________________
अनेकान्तजयपत्ताका
या अर्थक्रिया तया योऽर्थी पुरुषस्तस्य प्रवृत्तिविषयः । किं कारणम्तत्फलेत्यादि । दनैव साध्यत्वात्तत्फलविशेषः स चासौ फलविशेषश्वेति विग्रहः तस्योपादानभावो हेतुभावः तेन लक्षितः स्वभावो यस्य वस्तुनः तदेव धीति कृत्वा। स च तादृश इत्यनन्तरोक्तो दधिस्वभावः, अन्यत्रेत्युष्ट्रे नास्ति । कस्मादित्याह- प्रवृत्त्यभावादर्थिनः । दध्यर्थिन उष्ट्रे । तस्मान्नोभयरूपं वस्तु, इत्येकान्तवादः । अयं च परोदितो ग्रन्थः अर्थादुक्तोऽप्युपन्यस्तः, सांप्रतकालीयप्रन्थकारशैल्या स्पष्टतरं वा तथाऽभिधाय पुनः पराभ्युपगमप्रदर्शनार्थमिति ॥
किञ्च । सर्ववस्तुशबलवादिनः कचिदन्याऽसंसृष्टाकारबुद्धधसिद्धस्तथावाचकाभावात् संहारवादानुपपत्तिः, तत्सिद्धौ वा तत एव तत्स्वभावभेदात् तदेकरूपतैवेति । तथा चोक्तम्
“सर्वात्मत्वे च भावानां भिन्नौ स्यातां न धीध्वनी ।
भेदसंहारवादस्य तदभावादसम्भवः" ॥१॥ सोऽयमनेकान्तवादी कचिदप्येकमाकारं प्रतिनियतमपश्यविभागाभावाद्भावानाम् , कथमसंसृष्टान्याकारवत्या बुद्धयाऽधिबुध्येतार्थान् , अभिलपेद्वा ?। ततो भेदाग्रहणात् तत्संहारवादोन स्यात् स्यादुष्ट्रो दाधि स्यानेति । अथ पुनरसंसृष्टावाकारौ प्रतिपद्य संहरेत् , एकरूपसंसर्गिण्या बुद्धः कचित्पतिनियमात् तत्मतिभासभेदकृत एव तयो रूपयोः स्वभाव भेदोऽपि स्यात् , एकानेकव्यवस्थितेः प्रतिभासविषयत्वात् । तथा च नैकस्तदुभयरूपः स्यादिति मिथ्यावाद एषः॥ ___ अधिकृत एवाभ्युश्चयमाह-किश्वेत्यादिना । किञ्चायमपरो दोषःसर्ववस्तुशबलवादिनोऽनेकान्तवादिनः, कचिद्वस्तुन्युष्ट्रादौ, अन्यासंसष्टाकारबुद्ध्यसिद्धेः दध्याद्यसंसृष्टाकारबुद्ध्यसिद्धेः शबलतया । तथा अन्यासंसृष्टाकारत्वेन, वाचकाभावात्प्रवृत्तिनिमित्ताभावेन शब्दाप्रवृत्तेः।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org