________________
खोपाटीकासहिता। मित्याह- लोकश्च विषार्थी विष एव प्रवर्तते नियमेन, न मोदके । मोदकार्थ्यपि मोदक एव प्रवर्त्तते, न विषे; इत्येवमस्य नियमस्य प्रवृत्तिगोचरस्य, उच्छेदः स्यानिमित्ताभावात् । तथा विषे भक्षिते मोदकोऽपि भक्षितः स्यात्, मोदके च भक्षिते विषमपि भक्षितं स्यात् । तथा च प्रतीतिविरोध इत्थं लोकेऽप्रतीतेः । एवमित्यादि । एवं क्षीरकर्कादिध्वपि योज्यं न क्षीरं क्षीरमेवेत्यादिना । स्यादेतदित्यादि । अथैवं मन्यसे-विषादिषु विशेषरूपताप्यस्त्येव, सा विशेषरूपता, तदर्थिनो विषाद्यर्थिनो, नियमेन प्रवृत्तेविषादिगोचरायाः, बीजम् ; तद्भक्षणे च विषादिभक्षणे च, नान्यभक्षण स्यान्मोदकादिभक्षणं स्यादिति । एतदप्ययुक्तम् । कुत इत्याह-विकल्पानुपपत्तेः । एतामेव दर्शयन्नाह-विशेषरूपता हि विषादिसंबन्धिनी, सामान्याद्यथोदितात्, व्यतिरिक्ता वा स्यादव्यतिरिक्ता वा । किश्चात इत्याह- अव्यातिरिक्तत्वे सामान्यान् , तत्स्वरूपवत् सामान्यस्वरूपवत् , न तस्या विषादिविशेषरूपतायाः, तत्त्वं विशेषरूपत्वं सामान्याऽव्यतिरेकादित्यर्थः । व्यतिरिक्तत्वे च विषादिविशेषरूपतायाः सामान्यात्, तस्या एव विशेषरूपतायाः, वस्तुतेति योगः। कुत इत्याह- तदर्थप्रवृत्तिविषयत्वात् । तस्या एवार्थक्रियाकारित्वादित्यभिप्रायः । व्यतिरिक्ताव्यतिरिक्तेति चेत् सामान्याद्विशेषरूपतेति प्रक्रमः । एतदाशङ्कयाह- नन्वेवं व्यतिरिक्ताऽव्यतिरिक्ताऽङ्गीकरणे विरोध इति कृत्वा त्यज्यतामुभयरूपवस्तुवादाभिमानः असारत्वादस्येत्यभिप्रायः। तथा चोक्तमिति ज्ञापकमाह-प्रवृत्तीत्यादिना। प्रवृत्तिनियमस्तदन्यव्यवच्छेदेन तत्रैव, न स्याद्विषादिषु पदार्थेषु । कस्येत्याह- तदर्थिनः विषाद्यर्थिनः । किंविशिष्टेषु विषादिषु अत्राह-- मोदकायपृथग्भूतसामान्याभेदवृत्तिषु । मोदकाद्यपृथग्भूतं यत् सामान्य तदभेदेन ये वर्तन्त इत्यर्थः । भेदे चेत्यादि । भेदे च सामान्यादमीषामिष्यमाणे । किमित्याह-- उभयरूपैकवस्तुवादो न युज्यते । उभयरूपमेकं वस्त्वित्येवंभूतो वादो न घटते, द्वयस्यापि प्रत्येकमेकैकत्वादिति भावः । भेदाभेदविकल्पस्तु प्रक्रमात्सामान्यविशेषयोः, विरो
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org