________________
खोपज्ञटीकासहिता।
किमित्याह-संहारवादानुपपत्तिः संहारवादः स्यादुष्ट्रो दधीत्यादिकः । तसिद्धौ वा कचित्, अन्यासंसृष्टाकारबुद्ध्यादिसिद्धेरेव तत्स्वभावभेदात् तस्य वस्तुन उष्ट्रादेः स्वभावभेदात् तमन्तरेणान्यासंसृष्टाकारबुख्याद्यसिद्धेः, तदेकरूपतैव तस्योष्ट्रादेवस्तुन एकरूपतैव, इति न संहारवादो वास्तवः । तथा चोक्तमिति पराभ्युपगमं दर्शयति-सर्वात्मत्वे चेत्यादिना । सर्वात्मत्वे च भावानामुष्ट्रादीनां, भिन्नौ स्यातां न धीध्वनी झानं शब्दश्च नियताएँ न स्याताम् । भेदसंहारवादस्य तदेकीकरणलक्षणस्य, तदभावात् भिन्नधीध्वन्यभावात् , असंभवः; भेदेन गृहीतयोः, श्रुतयोर्वैकत्वेनोपसंहारो भवति, स्यादुष्ट्रो दधीत्यादि, नान्यथा। तदेतत् सोयामित्यादिना व्याचष्टे-सोयमनेकान्तवादी सर्ववस्तुशबलवादी, कचिदप्युष्ट्र, दनि वा; एकमाकारं प्रतिनियतमितररूपव्यवच्छिमम्, अपश्यन् । अदर्शने निमित्तमाह-विभागाभावाद्भावानां शबलरूपतया इतरेतररूपापत्तेः। किमित्याह-कथमित्यादि कथं केन प्रकारेण । असंसृष्टान्याकारवत्येति । असंसृष्टोऽन्याकारो यस्मिन्नर्थे स तथोक्तः, स यस्या बुद्धरस्ति, सा असंसृष्टान्याकारार्थवती विभक्तार्थपाहिणीति यावत् तया; वुद्ध्या एवंभूतया, अधिबुध्येतार्थान् सम्यग जानीयात् , अभिलपेद्वा ध्वनिना । ततो भेदाग्रहणात् एवं विशेषानुपलब्धेः कारणात् , संहारवादो भेदसंहारवादो, न स्मात् । किंभूत इत्याहस्यादुष्ट्रो दधि स्यान्नेति । अथ पुनरसंसृष्टावसङ्कीर्णी, आकारौ दध्युष्ट्रयोः प्रतिपद्य संहरेत् स्यादुष्ट्रः स्याद्दधीति । ततः किमित्याह-एकरूपसंसर्गिण्या उष्ट्ररूपेणैव, दधिरूपेणैव वा संबन्धवत्या; बुद्धेः क्वचिदुष्ट्रे, पनि वा; प्रतिनियमात्कारणात् , तत्प्रतिभासभेदकृत एव बुद्धिप्रतिभासभेदकृत एव, तयो रूपयोर्दध्युष्ट्रसंबन्धिनोः । किमित्याह- स्वभावभेदोऽपि स्यात्। कुत इत्याह- एकानेकव्यवस्थितेः इदमेकमिदमनेकअवंभूतायाः, प्रतिभासविषयत्वात् एकप्रतिभासालम्बनमेकम् , अनेमातिभासालम्बनं चानेकम् , भिन्नप्रतिभासविषयौ च दध्युष्ट्रौ । तथा सति नैक उष्ट्रो, दधि वा; तदुभयरूपः स्यात् तदुभयं दध्युष्ट्रोभयं
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org