SearchBrowseAboutContactDonate
Page Preview
Page 85
Loading...
Download File
Download File
Page Text
________________ - स्वोपज्ञटीका सहिता । ९३ क्षणः, , तदतिरेकेण भवनातिरेकेण कश्चित्, सदक्षणिकत्वप्रसङ्गात्, तदैव तदपरक्षणाभावादनवस्थापत्तेरिति भावनीयम् । इति निबन्धनाभावतः कारणात्, यत्किच्चिदेतद् यदुत तदेकक्षणभवनस्वभावमिति ॥ एवं च तदतिरिक्तोत्पच्यभावादविशिष्टभवनानन्तरमभवनमिति प्राप्तम्, तथा न सति क्षणिकत्वेऽप्यनिश्चयः, तत्कादाचित्कतया तु तदुत्पत्त्याद्य परिहृतमेव । न नश्वरमभवनम्, तुच्छस्वादिति चेत् । भवनेऽप्यतुच्छतया समानमेतत् । न समानम्, तस्याऽभवनविरोधात् । अभवनस्य भवने को विरोधः १। नीरूपस्य सरूपतापत्तिरिति चेत् । सरूपस्य कथं नीरूपतापत्तिरिति वाच्यम् ? । स्वहेतोस्तत्स्वभावादिति चेत् | अभवनस्यैवं स्वभावभवनेऽपि को दोषः १ । हेत्वभावनिःस्वभावते इति चेत् । न तद्भवनस्यैव तद्धेतुत्वात्, तद्भावभावित्वात्, भावाभवनस्याभावभवनात्, तुच्छतया तद्भावसिद्धेः, अन्यथा तन्नाशायोगादिति ॥ एवं चेत्यादि । एवं चोक्तनीत्या, तदतिरिक्तोत्पत्त्यभावात्, भवनातिरिक्तोत्पत्त्यभावात्, अविशिष्टभवनानन्तरभवनमिति प्राप्तं न्यायतः । तथा च सति किमित्याह - क्षणिकत्वेऽप्यनिश्चयः अविशिष्टभवनमात्रसिद्धेः, तत् कादाचित्कतया तु अभवनकादाचित्कतया तु, तदनन्तरभावेन तदुत्पत्त्यादि - अभवनोत्पत्तिनाशोत्तरोन्मज्जनाख्यम्, अपरिहृतमेव उक्तनीतितादवस्थ्यादिति । पराभिप्रायमाह - नेत्यादि । ने नश्वरमभवनं भवनानन्तरमपि भवत् । कुत इत्याह- तुच्छत्वात् निःस्वभावत्वादिति चेत् । एतदाशङ्क्याह-भवनेऽप्यतुच्छतया सत्स्वपावत्वेन, समानमेतदनश्वरत्वम्।न समानम्, तस्य भवनस्य, अभवनविरो त् कारणात्। एतदाशङ्क्याह- अभवनस्य भवने को विरोधः । नीरूपस्य अभवनस्य, सरूपतापत्तिर्विरोध इति चेत् । एतदाशङ्क्याहसरूपस्य भवनस्य, कथं नीरूपतापत्तिरित्येतद्वाच्यं समानमेतदित्यभिप्रायः । न समानमित्यावेदयति-स्वहेतोरित्यादिना । स्वहेतोः Jain Education International For Private & Personal Use Only . www.jainelibrary.org
SR No.002732
Book TitleAnekantajaypataka Swopagnya Tika
Original Sutra AuthorHaribhadrasuri
Author
PublisherZZZ Unknown
Publication Year
Total Pages288
LanguageSanskrit
ClassificationBook_Devnagari & Philosophy
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy