________________
२४
अनेकान्तजयपताकाकृतकर्मक्षयान्मोक्षः । कृतमशेष, कर्म ज्ञानावरणीयादि, क्षय आस्था तिकः संबन्धाभावः, अस्मान्मोक्ष इति । स च कृनकर्मक्षयः, कायस न्तापलक्षणेन तपसा षष्ठाष्टमादिलक्षणेन,प्रागुपात्तकर्मनिर्जरणतः पूर्वोपा त्तकर्मनिर्जरणात्कारणात्, अनागतस्य च कर्मणोऽकरणेन भवतीति शेषः। एतदाशङ्कयाह- एतदप्यसत् अशोभनम् । कुत इत्याह- कायसन्तापस्य षष्ठाष्टमादेः, कर्मफलत्वात् औदयिकभावरूपत्वात् । ततः किमि त्याह- नारकादिकायसन्तापवदिति दृष्टान्तः, तत्त्वतः परमार्थेन, तपस्त्वायोगात् । आशङ्काशेषपरिहारार्थमाह-नेत्यादि । न स्वेच्छाप्रति पत्त्या नारकाद्यपोहेन, तपस्त्वं कायसन्तापस्य, स्वेच्छाप्रतिपत्तिमद्राज्य सुखादेरपि, आदिशब्दाद्भोगसुखग्रहः, तपस्त्वप्रसङ्गात् । स्वेच्छाप्रति पत्तिौंदयिकभावत्वेऽपि तपस्त्वे निमित्तमिति कृत्वा, अभ्युपगमे च स्वेच्छाप्रतिपत्तिमद्राज्यसुखादेरपि तपस्त्वस्य । किमित्याह- प्रतीत्यादिविरोधः। न हि स्वेच्छाप्रतिपत्तिमद्राज्यसुखादि तप इति प्रतीतिः, आदिशब्दान्न चैवमभ्युपगम इत्यभ्युपगमविरोधश्च । इहैवाऽतपस्ले निमित्तमाह-तथाविधेत्यादिना । तथाविधराज्यादिसुखभोगे स्वेच्छाप्रतिपत्तिमद्राज्यादिसुखभोगे सति, प्रमादतः प्रमादात्कारणात् , अपरबन्धः अन्यकर्मबन्धः; अतो नेदं तप इति हृदयम्, इति चेत् । एतदा: शङ्क्याह- स इत्यादि। सोऽपरबन्धः, कायसन्तापे तपसि सति, प्रमादत इव नन्वार्तध्यानादपि तुल्यः समान एव, अतो नायमपि तप इत्यभिप्रायः॥
चित्रशक्तिकं च कर्म, तुच्छभोगमहाभोगकायसन्तापव्याध्यारोग्यादिचित्रफलदर्शनात् ; तन्न कायसन्तापमात्रात् चित्रशक्तिकस्यास्य क्षय उपपद्यते, अतिप्रसङ्गात् , आह्लादादपि तत्क्षयापत्तेः; दुःख्येव चैवं तपस्वी स्यात् । न चैतदुपपन्नम्। अभ्युपगमादिविरोधात् , अतपस्विनश्चैवं योगिनः स्युः, कायसन्तापाभावात् । न चैतदपि न्याय्यम् । अभ्युपगमादिविरोधादेव । अथ न कायसन्तापस्तप इति, अपि त्वन्यदेव हन्त ! एवमापि न
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org