________________
खोपज्ञटीकासहिता।
२४१ खलु भेदो भेदहेतुर्वा भावानां यदुत विरुद्धधर्माध्यासः कारणभेदश्वेत्युक्तिमात्रम् , भावार्थशून्यत्वात् , सामग्रययोगात् , समग्रेभ्यस्तद्भेदाभेदासिद्धेः, तस्वतः समग्रमात्रत्वात् । तदुपादानादिभेदेन तद्भेद इति चेत् । न, तत्स्वभावभेदमन्तरेण तदसिद्धेः, तद्भेदे चानेकस्वभावतापराधः; अन्यथोभयोस्तुल्यतापत्तेस्तकार्ययोरपि तुल्यता, सामस्त्येनोभयजनमस्वभावादुमयादुभयप्रसूतेः, तत्तथात्वकल्पनायास्तद्वैचित्र्यापादनेनायोगात् । इति प्रपश्चितमेतदन्यत्र, नेह प्रतन्यते । इति परमते सहकारासिद्धेरशोभनस्तदुपन्यास इति परिचिन्त्यतामेतत् ॥
. दोषान्तरमाह- हेतुभेदात् सकाशात् फलभेद इति चापन्यायः, तथानेकैकभावेन । तथा च सति 'अयमेव खलु भेदो भेदहेतुर्वा भावानां, यदुत-विरुद्धधर्माध्यासो भेदः, कारणभेदश्च भेदहेतुः' इत्युक्तिमात्रम् । कुत इत्याह- भावार्थशून्यत्वात् । भावार्थशून्यत्वं च सामग्रययोगात् । अयोगश्च समग्रेभ्यः सकाशात्, तद्भेदाभेदासिद्धेस्तस्याः सामग्रया भेदाभेदाभ्यामसिद्धेः, तत्त्वत: परमार्थतः, समग्रमात्र. त्वात् सामग्रथा इति । तदुपादानादिभेदेन- तेषां समग्राणामुपादाननिमित्तभेदेन, तद्भेदः सामग्रीभेदः तथाहि-रूपा-ऽऽलोकादिसामग्ऱ्यामेकत्र रूपमुपादानमालोकादयो निमित्तम् , अपरत्रालोकादय उपादानं रूपं निमित्तमिति सामग्रीभेद इति चेत् । एतदाशङ्कयाह-नेत्यादि । न नैतदेवम् । कुत इत्याह- तत्स्वभावभेदमन्तरेण तेषां समग्राणां स्वभावभेदमन्तरेण, तदसिद्धेः सामग्रीभेदासिद्धेः; उक्तं च
"रूपं येन स्वभावेन रूपोपादानकारणम् । निमित्तकारणं ज्ञाने तत् तेनान्येन वा भवेत् ? ॥ १ ॥ यदि तेनैव विज्ञानं बोधरूपं न युज्यते ।
अथान्येन, बलाद् रूपं द्विस्वभावं प्रसज्यते ॥२॥” इति । तद्भेदे च स्वभावभेदे च, समग्राणामनेकस्वभावताऽपराधो महानयमेकान्तकस्वभाववादिनः । अन्यथेत्यादि । अन्यथैवमनभ्युप
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org