________________
१८
अनेकान्तजयपताका
धेनैव बाधितो यदि भेदः कथमभेद इत्यादिना । विशेषेत्यादि । विशेषरूपं यत्तेषु विषादिषु, तत्प्रवृत्तेर्नियामकं तद्विषयायाः । साध्वेतदनन्तरोदितम् , किन्तु वस्तुत्वं परमार्थसत्त्वं, तस्यैव विषादिविशेषरूपस्य, इत्थमेवं, प्रसज्यत इति ॥ तथा परेणाप्युक्तम्
"सर्वस्योभयरूपत्वे तद्विशेषनिराकृतेः । चोदितो दधि खादेति किमुष्टं नाभिधावति ?" ॥१॥ तथाहि-उष्ट्रोऽपि स्यात् दधि, नापि स एवोष्ट्रः, येनान्योऽपि स्यादुष्ट्रः, तथा दध्यपि स्यादुष्टः, नापि तदेव दधि, येनान्यदपि स्याद् दधि । तदेवमनयोरेकस्यापि कस्यचित् तद्रूपाभावस्याभावात्, स्वरूपस्य वाऽतद्भाविनः स्वनियतस्याभावात् न कश्चिद्विशेषइति, लतश्च दधि खादेति चोदित उष्ट्रमपि खादेत् ।
"अथास्त्यतिशयः कश्चियेन भेदेन वर्तते । स एव दधि सोऽन्यत्र नास्तीत्यनुभयं परम्" ॥१॥
अथानयोः कश्चिदतिशयोऽस्ति, येनायं तथाचोदितः क्षीरविकार एव प्रवर्तते, नान्यत्र; एवं तर्हि स एवातिशयोऽर्थक्रियार्थिप्रवृत्तिविषयो दधि । तंत्फलविशेषोपादानभावलक्षितस्वभावं हि वस्तु दधीति, स च तादृशः स्वभावोऽन्यत्र नास्ति, प्रवृत्यभावादर्थिनः । तस्मान्नोभयरूपमित्येकान्तवादः॥ __ तथा परेणाप्युक्तं एतदेव, इति दर्शयति- सर्वस्येत्यादिना । सर्वस्य वस्तुनः, उभयरूपत्वे सामान्यविशेषरूपत्वे, उभयग्रहणमनेकत्वोपलक्षणम् । अस्मिन् सति किमित्याह-- तद्विशेषनिराकृतेः। तद्विशेषस्य उष्ट्र उष्ट्र एव, न दधि; दधि दध्येव, नोष्ट्रः; इत्येवलक्षणस्य, निराकृतेः इतररूपावेशेन निराकरणात् । चोदितो दधि खादति दधि खादेत्येवं चोदितः पुरुषः, किमुष्ट्र नाभिधावति खादितुं ?, तस्य कथंचिद्दध्नोऽप्यभेदात्। यद्वा, सामान्येनैव किमुष्ट्र नाभिधावति ?, वादनक्रियाया
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org