________________
खोपज्ञटीकासहिता।
अपि कश्चिदभिधावनक्रिमाऽव्यतिरेकादिति । तथाहीत्यादि विवरणम्। तथाहीत्युपप्रदर्शने। उष्ट्रोऽपि स्यादधि केनचित्प्रकारेण दधि, न तदमावानुविद्ध इत्यर्थः। नापि स एवोष्ट्र एव, उष्ट्रः स्वरूपनियत एकान्तेन । येनान्योऽपि दध्यादिकः, स्यादुष्ट्रो भवेदुष्ट्रः, उभयरूपतया; अथवा स्यादुष्ट्र इत्यभ्युपगमयुक्तिः । तथा दध्यपि स्यादुष्ट्रः केनचित्प्रकारेणोष्ट्रः, न तदभावानुषक्तमिति भावः । नापि तदेव दध्येव, दधि स्वभावनियतं सर्वथा। येनान्यदप्युष्ट्रादिकं, स्यादधि । एतेन सर्वस्योभयरूपत्वं व्याख्यातम् ; तद्विशेषनिराकृतेरियेतत् तदेवमनयोरित्यादिना व्याचष्टे । उभयथा हि ध्युष्ट्रयोविशेषः स्यात्-दधिरूपाभावो वा उष्ट्रो भवेत्, उष्ट्रस्वरूपं वा दध्यसंभव्युष्ट्रस्वरूप एव नियतं स्यात् । एवं दध्यपि वाच्यम् । आद्यस्य तावदसंभवः तदित्यादिना कथ्यते । तदेबमनयोर्दध्युष्ट्रयोः, न कश्चिद्विशेष इति संबन्धः । एकस्यापीति दनः, उष्ट्रस्य वा; कस्यचित् । तद्रूपाभावस्येति उष्ट्ररूपाभावस्य, दुधिरूपाभावस्य वा; अभावात् । द्वितीयस्यापि प्रकारस्याभावमाहस्वरूपस्येत्यादिना । स्वरूपस्य वोष्ट्रस्वरूपस्य अतद्भाविनो दध्यभाबिनः, उष्ट्राभाविनो वा दधिस्वरूपस्य; स्वनियतस्य उष्ट्रभावनियतस्य, दधिभावनियतस्य वा; अभावान्न कश्चिद्विशेषः संकीर्णतया दध्युष्ट्रयोः । ततः किमित्याह- ततश्च दधि खादेति चोदिते सति उष्ट्रमपि खादेत् खादेति चाभिधावनोपलक्षणमेतत् । अथेत्यादि । अथास्ति दध्युष्ट्रयोः, अतिशयः कश्चित् येनातिशयेन, दधि खादेति चोदितः पुरुषो भेदेन वर्त्तते उष्ट्रपरिहारेण दनि । स एवातिशयः, दधि; सोऽन्यत्रोष्ट्रे, नास्तीत्यनुभयं विभक्तरूपस्वरूप सर्व वस्तु, तदेव च परं परमार्थः, एकत्वं तु कल्पितम् । दध्नो वा परमुष्ट्रादिकमनुभयरूपमिति व्याख्येयम् । अथानयोः कश्चिदतिशयोऽस्ति, अनयोरिति दध्युष्ट्रयोः। येनाय पुरुषः, तथाचोदित इति दधि खादेति चोदितः, क्षीरविकार एव दन्नि, प्रवर्त्तते नान्यत्रोष्टे, एवं तार्ह स एवातिशयोदधीति संबन्धः। किंभूत इत्याह-अर्थक्रियार्थिप्रवृत्तिविषयो दधिसाध्या
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org