________________
स्त्रोपज्ञटीकासहिता।
१५९
रमायोग्यद्रव्यग्रहणाविरोधात् , तथाविधानुभवस्यान्यथानुपपत्तेः, स्वसंवेद्यत्वेन प्रतिक्षेपायोगात् सन्यायत एव सिद्धं सविकल्पकं प्रत्यक्षमिति ।। .. आह-एवमप्यवग्रहादिभावे, तत्तद्धर्मावग्रहणादेः, आदिशब्दात् तत्तधर्मासमर्थपर्यालोचनादिग्रहः, सर्वेषामवग्रहादीनां मतिभेदानाम् , अवप्रहादित्वप्रसङ्गोऽन्वर्थयोगेन, आदिशब्दादीहादिग्रहः। एतदाशङ्क्याह नेत्यादि । न नैतदेवम् । कुत इत्याह-स्थूरेतरधर्मालम्बनावरणभेदतः कारणात्, स्थूरेतराश्च ते धर्माश्च स्थूरेतरधर्माः, इतरे सूक्ष्माः, ते एवालम्बनं, एतच्चावरणं चेति विग्रहः, तयोर्भेदस्तस्मात् , क्रमभवनेन तथाप्ररूपणादवग्रहादित्वेन प्ररूपणात्; तथाहि- स्थूरधर्मालम्बनोऽवग्रहः, सूक्ष्मधर्मालम्बना ईहादयः, एवमन्यदवग्रहावरणम् , अन्यच्चेहादेः, इह चावरणग्रहणं क्षयोपशमोपलक्षणमवसेयम् । इत्थमुपन्यासस्तु भिन्नमेव तद् बोधावारकमिति निदर्शनार्थम् , क्रमभवनं तु प्रसाधितमेव,इत्यतस्तथाप्ररूपणं न्याय्यमेवेति भावनीयम् । तत्त्वतस्त्वयं सर्वेषामवग्रहादित्वप्रसङ्गः, अदोष एवान्वर्थयोगतस्तथाघटनादिति । एवं चोक्तनीत्या, अवग्रहादिभावे सन्न्यायत एव सिद्धं सविकल्पकं प्रत्यक्षमिति योगः । कुत इत्याह- तत्तद्धर्मबोधात् वस्तुसदादिधर्मबोधात् । तथा, केषांचिद्धर्माणां, तथास्वभावत्वेन हेतुना, अक्षरानुगतबोधबोध्यत्वादीहादिगोचराणां, विशिष्टमनोनुगतत्वोपलक्षणमेतत् । यदि नामैवं ततः किमित्याहतेषु अक्षरानुगतबोधबोध्येषु धर्मेषु, अन्यथा नीलादाविव वस्तुनि पीतादित्वेन रूपेण, बोधाऽप्रवृत्तेः कारणात् । कुतस्तत्राक्षरप्रायोग्यद्रव्यग्रहणमित्याशङ्कानिरासायाह-क्षयोपशमेत्यादि क्षयोपशमसामर्थ्यतः कारणात् , अक्षरप्रायोग्यद्रव्यग्रहणाविरोधात्; स हि क्षयोपशम एव तादृशो यो भाषाद्रव्याणि ग्राहयतीत्यर्थः । इत्थं चैतदङ्गीकर्तव्यमिन्याह- तथाविधानुभवस्य अक्षरानुगतबोधरूपस्य, अन्यथाक्षरप्रायोप्रबद्रव्यग्रहणमन्तरेण, अनुपपत्तेः कारणात् । अस्य च स्वसंवेद्यत्वेन
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org