________________
स्वोपज्ञटीकासहिता।
२५१ शङ्खादौ प्रमेये, संस्थादितत्त्वनिश्चयनिबन्धनं दृश्यन्त एवेति चेत् ; ततश्च तद् भ्रान्तं च ज्ञानं, तत्त्वनिश्चयनिबन्धनं च, एवमनित्यादिविकल्पा अपि भविष्यन्ति; इत्याह-नेत्यादि न, तेषां कामलिप्रभृतीनां, तत्र श. लादिसंस्थानादितत्त्वनिश्चयनिबन्धनाभावः, अभ्रान्तत्वात् । इत्थं चैतदङ्गीकर्तव्यमित्याह- अन्यथा पीतवर्णादिवद् यथा पीतवर्णादौ तथा, तत्तत्त्वनिश्चयनिबन्धनाभावः शङ्खादिसंस्थानादितत्त्वनिश्चयनिबन्धनाभावः, सर्वथा भ्रान्तत्वादिति भावना । विकल्पज्ञानमपि स्वसंवित्तौ, किमित्याह- अभ्रान्तमेवेति चेत् ततश्च किलोक्तदोषानुपपत्तिः; इत्याशङ्कयाह- क तर्हि भ्रान्तम् ? इति वाच्यम् । कल्पनायामिति चेद् भ्रान्तम् । अत्राह- न, तस्याः कल्पनायाः, तदव्यतिरेकात् स्वंसंवित्त्यव्यतिरेकात् । इत्थं चैतदित्याहअन्यथा व्यतिरेके सति स्वसंवित्तेः कल्पनायाः, विकल्पज्ञानायोगात्। अयोगश्च स्वसंवित्तश्चिद्रूपायाः, भेदकासिद्धेरञ्जकासिद्धेः । असिद्धिश्च बोधमात्रात् सकाशात् कारणगतात्, बोधमात्रभावात् । तत्कार्ये तदेव दोषसंपृक्तं विकल्पज्ञानमित्येतन्निरासायाह- तदतिरिक्तदोषानभ्युपगमात् बोधमात्रातिरिक्तदोषानभ्युपगमात् । अभ्युपगमे च तदतिरिक्तदोषाणां, तद्वस्तुत्वेन दोषावस्तुत्वेन हेतुना, तद्योगजविकारकल्पनाया दोषयोगजविकारकल्पनायाः, वस्तुत्वापत्तेः 'न, तेषां तत्राभ्रान्तत्वात्' इत्यतो नेति क्रियायोग इति ।।
आह- अस्तु दोषजं वस्तुत्वमस्याः, शङ्खपीतादिप्रतिभासतुल्यं तु तत् , संस्थानादितत्त्वनिश्चयकल्पा तु स्वसंवित्तिरिति । यदि नामैवम्, ततः किम् ? इति वाच्यम्। विकल्पज्ञानस्याप्यभ्रान्तता । एवमपि का भवत इष्टसिद्धिः। ननु ततस्तत्त्वनीतिभावः। अनिश्चयात्मिकायाः कथमसौ? । हन्त ! कल्पनानुवेधात् । स खलु नित्यत्वादिकल्पनयापि । इति विपक्षसाधारणत्वाद् नेष्टसिद्ध्यर्थमेवेत्ययुक्त एव । न च निरंशवस्तुवादिनो यथोक्तकल्पनैव संभवति, तदैकखभावत्वेन कल्पनाबीजायोगात्, स्वभाव
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org