________________
अनेकान्तजयपताका
रूपमस्येति विग्रहः । इत्येवमनेन प्रकारेण मिथ्यावाद एष स्याद्वाद इति । अत्रापि सामान्येनार्थमभिधाय परग्रन्थोपन्यासो विदितप्रयोजन एव । ____एवमभिलाप्याऽनभिलाप्यमपि विरोधबाधितत्वादेवानुद्घोष्यम् । तथाहि-अभिलप्यते यत्तदभिलाप्यम्, एतद्विलक्षणं चानभिलाप्यमिति । ततश्च यदि तदभिलाप्यं न तीनभिलाप्यम्, अनभिलाप्यं चेत् न त भिलाप्यमिति; एकस्यानेकविरुद्धधर्मानुगमाभावात् । किञ्च । विरोधिधर्माध्यासितस्वरूपत्वाद्वस्तुनोऽनेकान्तवादिनो मुक्त्यभावप्रसङ्गः । तथाहि-एतदात्माननाभवनमणिकनकधनधान्यादिकमनात्मकम् , अनित्यम्, अशुचि, दुःखमिति कथञ्चित् विज्ञाय , भावतस्तथैव भावयतो वस्तुतस्तत्राभिष्वङ्गास्पदाभावाद्भावनाप्रकर्षविशेषतो वैराग्यमुपजायते, ततो मुक्तिः । तथाहि-आत्मात्मीयदर्शनमेव मोहः, तत्पूर्वकएव आत्मात्मीयस्नेहो रागः, तत्पूर्विकैवानुरागविषयोपरोधिनि प्रतिहतिष इति कृत्वा । यदा तु तदात्माङ्गनादिकं सात्मकाद्यपि, तदा यथोक्तभावनाभावात् भावेऽपि मिथ्यारूपत्वात् वैराग्याभावः, तदभावाच्च मुक्त्यभाव इति ॥
एवमित्यादि । एवमभिलाप्यानभिलाप्यमपि वस्त्विति प्रक्रमः । विरोधबाधितत्वादेव कारणात् , अनुद्घोष्यमनुच्चारणीयम्। एतदेवाहतथाहीत्यादिना । तथाहीत्युपप्रदर्शने । अभिलप्यते व्यक्तमुच्यते, यद्वस्तु, दाभलाप्यम् , तद्विलक्षणं चानभिलाप्यमिति । ततः किमित्याह- ततश्चेत्यादि । एवं च सति यदि तदभिलाप्यं न तनभिलाप्यम् , अनभिलाप्यं चेन्न तभिलाप्यमिति । एकस्य वस्तुनः, अनेकविरुद्धधर्मानुगमाभावादिति । किञ्चेत्यादि । किञ्चायमपरो दोषः-विरोधिधर्माध्यासितस्वरूपाद्वस्तुनः सर्वस्यैव, अनेकान्तवादिनो वादिनः, मुक्त्यभावप्रसङ्गः । कथमित्येतदभिधातुमाह-तथाहीत्यादिना।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org