________________
१४
अनेकान्तजयपताका
अतिदेशेन दूषणान्तरमाह-एतेनेत्यादिना। एतेनानन्तरादितेन सदसद्रूपतानिराकरणेन, नित्यानित्यमपि वस्तु, प्रत्युक्तं निराकृतम् ,अवगन्तव्यम् । कुत इत्याह-विरोधादेव । एतद्भावनायैवाह- तथाहीत्यादि । तथाहीत्युपदर्शने । अप्रच्युतः अनिवृत्तिस्वभावतया, अनुत्पन्नः सदाभावेन स्थिर एवंरूपतया एकः स्वभावो यस्य तत्तथाविधं नित्यमाख्यायते । अथवैवं विशेषणसाफल्यम्- एकस्वभावं नित्यमाख्यायत इत्युक्ते क्षणस्थितिखभावमप्येकखभावं भवति, तद्व्यवच्छेदार्थ स्थिरग्रहणम्। स्थिरैकस्वभावमपि मुक्तवस्तु कैश्चिन्नित्यमिष्यत इति तद्व्यवच्छेदार्थमनुत्पन्नग्रहणम् । अनुत्पन्नस्थिरैकस्वभावमपि स्वप्रच्युतिसमयं यावत्कैश्चिनित्यमिष्यत इति तद्व्यवच्छेदार्थमप्रच्युतग्रहणमिति । प्रकृत्येत्यादि । प्रकृत्या स्वभावेन, एकक्षणस्थितिधर्मकं चानित्यमित्यनियमाख्यायते । ततश्च तद्वस्तु यदि नित्यं कथमनित्यम् ? , अनित्यं चेत्कथं नित्यमिति ?, विरोधात् । स्यादारकेत्यादि । स्यादारेका स्यादाशङ्का, नहि नैव, कूटस्थनित्यतयैकरूपतया, नित्यं द्रव्यमभ्युपगम्यतेऽस्माभिः । कुत इत्याहपरिणामानित्यताभ्युपगमात् कारणात् । किन्वेवं नित्यमभ्युपगम्यतइत्याह- पूर्वोत्तरक्षण विभागेन अयं पूर्वः, अयमुत्तरः, अयमनयोः प्रविभागोऽत्यन्तभेदरूप इत्येवंभूतेन, प्रबन्धवृत्त्या हेतुभूतया । नह्यस्य द्रव्यस्य, पर्यायाणामिवोच्छेदः पूर्वोत्तरक्षणप्रविभागेन । कुत इत्याहतद्रूपेण द्रव्यरूपेण, तथाऽप्रतीतेः उच्छेदेनाप्रतीतेः प्रबन्धवृत्त्या । अथवा तद्रूपेण द्रव्यरूपेण, तथाप्रतीतेरनुच्छेदेन प्रतीतेः । एवं च पर्याया एव यस्मात्तत्तत्क्षणस्थितिखभावतया पर्यायरूपेण निरुध्यन्ते विनश्यन्ति । न तु द्रव्यं तत्तत्स्वभावतया तन्निरोधबीजम्, इत्येवं नित्यमभ्युपगम्यते अनित्यतानुविद्धं तदाधारभूतमित्यर्थः । एतदाशङ्कयाह- इयमप्ययुक्ता आरेका, यस्मादेषाप्यनन्तरोदिता, अत्र द्रव्ये, नित्यता न सम्भवति । कुतइत्याह-पर्यायव्यातरिक्तस्य द्रव्यस्यासिद्धेः स्वतः परतश्च । एतदेवाहतथाहीत्यादिना । तथाहि-न पर्यायव्यतिरिक्तं द्रव्यमस्ति । तथानुभवाभावात् न हि पिण्डशिवकादिव्यतिरिक्तं मृद्रव्यमनुभूयते । व्यतिरिक्त
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org