________________ 296 अनेकान्तजयपताका अन्यथाऽयोगादित्युक्तप्रायम् / ततश्चामुख्य-गुणभावेन राखतस्तू. भयात्मकं तत् // 6 // परपक्षे दोषमाह- एकान्तैक्ये तु एकामेकस्वभावत्वे पुनः, भावानां दध्यादीनाम् , कार्याभेदात् कारणात् , अनि श्चितिः / एतदेवाह- नैकस्मात् एकस्वभावात् , उत्तरो भावो ज्ञानं चेति सुनीतितः // 7 // सुनीतिमेवाह- हेत्वभेदात् तदेकस्वभावत्वेन, न चाज्ञाते तस्मिन् , तद्ध्वनिध्यादिध्वनिः, संप्रवर्तते; अतिप्रसङ्गात् 'ज्ञानं च ततोऽन्यभावे, न न संगतम्' इति भावितमेव / एवमेकखभावत्वे वस्तुनः, उपपन्नौ न धी-ध्वनी, द्वयनिमित्ताभावेन // 8 // इत्यादि / ततश्च भेदसंहारवादचिन्ताऽभाव एव परमते / इति कृतं विस्तरेण / / // इत्यनेकान्तजयपताकाटीकायां तृतीयोऽधिकारः // Jain Education International For Private & Personal Use Only www.jainelibrary.org