________________
अनेकान्तजयपताका_तदेवमेते मन्दमतयो दुस्तर्कोपहतास्तीर्थ्याः स्वयं नष्टाः परानपि नाशयन्ति मन्दमतीन् , अतः प्रतिविधीयते । तत्र यत्ताव दुक्तं कथमेकमेव घटादिरूपं वस्तु सच्चासच भवति । तदेतदागोपालाङ्गनादि प्रसिद्धमनाशङ्कनीयमेव । यतस्तत्वद्रव्यक्षेत्रकालभावरूपेण सद्वर्तते, परद्रव्यक्षेत्रकालभावरूपेण चासत् , ततश्च सच्चासच भवति; अन्यथा तदभावप्रसङ्गात् । तथाहि-यदि तद्यथा स्वद्रव्यक्षेत्रकालभावरूपेण सत् , एवं परद्रव्यादिरूपेणापि स्यात्, ततश्च तद् घटवस्त्वेव न स्यात्, परद्रव्यादिरूपेणापि सत्त्वात् ; तदन्यस्वात्मवत् । तथा यदि यथा परद्रव्यक्षेत्रकालभावरूपेणासत् , एवं स्वद्रव्यादिरूपेणापि स्यात् , इत्थमपि तद् घटवस्त्वेव न स्यात् , स्वद्रव्यादिरूपेणाप्यसत्त्वात् ; खरविषाणवत्। इत्येवं तदभावप्रसङ्गात् सदसद्रूपं तदङ्गीकर्तव्यमिति। तथा च तद् द्रव्यतः पार्थिवत्वेन सत्, नाबादित्वेन; तथा क्षेत्रत इहत्यत्वेन, न पाटलिपुत्रकादित्वेन; तथा कालतो घटकालत्वेन, न मृत्पिण्डादिकालत्वेन; तथा भावतः श्यामत्वेन, न रक्तत्वादिनति; अन्यथेतररूपापत्त्या तत्स्वरूपहानिप्रसङ्ग इति ।
एनमुपन्यस्यात्र दूषणमभिधातुमाह- तदेवमित्यादि । तच्छब्दः प्रस्तुतार्थप्रदर्शकः, एवं यथोक्तम् , एते शाक्यादयः, एवंवादितया लोके सिद्धाः, मन्दमतयः विशिष्टक्षयोपशमाभावेन, दुस्तर्कोपहता एकान्तविषयतर्कपीडिताः, तीर्थ्याः शाक्यादय एव, न स्वयं नष्टा एव सन्यायाज्ञानादिति गम्यते, परानपि नाशयन्ति न सामान्येनेत्याहमन्दमतीन् जडबुद्धीन् । यत एवम् ,अतः प्रतिविधीयते सर्वत्रैवात्र प्रतिक्रियत इत्यर्थः । तत्रेत्यादि । तत्र यत्तावदुक्तमादौ, कथमेकमेव घटादिरूपं वस्तु सच्चासच भवतीति पूर्वपक्षे । तदेतदित्यादि । तदेतद् घटादिरूपं वस्तु सञ्चासच्चेति, आगोपालाङ्गनादि प्रसिद्धं तथोपलम्भार्थक्रियाभ्यां प्रतिष्ठितम् , अनाशङ्कनीयमेव । यतस्तद्धटादिरूपं वस्तु, स्वद्र
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org