________________
अनेकान्तजयपताकासकाशात्, तत्स्वभावभावात् क्षणादूर्ध्व नीरूपतास्वभावोत्पादादिति चेत्। एतदाशङ्कयाह- अभवनस्यैवं स्वभावभवने क्षणादूर्ध्व स्वरूपतास्वभावोत्पादे, को दोषः ? न कश्चिदित्यर्थः । हेत्वभावनिःस्वभावते दोषइति चेत्। एतदाशङ्क्याह-नेत्यादि । नैतदेवं यदुक्तं भवता। कुतइत्याह-तद्भवनस्यैव यद्भवनमेतत् तस्यैवेत्यर्थः । किमित्याह-तद्धेतुत्वात् अभवनहेतुत्वात् । कुत एतदेवमित्याशङ्क्याह-तद्भावभावि. त्वात् भवनभावभावित्वादभवनस्य । कस्तुच्छस्य भाव इत्याशङ्कापोहायाह-भावाभवनस्य तुच्छस्य, अभावभवनात् , एतदेव ह्यभावभवनं यद्भावाभवनमिति । एवं च तुच्छतया नीरूपतया, तद्भावसिद्धेरभव. नभावसिद्धेः, अभवनं च भावश्चेति विरुद्धम् । भाव एव नाश इति तु कथं न विरुद्धम् ? तत्क्षणस्थितिधर्मकत्वेन, अभवनमपि तत् कादाचस्कतयेत्यत एवाह-अन्यथा तन्नाशायोगादिति भवननाशायोगादिति।
न च तनिःस्वभावमेव, तुच्छज्ञेयस्वभावत्वात् , अन्यथा तज्ज्ञानानुपपत्तेस्तदेव न भवतीत्यज्ञातोक्तप्रसङ्गात्, तज्ज्ञानेनाभवनाज्ञानात्, कालभेदेन तदतत्वादिति । तस्यैव क्षणादूर्ध्वमभवनस्वभावत्वात् प्रत्यक्षेण तथाग्रहणाद् यथार्थ तत्मवृत्तेरभवनज्ञानादुक्तदोषाभाव इति चेत् । न, विहितोत्तरत्वात्, कालभेदेन तदतत्त्वात, अन्यथा तदनुपपत्तेः, भाविनश्चेन्द्रियेणाग्रहणात, अतिप्रसङ्गात्, नीरूपत्वाच्च । न चानेन कचिद्भवनवदभवनग्रहः, तथानिश्चयाभावात् । न च निरंशानुभवभावेऽपि विभ्रमात् तदभावः, भवननिश्चयस्याप्यभावापत्तेः। न च तन्निबन्धनानुभवे न विभ्रमः, तस्यैव तत्त्वात् । न चैकस्य कचिद् विभ्रमः, क. चिद् नेति, एकत्वविरोधात् । न चान्तेऽभवननिश्चयात् तद्गतिः, तत्रापि तदयोगात् । न च कपालभवननिश्चय एव घटाभवननिश्चयः, तदभवनस्य निरुपाख्यत्वात् । न च तद्द्वारेण, तेन तस्य प्रतिबन्धासिद्धेः। न च तदभवनधर्मकमेव कपालभवनम् , अनभ्युपगमात् । इति तत्तुच्छत्वेऽपि नश्वरत्वादिसिद्धिः । उत्पा
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org