________________
अनेकान्तजयपताका
क्षीरकर्कादिष्वपि योज्यम् । स्यादेतत् विषादिषु विशेषरूपताप्यस्त्येव, सा तदर्थिनो नियमेन प्रवृत्तेर्षीजम् , तद्भक्षणे च नान्यभक्षणं स्यादिति । एतदप्ययुक्तम् । विकल्पानुपपत्तेः, विशेषरू. पता हि सामान्यायतिरिक्ता वा स्यात् , अव्यतिरिक्ता वा। अव्यतिरिक्तत्वे तत्स्वरूपवन तस्यास्तत्त्वम् । व्यतिरिक्तत्वे च तदर्थप्रवृत्तिविषयत्वात् तस्या एवं वस्तुता । व्यतिरिक्ताव्यतिरिक्तति चेत् , नन्वेवं विरोध इति त्यज्यतामुभयरूपवस्तुवादाभिमानः । तथा चोक्तम्“प्रवृत्तिनियमो न स्याद्विषादिषु तर्थिनः । मोदकाद्यपृथग्भूतसामान्याभेदत्तिषु ॥ १॥ भेदे चोभयरूपैकवस्तुवादो न युज्यते । भेदाभेदविकल्पस्तु विरोधेनैव बाधितः ॥ २ ॥ विशेषरूपं यत्तेषु तत्प्रवृत्तेर्नियामकम् ।
साध्वेतत्किन्तु वस्तुत्वं तस्यैवेत्थं प्रसज्यते" ॥ ३ ॥ इहैवाभ्युञ्चयमाह-किञ्चेत्यादिना। किञ्च । सामान्यविशेषोभयरूपत्वे सति वस्तुनः। किमित्याह- सकललोकप्रसिद्धो यः संव्यवहारनियमस्तदुच्छेदप्रसङ्गः । तद्भावनार्यवाह-तथाहीत्यादि । तथाहीत्युपप्रदर्शने । विषमोदकक्षीरकर्कादिव्यक्तिभ्यः कर्कोऽश्वविशेषः, आदिशब्दाद्गजादिव्यक्तिग्रहः, अभिन्नमव्यतिरिक्तम् , अनानास्वभावमचित्रस्वभावम्, एकं सामान्य वर्त्तते । यदि नामैवं ततः किमित्याहततश्च न विषं विषमेवैत ततः । मोदकाद्यभिन्नसामान्याव्यतिरेकाकारणाद्विषस्य । नापि मोदको मोदक एव नियतरूपेण, विषाभिन्नसामान्याभेदान्मोदकस्य । किं तर्हि, उभयमपि विषमोदकलक्षणम् , उभयरूपं शबलम् , इतरेतराभिन्नसामान्याभेदेन विषमोदकरूपमित्यर्थः । ततश्च विषार्थी जनः, विष प्रवत्तेत मोदके च, तत्त्वत उभयोस्तुल्यत्वात् । एवं मोदकायपि मोदके प्रवर्तत विषे च, भावना पूर्ववत् । न चैतदेव
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org