद्वयतिरेकेणापि भावव्यतिरेकेणापि तदर्थान्तरत्वेन, तत्समानत्वे-तेषां समानानां समानत्वे, प्रकृत्यैवेति भावः; किमित्याह- अनुपयोगात् अधिकृतभावस्य तमन्तरेणैव ते समाना इति कृत्वा अन्यथैवमनभ्युपगमे तमन्तरेण तदसमानत्वे प्रकृत्या 'समानानाम् इत्यभिधानाभावात्, अयुक्तैव तत्कल्पना- अधिकृतभावकल्पना 'समानानां भावः' इत्येतत्संबन्धिनां समानानामिति कृत्वा । उपचयमाह - समानत्वं च तुल्यत्वं च, भेदाविनाभाव्येव 'अयमनेन समानः ? इति नीतेः । तदभावे भेदाभावे, सर्वथैकत्वतः कारणात्; किमित्याहसमानत्वानुपपत्तेः । इति एवम् तथाविधो 'मृद् मृद्' इत्यभिन्न बुद्धि-शब्दद्वयप्रवर्तकः, समानपरिणाम एक समानबुद्धि-शब्दद्वयप्रवृत्ति: निमित्तमिति स्थितम् ॥
"
आह- यथा असमाना अपीन्द्रियादयस्तथास्वभावत्वाकु रूपज्ञानाद्येककार्यकारिणः, तथैतेऽपि भावास्तथाविधसमानपरि णामविकला अपि तथाविधबुद्ध्यादिहेतवः किं नेष्यन्ते । उन १ च्यते - असमानेभ्यः समानबुद्ध्याद्यसिद्धेः, तन्निबन्धनस्वभाववैकल्यात् ; तथाहि न चक्षुरादिषु समानबुद्ध्यादिभावः, तथाऽप्रतीतेः । रूपज्ञानाद्येककार्यकारित्वं चात्रानर्थकमेव, सिद्धसान धनत्वात् । को हि नाम तथाऽसमानेभ्योऽपि तथैकं कार्य नेच्छति । तथाविधसमानपरिणामविकलास्तु समानबुद्धि-शब्द द्वयमवृत्तिहेतवो न भवन्ति, न तथाविधैककार्याः, इत्यभिदधति विद्वांसः । ततश्चानेन न किञ्चिदुपद्रूयते, असमानेभ्यः समानबुद्ध्याद्यसिद्धेः ||
आह- यथाऽसमाना अपीन्द्रियादय इन्द्रिय-मनस्कारा-ssलोक रूपादयो जातिभेदेन, तथास्वभावत्वाद् रूपादिज्ञानजननस्वभावत्वा कारणात्, रूपज्ञानादि, आदिशब्दात् स्वसंतताविन्द्रियादिकार्यग्रह
Page #253
--------------------------------------------------------------------------
________________
स्वोपज्ञटीकासहिता ।
२६१
"
एतदेककार्यकारिणः, तथैतेऽपि भावा घट-शरावो-ष्ट्रिको वनादयः, तथाविधसमानपरिणामविकला अपि तात्त्विकसमानपरिणामविरहिता अपीत्यर्थः तथाविधबुद्धयादिहेतवः समानबुद्धि-शब्दद्वयहेतवः, किं यते ? । एतदाशङ्कयाह - उच्यते - असमानेभ्यो जातिभेदेन, स. मानबुद्धद्याद्यसिद्धेः समानबुद्धि-शब्दद्वयानुपपत्तेः । असिद्धिश्च तन्निबन्धनस्वभाववैकल्यात् समानबुद्धयादिनिबन्धनस्वभाववैकल्यात् । एतदेवाह - तथाहि - न चक्षुरादिषु विषयेषु, समानबुद्धयादिभावो विषयत्वेन । कुत इत्याह- तथाऽप्रतीतेः चक्षुरादिषु विषयत्वेन समानबुद्धधाद्यप्रतीते:, नीलादिष्विव समानेष्विति व्यतिरेकेण भावना | रूपज्ञानाद्येककार्यकारित्वं चात्र व्यतिकरे, अनर्थकमेव । कुत इत्याहसिद्धसाधनत्वात् । एतदेवाह को हि नाम वादी, तथा - असमानेभ्योऽपि विशिष्टसमानपरिणामापेक्षया, तथैकं कार्य सामग्रीजनक
,
कं कार्य नेच्छति ? । तथाविधसमानपरिणामविकलाः पुनश्चक्षुरादयः समानबुद्धि-शब्दद्वयप्रवृत्तिहेतवो न भवन्ति, न तथाविधैककार्यास्तथाविधैककार्या भवन्त्येवेत्यर्थः इत्यभिदधति विद्वांसो जैनाः । ततश्चानेनानन्त रोदितेन न किञ्चिदुपद्रूयते । कुत इत्याहअसमानेभ्यः चक्षुरादिभ्यः, सामान बुद्ध्याद्यसिद्धेः; तत्सिद्धौ च नो बोधेति भावना ॥
न
नासिद्धिः प्रधानेश्वरादिकार्यत्व समानपरिणाम विकलेभ्योsपि भावेभ्यः 'प्रधानादिकार्याः प्रधानादिकार्याः' इति केषाञ्चित्समानबुद्ध्यादिसिद्धेः । न, तस्याः सङ्केत संमोह हेतुत्वात्, आविद्वदङ्गनादीनामविशेषेण समानपरिणामवद्भावेष्विवाक्षदर्श नत एव तदप्रवृत्तेः । तथाक्षदर्शनमपि न तत्रार्थयाथात्म्यतः, अपि तु जन्मान्तरवासनात इति चेत् । तत्रापि किं निमित्तम् ? इति वाच्यम् । जन्मान्तरवासनैवेति चेत् । अनवस्था । अनादित्वात् तद्वासनाया अयमप्यदोष इति चेत् । न, अनादितथाक्षदर्शनादर्थयाथात्म्यसिद्धेः, अन्यथातिप्रसङ्गात्, रूपाद्यक्षदर्शनस्यापि
"
Page #254
--------------------------------------------------------------------------
________________
२६२
अनेकान्तजयपताकातत्रार्थयाथात्म्यत एतदिति निश्चयाभावात् , उक्तवद्वासनाकल्पनोपपत्तेः । इत्यलं प्रसङ्गेन । ____ आह- नासिद्धिः 'असमानेभ्यः समानबुद्धद्यादेः' इति प्रक्रमः । कुत इत्याह- प्रधाने-श्वरादिकार्यत्वसमानपरिणामविकलेभ्योऽपि भवदर्शननीत्या, भावेभ्यो महदादिभ्यः, 'प्रधानादिकार्याः प्रधानादि. कार्याः' इत्येवं केषाञ्चित् सांख्यादीनाम् , समानबुद्धयादिसिद्धेः । एतदाशङ्कयाह- नेत्यादि न नैतदेवम् , तस्याः समानकुद्धयादिसिद्धेः, संकेतसंमोहहेतुत्वात्- असच्छास्त्रसंकेतसंमोहनिबन्धनत्वात् । कथमेतदेवमित्याह- आविद्वदङ्गनादीनांप्रमातृणाम् , अविशेषेण सामान्येन, समानपरिणामवद्भावेष्विव घट-शरावो-ष्ट्रिको-दञ्चनादिषु, अक्षदर्शनत एव तदप्रवृत्तेः 'प्रधानादिकार्याः प्रधानादिकार्याः' इति समानबुद्धथाद्यप्रवृत्तेः, अक्षदर्शनतश्चाविशेषेण घटादिषु समानवुद्धथादिसिद्धिः । आह- तथाक्षदर्शनमपि समानतया, न तत्र घटादौ, अर्थयाथात्म्यतोऽर्थयथात्मभावेन, अपि तु जन्मान्तरवासनात इति चेत् । एतदाशङ्क्याह- तत्रापि जन्मान्तरे, किं निमित्तम् ? इति वाच्यम् । जन्मान्तरवासनैवेति चेद् निमित्तम् । एतदाशङ्क्याहअनवस्था तत्राप्युक्तदोषानतिवृत्तेः । अनादित्वात् तद्वासनाया:तथाक्षदर्शनवासनायाः, अयमपि-अनवस्थालक्षणः, अदोष इति चेत् । एतदाशङ्क्याह- नेत्यादि न नैतदेवम् , अनादि च तत् तथाक्षदर्शनं च, प्रक्रमात समानतयाक्षदर्शनं चेति विग्रहस्तस्मादनादितथाक्ष दर्शनात्; किमित्याह- अर्थयाथात्म्यसिद्धेः अनादितथाभावेन । इत्थं चैतदङ्गीकर्तव्यमित्याह- अन्यथातिप्रसङ्गात् एवमनभ्युपगमे ऽतिप्रसङ्गात् । एनमेवाह- रूपाद्यक्षदर्शनस्यापि रूपादेरौदर्शन रूपाद्यक्षदर्शनं तस्यापि, अर्थयाथात्म्यतोऽर्थयाथात्म्यात् , एतदिति निश्चयाभावात् । अभावश्च, उक्तवद् यथोक्तं तथा, वासनाकल्पनोपपत्ते 'रूपाद्यक्षदर्शनमपि न तत्रार्थयाथात्म्यतः, अपि तु जन्मान्तरवासनातः इत्यादेरपि वक्तुं शक्यत्वात् ; इत्यलं प्रसङ्गेन ।।
Page #255
--------------------------------------------------------------------------
________________
स्वोपज्ञटीकासहिता।
२६३ बुद्ध्याकार एवायमिति चेत् । कोऽस्य हेतुः ? इति वाच्यम्। तदेककार्यकारिणामतत्कारिभेद इति चेत् । न, इन्द्रियादिभिर्व्यभिचारात् । न रूपज्ञानाद्येककार्यमिह गृह्यते, अपि तु समानजातीयक्षणोत्पादस्तेषामतत्कारिभेदोऽत्र विवक्षित इति चेत् । न सर्वेषामेवासौ विद्यते, रूपज्ञानादिभावेऽपीन्द्रियादिसमानजातीयक्षणोत्पत्तेः, इति तैरेव व्यभिचारात् ॥
बुद्ध्याकार एवायं समानाकारो घटादिमतः, इति चेत् । एतदाशङ्कयाह-कोऽस्य हेतुः ? इति वाच्यम् । तदेककार्यकारिणामिह प्रक्रमे, मृबुद्धयाख्यैककार्यकारिणां घट-शरावो-ष्ट्रिको-दञ्चनादीनाम् , अतत्कारिभेदः- अतत्कारिभ्यो हिम-तुषार-करकादिभ्यो भेदोऽतत्काभेदः, इति चेदस्य हेतुः । एतदाशङ्कथाह- नेत्यादि न नैतदेवम् , इन्द्रियादिभिर्व्यभिचारात्, इन्द्रिय-मनस्कारा-ऽऽलोकादयस्तदेककार्यकारिणोऽतत्कारिभिन्नाः, न च यथोक्तबुद्धयाकारहेतवः । आह- न रूपज्ञानादि,आदिशब्दाद् रसज्ञानादिग्रहः, एककार्यामह गृह्यते येन तदेककार्यकारित्वमिन्द्रियादीनां भवति; अपि तु समानजातीयक्षणोत्पाद एकं कार्यमिह गृह्यते, तेषां समानजातीयैककार्याणाम् , अतत्कारिभ्यः समानजातीयैककार्याकारिभ्यो भेदः, अत्र प्रक्रमे, विवक्षित इति चेत्। एतदाशङ्कयाह- नेत्यादि न नैतदेवम् । कुत इत्याह- सर्वेषामेव इन्द्रियादीनाम् , असौ समानजातीयक्षणोत्पादो विद्यते, कथमित्याहरूपज्ञानादिभावेऽपि. सति, इन्द्रियादिसमानजातीयक्षणोत्पत्तेः का. ' रणात् , तैरिन्द्रियादिभिः, व्यभिचारात् । न हीन्द्रियादीनामपि समानजातीयक्षणोत्पादः, अतत्कारिभेदश्च न विद्यते, तथापि न ते समानबुद्धथाकारहेतव इति तैरेव व्यभिचारः ।।
तुल्यसमानजातीयकार्योत्पादिनामतत्कारिभेद इह गृह्यत इति चेत् । न, तस्य तेभ्यो भेदा-ऽभेदविकल्पानुपपत्तेः- भेदे, तेषामिति संबन्धाभावः, तादात्म्याद्यसिद्धेः, भेदमात्रत्वात् , वस्तुत्वापत्तेचा अभेदे त एव ते । इति कथमसमानास्तद्धे
Page #256
--------------------------------------------------------------------------
________________
२६४
अनेकान्तजयपताका
तवो नाम ?। न हि रसादिभ्यः समानो रूपबुद्ध्याकारः, तथाननुभवात् , व्यवस्थानुपपत्तेश्च । नान्य एव तत्तद्भेदः, अपितु त एव तत्स्वभावा इति; अतस्त एव तद्धेतवो नान्ये, अतत्स्वभावत्वादिति चेत् । तेषामेवासौ स्वभाव इति कुतः। वहतुभ्य उपत्तेः । न, अन्येषामपि तत्प्रसङ्गात् , तेषामपि खहेतुभ्य एवोत्पत्तेः। न तथाविधेभ्यस्तेषां यथाविधेभ्य एषामिति चेत् । किमिदं तथाविधत्वम् ?। तुल्यकार्यकृज्जनकत्वम् । नेदं तत्तुल्यसामर्थ्य मन्तरेण । तदङ्गीकरणे चाङ्गीकृत एव मदीयोऽभ्युपगमः, अतुल्यसामर्थ्येभ्यस्तुल्यसमानजातीयकार्यानुत्पत्तेः, इन्द्रियादिषु तददर्शनात् । तदतुल्यसामर्थ्य निबन्धनमेतत् । अतोऽन्यत् तत्तुल्यसामर्थ्यकारणमिति सन्न्यायः। तुल्यसामर्थ्यमेव च नो भावानां समानपरिणाम इति परिभाव्यतामेतत् ॥ - तुल्येत्यादि तुल्यं च तत् सामानजातीयकार्य चेति विग्रहः, तदुत्पादयितुं शीलास्तुल्यसमानजातीयकार्योत्पादिनस्तेषाम् , अतत्कारिभेदः, इहाधिकारे, गृह्यत इति चेत् । एतदाशङ्क्याह- न, तस्य अतः कारिभेदस्य, तेभ्यस्तुल्यसमानजातीयकार्योत्पादिभ्यः,भेदा-ऽभेदविका ल्पानुपपत्तेः । एनामेवाह- भेद इत्यादिना । भेदे तुल्यसमानजातीयकार्योत्पादिभ्योऽतत्कारिभेदस्याभ्युपगम्यमाने, तेषां 'तुल्यसमान जातीयकार्योत्पादिनां भेदः' इत्येवं, संबन्धाभावः । कुत इत्याहन तादात्म्याद्यसिद्धेः तुल्यसमानजातीयकार्योत्पादिनामतत्कारिभेदख च तादात्म्याद्यसिद्धेः, आदिशब्दात् तदुत्पत्तिपरिग्रहः । असिद्धि भेदमात्रत्वात् कारणात् तादात्म्यासिद्धिः, वस्तुत्वापत्तश्च भेदर तदुत्पत्त्यासिद्धिः । द्वितीयविकल्पमधिकृत्याह- अभेदे तुल्यसमान जातीयकार्योत्पादिभ्योऽतत्कारिभेदस्याभ्युपगम्यमाने । किमित्याह | त एव ते तुल्यसमानजातीयकार्योत्पादिन एव ते केवलाः, तदतिरिक्तं किञ्चित् । इति- एवं, कथमसमानाः प्रकृत्या, तद्धता समानवुद्धथाकारहेतवो नाम ? । एतदेव प्रकटयति- नेत्यादिना ।
Page #257
--------------------------------------------------------------------------
________________
खोपज्ञटीकासहिता। न हि रसादिभ्यः प्रकृत्याऽसमानेभ्यः, समानोरूपबुद्धथाकारः। कुतो न हीत्याह- तथाननुभवात् समानरूपवुद्धयाकारतयाऽननुभवाद् रसादीनाम् , एतत्कल्पाश्च तुल्यसमानजातीयकार्योत्पादिन इन्द्रियादय इष्यन्त इत्यर्थः । दोषान्तरमाह- व्यवस्थानुपपत्तेश्च अननुभवेऽपि समानबुद्धयाकारपरिकल्पने रसादिभेदाभावप्रसङ्गादिति भावः । आहनान्य एव तत्तद्भेदः तुल्यसमानजातीयकार्योत्पादिभ्योऽतत्कारिभेदः, अपि तु त एव तुल्यसमानजातीयकार्योत्पादिनः, तत्स्वभावाः प्रक्रमादधिकृतबद्धथाकारजननस्वभावाः, इत्यतः कारणात्, त एव विशिष्टास्तुल्यसमानजातीयकार्योत्पादिनो घट-शरावो-ष्ट्रिको-दञ्चना: दय इत्यर्थः, तद्धतवः प्रक्रमादधिकृतबुद्धघाकारहेतवः, नान्य. इन्द्रियादयः । कुत इत्याह- अतत्वभावत्वात् सोऽधिकृतबुद्धथाकारहेतुः, स्वभावो येषां ते तत्स्वभावा न तत्स्वभावा अतत्स्वभावास्तद्भावस्तस्मात्', इति चेदिन्द्रियादीनाम् । एतदाशङ्कयाह- तेषामेव घटादीनाम् , असौ स्वभावः प्रक्रमादधिकृतबुद्धथाकारजननस्वभावः, इति- एतत् , कुतः । अत्राह- स्वहेतुभ्यः सकाशात् , उत्पत्तेविशिष्टेभ्य इति पराकूतम् । एतदनादृत्य सामान्यमेव गृहीत्वाह- नेत्यादि न नैतदेवम् , अन्येषा. मपीन्द्रियादीनाम्, तत्प्रसङ्गादधिकृतबुद्ध्याकारजननस्वभावत्वप्रसङ्गात् । प्रसङ्गश्च, तेषामप्यन्येषामिन्द्रियादीनाम् ; किमित्याहस्वहेतुभ्य एवोत्पत्तेः। न हि तेऽप्यन्यहेतुका अहेतुका वेति भावनीयम् । न तथाविधेभ्यस्तेषामित्यन्येषामिन्द्रियादीनां, यथाविधेभ्य एषामधिकृतबुद्ध्याकारहेतूनां घटादीनाम् , इति चेत् । एतदाशङ्कथाह-किमिदं तथाविधत्वं तद्धेतूनामिति ? । अत्राह- तुल्यकार्यकृज्जनकत्वं- तुल्यकार्यकरणशीलास्तुल्यकार्यकृत इह प्रक्रमे तावद् घटादयस्तेषां जनकास्तद्धेतव इति प्रक्रमः, तद्भावस्तुल्यकार्यकृज्जनकत्वं तथाविधत्वमिति । एतदाशङ्कथाह- नेदं तुल्यकार्यकृज्जनकत्वम्, तनुल्यसामर्थ्यमन्तरेण तेषां तद्धेतूनां तुल्यसामर्थ्य विना। यदि नामैवं ततः किमित्याह- तदङ्गीकरणे च तत्तुल्यसामर्थ्या
Page #258
--------------------------------------------------------------------------
________________
अनेकान्तजयपताका
ङ्गीकरणे च, अङ्गीकृत एव मदीयोऽभ्युपगमः, तुल्यसामर्थ्यस्यैव समानपरिणामत्वात् । एतदेव विपक्षबाधाभिधानेनाभिधातुमाहकथमङ्गीकृत एव मदीयोऽभ्युपगमः, अतुल्यसामर्थेभ्य इन्द्रियादिभ्यस्तुल्यसमानजातीयकार्यानुत्पत्तेः । न रूपादिज्ञानैककार्यकारिभ्योऽपीन्द्रियादिभ्यः स्वसंततौ तुल्यानि समानजातीयकार्याण्युपपद्यन्ते, यदुत सर्वाणीन्द्रियाण्येव मनस्कारा वेत्यादीति भावना । आह च- इन्द्रियादिषु अतुल्यसामर्थेषु, तददर्शनात् तुल्य. समानजातीयकार्यादर्शनादिति, भावितमेतत् । यदि नामैवं ततः किमित्याह- तदतुल्यसामर्थ्य निबन्धनं इन्द्रियादीनामतुल्यसामभर्यनिबन्धनम्, एतत् तुल्यसमानजातीयकार्यादर्शनम् । अतोऽन्यत् प्रक्रमात् तुल्यसमानजातीयकार्यदर्शनं गृह्यते, एतच्चेह मृदूपमात्रतयाधिकृतघट-शरावो-ष्ट्रिको-दञ्चनादिविषयमेवावगन्तव्यम् , तत्तुल्यसामर्थ्यकारणमिति घटादीनां तुल्यसामर्थ्यकारणम् , अतुल्यसामर्येभ्यो हिमादिभ्य एव मृद्रूपताऽयोगात्, इति सन्यायः, अन्वय-व्यतिरेकबलप्रतिष्ठितत्वात् तत्तुल्यसामर्थ्यस्य । एवमपि का. ऽवेष्टसिद्धिरित्याह- तुल्यसामथ्यमेव च नोऽस्माकम् , भावानां घटादीनाम्, समानपरिणामः, इति परिभाव्यतामेतत् । एतदुक्त भवति- येषामेव भावानां पिण्डादीनां तुल्यं सामर्थ्य त एव घटादीन मृद्रूपमात्रतया तुल्यान् समानजातीयान् कुर्वन्ति, नान्ये हिमादयः, घटादिष्वेव च 'मृद् मृद्' इति समानाकारा बुद्धिरुत्पद्यते, न * हिमादिषु; अतस्तात्त्विकसमानपरिणामनिबन्धनयामति सूक्ष्माधियाऽऽलोचनीयम् ॥ - अविषय एवायं बुद्ध्याकारोऽनादिवासनादोषादुपप्लव
इति चेत् । केयं वासना नाम ?-किं बोधमात्रम् , उतान्यदेव कि'श्चित् । यदि बोधमात्रम् , अनुत्तरज्ञानेऽपि तथाविधाकारापत्तिः, तस्यापि बोधमात्रभावात् , अनिष्टं चैतत् , तत्र तदनभ्युपगमात् । अथान्यदेव किश्चित् । तदेवास्य विषय इति कथमकिन
Page #259
--------------------------------------------------------------------------
________________
खोपाटीकासहिता।
२६७ पयो नाम ? । अवस्त्वेव तदिति चेत् । कथं ततः स आकारः? इति वाच्यम् । अहेतुक एवायमिति चेत् । सदा तद्भावादिनसङ्गः । विशिष्टं बोधरूपं वासना न बोधमात्रमिति चेत् । किंकृतमस्य वैशिष्टयम् ? इति वाच्यम् । अनादिहेतुपरम्पराकृतमिति चेत् । न, तत्रापि तन्मात्राविशेषात् । स समुद्रोर्मिवद् यतस्तदेव तदिति चेत् । न, तस्यापि बाय्यादिना विना तत एवाभावात् । अनागमो वाय्वादिकल्प इति चेत् । न, तदभावेऽपि कचित्तद्भावोपपत्तेः । स्वविक्षोभोद्भवसमुद्रोर्मितुल्यः स इति चेत् । स एव तदा कुतः? इति वाच्यम् । तस्यैव तत्वभावत्वादिति चेत् । न, तदविशेषेण सदा समुद्रोमिप्रसङ्गात् । तस्य तत्क्षणविशेषत्वादप्रसङ्ग इति चेत्। न, तस्य तन्मात्रत्वेन विशेषत्वासिद्धेः। ऊर्मिजननस्वभावत्वं विशेष इति चेत् । न स्वभावः खभाववतोऽन्य इति तन्मात्रत्वमेव । तन्मात्रत्वेऽपि तद्भेदवद्भेद एवेति चेत् । न, तादृशस्यास्याप्रयोजकत्वात् , तत्तद्भावेऽतिप्रसङ्गात् , तत्स्वभावानामपि केषाश्चित् तथाभेदाद् नित्यतया फलभेदापत्तेः।। ___ आह- अविषय एव अनालम्बन एव, अयं प्रक्रान्तो 'मृद् मृद्' इति समानो बुद्धयाकारः । कुतः किमात्मको वायमित्याह- अनादिवासनादोषात् अयमुपप्लवः स्वरूपेण, इति चेत् । एतदाशझ्याहकेयं वासना नाम ? । किं बोधमात्रं निर्विशेषमेव, उतान्यदेव किञ्चिद् बोधाद् भिन्नं वस्तु ? । उभयथापि दोषमाह- यदि बोधमात्रं निर्विशेषणमेव वासना । ततः किमित्याह- अनुत्तरज्ञानेऽपि भगवतः संबन्धिनि, तथाविधाकारापत्तिः, प्रक्रमाद् 'मृद् मृद्' इति समानबुद्धथाकारापत्तिः । कुत इत्याह-तस्यापि अनुत्तरज्ञानस्य, बोध. मात्रभावात् , एतदेव वासनेति बोधादबोधवन्नान्याकारानुत्तरज्ञानजन्मति; अनिष्टं चैतत् । कुत इत्याह- तत्र अनुत्तरज्ञाने, तदनभ्यु. गपमात् तथाविधाकारानभ्युपगमात् । द्वितीयं विकल्पमाधिकृत्याहअथान्यदेव किश्चित् वस्तु वासनेति । एतदाशझ्याह- तदेव
Page #260
--------------------------------------------------------------------------
________________
२६८
अनेकान्तजयपताका
अन्यत् किश्चिद् वासनाख्यम्, अस्याधिकृतबुद्धयाकारस्य, विषयः, इति- एवम् , कथमविषयो नामायं बुद्धथाकार: ? । अवस्त्वेव तदिति चेदन्यत् किश्चिद् वासनाख्यम् । एतदाशङ्कथाह- कथं ततः वस्तुनः, स आकारोऽधिकृतबुद्धयाकारः ? इति वाच्यम् । अहेतुक एवायं बुद्धथाकार इति चेत् । एतदाशङ्क्याह- सदा तद्भावादिप्रसङ्गः नित्यं सत्त्वमसत्त्वं वेति नीतेः । विशिष्टं बोधरूपं वासना, न च बोधमात्रमविशिष्टमिति चेत् , ततश्च किल यथोक्तदोषाभाव इति । एतदाशङ्क्याह- किंकृतमस्य बोधरूपस्य, वैशिष्टयमिति वाच्यम् । अनादिहेतुपरम्पराकृतमिति चेत् । एतदाशङ्कयाह- न, तत्रापि अनादिहेतुपरम्परायाम्, तन्मात्राविशेषाद् बोधरूपमात्रा. विशेषात् । स बुद्धयाकारः• समुद्रोमिवदिति निदर्शनम् , यतो बोधरूपात्, तदेव बोधरूपं, तद् वैशिष्ट्यम्, इति चेत् । एतदाशङ्कयाहन, तस्यापि समुद्रोमः, वायवादिना विक्षोभकारणेन, विना, तत एव समुद्रमात्रात्, अभावात् । ततश्च दृष्टान्त-दार्शन्तिकयोवैषम्य. मित्यर्थः । अनागमस्तीर्थिकसंबन्धी, वायबादिकल्प इति चेत् ततो न वैषम्यमित्याभिप्रायः । एतदाशङ्कयाह- न, तदभावेऽपि अनागमाभावेऽपि, कचिद् बालविकल्पादौ, तद्भावोपपत्तेः प्रक्रमादधिकृत. बुद्धथाकारोपपत्तेः । खेत्यादि स्वविक्षोभादुद्भवो यस्य समुद्रोमः स तथा, स्वविक्षोभोद्भवश्चासौ समुद्रोमिश्चेति समासः, तेन तुल्यः स इति चेत् प्रस्तुतबुद्धयाकारः। एतदाशङ्क्याह- स एव स्वविक्षोभोद्भवः समुद्रोमिः, तदा तस्मिन्नैव काले, कुतः ? इति वाच्यम् । तस्यैवेत्यादि तस्यैव समुद्रस्य, तत्स्वभावत्वात् तदोर्मिजननस्वभावत्वात्, इति चेत् स एव तदेति । एतदाशङ्कयाह- नेत्यादि न नैतदेवम् , तदविशेषेण समुद्राविशेषेण हेतुना, सदा समुद्रोर्मिप्रसङ्गात् , तन्मात्रनिबन्धनो झुर्मिः, विशिष्टं च भेदकाभावेन परस्य तन्मात्रत्वमिति भावना । तस्ये. त्यादि सस्य स्वविक्षोभोद्भवसमुद्रोमिहेतोः समुद्रस्य, तत्क्षणविशेष. पात्, समुद्रक्षणविशेषत्वात् , अप्रसङ्ग इति चेत् सदोर्मिप्रसङ्गोऽनः
Page #261
--------------------------------------------------------------------------
________________
खोपज्ञटीकासहिता।
२६९
न्तरोदितः, स एव क्षणस्तत्स्वभावो नान्ये तत्क्षणा इत्यभिप्रायः । एत. दाशङ्कयाह- न, तस्य समुद्रक्षणस्य, तन्मात्रत्वेन समुद्रक्षणमात्रत्वेन हेतुना, विशेषत्वासिद्धेः । ऊर्मिजननस्वभावत्वं विशेष इति चेत्, तथाहि- न सः तत्स्वभावाः, सर्वेभ्य ऊर्मिभावापत्तः, न चेयम् , तथाऽदर्शनादिति भावनेति । एतदाशङ्कयाह- न स्वभाव इत्यादि न स्वभावः स्वभाववतः सकाशात् , अन्य इति कृत्वा, तन्मा. त्रत्वमेव समुद्रक्षणमात्रत्वमेव, ततश्च 'ऊर्मिजननस्वभावत्वं विशेषः इति वचनमात्रमेव । तन्मात्रत्वेऽपि समुद्रक्षणमात्रत्वेऽपि, तद्भेदवत् समुद्रक्षणभेदवत् , भेद एवेति चेद् विशेष एवोर्मिजननस्वभावस्य क्षणस्येति । एतदाशङ्कयाह- न, तादृशस्य तुल्यस्वरूपभेद. मात्रहेतोः, अस्य क्षणभेदस्य, अप्रयोजकत्वात् स्वभावभेदेनोर्मिजननं प्रति । एतदेवाह-तत्तद्भावे तस्य भेदमात्रस्य तद्भावे स्वभावभेदेनोमिजननं प्रति प्रयोजकत्वादित्यर्थः, किमित्याह- अतिप्रसङ्गात् । एनमेवाह- तत्स्वभावानामपि केषाञ्चित् पदार्थानां तथा भेदात् तुल्यस्वरूपभेदमात्रहेतुतया भेदात, नित्यतया नित्यस्वभावत्वेन फल. भेदापत्तेः समुद्रोमिवदनित्यभावविलक्षणफलभेदापत्तरित्यति सूक्ष्मधिया भावनीयम् ॥
न नित्यता केषाश्चिदपि । किं न? इति वाच्यम् । न तदेतुस्तथाभूताद् हेतोस्तस्येव यदिति चेत् । न, मोक्षहेतोः कैश्चित् तथाविधत्वाभ्युपगमात् , अहेतोरपि तथाभावकल्पनाऽविरोधात् , अस्याप्यर्थक्रियोपपत्तेः, तत्करणस्वभावत्वात् , अनित्यत्वादेः सर्वतः सर्वार्थक्रियाभावेनेहाप्रयोजकत्वात् । तत्करणस्वभावत्वस्य च प्रयोजकत्वात् , तद्वैचित्र्येण परोदितदोषासिद्धेः, क्रम-योगपद्यार्थक्रियाकरणस्वभावत्वात् , तस्य च पर्यनुयोगायोगात्; अन्यथा समानत्वात् । इति समुद्रोर्मिकल्पश्चाधिकृतो बुद्धयाकारः, स यदैवं न युज्यते, स्वसंवेदनसिद्धश्च प्रतिप्रमात, अतो यथोक्तानबन्धन एव, इति युक्तमभ्युपगन्तुम् । अन्यथा
Page #262
--------------------------------------------------------------------------
________________
२७०
अनेकान्तजयपताका
तदुच्छेदापत्तेः । इति तथाविधः समानपरिणाम एव समानबुद्धि-शब्दद्वयप्रवृत्तिनिमित्तम् ॥ __ अत्राह- न नित्यता केषाश्चिदपि भावानाम् । एतदाशङ्क्याहकिं न ? इति वाच्यम् । न तद्धेतुनित्यभावहेतुः, तथाभूताद् नित्यभावजननस्वभावजननस्वभावादिति योऽर्थः हेतोः कारणात् , तस्येव-प्रक्रमादूर्मिजननस्वभावसमुद्रक्षणस्येव, यदिति चेत् , ऊर्मिजन नस्वभावो हि समुद्रक्षण मिजननस्वभावसमुद्रक्षणजननस्वभावात समुद्रक्षणादुत्पन्न इति विद्यतेऽस्य तथाभूतो हेतुः, नैवं नित्यभावजननस्वभावजननस्वभावो हेतुरस्ति, तन्नित्यत्वविरोधादित्यभि प्रायः । एतदाशङ्कयाह- नेत्यादि न नैतदेवम् , मोक्षहेतोविशिष्टज्ञानादेः, कैश्चिद् नैयायिकादिभिः, तथाविधत्वाभ्युपगमाद् नित्यभावजननस्वभावत्वाभ्युपगमात् ; तथा, अहेतोरपि- आविद्यमानहेतो. रप्यनाद्यण्वादेः, किमित्याह- तथाभावकल्पनाविरोधात् तथाभावो नित्यभावस्तत्कल्पनाविरोधात्; तथाहि- अहेतुरेव कश्चित् स स्वभावः सन् नित्य इति किमत्र क्षुणम् ? । नित्यस्य क्रम-योगपद्याभ्यामर्थक्रियाविरोध इत्याशङ्कापोहायाह- अस्यापि अधिकृतनित्यस्य, अर्थ, क्रियोपपत्तेः । उपपत्तिश्च, तत्करणस्वभावत्वात्- अर्थक्रियाकरणस्वर भावत्वात् । अयं चात्र प्रधान इति विपक्षे बाधामाह- अनित्यत्वादेः 'इहार्थक्रियायामप्रयोजकत्वात्' इति योगः । अप्रयोजकत्वं च सर्वतः सर्वार्थक्रियाभावेन । न ह्यनित्य इत्येव सर्वो भावः सर्वामर्थ क्रियां करोति, नित्य इत्येव वा, तथाऽदर्शनात् । अतो यो यदर्थक्रि याकरणस्वभावः स तां करोतीति तत्करणस्वभावत्वमेवात्र प्रयोज कमिति । अत एवाह- तत्करणस्वभावत्वस्य च अर्थक्रियाकर णस्वभावत्वस्य च, प्रयोजकत्वात् , 'इह' इति वर्तते; तथाहि- यतो ऽर्थक्रियाकरणस्वभावः, अतोऽर्थक्रियां करोति, किमत्रानित्यत्वाति ना ?, सत्यप्यस्मिन् सर्वतः सर्वार्थक्रियाऽसिद्धेरिति । तथा, त? चित्र्येण स्वभाववैचित्र्येण, पदितदोषासिद्धेः क्रम-योगपद्यात
Page #263
--------------------------------------------------------------------------
________________
२७१
खोपज्ञटीकासहिता। भ्यामर्थक्रियाविरोध इति परोदितो दोषस्तदसिद्धेः । असिद्धिश्च, क्रम-योगपद्यार्थक्रियाकरणस्वभावत्वात् । ततश्च क्रमसाध्यं क्रमेण करोति, योगपद्यसाध्यं योगपछन । इति न कश्चिद् दोषः, तथास्वभावत्वात् । तस्य च स्वभावस्य, पर्यनुयोगायोगात् । इत्थं चैतदङ्गीकर्तव्यमित्याहअन्यथा समानत्वात् ऊर्मिजननस्वभावत्वपरिकल्पितस्वभावस्यापि पर्यनुयोगप्राप्तेः, इति- एवम् , समुद्रोर्मेरप्यभावापत्तेः; समुद्रोमिकल्पश्वाधिकृतो बुद्धयाकारः समानबुद्धयाकारः, स यदेवमुक्तनीत्या, न युज्यते, स्वसंवेदनसिद्धश्च प्रतिप्रमात प्रमातारं प्रमातारं प्रति । अतो. ऽस्मात् कारणात् , यथोक्तनिबन्धन एव तथाविधसमानपरिणामनिबन्धन एव, इति युक्तमभ्युपगन्तुम् , अन्यथैवमनभ्युपगमे, तदुच्छेदापत्तेः समानबुद्धयाकारोच्छेदापत्तेः । इति- एवम् , तथाविधो वास्तवः, समानपरिणाम एव समानबुद्धि-शब्दद्वयप्रवृत्तिनिमित्तमिति निगमनम् ।।
यद्येवम् , कथं क्वचित् तव्यतिरेकेणाप्यस्य प्रवृत्तिः । ननु चास्येत्ययुक्तम् , वस्तुनिबन्धनस्य तद्व्यतिरेकेण कदाचिदप्यप्रहत्तेः, तथातदर्शनस्य च तदाभासविषयत्वेनाविरोधात; अन्यथा प्रत्यक्षस्याप्यविषयत्वापत्तिः । इति समानपरिणाम एव सामान्यम् ॥ - यद्येवमित्यादि यद्येवम् , कथं क्वचित् प्रधाने-श्वरादिकार्यत्वादी, तव्यतिरेकेणापिप्रधाने-श्वरादिकार्यत्वव्यतिरेकेणापि, अस्येति प्रक्रमात् समानबुद्धि-शब्दद्वयस्य, प्रवृत्तिर्भवतीति यथोक्तं प्रागिति । एतदाशङ्कयाह-नन्वित्यादि ननु च 'अस्य' इत्ययुक्तम् । कथामित्याह- वस्तुनिबन्धनस्य समानबुद्धि-शब्दद्वयस्य, तद्व्यतिरेकेण वस्तुव्यतिरेकेण, कदाचिदप्यप्रवृत्तेर्घट-शरावादिष्विव हिमा-गारादिष्वदर्शनादिति भावना । तथातदर्शनस्य च संकेतविप्रलम्भद्वारेण समानवुद्धि-शब्दद्वयदनिस्य च, प्रधाने-श्वरादिकार्यत्वादौ, तदाभासविषयत्वेन समानबुद्धिशब्दद्वयाभासविषयत्वेन, अविरोधात् । इत्थं चैतदङ्गीकर्तव्यमित्याहअन्यथा एवमनभ्युपगमे, प्रत्यक्षस्यापि निर्विकल्पकस्य; किमित्याह
Page #264
--------------------------------------------------------------------------
________________
२७२
अनकान्तजयपताका
अविषयत्वापत्तिः अविगानेन तथाऽनुभवादेरधिकृतबुद्धधाकारेऽपि भावात् , तस्य च निर्विषयत्वात् , न चैतदेवम् । इति-एवम् , समानपरिणाम एव सामान्यमिति महानिगमनम् ।।
यतश्चैवम् , अतो न य एवासावेकस्मिन् विशेषे स एव विशेषान्तरे । किं तर्हि । समानः । इति कुतः सामान्यवृत्तिविचारोदितभेदद्वयसमुत्थापराधावकाशः इति । न चैवं सति परस्परवि लक्षणत्वाद् विशेषाणां समानबुद्धि-शब्दद्वयप्रवृत्त्यभावः, सत्यपि वैलक्षण्ये समानपरिणामसामर्थ्यतः प्रवृत्तेः, असमानपरिणाम निबन्धना च विशेषबुद्धिरिह । इति यथोदितबुद्धि-शब्दद्वयमत्तिः । तथा चोक्तम्"वस्तुन एव समानः परिणामो यः स एव सामान्यम् । असमानस्तु विशेषो, वस्त्वेकमनेकरूपं तु ॥१॥"
ततश्च तद् यत एव सामान्यरूपमत एव विशेषरूपम्, समानपरिणामस्याऽसमानपरिणामाऽविनाभूतत्वात् , यत एव च विशेषरूपमत एव सामान्यरूपम्, असमानपरिणामस्यापि समानपरिणामाविनाभावादिति । न चानयोर्विरोधः, अन्योऽन्यव्याप्तिव्यतिरेकेणोभयारसत्त्वापत्तेः, उभयोरपि स्वसंवेदन. सिद्धत्वात्, संवेदनस्योभयरूपत्वात् , उभयरूपतायाश्च व्यवस्थापितत्वात् ॥ _ यतश्चेत्यादि यतश्चैवम्, अतो न य एवासी समानपरिणाम:, एकस्मिन् विशेष घटादौ, स एव विशेषान्तरे शरावादौ । किं तार्ह ? समानः । इति-एवम् , कुतः सामान्यवृत्तिविचारोदितं तद्भेदद्वयं च देशा कास्यरूपं विकल्पद्वयामिति विग्रहः , तत्समुत्थाश्च तेऽपराधाश्च सदे शत्वप्रसङ्गादयस्तेषामवकाशः कुतः १- नैव, समानपरिणामस्य तद्विल क्षणत्वादिति । न चैवमिलादि न चैवं सति, परस्परविलक्षणत्वाइ विशेषाणां घट-शरावादीनाम् , समानबुद्धि-शब्दद्वयप्रवृत्त्यभावः, नि
Page #265
--------------------------------------------------------------------------
________________
स्वोपज्ञटीकासहिता।
२७३ माङ्गारादीनामिव । कुत इत्याह-सत्यपि वैलक्षण्ये समानपरिणामसामर्थ्यतः प्रवृत्तेः कारणात् , समानबुद्धि-शब्दद्वयस्येति । व्यतिरेकमाह- असमानपरिणामनिबन्धना च विशेषबुद्धिरिह प्रक्रमे घट-शरावादिबुद्धिवत् ।। इति-एवम , यथोदितवुद्धि-शब्दद्वयप्रवृत्तिः समानबुद्धि-शब्दद्वयप्रवृत्तिरित्यर्थः । तथा चोक्तमिति अधिकृ. तार्थप्रसाधकं ज्ञापकमाह- वस्तुन एव घटादेः समानः परिणामो यो मृदादिः, स एव सामान्यम् । असमानस्तु विशेष ऊर्ध्वतादिः । वस्त्वेकमनेकरूपं तु सामान्य-विशेषोभयरूपमपि तदनेकत्वतोऽनेकरूपमित्यर्थः ॥ १॥
ततश्चेत्यादिना मूलपूर्वपक्षग्रन्थं परिहरति- ततश्च तद् वस्तु घटादि, यत एव सामान्यरूपं मृदाद्यात्मकतया, अत एव कारणात् , विशेषरूपमूर्खादिरूपापेक्षया । कुत इत्याह- समानपरिणामस्थ प्रस्तुतस्य, असमानपरिणामाविनाभूतत्वाद् विशेषपरिणामाविनाभूतत्वादित्यर्थः । यत एव च कारणात् , विशेषरूपमूर्खाद्यपेक्षया, अत एव सामान्यरूपं मृदाद्यात्मकतया । भावनामाहअसमानपरिणामस्यापि ऊनादिरूपस्य, . समानपरिणामाविनाभावाद् मृदादिपरिणामाविनाभावादिति । न चानयोः समाना-ऽसमानपरिणामयोः; विरोधः । कुन इत्याह- अन्योन्यव्याप्तिव्यतिरेकेण उभयोः समाना-ऽसमानपरिणामयोः, असत्त्वापत्तेः, आपत्तिः प्राक् प्रदर्शितैव; तथा, उभयोरपि स्वसंवेदनसिद्धत्वात् तथानुभवभावेन । अत एवाह- संवेदनस्योभयरूपत्वात् सामान्य-विशेषोभयापेक्षया, उभयरूपतायाश्च संवेदनस्य, व्यवस्थापितत्वाधः 'न चानयोर्विरोधः' इति क्रियायोगः ॥ ____ यच्चोक्तम्-'सामान्यविशेषोभयरूपत्वे सति वस्तुनः सकललोकमसिद्धसंव्यवहारनियमोच्छेदप्रसङ्गः' इत्यादि । तदपि जिनमतानभिज्ञतामूचकमेव केवलम् , न पुनरिष्टार्थप्रसाधकमिति । न हि 'मधुरक-लड्डुकादिविशेषानर्थान्तरं सर्वथैकस्वभावमेकम
Page #266
--------------------------------------------------------------------------
________________
२७४
अनेकान्तजयपताका
नवयवं सामान्यम्' इत्यभिदधति जैनाः । अतः किमुच्यते-'न विषं विषमेव मोदकाद्यभिन्नसामान्याव्यतिरेकात्' इत्यादि। किं तर्हि ? । समानपरिणामः । स च भेदाविनाभूतत्वाद् न य एव विषादभिन्नः स एव मोदकादिभ्योऽपि, सर्वथा तदेकत्वे समानत्वायोगात् ।।
यच्चोक्तं पूर्वपक्षग्रन्थे, 'सामान्यविशेषोभयरूपत्वे सति, वस्तुनो घटादेः, सकललोकप्रसिद्धसंव्यवहारनियमोच्छेदप्रसङ्गः' इत्यादि, तदपि; किमित्याह- जिनमतानभिज्ञतासूचकमेव केवलम् , न पुनरिष्टार्थप्रसाधकं वस्त्वनुपपत्तिरिष्टोऽर्थ इति न तत्प्रसाधकम् । कथमित्याह- न हीत्यादि न यस्माद् मधुरक-लड्डुकादिविशेषानान्तरमाभिन्नम् , सर्वथैकस्वभावमेकमनवयवं सामान्यमित्यभिदधति जैना भणन्त्याहताः । अतः किमुच्यतेऽनभ्युपगतोपालम्भप्रायम् , यदुत'न विषं विषमेव, मोदकाद्यभिन्नसामान्याव्यतिरेकात्' इत्यादि । किं तार्ह ? । समानपरिणामः सामान्यमित्यभिदधति जैना इति । स च समानपरिणामः; किमित्याह- भेदाविनाभूतत्वात् कारणात् , न य एव विषादभिन्नः स एव मोदकादिभ्योऽपि । कथं नेत्याह- सर्वथा
देकत्वे समानपरिणामैकत्वे, समानत्वायोगात्। न ह्येकं समानमिति भावना ॥ .. स्यादेतत् समानपरिणामस्यापि प्रतिविशेषमन्यत्वादसमानपरिणामवत् तद्भावानुपपत्तिरिति । एतदप्ययुक्तम् , सत्यप्यन्यत्वे समानासमानपरिणामयोभिन्नस्वभावत्वात् ; तथाहि-समानधिषणा-ध्वनिनिबन्धनस्वभावः समानपरिणामः, तथा विशिष्टबु
यभिधानजननस्वभावस्त्वितर इति । यथोक्तसंवेदनाभिधानसंवेद्याभिधेया एव च विषादय इति प्रतीतमेतत् ; अन्यथा यथोक्तसंवेदनाद्यभावप्रसङ्गात् । अतो यद्यपि द्वयमप्युभयरूपम्, तथापि विषार्थी विष एव प्रवर्तते, तद्विशेषपरिणामस्यैव तत्समानपरिणामाविनाभूतत्वात् । न तु मोदके, तत्समानपरि.
Page #267
--------------------------------------------------------------------------
________________
खोपज्ञटीकासहिता ।
२७५ णामाविनाभावाभावात् तद्विशेषपरिणामस्येति । अतः प्रयासमात्रफला प्रवृत्तिनियमोच्छेदचोदनेति ॥ ... स्यादेतदित्यादि स्यादेतदथैवं मन्यसे, समानपरिणामस्यापि मृदाद्यात्मकस्य, प्रतिविशेष विशेष विशेष प्रति घट-शरावादिलक्षणम् , अन्यत्वात कारणात् , असमानपरिणामवदिति निदर्शनम् , तद्भावानुपपत्तिः समानपरिणामभावानुपपत्तिरिति । एतदाशङ्कयाह- एतदप्पयुक्तम् । कथमित्याह- सत्यप्यन्यत्वे समानपरिणामस्य प्रतिविशेषम् , समाना-ऽसमानपरिणामयोरुक्तलक्षणयोः, भिन्नस्वभावत्वात्। भिन्नस्वभावत्वमेवाह- तथाहीत्यादिना । तथाहीत्युपप्रदर्शने । समानधिषणा-ध्वनिनिबन्धनस्वभावस्तुल्यबुद्धि-शब्दहेतुस्वभावः, समानपरिणामः, यतः खलु घट-शरावादिषु 'मृद् मृद्' इत्यविशेषेण भवतो धिषणा-ध्वनी; तथा विशिष्टबुद्धयऽभिधानजननस्वभावस्त्वितरोऽसमानपरिणामः, यतः खलु घटादिष्वेव 'घटः शरावम्' इत्यादिविशेषेण भवतो बुद्धय-ऽभिधाने इति । एवमधिकृतोदाहरणापेक्षया भावार्थमभिधाय पूर्वपक्षोपन्यस्तभेदापेक्षया प्रक्रान्तनिगमनायाह- यथोक्तसंवेदनेत्यादि यथोक्ते च ते संवेदना-ऽभिधाने च तयोः संवेद्याभिधेया इति विग्रहः; एवंभूता एव च विषादयः; तथाहि-'सत् सत्' इति विषा. दयः संवेद्यन्ते, अभिधीयन्ते च, तथा 'विषमोदकः' इत्येवं चेति प्रतीतमेतत् । अन्यथा यथोक्तसंवेदनाभिधानसंवेद्याभिधेयत्वाभावे, यथोक्तसं. वेदनाद्यभावप्रसङ्गात् , आदिशब्दाद् यथोक्ताभिधानग्रहः । अतो यद्यपि द्वयमपि विषं मोदकश्चेति, उभयरूपं सामान्यविशेषरूपम् , तथापि विषार्थी प्रमाता विष एवं प्रवर्तते । कुत इत्याह- तद्विशेषपरिणामस्यैव विषविशेषपरिणामस्यैव, तत्समानपरिणामाविनाभूतत्वाद् विषसमानपरिणामाविनाभूतत्वात् ; न तु मोदके न पुनर्मोदके । कुत इत्याह-तत्समानपरिणामाविनाभावाभावात मोदकसमानपरिणा. माविनाभावाभावात् , तद्विशेषपरिणामस्येति विषविशेषपरिणामस्येति । अत उक्तन्यायात्, प्रयासमात्रफला प्रवृत्तिनियमोच्छेदचोदना पूर्वपक्ष
Page #268
--------------------------------------------------------------------------
________________
२७६
अनेकान्तजयपताका
संबन्धिनीति ।।
एतेन 'विषे भक्षिते मोदकोऽपि भक्षितः स्यात्' इत्याद्यपि प्रतिक्षिप्तमवगन्तव्यम् , तुल्ययोग-क्षेमत्वादिति । यच्चापरेणाप्युक्तम्- 'सर्वस्योभयरूपत्वे तद्विशेषनिराकृतेः' इत्यादि। तदपि कूटनटनृत्तमिवाविभावितानुष्ठानं न विदुषां मनोहरमित्यपकर्णयितव्यम् , वस्तुतः प्रदत्तोत्तरत्वात् , सामान्यविशेष. रूपस्य वस्तुनः सम्यव्यवस्थापितत्वात् , अन्यत्र च प्रपश्चेन निराकृतत्वात् ; तथा चोक्तम्
"समानेतरबुद्धिश्च प्रतिवस्तूपजायते। . सन्नुष्ट्रः सदधीत्यादिरूपा तन्निश्चयात्मिका ।। १ ।। नौष्ट्रयादि सवभिन्नं चेत् , ननु तत् केन चेष्यते । अभेदेन विगानं चेत्, धियां तत् किंकृतं ननु ? ॥२॥ भेदे तु तदसत्वं चेत् , कः किमाहात्र वस्तुनि ? । कथं तद्भाव इष्टश्चेत् , भेदा-ऽभेदविकल्पतः ॥ ३ ॥ अन्योऽन्यव्याप्तितश्चायं सत्त्वौ-ष्ट्रत्वादिधर्मयोः। सिद्ध एकान्त भेदादित्यागाज्जात्यन्तरात्मकः ॥४॥ न सत्वं किश्चिदौष्ट्रयादिधर्मान्तरविवर्जितम् ।। तद् वा सत्वविनिमुक्तं केवलं गम्यते कचित् ।। ५ ॥ ततोऽसत् तत् तथान्यायादेकं चोभयसिद्धितः । अन्यत्रातो विरोधस्तदभावापत्तिलक्षणः ॥ ६ ॥ . एवं चोभयरूपत्वे तद्विशेषनिराकृतिः । असिद्धा नान्यतोऽभिन्नं यदन्यत्रापि वर्तते ॥ ७ ॥ प्रवृत्तिनियमोऽप्येवं दधि खादेति युज्यते । चोदितस्येह दधन्येव यद्विशेषेण चोदना ॥ ८॥ अतोऽस्त्यतिशयस्तत्र येन भेदेन वर्तते । स दध्येवेत्यदो नेति सद्व्यत्वानुवेधतः ॥ ९॥ : ततः सोऽस्ति न चान्यत्र न चाप्यनुभयं परम् ।
Page #269
--------------------------------------------------------------------------
________________
स्वोपज्ञटीकासहिता।
२७७
एवं तत्वव्यवस्थायामवद्यं नास्ति किञ्चन ॥ १० ॥ सर्वथा क्षणिकत्वे च प्रतीत्योत्पादवादिनः । सर्वस्य सर्वकार्यत्वप्राप्त्याऽभेदो भवेदपि ॥ ११॥ क्षीरोष्ट्रानन्तरं भूतेायाद् दध्यु-ष्ट्रयोर्यतः। द्वयकार्यत्वयोगेन नियमात् तुल्यरूपता ॥ १२ ॥ न चेत् तत्तत्स्वभावत्वाद् न तत् ताभ्यां पृथग मतम् । तबाविशिष्टं सर्वेषामसतामिति भाव्यताम् ।। १३॥ विशिष्टतत्स्वभावत्वकल्पना च न युज्यते । विशिष्टोपाध्यभावेन भावे चास्यान्वयो ध्रुवः ॥ १४ ॥ अभिन्न देशरूपादिभावेऽप्येषोऽनिवारितः। न चैकान्तिक एवायं धूमादावन्यथेक्षणात् ॥ १५॥ एवं सन्न्यायतः सिद्धे द्वितयेऽप्युभयोद्भवे । चोदनेऽन्यतरस्येह प्रवृत्ती नियमः कुतः ॥ १६ ॥ उभयोस्तुल्यरूपत्वाद् निरंशत्वाच्च सर्वथा । विशेषासंभवाद् ध्वान्तमवधूय विचिन्त्यताम् ॥ १७ ॥ एवं सर्वत्र संयोज्यः प्रवृत्त्यानियमो बुधैः । प्रक्रान्तार्थानुसारेण लेशतस्तु निदर्शितः॥१८॥"इत्यादि।
एतेनेत्यादि एतेनानन्तरोदितेन ग्रन्थेन, 'विषे भक्षिते मोदकोऽपि भाक्षितः स्यात्' इत्याद्यपि पूर्वपक्षोक्तं प्रतिक्षिप्तमवगन्तव्यम् , तुल्य योग-क्षेमत्वादिति । यच्चापरेणाप्युक्तम्- 'सर्वस्योभयरूपत्वे तद्विशेषनिराकृतेः' इत्यादि। तदपि कुटनटनृत्तमिवेति निदर्शनम् , अविभावितानुष्ठानं दर्शनभावार्थपरिज्ञानशून्यत्वेन, न विदुषां मनोहरमिति कृत्वा, अपकर्णयितव्यं न श्रोतव्यम् । कुत इत्याह- वस्तुतः प्रदत्तोत्तरत्वात् । तथा, सामान्यविशेषरूपस्य वस्तुनः सम्यग्व्यवस्थापितत्वात् , अन्यत्र स्याद्वादकुचोद्यपरिहारादौ प्रपञ्चेन निराकृतत्वादपरस्योक्तस्य । तथा चोक्तमिति ज्ञापकमाह- समानेतरबुद्धिश्च समान-विशेषबुद्धिश्च, प्रतिवस्तु वस्तु वस्तु प्रति प्रतिवस्तु, उप
Page #270
--------------------------------------------------------------------------
________________
२७८
अनेकान्तजयपताका
जायते । किंविशिष्ठेत्याह- सन्नुष्ट्रः सद्दधीत्यादिरूपा तनिश्वयात्मिका उष्ट्रादिनिश्चयात्मिका ॥ १ ॥ नौष्ट्यादि सत्त्वभिन्नं चेत्, औष्ट्रयमुष्ट्रत्वम्, आदिशब्दाद् द्रव्यत्वादिग्रहः सत्त्वभिन्नं चेत्, त तश्च सन्मात्रमेवैतदित्यभिप्रायः । एतदाशङ्कयाह - ननु तत् केन चेष्यते नौष्ट्यादि सत्त्वभिन्नमिति ? । अभेदेन विगानं चेदौष्ट्रयादि-सत्त्वयोः सन्मात्रमेवैतदेवमिति भावः । एतदाशङ्कयाह - धियां बुद्धीनाम्, तद् विगानम्, किंकृतं ननु ?, अस्ति चैतदासामुष्ट्र-द्रव्यसद्बुद्धीनां मिथो वैलक्षण्येन || २ || भेद इत्यादि भेदे पुनर्राष्ट्रयादि-सत्त्वयोः, तदसत्त्वं चेदौष्ट्याद्यसत्वं सत्त्वादन्यत्वेन । एतदाशङ्कयाह- कः किमाहात्र वस्तुनि ? भेदे सति तदसत्त्वमेव भवतीत्यर्थः । कथं तद्भाव औष्ट्र्यादिसत्तालक्षणः, इष्टश्वेत् । एतदाशङ्कयाह- भेदाSभेदविकल्पतः भेदाभेदात्मको विकल्पः, विकल्पो भेदस्ततः, सत्वात् कथविद् भेदेनेति योऽर्थः ॥ ३ ॥ अन्योन्यव्याप्तितश्च कारणात्, अयं भेदाभेदविकल्पः सत्त्वौ ष्ट्र्यादिधर्मयोः सिद्धः प्रतिष्ठितः, एकान्तभेदादित्यागात् सर्वथा भेदा ऽभेदत्यागात्, जात्यन्तरात्मक इति । एतद्भावनार्यैवाह - न सत्वमित्यादि न सत्त्वं किश्विदौष्ट्यादिधर्मान्तरविवर्जितं, तदौष्ट्यादि वा सत्त्वविनिर्मुक्तं केवलं गम्यते क्वचित् ||५|| यदि नामैवं ततः किमित्याह - ततोऽसत् तत् सत्त्वादि, तथेतरेतरभेदेन, न्यायाद् न्यायेन केवलानवगमांत, एकं चासत्; तदुभयसिद्धितः सत्त्वौ-ष्ट्रयानुभयोपलब्धेः अन्यत्र - एकान्तभेदादौ, अतो विरोधस्तदभावापत्तिलक्षणः - तयोः सच्वौ ष्ट्रत्वाद्ययेोरभावापत्तिः सैव लक्षणं यस्य स तथा || ६ || एवं चेत्यादि एवं चोक्तनीत्या, उभयरूपत्वे सति, उष्ट्रादेः किमित्याह- तद्विशेषनिराकृतिः उष्ट्रत्वादिविशेषनिराकृतिः, असिद्धा । कथमित्याह - नान्यतो दघ्नः, अभिन्नं सत्त्वम्, यद् यस्मात्, अन्यत्रापि - उष्ट्रादौ वर्तते, किं तर्हि ?, आत्मीयमेव ॥७॥ ततश्च प्रवृत्तिनियमोऽप्येवं 'दधि खाद' इति - एवम्, युज्यते चोदितस्येह दध्न्येव । कुत इत्याशङ्क्याह- यद्विशेषेण चोदना 'दधि खाद '
"
"
"
"
Page #271
--------------------------------------------------------------------------
________________
स्वोपज्ञटीकासहिता।
२७९
इत्येवम् , नं पुनः 'उष्ट्रं धावति' ॥८॥ अत इत्यादि । अतोऽतिशयो विशेषपरिणामः, तत्र दनि, येन कारणेन, भेदेन प्रवर्तते तथा चोदितः पुरुषः । न चैवमपि परेष्टसिद्धिरित्याह- स दध्येवेत्यदोन एतदेकान्तेन । कुत इत्याह-सवव्यत्वानुवेधतः कारणात् , केवलस्य दधिपर्यायस्याभावादित्यर्थः ॥ ९ ॥ तत इत्यादि ततः सोऽस्त्यतिशयो दनि, न चान्यत्रोष्ट्रेऽसौ, तन्नियतत्वात् । न चाप्यनुभयं परं तत्त्वम् , उक्तवत् समाना-ऽसमानोभयपरिणामरूपत्वेन । एवं तत्त्वव्यवस्थायां सत्याम, अवयं पापं, नास्ति किञ्चन ॥ १० ॥ परपक्षे त्वयं दोष एवेत्याह- सर्वथेत्यादि सर्वथा क्षणिकत्वे च निरन्वयक्षणिक इत्यर्थः; प्रतीत्योत्पादवादिनः परस्य, सर्वस्य दध्यादेः, 'वस्तुनः' इति प्रक्रमः, सर्वकार्यत्वप्राप्त्योष्ट्रादिकार्यत्वप्राप्त्या हेतुभूतया, अभेदो दूषणमेतत् , भवेदपि ॥ ११ ॥ एतदेवाह- क्षीरोष्ट्रानन्तरं भूतेः उत्पत्तेः, न्याया. जगति सदा तद्भावेन दध्यु-ष्ट्रयोः, यतो द्वयोरपीह प्रक्रमे, द्वयकार्यत्वयोगेन हेतुना, नियमात् तुल्यरूपता, परनीत्या द्वयोरपि तद्वयादुत्पत्तेरित्यर्थः ।।१२।। न चेदित्यादि न चेत् तुल्यरूपता, तत्तत्स्वभावत्वात्तयोर्दध्युष्ट्रजननस्वभावत्वात् । एतदाशङ्क्याह- न तत् तत्स्वभावत्वम् , ताभ्यां दध्युष्ट्राभ्यां, पृथग् मतमथान्तरभूतमिष्टम् । किं तार्ह ?। दध्युष्ट्रावेव द्वावपि तत्स्वभावत्वम् । तच्च तत्स्वभावत्वं च तत्स्वरूपमेव, अविशिष्टं तुल्यं सर्वेषामसतां खरविषाणादीनाम् , इति भाव्यतामेतत् । ततश्च तयोर्दध्युष्ट्रजननस्वभावत्वादित्येतदेवासत् किन्तु तयोरसज्जननस्वभावत्वादिति न्याय्यमिति ॥ १३ ॥ तथा चाहविशिष्टत्यादि विशिष्टतत्स्वभावत्वकल्पना च दध्युष्ट्रजननस्वभाव. त्वकल्पना च, न युज्यते । केन हेतुनेत्याह- विशिष्टोपाध्यभावेन सदा सर्वथा दध्याद्यभावनेत्यर्थः, भावे चास्य विशिष्टस्योपाधेः, किमि. त्याह- अन्वयो ध्रुव:भाविकार्यार्थाशून्यतया, तस्यैव तथोपाधित्वयोगादिति ॥ १४ ॥ अभिन्नेत्यादि अभिन्नदेश-रूपादिभावेऽपि दध्यादेः, एषोऽन्वयः, अनिवारितः परस्य । न चैकान्तिक एवायमभिन्नदेश
Page #272
--------------------------------------------------------------------------
________________
२८०
अनेकान्तजयपताका
रूपादिभावः । कुत इत्याह धूमादावन्यथेक्षणाद् भिन्नदेशरूपादिभावेक्षणात् ॥ १५ ॥ एवमित्यादि एवं सन्न्यायतः सिद्धे सति, उभयेऽपि दध्युष्ट्रोभये, उभयोद्भवे दध्युष्ट्रोभयोद्भवे, उभयमुभयः जननस्वभावमिति तुल्यात् स्वभावद्वयादुपजायमानमुभयमप्येतत् तुल्यमेव भवतीति, एवं चोदनेऽन्यतरस्येह 'दधि खाद', प्रवृत्ती नियमः कुतः ?, उभयोस्तदुभयस्वभावजन्यत्वेन तुल्यत्वादिति ।।१६।। अत एवाह- उभयोरित्यादि उभयोर्दध्युष्ट्रयोः, तुल्यरूपत्वात् तदुभयजनकत्वेन, निरंशत्वाच्च सर्वथैकस्वभावत्वेन, एवं विशेषा, संभवात् , कार्यदध्युष्ट्रयोरिति सामर्थ्यम् , ध्वान्तमवधूय विचिन्त्यतां 'प्रवृत्तिनियमः कुतः ?' इत्येतत् ।।१७।। एवमित्यादि एवमुक्तनीत्या, सर्वत्र विषमोदकादौ, संयोज्यः प्रवृत्त्यनियमो बुधैः पण्डितैः प्रक्रा; न्तार्थानुसारेण । दध्युष्ट्रयोः परेणोपन्यस्तत्वाल्लेशतस्तु निदर्शितः प्रवृत्त्यनियमः ॥ १८ ॥ इत्यादि ॥ . . यच्चोक्तम्- 'सर्ववस्तुशबलवादिनः क्वचिदन्यासंसृष्टाकारबुद्धयसिद्धेः, तथावाचकाभावात् संहारवादानुपपत्तिः, तत्सिद्धौ वा तत एव तत्स्वभावभेदात् तदेकरूपतैव' इति । एतदप्ययुक्तम् , सर्ववस्तुशबलभावेऽपि तथाक्षयोपशमवत्पमातुर्गुणप्रधानभावेन क्वचिदन्यासंसृष्टाकाराया बुद्धः सिद्धेः, सन्निकृष्ट-विप्रकृष्टयोः प्रमात्रोरुष्ट्र एव सदुष्ट्रादिबुद्धिभेददर्शनात् । विप्रकृष्टो हि तत्र प्रमाता तथाप्रतिपत्तिवीर्यतोऽप्रधानगुणभूतमपि भावेन गुणभूतोष्ट्रत्वादिविशेषं पटुपतीत्यपेक्षापादितप्रधानभावं सन्मात्रमवैति, यथा विशिष्टवस्त्रादौ रक्तादिः सन्निकृष्टस्त्वन्यथा प्रतिपत्तिबलेनोक्तरूपमपि तत्वतस्तथाग्रहणगुणोपनतमुख्यभावमुपसर्जनीकृतसत्तासमानरूपमुष्ट्रत्वादि, रक्तादाविव विशिष्टं वस्त्रादीति । तथाक्षयोपशमवत्वं च प्रमातुः प्रभास्वरस्य प्रकृत्या बोधह्रासद्धयुपलब्धेः, आगन्तुककर्ममलभावेन द्रव्याद्यवाप्तितोऽविरुद्धमेव । न चैतद् बुद्धिद्वयमपि न तन्निमितम् , तद्भावभाविका
Page #273
--------------------------------------------------------------------------
________________
खोपझटीकासहिता।
२८१ "विशेषात् ; एवमप्येकस्या अन्यथाकल्पनेऽतिप्रसङ्ग इति । तथावाचकस्यापि भावात् , कथञ्चित्प्रवृत्तिनिमित्तभेदात् , तथासंहारवादोपपत्तिः । शेषं चानभ्युपगमादेव न नः क्षतिमावहति, केवलग्रहणपुरस्सरसंहारवादासिद्धेः, नरसिंह-मेचकवद् वस्तुनो जात्यन्तरात्मकत्वाभ्युपगमात् । एकस्वभावत्वे तु कार्यद्वयायोगेन धी-ध्वन्यभाव एव, हेत्वभेदे फलभेदासिद्धेः॥
यच्चोक्तं मूलपूर्वपक्षे, 'सर्ववस्तुशबलवादिनः' इत्यादि, यावत् 'तत्सिद्धौ वा तत एव तत्स्वभावभेदात् तदेकरूपतैव' इति; एतत् प्राग् व्याख्यातमेवेति न व्याख्यायते । अत्र दूषणमभिधातुमाहएतदप्ययुक्तम् । कथमित्याह- सर्ववस्तुशबलभावेऽपि सति, तथाक्षयोपशमवत्प्रमातुश्चित्रक्षयोपशमवत इत्यर्थः, गुणप्रधानभावेन वक्ष्यमाणोदाहरणगतेन, कचिद् वस्तुनि, अन्यासंसृष्टाकाराया इव बुद्धेः सिद्धरुपलब्धेः । इहैव भावार्थमाह-संनिकृष्ट-विप्रकृष्टयोः प्रमात्रोः, उष्ट्र एव वस्तुनि, सदुष्ट्रादिबुद्धिभेददर्शनात् । कथमेतदेवमित्याहविप्रकष्टो हि तत्र उष्ट्रे, प्रमाता तथाप्रतिपत्तिवीर्यतः सामान्यप्रतिपत्तिसामर्थेन, अप्रधानगुणभूतमपि भावेन परमार्थन, 'सन्मात्रमवैति' इति योगः । किंविशिष्टमित्याह- गुणभूतोष्ट्रत्वादिविशेष गुणभूतोऽप्रधानभूत उष्ट्रत्वादिविशेषो यस्मिंस्तत् तथा । एतदेव विशिष्यते- पटुप्रतीत्यपेक्षया निश्चयप्रतीत्यपेक्षयाऽऽपादितः प्रधानभावो यस्य तत्तथा । एवंभूतं सन्मात्रमवैति । निदर्शनमाह- यथा विशिष्टवस्त्रादौ पटादिरूपे, रक्तादि 'रक्तं किमपि' इति । संनिकृष्टः पुनः प्रमाता, अन्यथा प्रतिपत्तिबलेन तथाप्रतिपत्तिवीर्यापेक्षया विशेषप्रतिपत्तिसामर्थ्य नेत्यर्थः, उक्तरूपमपि तत्त्वतोऽप्रधानगुणभूतमपि, परमार्थेन 'उष्ट्रवादि' इति योगः, 'अवैति' इति क्रियानुवृत्तिः । एतदेव विशेष्यते- तथाग्रहणगुणेन विशेषग्रहणोपकारेणोपनतो मुख्यभावो यस्य तत् तथा । एतदेव विशेष्यत- उपसर्जनीकृतं सत्तासमानरूपं यस्मिंस्तत् तथोष्ट्रत्वाद्यवैति । रक्तादाविव विशिष्टं
Page #274
--------------------------------------------------------------------------
________________
२८२
अनेकान्तजयपताका
वस्त्रादीति निदर्शनम् , 'पटोऽयम्' इति । तथाक्षयोपशमवत्त्वं च चित्रक्षयोपशमवत्त्वं च, प्रमातुः, 'अविरुद्धमेवेति योगः । प्रभास्वरस्य प्रकृत्या स्वभावेन बोध हास-वृद्धथुपलब्धेः कारणात् , किमित्याह- आगन्तुककर्ममलभावेन हेतुना, द्रव्याद्यव्याप्तितो द्रव्य-क्षेत्रकाल-भव-भावावाप्तेः, अविरुद्धमेव 'तथाक्षयोपशमवत्त्वम्' इति क्रिया निदर्शितैव । न चैतदित्यादि न चैतद् बुद्धिद्वयमपि सदुष्ट्रादिप्रतिभासम्, न तन्निमित्तं नोष्ट्रनिमित्तम् , किं तर्हि ? उष्ट्रनिमित्तमेव । कुत इत्याह- तद्भावभावित्वाविशेषात् तथाहि- यथा सद्बुद्धिरुष्ट्रभावभाविनी, एवमुष्ट्रबुद्धिरपि । एवमप्येकस्य; प्रक्रमात् सद्बुद्धः, अन्यथा कल्पने- अतन्निमित्तत्वकल्पने, अतिप्रसङ्गः, उष्ट्रबुद्धेरप्यतन्निमित्तत्वप्रसङ्गात् । नाविकल्पबुद्धेरभेदे विकल्पभेदो न्याय्य इति । ततश्च स्थितमेतत्- ‘एवं सर्ववस्तुशबलभावेऽपि तथाक्षयोपशमवत्प्रमातुर्गुणप्रधानभावेन कचिदन्यासंसृष्टाकाराया इव बुद्धेः सिद्धेः' इति । तथावाचकस्यापि भावात् तथा तेन प्रकारेण, क्वचिदन्यासंसृष्टाकारस्येव वाचकस्यापि शब्दस्यापि भावात् । भावश्च कथञ्चित् प्रवृत्तिनिमित्तभेदाद् गुणप्रधानभावेन, विप्रकृष्टो हि प्रमाता तत्र तथाप्रतिपत्तिवीर्यतोऽप्रधानगुणभूतमपि भावेन गुणभूतोष्ट्रत्वादिविशेषं पटुप्रतीत्यपेक्षापादितप्रधानभावं सन्मात्रमवैति' इत्युक्तमित्यादि । ततश्चास्ति कथञ्चित् प्रवृत्तिनिमित्तभेदो वाच. कस्येति भावनीयम् । तथासंहारवादोपपत्तिः- तथा प्रधानगुणभावेन, संहारवादोपपत्तिः 'सन्तुष्टः' 'सद् दधि' इति । शेषमित्यादि शेषं तु पूर्वपक्षोक्तं 'तत्सिद्धौ वा तत एव तत्स्वभावभेदात् तदेकरूपतैव' इत्यादि, अनभ्युपगमादेव कारणात् , न नः क्षतिमावहति- नास्माकं पीडां प्रापयति । एतदेवाह- केवलग्रहणपुरस्सरसंहारवादासिद्धेः असिद्धिश्च नरसिंह-मेचकवदिति निदर्शनम् , वस्तुनो दध्यादेः, जात्यन्तरत्वाभ्युपगमात् । परस्य त्वयं दोष एवेति निदर्शनायाह- एकस्वभावत्वे तु वस्तुनोऽभ्युपगम्यमाने, कार्य
Page #275
--------------------------------------------------------------------------
________________
स्वोपज्ञटीकासहिता।
२८३
द्वयायोगेन हेतुना; किमित्याह-धी-ध्वन्यभाव एव द्वयोर्धी-ध्वन्योरभाव एव । कुत इत्याह- हेत्वभेदे फलभेदासिद्धेः कारणात् । ततश्चाज्ञानानभिधानेन संहारवादादिचिन्तानुपपत्तिरिति भावनीयमेतत् ।।
एतेन 'सर्वात्मकत्वे च भावानाम्' इत्याद्यपि प्रत्युक्तम् , तुल्ययोग-क्षेमत्वात् , निरूपितवस्तुन एव तस्य ज्ञापकत्वेनाभिधानात् । एवं चाक्रमेणाप्यनेकधर्मके वस्तुनि पुरःस्थितेऽप्यसंपू.
ज्ञानदोषः क्रमज्ञानदोषश्च प्रत्युक्तः, तथाविधावरणदोषतस्तदुपपत्तेः । न ह्यर्थसंनिधिरित्येवायोगिनां सर्वाकारमेव तदवगमः, तस्यानेकधर्मत्वात् , अवगमस्य च कारणान्तरापेक्षत्वात् । अर्थों हि यथाधर्माभ्यासमवगमं जनयति, यथाङ्गनार्थः संनिधानाविशेषेऽपि परिवादप्रभृतीनां कुणपाधवगमम् : प्रत्यासत्तितो वा, यथा जनकाध्यापकः सुतस्य जनकावगमम् ; प्रकरणापेक्षो वा, यथा वैद्यादिस्तत्कथायां प्रस्तुतायां तदर्शिनां तत्रानेकधर्मसंभवेऽपि वैद्याधवगमंमिति । न चैकस्यानेकत्वविरोधेन तत्रानेकधर्मत्वासंभवः, एकत्वानभ्युपगमात् , एकानेके च विरोधासिद्धेः, इतरेतरानुवेधात् , जात्यन्तरात्मकत्वोपपत्तेः, तथासंवेदनादित्युक्तपायम् ॥ __एतेनेत्यादि । एतेनानन्तरोदितेन वस्तुना, 'सर्वात्मकत्वे च भावानाम्' इत्याद्यपि पूर्वपक्षोक्तम् , प्रत्युक्तम् । कुत इत्याह-तुल्ययोग-क्षेमत्वात् अनन्तरोदितेन । अत एवाह- निरूपितवस्तुन एव तस्य 'सर्वात्मकत्वे च भावानाम्' इत्यादेः, ज्ञापकत्वेनाभिधानात् पूर्वपक्षे । एवं चेत्यादि एवं च कृत्वा, अक्रमेणापि युगपदपि, अनेकधर्मके वस्तुनि पुरःस्थितेऽपि सति, असंपूर्णज्ञानदोषः, संपूर्णे तदयोगात् , क्रमज्ञानदोषश्चाक्रमे तदयोगादेव, प्रत्युक्तः । कथमित्याहतथाविधेत्यादि । तथाविधावरणदोषतः- असंपूर्ण-क्रमज्ञानहेतुचित्रक्षयोपशमनिबन्धनावरणदोषेण, तद्भावोपपत्ते.- असंपूर्ण-क्रमज्ञान
Page #276
--------------------------------------------------------------------------
________________
२८४
अनेकान्तजयपताका
यत
भावोपपत्तेः । एतत्समर्थनायाह- न हीत्यादिना । न ह्यर्थसंनिधिरित्येवं कृत्वा, अयोगिनां प्रमातृणाम्, सर्वाकारमेव धर्मकालकान्र्त्स्न्येन तदवगमोऽर्थावगमः । कुत इत्याह- तस्य अर्थस्य, अन कधर्मत्वात् । अवगमस्य च प्रक्रमात् तत्संबन्धिनः, कारणान्तरापेक्षत्वात्, तत्तद्धर्माभ्यासादि कारणान्तरमिति । अत एवाह- अर्थो यस्माद् यथाधर्माभ्यासमवगमं जनयति, यस्य यथा धर्माभ्यासो यथाधमाभ्यासम् । निदर्शनमाह- यथाङ्गनार्थः स्त्र्यर्थः संनिधानाविशेषेऽपि सति परिव्राट्प्रभृतीनां परित्राद्-कामुक-शुनामित्यर्थः, कुणपाद्यवगमं कुणप - कामिनी भक्ष्यावगमम् । प्रत्यासत्तितो वाऽर्थो ह्यवगमं जनयति । निदर्शनमाह- यथा जनकाध्यापकः सुतस्य जनकावगमं नाध्याप्यान्तरस्येवोपाध्यायावगमम्, स्तमायान्तं दृष्टुक एवमाह - 'तात आगच्छति' अपरः पुनः 'उपाध्याय आगच्छति' इति । प्रकरणापेक्षो वा, यथा वैद्यादि:, आदिशब्दाद् दातृत्वादिधर्मग्रहः, तत्कथायां प्रस्तुतायां वैद्यादिकथायामित्यर्थः, तद्दशिनां वैद्यादिदशिनां प्रमातॄणाम्, तत्र वैद्यादौ, अनेकधर्मसंभवेऽपि दातृत्वादिधर्मापेक्षया, वैद्याद्यवगममिति; तद्यथा- 'वै'द्य आगच्छति' 'दाताऽऽगच्छति' इति । न चैकस्य वस्तुनः, अकत्वविरोधेन तत्र वस्तुनि, अनेकधर्मत्वासंभवः । कुत इत्याह.एकत्वानभ्युपगमात् | एकानेकं तदभ्युपगम्यत इत्याह- एकानेके च जात्यन्तरात्मके वस्तुनि, विरोधासिद्धेरनेकत्वस्य । असिद्धिश्च, इतरेतरानुवेधादेकत्वानेकत्वयोरिति । अधिकृतानुवेधश्च, जात्यन्तरात्मकत्वोपपत्तेः, एतच तथासंवेदनात् - जात्यन्तरात्मकतयैकत्वानेकत्वसंवेदनात् इत्युक्तप्रायं प्रायेणोक्तम् ॥
"
"
न च सर्वथा सदृशानुभवानिमित्ताः कुणपादिविकल्पा इति । अतत्कारणातत्कार्यव्यावृत्तानां सदृशत्वाभ्युपगमात्, तदनुभवानां चातत्कार्यव्यावृत्यसिद्धेः, भिन्नजातीयविकल्पनिबन्धनत्वात् कुणप - कामिन्यादिविकल्पानां भिन्नजातीयत्वाभ्यु
"
Page #277
--------------------------------------------------------------------------
________________
स्वोपज्ञटीकासहिता।
२८५ पगमात् , तदनभ्युपगमेऽतिप्रसङ्गः, रूप-रसादिविकल्पानामप्यभिन्नजातीयत्वापत्तेः, तथा च तदनुभवानां सदृशता इति रूप-रसादिभेदाभावः । भिन्द्रियानुभवनिबन्धनत्वात् तद्विकल्पानामयमदोष इति चेत् । एवमपि सिते-तरादिभेदाभावप्रसङ्गः, तद्विकल्पानां भिनेन्द्रियानुभवनिबन्धनत्वासिद्धेः, सर्वेषामेव तेषां चाक्षुषत्वादिति ॥
न चेत्यादि न च सर्वथा सदृशानुभवनिमित्ताः स्वलक्षणानुभवमधिकृत्य, कुणपादिविकल्पा इति । कुत इत्याह- अतत्कारणातत्कार्येभ्यो व्यावृत्ता इति विग्रहस्तेषां, सदृशत्वाभ्युपगमादनुभवानां घटानुभवानामिव, तदनुभवानां च कुणपादिविकल्पानुभवानां च, अतत्कार्यव्यावृत्त्यसिद्धेः ।असिद्धिश्च, भिन्नजातीयविकल्पनिबन्धनत्वात तदनुभवानाम् । कथमेतदेवमित्याह- कुणप-कामिन्यादिविकल्पानां भिन्नजातीयत्वाभ्युपगमात् । तदनभ्युपगमे कुणपादिविकल्पानां भिन्नजातीयत्वानभ्युपगमे, अतिप्रसङ्गः । कथमित्याह- रूप-रसादिविकल्पानामप्यभिन्नजातीयत्वापत्तेः । ततः किमित्याह-तथाचेत्यादि तथा च तदनुभवानां रूप-रसाद्यनुभवानाम् , सदृशतेति कृत्वा; किमित्याह- रूप-रसादिभेदाभाव: रूपमात्रं रसादिमात्रं वा जगत् स्यादित्यर्थः । भिन्नेन्द्रियानुभवनिबन्धनत्वात्- चक्षु-रसनादीन्द्रियानुभवनिबन्धनत्वात्, तद्विकल्पानां रूप-रसादिविकल्पानाम् , अयं रूप-रसादिभेदाभावलक्षणो दोषः, अदोष इति चेत्-भिन्नेन्द्रियानुभवजत्वेन भिन्नजातीया एव रूप-रसादिविकल्पाः, तन्निबन्धनाश्वानुभवाः, तद्धेतवो रूपादयश्च, इति न रूप-रसादिभेदाभाव इत्यर्थः । एतदाशङ्कथाह- एवमपीत्यादि एवमपि भिन्नेन्द्रियानुभवनिबन्धनत्वेन तद्विकल्पानामुक्तदोषादोषत्वेऽपि, सिते-तरादिभेदाभावः प्रसङ्गः शुक्ल-कृष्णादिभेदाभावप्रसङ्गः । कुत इत्याह- तद्विकल्पानां सिते-तरादिविकल्पानाम् , भिन्नेन्द्रियानुभवनिबन्धनत्वासिद्धेः । असिद्धिश्च, सर्वेषामेव तेषां तद्विकल्पानाम् , चाक्षुषत्वादिति ॥
Page #278
--------------------------------------------------------------------------
________________
२८६
अनेकान्तजयपताकान च भिन्नविकल्पोपादानवासनासहकारिभावतस्तदनुभवस्यायमदोषः, सर्वथैक स्वभावत्वे तस्यानेकसहकारित्वानुपपत्तेः, तदन्यतमसहकार्येक स्वभावत्वेनान्यत्र तद्भावविरोधादित्युक्तप्रायमेव । ततः कथञ्चिद्भिन्नधर्मविषया एव कुणपायवगमा इति; तथाहि- भाविजीववियोगयोग्यतालक्षण एव स्त्रीशरीरधर्मः कुणपावगमस्य निमित्तम्, तथाविधेच्छाकामादिमज्जीवसंयोगयोग्यतालक्षणस्तु कामिन्यवगमस्य, क्षुद्रजन्तुपरिभोगक्षुदपनोदयोग्यतालक्षण एव तु भक्ष्यावगमस्यति । न च य एव भावि-- जीववियोगयोग्यतालक्षणः स्त्रीशरीरधर्मः स एव तथाविधेच्छाकामादिमज्जीवसंयोगयोग्यतादिलक्षणः, फलभेदात् , तथाविधवियांग-रमणयोगादीनां तथोपलब्धेः, लोकानुभवसिद्धत्वात् , अन्यथा भेदव्यवस्थाऽयोगादिति । एवं जनकत्वा-ऽध्यापकत्व-वैद्यत्व-दातृत्वादीनामपि कथञ्चिद्भेदोऽवसेयः, फलभेदान्यथानुपपत्तेः, तस्य चाध्यक्षसिद्धत्वात् , जनकत्वस्यैवाध्यापकत्वे तस्यापि तत्त्वात् पित्रादेरपि पुत्रत्वादिप्रसङ्गः, पुत्रस्यापि कचिदध्यापकत्वसिद्धेरिति ।।
इहैव प्रस्ताव इति लेशतो योगाचारमतमधिकृत्याह- न चेत्यादि न च भिन्नविकल्पोपादानवासनासहकारिभावतः कारणात् , तदनुभवस्य सिताद्यनुभवस्य, अयं तद्विकल्पानां भिन्नन्द्रियानुभवनिबन्धनत्वासिद्धथा सितेतरादिभेदाभावप्रसङ्गलक्षणो दोषः, अदोषः । कुत इत्याह- सर्वथैकस्वभावत्वे सति, तस्य तदनुभवस्य; किमित्याह-अने. कसहकारित्वानुपपत्तेः-अनेकेषां भिन्नविकल्पोपादानवासनादीनां सहं कारित्वानुपपत्तेः । अनुपपत्तिश्च तदन्यतमसहकार्येक्रस्वभावत्वेन सितादिविकल्पोपादानान्यतमवासनासहकार्येकस्वभात्वेन हेतुना, अन्यत्र वासनान्तरे, तद्भावविरोधात् सहकारिभावविरोधात्; सिताद्यनुभवस्यः ह्यनेकसहकारित्वे सत्यान्तरासितादिभावेनाधिकृतदोषो न दोष इति भवति, न चैतदेवम् ; इत्युक्तप्रायमेव । तत इत्यादि ततस्तस्मात् ,
Page #279
--------------------------------------------------------------------------
________________
स्वोपाटीकासहिता।
२८७ काञ्चद् भिन्नधर्मविषया एव कुणपाादविकल्पा इति स्थितमेतत् । एतदेव विशेषेणाह-तथाहीत्यादिना तथाहीति पूर्ववत्, भावी चासौ जीववियोगश्चेति विग्रहः, तस्य योग्यता भाविजीववियोगयोग्यता, सैव लक्षणं यस्य स तथा, स एवंभूतः स्त्रीशरीरधर्मः कुणपावगमस्य निमित्तम् । तथा, तथाविधा अतत्त्वप्रवर्तकाः, तथाविधाश्च त इच्छाकामादयश्चेति समासः, आदिशब्दाद् मदनकामग्रहः, तेऽस्य विद्यन्त इति तथाविधेच्छाकामादिमान् , एवंभूतश्चासौ जीवश्चेति, तेन संयोगयोग्यता, संयोगः संभोगः, तस्य योग्यता, सैव लक्षणं यस्य स तथो-क्तः । तुशब्दः पुनःशब्दार्थः । एवंलक्षणः पुनः स्त्रीशरीरधर्मः कामिन्यवगमस्य निमित्तमिति । तथा, क्षुद्रजन्तोः श्वशृगालादेः परिभोगेन भक्षणेन, क्षुदपनोदो बुभुक्षापनयनं, तस्य योग्यता, सैव लक्षणं यस्य स तथा, एवंभूतः पुन स्त्रीशरीरधर्मः, भक्ष्यावगमस्येति भक्ष्यावगमनिमित्तम् । न चेत्यादि न च य एव भाविजीववियोगयोग्यतालक्षणः स्त्रीशरीरधर्मः स एव तथाविधेच्छाकामादिमज्जीवसंयोगयोग्यतालक्षण: 'स्त्रीशरीरधर्मः' इति वर्तते, आदिशब्दात् क्षुद्रजन्तुपरिभोगक्षुदपनोदयोग्यतालक्षणधर्मग्रहः । कुतो न चेत्याह- फलभेदात् । फलभेदश्च, तथाविधवियोगश्च रमणयोगादयश्चेति समासः, तेषां तथोपलब्धेर्भेदेनोपलब्धेः । तत्र तथाविधवियोगो भाविजीववियोगः, रमणयोगः संयोगः, · आदिशब्दात् क्षुद्रजन्तुपरिभोगक्षुदपनादपरिप्रहः; एते च भेदेनोपलभ्यन्ते । कथमित्याह-लोकानुभवसिद्धत्वात् । इत्थं चैतदङ्गीकर्तव्यमित्याह- अन्यथा भेदव्यवस्थाऽयोगादिति । एवं जनकत्वा-ऽध्यापकत्व-वैद्यत्व-दातृत्वादीनामपि धर्माणां, कथञ्चिद् भेदोऽवसेयः; कथमित्याह- फलभेदान्यथानुपपत्तेः । तस्य च फलभेदस्य जन्या-ऽध्याप्यादेः, अध्यक्षसिद्धत्वात् । विपक्षे बाधामाहजनकत्वस्यैवाध्यापक्रत्वेऽभ्युपगम्यमाने, तस्यापि- अध्यापकत्वस्यापि, तत्त्वात् जनकत्वात् ; किमित्याह-पित्रादेरपि आदिशब्दात् पितामहग्रहः, पुत्रत्वादिप्रसङ्गः, आदिशब्दात् पौत्रग्रहः । कुतः प्रसङ्ग इत्याह
Page #280
--------------------------------------------------------------------------
________________
२८८
अनेकान्तजयपताकापुत्रस्यापि अपिशब्दात् पौत्रस्यापि, कचिदध्यापकत्वसिद्धेरिति “अध्यापयत पुत्रकाः !” इत्यादिश्रुतिप्रामाण्यादिति ।।
इतश्चैतदेवम्- दान-हिंसादिविरतिचेतनायाः स्वसंवेद्यत्वेऽप्यभ्युदयादिसाधनशक्त्यवगमानुपपत्तेः । न च तच्छक्तेरप्य. विकल्पकेनावगमः, तथानिश्चयाभावात् । अवगमेऽपि फलस्यानन्तर्याभावादतत्फलसाधाद् विपर्यस्तस्याविनिश्चय इति चेत् । न, अविचारितरमणीयत्वात् , अतत्फलसाधन्या तत्त्वतः साधासिद्धेः, तस्याः पारम्पर्येणाप्यतत्साधकत्वात् , इतरस्यास्तु तथासाधकत्वात् , अन्यथा पारम्पर्येणापि ततस्तदसिद्धेः, इत्थंभूतयोरपि तयोः साधाभ्युपगमेऽपन्यायः। इति सर्वात्मना तद्ग्रहे तथैव निश्चयापत्तिः, समन्तरेणापि तत्तथाभ्युपगमेऽतिप्रसङ्गात् ॥ ___ अभ्युच्चयमाह- इतश्चैतेदवम्-'न ह्यर्थसंनिधिरित्येवायोगिनां स
कारमेव तदवगमः' इत्येतदित्थम् । उपपत्तिमाह-दान-हिंसादिविरतिचेतनाया इति दानं च हिंसादिविरतिश्च दान-हिंसादिविरती, तत्प्रधाना चेतना दान-हिंसादिविरतिचेतनास्तस्यास्तथाविधधर्मरूपाया इत्यर्थः, स्वसंवेद्यत्वेऽपि सति, अभ्युदयादिसाधनं चासौ शक्तिश्चेति विग्रहः, स्वर्गादिरभ्युदयः, आदिशब्दाद् निःश्रेयसग्रहः, तस्यावगमानुपपत्तिः परिच्छेदानुपपत्तिरभ्युदयादिसाधनशक्त्यवगमानुपपत्तिस्ततः । न चेत्यादिनच तच्छक्तरप्यभ्युदयादिसाधनशक्तेरपि, अविकल्पकनावगमः । कुत इत्याह- तथा अभ्युदयादिसाधनशक्तित्वेन, निश्चयाभावात् । पराभिप्रायमाह- अवगमेऽपि तच्छक्तरविकल्पकेन , फलस्याभ्युदयादेः, आनन्तर्याभावादनन्तरभावाभावात् , अतः त्फलया शक्त्या. साधर्म्यमतत्फलसाधर्म्य तस्मात्, विपर्यस्तस्य प्रमातुः, अविनिश्चय इति चेत् तथाभ्युदयादिसाधनशक्तित्वेन । एतदाशङ्कयाह- न, अविचारितरमणीयत्वात् । कथमेतदेवमित्याहअतत्फलसाधन्या शक्त्या, तत्त्वतः साधासिद्धेः । असिद्धिश्च,
Page #281
--------------------------------------------------------------------------
________________
२८९
खोपज्ञटीकासहिता। तस्या अतत्फलसाधन्याः शक्तेः, पारम्पर्येणापि; किमित्याह- अतसाधकत्वात् न तत्साधकत्वमतत्साधकत्वं तस्माद् विवक्षितफलासाधकत्वादित्यर्थः; इतरस्यास्तु तत्फलसाधन्याः, तथा साधकत्वात् पारम्पर्येण साधकत्वात् । इत्थं चैतदङ्गीकर्तव्यमित्याह- अन्यथा एवमनभ्युपगमे, पारम्पर्येणापि ततः शक्तेः, तदसिद्धेः पारम्पर्येणापि विवक्षितफलासिद्धेः । इत्थंभूतयोरपि तयोः शक्त्योः, साधाभ्युपगमे, अपन्यायोऽतिप्रसङ्गः । इति एवम् , सर्वात्मना तद्ग्रहेऽभ्युद. यादिसाधनत्वेन दान-हिंसादिविरतिचेतनाग्रहे ; . किमित्याह-- तथैव निश्चयापसिः अभ्युदयादिसाधनत्वेनैव निश्चयापत्तिः, तम. न्तरेणापि, तथा निश्चयं विनापि, तत्तथाताभ्युपगमे दान-हिंसादिविरतिचेतनाया अभ्युदयादिसाधनत्वाभ्युपगमे, अतिप्रसङ्गात् । नीलनिश्चयाजनकस्य पीतानुभवस्य नीलानुभवत्वप्राप्तरतिप्रसङ्ग इति भावना ।। ___ • स्यादेतत्सर्वात्मना तद्ग्रहेऽपि न तथैव निश्चयो भवति, कारणान्तरापेक्षित्वात् , बुद्धिपाटवादेनिश्चयभेददर्शनात्, तीक्ष्णबुद्धीनां योगिनां रूपदर्शनमात्रेण तदन्यासंभविक्षणिकत्वादिनिश्चयसिद्धेः । न, वाङ्मात्रत्वात् , तीक्ष्णबुद्धीनामित्यत्र बुद्धेस्तैक्ष्ण्यायोगात्, सर्वथैकस्वभाववस्तुवादिनस्तत्प्रभवत्वेन सर्वबुद्धीनामेव तत्परिच्छेदकत्वाविशेषात् , तदन्यूनाधिकबोधभावेऽपिच 'तीक्ष्णैका नापरा तथा' इत्यनिबन्धनो भेदः। तन्न्यूनाधिकत्वे च न सर्वैः सर्वात्मना तद्ग्रह इति यत्किश्चिदेतत् ।। - स्यादतदित्यादि स्यादेतदथैवं मन्यसे, सर्वात्मना तद्ग्रहे. ऽपि- अभ्युदयादिसाधनत्वेन दान-हिंसादिविरतिचेतनाग्रहेऽपि सति; किमित्याह- न तथैव अभ्युदयादिसाधनत्वेनैव, निश्चयो भवति । कुत इत्याह- कारणान्तरापेक्षित्वाद् निश्चयस्य । एतदेवाहबुद्धिपाटवादोनश्चयभेददर्शनात् । एतद्भावनायाह- तीक्ष्णबुद्धीनां योगिनां सूक्ष्मबुद्धीनामित्यर्थः, रूपदर्शनमात्रेण तदन्यासंभवि.
Page #282
--------------------------------------------------------------------------
________________
२९०
क्षणिकत्वादिनिश्चयसिद्धेः पृथग्जनासंभविक्षणिकत्वादिनिश्चय सिद्धेः, आदिशब्दात् परम्पराकारणत्वादिनिश्चयमहः । । एतदाशङ्कवाहन, वाङ्मात्रत्वात् । एतदेवाह - तीक्ष्णबुद्धीनामित्यत्र अधिकारे, बुद्धेस्तक्ष्ण्यायोगात् । अयोगश्च सवथैकस्वभाववस्तुवादिनो वादिनः तत्प्रभवत्वेन - एकस्वभाववस्तुप्रभवत्वेन हेतुना, सर्वबुद्धीनामेव तत्परिच्छेदकत्वाविशेषाद् वस्तुपरिच्छेदकत्वाविशेषात् । वस्तु चेह बाह्या-ऽऽभ्यन्तररूपं परिगृह्यते । तदन्यूनाधिकबोध भावेऽपि च वस्त्वन्यूनाधिकबोधभावेऽपि च सर्वबुद्धीनाम्, तीक्ष्णैका नापरा, तथा तीक्ष्णेति, अनिबन्धनो भेदो बुद्धीनाम् । तन्न्यूनाधिकत्वं च वस्तुन्यूनाधिकबोधभावे चाभ्युपगम्यमाने सति न सर्वैः पृथग्जनैः प्रमातृभिः सर्वात्मना कृत्स्नधर्मादितया तद्ग्रहो वस्तुग्रहः, किन्तु योगिभिः, इति - एवं, यत् किश्चिदेतदनन्तरोदितमिति ॥
"
अनेकान्तजयपताका
' तत्तद्वासनाभ्यासादपि तन्निश्चयभेदः' इत्यप्ययुक्तम्, तदनुभवानामविशिष्टत्वात् सर्वथा निरंशवस्त्वालम्बनत्वात् । एवं चानेकगुणसंभवेऽपि कचित् पुरुषे यथाभ्यासं गुणनिश्चय इति याचितकमण्डनमेतत्, पुरुषस्यैकस्वभावताभ्युपगमदौर्गत्येनाकगुणसंभवविभूतिवैकल्यात् । तदेकस्वभावतायां च न भिन्नस्वभावास्तदनुभवाः, इति कथं दातृत्व-वैद्यत्वादिनिश्चयभेदः ?, तदनुभवनिबन्धनत्वाद् निश्चयानाम्, तद्विभिन्नस्वभावतायां च कथं वस्तुन एकस्वभावतैव ? इति चिन्त्यम् ॥
तत्तद्वासनाभ्यासात् तेषां पुत्राऽध्याप्याऽऽतुरा-ऽर्थिनां जनकाऽऽध्यापक-वैद्य दातृवासनाभ्यासात्, तन्निश्चयभेदो जनकादिनिश्च यभेदः । इत्यप्ययुक्तम् । कुत इत्याह- तदनुभवानां प्रस्तुतपुत्राद्यनुभवानाम्, अविशिष्टत्वात् तुल्यत्वादेतच्चैवम् । सर्वथा निरंशवस्त्वालम्बनत्वात् पुरुषस्यैकस्वभावतया निरंशत्वेन । एवं चेत्यादि एवं चानेकगुणसंभवेऽपि कचित् पुरुषे जनकत्वाद्यपेक्षया, यथाभ्यासं यस्य यस्मिन्नभ्यासो यथाभ्यासम, गुणनिश्चयो जनकत्वादिनिश्चयः.
1
Page #283
--------------------------------------------------------------------------
________________
खोपवाटीकासहिता।
२९१ इति याचितकमण्डनमेतत् । कुत इत्याह- पुरुषस्यैकस्वभावताभ्युपगमदौर्गत्येन दारिद्र्येण, अनेकगुणसंभवविभूतिवैकल्यादिति प्र. कटम् । तदेकस्वभावतायां च पुरुषस्यैकस्वभावतायां च सत्याम्, न भिन्नस्वभावास्तदनुभवाः पश्चानुपूाऽर्थ्या-ऽऽतुरा-ऽऽध्याप्य-सुतानुभवाः, इति- एवं, कथं दातृत्व-वैद्यत्वादिनिश्चयभेदः ? । कथं च न स्यादित्याह- तदनुभवनिबन्धनत्वात् एकस्वभावपुरुषानुभवनिब. न्धनत्वाद् , निश्चयानाम् । तद्विभिन्न स्वभावतायां च प्रक्रान्तपुरुषविभिन्न स्वभावतायां च, कथं वस्तुन एकस्वभावतैव ? इति चिन्त्यम्, नैवेत्यर्थः ।। __स्वोपादानभेदादनुभवभेदः न वस्तुभेदादिति चेत् । न, सर्वथैकस्वभावत्वे वस्तुनोऽनेकानुभवसहकारित्वानुपपत्तेः, अन्यतरविज्ञानजन्मसहकार्येकस्वभावत्वेनास्य तदपरविज्ञानजन्मसहकार्येकस्वभावत्वविरोधात् । अनेकविज्ञानजन्मसहकार्येकस्वभावमेतदिति चेत् । न, इत्थंभूतस्यैकत्वायोगात, सर्वथैकस्मादनेकजन्मव्याहतेः, एकान्तैकस्यानेकत्रानुपयोगात् , तदन्यतरवत् तदितरस्यापि निमित्ताभेदेन तत्त्वापत्तेः; अन्यथा का. त्स्न्येनैकत्रोपयोगायोगादिति । न च नास्त्येव तत्राधिकृतशक्तिः, आयत्यां फलभावात् , व्यवहितानामपि हेतोः फलानामुत्पत्तिदर्शनात् , मूषिकालविकारवत् ॥
पराभिप्रायमाह- खोपादानभेदात् कारणात् , अनुभवभेद इह प्रक्रमे पुत्राद्यनुभवभेदो जनकादिनिश्चयानुभवनिबन्धनः, न वस्तुभेदादिति चेद् वस्तुनः पुरुषस्यानेकानुभवसहकार्येकस्वभावत्वादिति । एतदाशङ्कयाह- नेत्यादि न नैतदेवम् , सर्वथैकस्वभावत्वे, वस्तुनः पुरुषादेः । किमित्याह- अनेकानुभवसहकारित्वानुपपत्तेः । अनु. पपत्तिश्च, अन्यतरविज्ञानजन्मसहकार्येकस्वभावत्वेन हेतुना, अस्य वस्तुनः, तदपरविज्ञानजन्मसहकार्यकस्वभावत्वविरोधात् । अनेकेत्यादि अनेकानि च तानि पुत्राद्यपेक्षया विज्ञानानि च, तेषां जन्म,
Page #284
--------------------------------------------------------------------------
________________
अनकान्तजयपताका
तस्मिन् सहकार्येकस्वभावो यस्य तत् तथा, एतदधिकृतपुरुषवस्तु, इति चेत् । एतदाशङ्कयाह- न, इत्थंभूतस्य अनेकजन्मसहकारिण इत्यर्थः, एकत्वायोगात् । कथमयोग इत्याह- सर्वथैकस्माद सहकारितयाऽपि, अनेकजन्मव्याहतेः । व्याहतिश्च एकान्तैकस्य वस्तुनः स्वभावस्य वा, अनेकत्रानुपयोगात् । अनुपयोगश्च, तदन्यतरक्त तत्सहकारिस्वभावपुत्रादिविज्ञानवदित्यर्थः, तदितरस्यापि- अध्याप्यादि. विज्ञानस्यापि, निमित्ताभेदेन पुत्रादिज्ञानसहकारिसहकारित्वेन हेतुना, तत्त्वापत्तेस्तत्सहकारिस्वभावपुत्रादिविज्ञानत्वापत्तेः । इत्थं चैतदङ्गीकर्तव्यम् ; अन्यथा अन्यत्राप्यध्याप्यादिविज्ञानसहकारित्वाभ्युपगमे, कात्स्न्येनैकत्र पुत्रादिविज्ञाने, उपयोगायोगादिति भावनीयमेतत्, न चेत्यादि न च नास्त्येव तत्र दान-हिंसादिविरतिचेतनायाम् , अधिकृतशक्ति:- अभ्युदयादिसाधनशक्तिः । किं तर्हि ? । अस्त्येव । कुत इत्याह- आयत्याम् आगामिनि काले, फलभावात्- अभ्युदयादिफलभावात् । एतत्समर्थनायाह- व्यवहितानामपि फलानां क्षणप्रबन्धेन, हेतोः सकाशात्, उत्पत्तिदर्शनात् , मूषिकालर्कविषविकारवत्- मूषिकालर्कविषं ह्यायत्यां विकारं दर्शयतीति लौकिकमेतत् ।।
आह-मूषिकाविषादावायत्यां तत्फलदर्शनाद् युक्तं तच्छक्यनुमानम् , दान-हिंसादिविरतिचेतनायां त्विष्टस्वर्गादिफलस्यात्यन्तमनुपलम्भादयुक्तमिति । न, अनुपलम्भेऽपि संभवाद, इष्टफलभावे .विरोधाभावात् । किमनेन ? साधकमत्र प्रमाणं नास्तीति चेत् । बाधकेपि समानः प्रसङ्गः । अत एव संशयोऽस्त्विति चेत् । न, भवत्पक्षे तदयोगात् । कथमयोगः ? इति चेत् । तत्कात्स्यग्रहणतो याथात्म्यनिश्चयापत्तेः । आवरणदोषादनिश्चय इति चेत् । किं ततस्तस्याः क्षणम् ? इति वाच्यम् । अस्पष्टग्राह्यतेति चेत् । न, योगिनापि तथाग्रहणापत्तेः । न तस्यावरणमिति चेत् । किं तेन ?, अन्यत एव ग्राह्यभेदसिद्धेः । अयोगिन एव सः, न योगिन इति चेत् । न,
चेत । तत्कास्य
किं ततस्तस्था
तथाग्रहण
Page #285
--------------------------------------------------------------------------
________________
खोपज्ञटीकासहिता।
२९३ तदेकखभावत्वविरोधात् । ग्राहकभेदादविरोध इति चेत् । न, एकखभाषायास्तद्भदेऽपि ग्रहणभेदासिद्धेः। न हि नीलसंवेदनमन्यथा खनीलत्वमधिगच्छति, अन्यथा च तद् योगि' इत्यनेकस्वभावतापत्तेः । अत एकस्वभावस्य वस्तुनः सर्वेषां तुल्यं ग्रहणमग्रहणं चेति सन्यायरणस्तम्भः ॥
आह परः, मूषिकाविषादावायत्यां प्रावृडादौ, तत्फलदर्शनाद् मूषिकाविषादिफलदर्शनात्, युक्तं तच्छक्त्यनुमान मूषिकालर्कविषशक्त्यनुमानम् ; दान हिंसादिविरतिचेतनायां तु प्रस्तुतायाम् , इष्टस्वर्गादिफलस्यायत्यामनुपलम्भात् कारणात्, अयुक्तमिति । एतदाशङ्क्याह- न, अनुपलम्भेऽपि सति, संभवादिष्टफलस्य । संभवश्च, इष्टफलभावे स्वर्गादिभावे, विरोधाभावात् । किमनेन विरोधाभावेन ? साधकमत्र स्वर्गादौ, प्रमाणं नास्तीति चेत् । एतदाशङ्ख्याह-बाधकेऽपि समानः प्रसङ्गः तदपि नास्त्येवेत्यर्थः । अत एव कारणात्, संशयोऽस्त्विति चेत् । एतदाशयाह-न, भवत्पक्ष भदभ्युपगमे, तदयोगात् संशयायोगात् । कथमयोगः ? इति चेत् । एतदाशङ्कथाह-तत्कात्य॑ग्रहणतः दान-हिंसादिविरतिचेतनाकात्यप्रहणेन, याथात्म्यनिश्चयापत्तेः ।आवरणदोषादनिश्चय इति चेत् । एतदाशङ्कयाह-किं तत आवरणात्, तस्या दान-हिंसादिविरतिचेतनायाः, क्षणम् ? इति वाच्यम् । अस्पष्टप्राह्यतेति चेत् । न, योगिनोऽपि तथा अस्पष्टप्राह्यतया,ग्रहणापत्तेः। न तस्य योगिन आवरणमिति चेत्। एतदाश
थाह-किं तेन आवरणेन ? अन्यत एव-अन्यसंबन्धिन आवरणात्, ग्राह्यभेदसिद्धेः; ततस्तस्यास्पष्टग्राह्यतोपगमात् । अयोगिन एव स ग्राह्यभेदः, न योगिन इति. चेत् । एतदधिकृत्याह- न, तदेकस्वभावत्वविरोधात् न तम्या दान-हिंसादिविरतिचेतनाया एकस्वभावत्वविरोधात् । ग्राहकभेदात् कारणात् , अविरोध इति चेत् । एतदाशङ्कयाहन, एकस्वभावायाः दान-हिंसादिविरतिचेतनायाः, तद्भेदेऽपि ग्राहकभेदेऽपि, ग्रहणभेदासिद्धेः । एतदेव निदर्शनान्तरेण भावयन्नाह-नहीत्यादि न हि नीलसंवेदनमन्यथा स्वनीलत्वमधिगच्छत्यनीलत्वादि
Page #286
--------------------------------------------------------------------------
________________
२९४
अनेकान्तजयपताका
त्वेन, अन्यथा च तद् नीलत्वं योगीति । कुतो न होत्याह- अनेकस्वभावतापत्तेः । सर्वोपसंहारमाह- अत एकस्वभावस्य वस्तुनः पुरुषदानादिचेतनादः, सर्वेषां पुत्रादीनाम् , तुल्यं ग्रहणमग्रहणं च, इति सन्न्यायरणस्तम्भः ॥
न च तत्र पारम्पर्येण तत्तत्कार्यसाधनशक्तिनिश्चयः, तथाऽप्रतीतेः, अस्ति च तत्कात्यग्रहीतुर्योगिनः; इतरथा योग्य-ऽयोगिनोस्तत्र विशेषाभावप्रसङ्गात्, तथा च दृष्टेष्टविरोधः। इति न ह्यर्थसनिधिरित्येवायोगिनां सर्वाकारमेव तदवगम इति कृतं प्रसङ्गेन तथा चोक्तम्"वस्तुनोऽनेकरूपस्य नेन्द्रियात् सर्वथा गतिः । चित्रावरणयोगेन प्रमातुः किन्तु देशतः ॥१॥ एवं च विप्रकृष्टस्य सनिकृष्टस्य चैकदा । उष्ट्रादौ बुद्धिभेदेनानेकरूपत्वसंस्थितिः ॥ २॥ अप्रधानीकृतौष्ट्रयादिविशेष प्रतिपद्यते । विप्रकृष्टः पुमान् सत्त्वं वस्त्रादौ रक्ततादिवत् ॥३॥ सनिकष्टोऽपि चौष्ट्यादि तूर्ण सन्चौपसर्जनम् । रक्तादाविव वस्त्रादि विशिष्टं तीववीर्यतः॥४॥ अप्रधानं च यत् प्रोक्तमुष्ट्रत्वायत्र तत्तथा । प्रतिपत्तारमाश्रित्य न तु तत्वव्यपेक्षया ॥५॥ अन्योऽन्यव्याप्तिरूपेण द्वयोस्तद्भावसिद्धितः । अमुख्य-गुणभावेन तत्त्वतस्तूभयात्मकम् ॥ ६ ॥ एकान्तैक्ये तु भावानां कार्याभेदादनिश्चितिः । नैकस्मादुत्तरो भावो ज्ञानं चेति सुनीतितः ॥ ७॥ हेत्वभेदान्न चाज्ञाते तद्ध्वनिः संप्रवर्तते ।
एवमेकस्वभावत्व उपपन्नौ न धी-ध्वनी ॥ ८॥" इत्यादि कृतं विस्तरेणेति ।।
॥ इति तृतीयोऽधिकारः॥
Page #287
--------------------------------------------------------------------------
________________
स्वोपज्ञटीकासहिता 1
२९५
न चेत्यादि न च तत्रैकस्वभावे वस्तुनि, पारम्पर्येण प्रबन्धवृत्त्या, तत्तत्कार्यसाधनशक्तिनिश्चयः- तत्तत्कार्यमुत्तरोत्तरक्षणरूपम्, तस्य साधनशक्तयः पारम्पर्येण तत्कार्यसाधनशक्तयः, तासु निश्चयो नैव । कुत इत्याह- तथाऽप्रतीतेः । अस्ति च तत्र पारम्पर्येण तत्तत्कार्यसाधनशक्तिनिश्चयः । कस्येत्याह- तत्कायैग्रहीतुः तस्यैकस्वभावत्वाभिमतस्य वस्तुन: पुरुषदान-हिंसादिविर तिचेतनादेः, कात्स्यै संपूर्णत्वम् तस्य प्रहीता परिच्छेत्ता, तस्य तत्काय प्रहीतुर्योगिनः, तथाऽनागतव्याकरणप्रामाण्यात् । इत्थं चैतदङ्गीकर्तव्यमित्याहइतरथा योग्य योगिनोस्तत्र वस्तुनि विशेषाभावप्रसङ्गात्, 'परिज्ञानं प्रति' इति सामर्थ्यम्, तथा च दृष्टे-ष्ट्रविरोधः । इति - एवम्, न ह्यर्थसंनिधिरित्येवायेोगिनां सर्वाकारमेव तदवगमो वस्त्ववगम इति कृतं प्रसङ्गेनेति महानिगमनम् । तथा चोक्तमित्यादिना ज्ञापकमाह - वस्तुनः दध्यादेः, अनेकरूपस्य सद्द्रव्यत्वादिधर्मापेक्षया, नेन्द्रियाच्चक्षुरादेः, सर्वथा गतिः सर्वधर्मात्मत्वेन परिच्छित्तिः । कुत इत्याह- चित्रावरणयोगेन हेतुना, प्रमातुः पुरुषस्य; किन्तु देशतो देशेनेन्द्रियाद् गतिः ॥ १ ॥ एवं चेत्यादि एवं च सति, विप्रकृष्टस्य दूरस्थस्य प्रमातुः संनिकृष्टस्य चासन्नस्य च एकदैकस्मिन् काले, उष्ट्रादौ विषये, आदिशब्दाद् दधिपरिग्रहः, बुद्धिभेदेन सदौष्ट्यादिरूपेण हेतुना; किमित्याह- अनेकरूपत्वसंस्थितिः सदौष्ट्र्यादिधर्मापेक्षया ॥ २ ॥ एवमनेकरूपे वस्तुनि किमित्याह - 'अप्रधानीकृतौष्ट्र्यादिविशेषं प्रतिपद्यते; विप्रकृष्टः पुमान् सत्त्वम्, वस्त्रादौ रक्ततादिवत्, इति निगदसिद्धमेव ॥ ३ ॥ संनिकृष्टोऽपि चौष्ट्यादि तूर्ण शीघ्रं, सत्त्वोपसर्जनं रक्तादाविव वस्त्रादि विशिष्टं पटादिवत्, तत्रिवीर्यतः प्रतिपद्यत इति ॥ ४ ॥ अप्रधानं च यत् प्रोक्तमुष्ट्रत्वाद्यत्राधिकारे, तत् तथा प्रतिपत्तारमाश्रित्यो तलक्षणम्, न तु तत्त्वव्यपेक्षया ॥ ५ ॥ किमिति ?, अत आह— अन्योन्यव्याप्तिरूपेण हेतुना, द्वयोः सदौष्ट्याद्योः, तद्भावसिद्धितः सदुष्ट्रभावसिद्धेः,
"
"
Page #288
--------------------------------------------------------------------------
________________ 296 अनेकान्तजयपताका अन्यथाऽयोगादित्युक्तप्रायम् / ततश्चामुख्य-गुणभावेन राखतस्तू. भयात्मकं तत् // 6 // परपक्षे दोषमाह- एकान्तैक्ये तु एकामेकस्वभावत्वे पुनः, भावानां दध्यादीनाम् , कार्याभेदात् कारणात् , अनि श्चितिः / एतदेवाह- नैकस्मात् एकस्वभावात् , उत्तरो भावो ज्ञानं चेति सुनीतितः // 7 // सुनीतिमेवाह- हेत्वभेदात् तदेकस्वभावत्वेन, न चाज्ञाते तस्मिन् , तद्ध्वनिध्यादिध्वनिः, संप्रवर्तते; अतिप्रसङ्गात् 'ज्ञानं च ततोऽन्यभावे, न न संगतम्' इति भावितमेव / एवमेकखभावत्वे वस्तुनः, उपपन्नौ न धी-ध्वनी, द्वयनिमित्ताभावेन // 8 // इत्यादि / ततश्च भेदसंहारवादचिन्ताऽभाव एव परमते / इति कृतं विस्तरेण / / // इत्यनेकान्तजयपताकाटीकायां तृतीयोऽधिकारः //