________________
२८६
अनेकान्तजयपताकान च भिन्नविकल्पोपादानवासनासहकारिभावतस्तदनुभवस्यायमदोषः, सर्वथैक स्वभावत्वे तस्यानेकसहकारित्वानुपपत्तेः, तदन्यतमसहकार्येक स्वभावत्वेनान्यत्र तद्भावविरोधादित्युक्तप्रायमेव । ततः कथञ्चिद्भिन्नधर्मविषया एव कुणपायवगमा इति; तथाहि- भाविजीववियोगयोग्यतालक्षण एव स्त्रीशरीरधर्मः कुणपावगमस्य निमित्तम्, तथाविधेच्छाकामादिमज्जीवसंयोगयोग्यतालक्षणस्तु कामिन्यवगमस्य, क्षुद्रजन्तुपरिभोगक्षुदपनोदयोग्यतालक्षण एव तु भक्ष्यावगमस्यति । न च य एव भावि-- जीववियोगयोग्यतालक्षणः स्त्रीशरीरधर्मः स एव तथाविधेच्छाकामादिमज्जीवसंयोगयोग्यतादिलक्षणः, फलभेदात् , तथाविधवियांग-रमणयोगादीनां तथोपलब्धेः, लोकानुभवसिद्धत्वात् , अन्यथा भेदव्यवस्थाऽयोगादिति । एवं जनकत्वा-ऽध्यापकत्व-वैद्यत्व-दातृत्वादीनामपि कथञ्चिद्भेदोऽवसेयः, फलभेदान्यथानुपपत्तेः, तस्य चाध्यक्षसिद्धत्वात् , जनकत्वस्यैवाध्यापकत्वे तस्यापि तत्त्वात् पित्रादेरपि पुत्रत्वादिप्रसङ्गः, पुत्रस्यापि कचिदध्यापकत्वसिद्धेरिति ।।
इहैव प्रस्ताव इति लेशतो योगाचारमतमधिकृत्याह- न चेत्यादि न च भिन्नविकल्पोपादानवासनासहकारिभावतः कारणात् , तदनुभवस्य सिताद्यनुभवस्य, अयं तद्विकल्पानां भिन्नन्द्रियानुभवनिबन्धनत्वासिद्धथा सितेतरादिभेदाभावप्रसङ्गलक्षणो दोषः, अदोषः । कुत इत्याह- सर्वथैकस्वभावत्वे सति, तस्य तदनुभवस्य; किमित्याह-अने. कसहकारित्वानुपपत्तेः-अनेकेषां भिन्नविकल्पोपादानवासनादीनां सहं कारित्वानुपपत्तेः । अनुपपत्तिश्च तदन्यतमसहकार्येक्रस्वभावत्वेन सितादिविकल्पोपादानान्यतमवासनासहकार्येकस्वभात्वेन हेतुना, अन्यत्र वासनान्तरे, तद्भावविरोधात् सहकारिभावविरोधात्; सिताद्यनुभवस्यः ह्यनेकसहकारित्वे सत्यान्तरासितादिभावेनाधिकृतदोषो न दोष इति भवति, न चैतदेवम् ; इत्युक्तप्रायमेव । तत इत्यादि ततस्तस्मात् ,
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org