________________
स्वोपज्ञटीकासहिता।
२३
तथाहि-एतदध्यक्षसमधिगन्तव्यम् , आत्माङ्गनाभवनमणिकनकधनधान्यादिकं वस्तु, अनात्मकं परपरिकल्पितात्मशून्यं, अनित्यम् , अशुचि, दुःखम् , स्वरूपतो हेतुतश्च; इत्येवं कथञ्चित्तत्स्वभावतया हेतुपरम्परातो विशिष्टक्षणोत्पादेन, विज्ञाय श्रुतमय्या प्रज्ञया, भावतः परमार्थेन, तथैव भावयतोऽभ्यस्यतः, वस्तुतः परमार्थेन, तत्र वस्तुनि, अभिष्वङ्गास्पक्षमावात् अनात्मकत्वादिना । किमित्याह- भावनाप्रकर्षविशेषतोऽभ्यासप्रकर्षविशेषतः अभ्यासप्रकर्षविशेषादित्यर्थः, वैराग्यमुपजायते । ततो वैराग्यात, मुक्तिर्नान्यथा । तथाहीत्यादि। तथाहि-आत्माऽऽत्मीयदर्शनमेव मोहः विपर्ययरूपत्त्वात् , तत्पूर्वक एवात्मात्मीयदर्शनपूर्वकएव, आत्मीयस्नेहो रागः, तत्पूर्विकैवात्मीयस्नेहपूर्विकैव, अनुरागविषयोपरोधिनि वस्तुनि, प्रतिहतिष इति कृत्वा सर्वमुपपद्यते। विपक्षे दोषमाहयदा तु तदात्माननादिकं वस्तु, सात्मकाद्यपि शबलरूपतया सात्मकं, नित्यं, शुचि, सुखमित्यपि, तदा किमित्याह- तदा यथोक्तभावनाऽभावात् वस्त्वन्यथात्वेन, भावेऽपि मिथ्यारूपत्वाद्भावनायाः। अत एव हतोवैराग्याभाव उपायाभावेन । तदभावाच्च वैराग्याभावाच्च, मुक्त्यभावः तत्पूर्वकत्वान्मुक्तेरिति ॥
स्यादेतत्किमनेनेत्थमसम्भविना मुग्धविस्मयकरेण भावनावादेन । कृत्स्नकर्मक्षयान्मोक्षः, स च कायसन्तापलक्षणेन तपसा प्रागुपात्तकर्मनिर्जरणतः, अनागतस्य चाकरणेनेति । एतदप्यसत् । कायसन्तापस्य कर्मफलत्वात् नारकादिकायसन्तापवत्तत्त्वतस्तपस्त्वायोगात् । न स्वेच्छाप्रतिपत्त्या तपस्त्वम् , स्वेच्छापतिपत्तिमद्राज्यसुखादेरपि तपस्त्वप्रसङ्गात् । अभ्युपगमे च प्रतीत्यादिविरोधः । तथाविधराज्यादिसुखभोगे प्रमादतोऽपरबन्ध इति चेत् , स कायसन्तापे नन्वार्तध्यानादपि तुल्यः । __ स्यादेतदित्यादि । स्यादेतत् किमनेनानन्तरोदितेन, इत्थमसम्भावना एवमात्माद्यभावेनासंभविना, मुग्धविस्मयकरेणानालोचकविप्रयकरणशीलेन, भावनावादेनानुपाय एष मोक्षस्य । कुत इत्याह
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org