________________
स्वोपाटीकासहिता।
२८७ काञ्चद् भिन्नधर्मविषया एव कुणपाादविकल्पा इति स्थितमेतत् । एतदेव विशेषेणाह-तथाहीत्यादिना तथाहीति पूर्ववत्, भावी चासौ जीववियोगश्चेति विग्रहः, तस्य योग्यता भाविजीववियोगयोग्यता, सैव लक्षणं यस्य स तथा, स एवंभूतः स्त्रीशरीरधर्मः कुणपावगमस्य निमित्तम् । तथा, तथाविधा अतत्त्वप्रवर्तकाः, तथाविधाश्च त इच्छाकामादयश्चेति समासः, आदिशब्दाद् मदनकामग्रहः, तेऽस्य विद्यन्त इति तथाविधेच्छाकामादिमान् , एवंभूतश्चासौ जीवश्चेति, तेन संयोगयोग्यता, संयोगः संभोगः, तस्य योग्यता, सैव लक्षणं यस्य स तथो-क्तः । तुशब्दः पुनःशब्दार्थः । एवंलक्षणः पुनः स्त्रीशरीरधर्मः कामिन्यवगमस्य निमित्तमिति । तथा, क्षुद्रजन्तोः श्वशृगालादेः परिभोगेन भक्षणेन, क्षुदपनोदो बुभुक्षापनयनं, तस्य योग्यता, सैव लक्षणं यस्य स तथा, एवंभूतः पुन स्त्रीशरीरधर्मः, भक्ष्यावगमस्येति भक्ष्यावगमनिमित्तम् । न चेत्यादि न च य एव भाविजीववियोगयोग्यतालक्षणः स्त्रीशरीरधर्मः स एव तथाविधेच्छाकामादिमज्जीवसंयोगयोग्यतालक्षण: 'स्त्रीशरीरधर्मः' इति वर्तते, आदिशब्दात् क्षुद्रजन्तुपरिभोगक्षुदपनोदयोग्यतालक्षणधर्मग्रहः । कुतो न चेत्याह- फलभेदात् । फलभेदश्च, तथाविधवियोगश्च रमणयोगादयश्चेति समासः, तेषां तथोपलब्धेर्भेदेनोपलब्धेः । तत्र तथाविधवियोगो भाविजीववियोगः, रमणयोगः संयोगः, · आदिशब्दात् क्षुद्रजन्तुपरिभोगक्षुदपनादपरिप्रहः; एते च भेदेनोपलभ्यन्ते । कथमित्याह-लोकानुभवसिद्धत्वात् । इत्थं चैतदङ्गीकर्तव्यमित्याह- अन्यथा भेदव्यवस्थाऽयोगादिति । एवं जनकत्वा-ऽध्यापकत्व-वैद्यत्व-दातृत्वादीनामपि धर्माणां, कथञ्चिद् भेदोऽवसेयः; कथमित्याह- फलभेदान्यथानुपपत्तेः । तस्य च फलभेदस्य जन्या-ऽध्याप्यादेः, अध्यक्षसिद्धत्वात् । विपक्षे बाधामाहजनकत्वस्यैवाध्यापक्रत्वेऽभ्युपगम्यमाने, तस्यापि- अध्यापकत्वस्यापि, तत्त्वात् जनकत्वात् ; किमित्याह-पित्रादेरपि आदिशब्दात् पितामहग्रहः, पुत्रत्वादिप्रसङ्गः, आदिशब्दात् पौत्रग्रहः । कुतः प्रसङ्ग इत्याह
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org