________________
खोपाटीकासहिता।
व्यक्षेत्रकालभावरूपेण सद्वर्त्तते, परद्रव्यक्षेत्रकालभावरूपेण च पटादिगतेन, असन् । ततश्च सच्चासच भवति तद्वस्तु शबलम् । अन्यथैवमनङ्गीकरणे, तदभावप्रसङ्गात् तस्य घटादिरूपस्य वस्तुनः अभावप्रसङ्गात् । एनमेव भावयति-तथाहीत्यादिना । तथाहि-यदि तद् घटादिरूपं वस्तु, यथा स्वद्रव्यक्षेत्रकालभावरूपेण सत् , एवं परद्रव्यादिरूपेणापि सात् , आदिशब्दात्परक्षेत्रकालभावरूपपरिग्रहः । ततश्चैवं सति, तद् घटवस्त्वेव न स्यात् । कुत इत्याह- परद्रव्यादिरूपेणापि सत्त्वात् तदन्यस्वात्मवत् पटादिस्वात्मवदित्यर्थः । तथा यदि यथा परद्रव्यक्षेत्रकालभावरूपेणासत् तद् घटादिरूपं वस्तु, एवं खद्रव्यादिरूपेगापि स्यात् आदिशब्दारस्वक्षेत्रकालभावपरिग्रहः । इत्थमप्येवमपि, तद् घटवस्त्वेव न स्यात्, खद्रव्यादिरूपेणाप्यसत्वात् । किंवदित्याहसरविषाणवत् । खरविषाणं हि पररूपण, स्वरूपेण चाऽसत्तुच्छमिति भावनीयम् । इत्येवमुक्तन्यायेन, तदभावप्रसङ्गात् तस्य घटादिरूपस्य वस्तुनोऽभावप्रसङ्गात् , सदसदूपं तदङ्गीकर्तव्यमिति । एतदेव विशेषेणाह- तथा चेत्यादि । तथा च तद् घटादिरूपं वस्तु, द्रव्यतः द्रव्यमाश्रित्य, पार्थिवत्वेन सत्तथापरिणतपृथ्वीविकारत्वेन सत्, नाबावित्वेन । तथा क्षेत्रतः क्षेत्रमाश्रित्य, इहत्यत्वेन इह भव इहत्यस्तद्भाभेन, न पाटलिपुत्रकादित्वेन । तथा कालतः कालमाश्रित्य, घटकालत्वेन तथातस्थितिखभावत्वलक्षणेन, न मृत्पिण्डकपालकालत्वेन। तथा भावतः भावमाश्रित्य, श्यामत्वेन श्यामत्वभावेन, न रक्तत्वादिना सदिति । इत्थं चैतदङ्गीकर्त्तव्यम् । अन्यथैवमनङ्गीकरणे, इतररूपापत्त्या भबादिरूपेणापि सत्त्वेन तस्य घटादिरूपस्य वस्तुनः स्वरूपहानिप्रसङ्गः पार्थिवत्वाद्यभावादिति ॥
द्रव्याद्यात्मकत्वं च घटस्य तैर्विनाऽभावात् , तथाहि-न मृदादिद्रव्यमात्रमेव तथाविधक्षेत्राननुविद्धं ऋते तत्कालभावितां कृष्णादिभावशून्यं घटस्तथानुपलम्भात्, तत्तदन्यतममात्रत्वे तदितरवैकल्येन तत्स्वरूपानुपपत्तेः; विविक्तानामसम्भवात् सम्भवेअपि तन्मात्रत्वेन तद् द्रव्यत्वादिबुद्धिहेतुत्वतो घटबुद्धयभावप्रसङ्गः।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org