________________
२६४
अनेकान्तजयपताका
तवो नाम ?। न हि रसादिभ्यः समानो रूपबुद्ध्याकारः, तथाननुभवात् , व्यवस्थानुपपत्तेश्च । नान्य एव तत्तद्भेदः, अपितु त एव तत्स्वभावा इति; अतस्त एव तद्धेतवो नान्ये, अतत्स्वभावत्वादिति चेत् । तेषामेवासौ स्वभाव इति कुतः। वहतुभ्य उपत्तेः । न, अन्येषामपि तत्प्रसङ्गात् , तेषामपि खहेतुभ्य एवोत्पत्तेः। न तथाविधेभ्यस्तेषां यथाविधेभ्य एषामिति चेत् । किमिदं तथाविधत्वम् ?। तुल्यकार्यकृज्जनकत्वम् । नेदं तत्तुल्यसामर्थ्य मन्तरेण । तदङ्गीकरणे चाङ्गीकृत एव मदीयोऽभ्युपगमः, अतुल्यसामर्थ्येभ्यस्तुल्यसमानजातीयकार्यानुत्पत्तेः, इन्द्रियादिषु तददर्शनात् । तदतुल्यसामर्थ्य निबन्धनमेतत् । अतोऽन्यत् तत्तुल्यसामर्थ्यकारणमिति सन्न्यायः। तुल्यसामर्थ्यमेव च नो भावानां समानपरिणाम इति परिभाव्यतामेतत् ॥ - तुल्येत्यादि तुल्यं च तत् सामानजातीयकार्य चेति विग्रहः, तदुत्पादयितुं शीलास्तुल्यसमानजातीयकार्योत्पादिनस्तेषाम् , अतत्कारिभेदः, इहाधिकारे, गृह्यत इति चेत् । एतदाशङ्क्याह- न, तस्य अतः कारिभेदस्य, तेभ्यस्तुल्यसमानजातीयकार्योत्पादिभ्यः,भेदा-ऽभेदविका ल्पानुपपत्तेः । एनामेवाह- भेद इत्यादिना । भेदे तुल्यसमानजातीयकार्योत्पादिभ्योऽतत्कारिभेदस्याभ्युपगम्यमाने, तेषां 'तुल्यसमान जातीयकार्योत्पादिनां भेदः' इत्येवं, संबन्धाभावः । कुत इत्याहन तादात्म्याद्यसिद्धेः तुल्यसमानजातीयकार्योत्पादिनामतत्कारिभेदख च तादात्म्याद्यसिद्धेः, आदिशब्दात् तदुत्पत्तिपरिग्रहः । असिद्धि भेदमात्रत्वात् कारणात् तादात्म्यासिद्धिः, वस्तुत्वापत्तश्च भेदर तदुत्पत्त्यासिद्धिः । द्वितीयविकल्पमधिकृत्याह- अभेदे तुल्यसमान जातीयकार्योत्पादिभ्योऽतत्कारिभेदस्याभ्युपगम्यमाने । किमित्याह | त एव ते तुल्यसमानजातीयकार्योत्पादिन एव ते केवलाः, तदतिरिक्तं किञ्चित् । इति- एवं, कथमसमानाः प्रकृत्या, तद्धता समानवुद्धथाकारहेतवो नाम ? । एतदेव प्रकटयति- नेत्यादिना ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org