________________
स्वोपज्ञटीकासहिता।
२८५ पगमात् , तदनभ्युपगमेऽतिप्रसङ्गः, रूप-रसादिविकल्पानामप्यभिन्नजातीयत्वापत्तेः, तथा च तदनुभवानां सदृशता इति रूप-रसादिभेदाभावः । भिन्द्रियानुभवनिबन्धनत्वात् तद्विकल्पानामयमदोष इति चेत् । एवमपि सिते-तरादिभेदाभावप्रसङ्गः, तद्विकल्पानां भिनेन्द्रियानुभवनिबन्धनत्वासिद्धेः, सर्वेषामेव तेषां चाक्षुषत्वादिति ॥
न चेत्यादि न च सर्वथा सदृशानुभवनिमित्ताः स्वलक्षणानुभवमधिकृत्य, कुणपादिविकल्पा इति । कुत इत्याह- अतत्कारणातत्कार्येभ्यो व्यावृत्ता इति विग्रहस्तेषां, सदृशत्वाभ्युपगमादनुभवानां घटानुभवानामिव, तदनुभवानां च कुणपादिविकल्पानुभवानां च, अतत्कार्यव्यावृत्त्यसिद्धेः ।असिद्धिश्च, भिन्नजातीयविकल्पनिबन्धनत्वात तदनुभवानाम् । कथमेतदेवमित्याह- कुणप-कामिन्यादिविकल्पानां भिन्नजातीयत्वाभ्युपगमात् । तदनभ्युपगमे कुणपादिविकल्पानां भिन्नजातीयत्वानभ्युपगमे, अतिप्रसङ्गः । कथमित्याह- रूप-रसादिविकल्पानामप्यभिन्नजातीयत्वापत्तेः । ततः किमित्याह-तथाचेत्यादि तथा च तदनुभवानां रूप-रसाद्यनुभवानाम् , सदृशतेति कृत्वा; किमित्याह- रूप-रसादिभेदाभाव: रूपमात्रं रसादिमात्रं वा जगत् स्यादित्यर्थः । भिन्नेन्द्रियानुभवनिबन्धनत्वात्- चक्षु-रसनादीन्द्रियानुभवनिबन्धनत्वात्, तद्विकल्पानां रूप-रसादिविकल्पानाम् , अयं रूप-रसादिभेदाभावलक्षणो दोषः, अदोष इति चेत्-भिन्नेन्द्रियानुभवजत्वेन भिन्नजातीया एव रूप-रसादिविकल्पाः, तन्निबन्धनाश्वानुभवाः, तद्धेतवो रूपादयश्च, इति न रूप-रसादिभेदाभाव इत्यर्थः । एतदाशङ्कथाह- एवमपीत्यादि एवमपि भिन्नेन्द्रियानुभवनिबन्धनत्वेन तद्विकल्पानामुक्तदोषादोषत्वेऽपि, सिते-तरादिभेदाभावः प्रसङ्गः शुक्ल-कृष्णादिभेदाभावप्रसङ्गः । कुत इत्याह- तद्विकल्पानां सिते-तरादिविकल्पानाम् , भिन्नेन्द्रियानुभवनिबन्धनत्वासिद्धेः । असिद्धिश्च, सर्वेषामेव तेषां तद्विकल्पानाम् , चाक्षुषत्वादिति ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org