________________
खोपाटीकासहिता। भावे वा पर्यायेभ्यो द्रव्यस्य, अनेकरूपमेकं वस्त्वितिवादहानिप्रसङ्गः द्वयोरप्येकैकत्वादिति । तथा चोक्तमिति ज्ञापकमाह- पर्यायेत्यादि । पर्यायाभेदतः कारणात्, आनित्यं द्रव्यं स्यात्तत्स्वरूपवत् पर्यायस्वात्मवत्। स्याद्वादविनिवृत्तिश्चानेकान्तहानिश्च, नानात्वे सम्प्रसज्यते द्रव्यपर्याययोः। व्यतिरिक्ताऽव्यतिरिक्तपक्षस्त्वनयोः, विरोधाघ्रात्वाद्धेतोः, न्यायबहिर्भूतत्वादनुद्धोष्य एवेति ॥
एतेन सामान्यविशेषरूपमपि प्रतिक्षिप्तमवगन्तव्यम् , तथाहिएकादिधर्मकं सामान्यम् , अनेकादिधर्मका विशेषाः। ततश्च तद्यदि सामान्यरूपं कथं विशेषरूपम् ?, विशेषरूपं चेत्कथं सामान्यरूपमिति ११ विरोधात् ॥
अतिदेशेनैव दोषान्तरमाह- एतेनेत्यादिना । एतेन नित्यानित्यनिराकरणेन, सामान्यविशेषरूपमपि वस्तु, प्रतिक्षिप्तमवगन्तव्यम् । एतदेव योजयति- तथाहीत्यादीना । तथाहि-एकादिधर्मकं सामान्यम् , "एकं नित्यं निरवयवमक्रियं सर्वगतं च सामान्यम्" इति वचनात् । अनेकादिधर्मका विशेषा अनेके अनित्या इत्यादि । ततश्च तद्वस्तु, यदि सामान्यरूपं कथं विशेषरूपम् ?, विशेषरूपं चेत्कथं सामान्यरूपम् ?, इत्येवं विरोधात् प्रतिक्षिप्तमवगन्तव्यमिति ॥ .. किश्च । सामान्यविशेषोभयरूपत्वे सति वस्तुनः सकललोकप्रसिद्धसंव्यवहारनियमोच्छेदप्रसङ्गः । तथाहि--विषमोदकक्षीरककांदिव्यक्त्यभिन्नमनानास्वभावमेकं सामान्य वर्त्तते, ततश्च न विषं विषमेव मोदकाद्यभिन्नमामान्याव्यतिरेकात्। नापि मोदको मोदकएव विषाभिन्नसामान्याभेदात् । किं तर्हि, उभयमप्युभयरूपम् । ततश्च विषार्थी विषे प्रवर्तेत मोदके च, एवं मोदकार्थ्यपि मोदके भवर्तेत विषे च । लोकश्च विषार्थी विष एव प्रवर्तते न मोदके, मोदकार्थ्यपि मोदक एव न विषे, इत्यस्य नियमस्योच्छेदः स्यात्। तथा विषे भक्षिते मोदकोऽपि भक्षितः स्यात् , मोदके च 'भक्षिते विषमपि भक्षितं स्यात् , तथा च प्रतीतिविरोधः, एवं
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org