SearchBrowseAboutContactDonate
Page Preview
Page 227
Loading...
Download File
Download File
Page Text
________________ 'स्वोपज्ञटीकासहिता । एनमेवाह - तदनुभवो हीत्यादिना । तदनुभवोऽधिकृतस्वलक्षणानुभवो यस्माच्छक्तेरनादिमदालयगतशक्तेरनुत्पन्नाया उत्पन्नाया निरुद्धाया एव वोपकुर्यादिति संभविनो विकल्पाः । न तावदनुत्पन्नाया उपकरोति तदनुभवः । कुत इत्याह- तस्या एव शक्तेरसत्त्वात् । न चासावनुत्पन्नाऽस्ति । यदि नामैवं ततः किमित्याह- असतश्च सामान्येनोपकाराकरणात् । नाप्युत्पन्नाया उपकरोति तदनुभवः । कुत इत्याहतस्या उत्पन्नाया निष्पन्नत्वेनानाधेयातिशयत्वात् । एतच्च क्षणादूर्ध्वमनवस्थितेः कारणात् । द्वाभ्यामपि शक्त्य ऽनुभवाभ्यामेकीभूय तदन्यकरणमेव विशिष्टशक्तिकरणमेवातिशयाधानम्, तदेव चान्यकरणमुपकार इति चेत् । एतदाशङ्क्याह- नेत्यादि न नैतदेवम् । कुत इति युक्तिमाह- उपादानकारणविशेषाधानमन्तरेण इह तावदधिकृतशक्तिविशेषाधानं विना, ततो विवक्षितानुभवात्, कार्यविशेषासिद्धेः प्रस्तुत विकल्पकार्यभेदासिद्धेरित्यर्थः । न चैककालभाविना शक्त्या सहानुभवेनान्यतो भवन्त्याः शक्तेरन्यत एव स्वहेतोर्भवताऽनुभवेन तस्याः शक्तेरतिशयाधानं 'न्याय्यम्' इति शेषः । कुत इत्याह- तन्निबन्धनस्य अधिकृतशक्त्युपादानस्य तत्कृतविशेषासिद्धेर्विवक्षितानुभवकृतविशेषासिद्धेः । तदभ्युपगमे च सामान्येन तन्निबन्धनस्य तत्कृतविशेषाभ्युपगमे च तत्रापि तन्निबन्धनेऽयमेवानन्तरोदितो 'नोपादानकारणविशेषाधानमन्तरेण ततः कार्याविशेषासिद्धेः' इत्यादिर्वृत्तान्तः । एवमुक्तनीत्या निबन्धनपराम्परायामपि वाच्यम् । इति - एवम्, अत्राणं निबन्धनपरम्परा, अनादावपि संसारे कस्यापि निबन्धनस्योक्तनीत्या विशेषाधानायोगादिति भावनीयम् ॥ स्वहेतु परम्परात एव सा शक्तिस्तथास्वभावोत्पन्ना याऽनुपकारिणमपि तदनुभवं सहकारिणमपेक्ष्य विशिष्टं कार्य जनयत्यतो न दोष इति चेत् । न, अनुपकारिणोऽपेक्षायोगात् । तदभ्युपगमेऽतिप्रसङ्गात्, तत्तथाविधस्वभावाधायक हेतोरप्यस्थानपक्षपातित्वापत्तेः, स्वभावापर्यनुयोगस्य च प्रमाणोपपन्नस्वभावविषय Jain Education International २३५ For Private & Personal Use Only www.jainelibrary.org
SR No.002732
Book TitleAnekantajaypataka Swopagnya Tika
Original Sutra AuthorHaribhadrasuri
Author
PublisherZZZ Unknown
Publication Year
Total Pages288
LanguageSanskrit
ClassificationBook_Devnagari & Philosophy
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy