________________
२४२
अनेकान्तजयपताका
गमे, उभयोः समग्रयोरिति सामग्युपलक्षणम् । किमित्याह- तुल्यतापत्तेः कारणात् , तत्कार्ययोरपि रूपा-ऽऽलोकादिरूपयोः, तुल्यता। कुत इत्याह- सामस्त्येनोभयजननस्वभावात् । उभयादेकस्वभा. वात् समग्रोभयात् , उभयप्रसूतेरुभयभावात् । तत्तथात्वेत्यादि । तस्याधिकृतस्वभावद्वयस्य तथात्वकल्पनाया भिन्नजातीयोभयजननैक स्वभावत्वकल्पनायाः, तद्वैचित्र्यापादनेनाधिकृतस्वभावद्वयवैचित्र्यापा दनेन हेतुना, अयोगात् ; तथाहि- नाचित्रात् स्वभावद्वयाच्चित्रद्वयः भावः, भवन्नपि द्वयभावोऽचित्रादेकस्वभावतया तुल्य एव स्यादिति प्रपञ्चितमेतदन्यत्रानेकान्तसिद्धौ, नेह प्रतन्यते । इति- एवं, परमते सहकारासिद्धेः कारणात् , अशोभनस्तदुपन्यासः सहकार्युपन्यास इति परिचिन्त्यतामेतत् ॥ . भिन्नविकल्पसंभवाभावोऽपि न्यायतस्तदवस्थ एव, तदनुभवस्यानेकशक्तिसहकारित्वविरोधात् , एकस्वभावत्वात्, तस्य चानित्याद्यन्यतमाविकल्पशक्तिसहकारित्वतत्त्वात् ; अन्यथा तदेकस्वभावत्वासिद्धेः । एकान्तकस्वभावत्वे च कथमस्य नित्या दिविकल्पशक्तिसहकारिभावः ? इति चिन्त्यम् । न हि नीलविज्ञानजन्मसहकारिस्वभावं नीलं कदाचिद् रसादिविज्ञानजन्मसहकारितां प्रतिपद्यते, तत्तत्त्वविरोधादिति ॥ .
भिन्नविकल्पसंभवाभावोऽपि निमित्तान्तराभावेन पूर्वोक्तः, न्यायतस्तदवस्थ एव । कुत इत्याह- तदनुभवस्य प्रस्तुतस्वलक्षणानुभवस्य, अनेकशक्तिसहकारित्वविरोधात् । विरोधश्चैकस्वभावत्वात् । तस्य चैकस्य स्वभावस्यानित्याद्यन्यतमविकल्पशक्तिसहकारित्वतत्त्वात् सहकारित्वस्वभावत्वात्। अन्यथैवमनभ्युपगमे तदेकस्वभावत्वासिद्धेःतस्यानुभवस्यैकस्वभावत्वासिद्धेश्चित्रशक्तिसहकारिभावेन । एकान्तैकस्वभावत्वे च कथमस्यानुभवस्य नित्यादिविकल्पशक्तिसहकारिभाव इति चिन्त्यम्-- नैवानित्यादिविकल्पशक्तिं विहाय सहकारिभाष इत्यर्थः । अमुमेवार्थ निदर्शनेनाह- न हीत्यादिना । न यस्माद् नील
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org