________________
स्वोपज्ञटीकासहिता। सामाम् , तथाविधं तत्काय॑ग्रहणप्रकारं, विज्ञानं न पुनस्तत्तेन वस्तुना, तत्त्वतः परमार्थतः, क्रियते यतः; अतो नेदमित्थं ममेति योजना ॥१४॥ इत्थं चैतदङ्गीकर्तव्यमित्याह- अतीतादेरित्यादि। अतीतादेर्भावस्य, असत्त्वेन हेतुना, न स्याद् ग्रहणम् , अन्यथैवमनभ्युपगमे, न यसद् ज्ञानकर्तृ। तथा चाह- तस्यापि अतीतादेः, ज्ञानकर्तृत्वेऽभ्युपगम्यमाने, अतीतत्वादिविरोधतः कारणात् , स्वरूपमेव सर्वेषामित्यादिक्रियायोगः । अतः सदसत्प्रत्ययभेदादनेकरूपं वस्त्विति खितम् ॥१५॥
न च पार्थिवद्रव्यसत्त्वप्रत्यय एवाबाधसत्त्वप्रत्ययः, तयाप्रतीतेः । असतोऽनुपाख्यत्वेन प्रत्ययहेतुत्वानुपपत्तिरिति
सवलुबेधेन सर्वथानुपाख्यत्वासिद्धेः, असत्प्रत्ययाकासवाचा असदननुविद्धस्य च सतस्तन्मात्रत्वाद्विशेषानुपपतेरितरेतरानुवेध इति कुत एकस्वभावत्वसिद्धिः । स्यादेतत् तवाऽवादिद्रव्यासत्त्वस्य परिकल्पितत्वात् यथोक्तदोषाभाव इति। सोऽयं गडप्रवेशेऽक्षितारकाविनिर्गमन्यायः। तथाहि-तत्राबादिदव्यासत्त्वस्य परिकल्पितत्वात् स्वसत्त्वासत्त्ववदसत्त्वात् तद्रपेजाप्यस्तित्वप्रसङ्गः, अनिष्टं चैतदिति । स्यादेतत् पार्थिवद्रव्यसत्त्वव्यतिरिक्तमबाद्यसत्त्वं परिकल्पितम्, पार्थिवद्रव्यसत्त्वमेव पुनरवाद्यसत्त्वस्वभावमिष्यत एवेत्यतोऽनपराध इति । अहो ! दुरन्तः स्वदर्शनानुरागः, प्रत्युक्तमपि नावधारयति । यतोन च तद्येनैव स्वभावेन पार्थिवद्रव्यत्वेन सत्, तेनैवाबादिद्रव्यत्वेनासत्, इत्यादि तदेवावर्त्तते; इत्यलं खदर्शनानुरागाकृष्टचेतसा सह प्रसङ्गेनेति ॥
न चेत्यादि । न च पार्थिवद्रव्यसत्त्वप्रत्यय एवं सर्वथैकरूपतया निरंशः, अबाद्यसत्त्वप्रत्ययः, तथा तदेकरूपतयाऽप्रतीतेः, किन्तु प्रत्ययान्तरमयम् । अत्राह- असत इत्यादि । असतोऽनुपाख्यत्वेन हेतुना, प्रत्ययहेतुत्वानुपपत्तिरतः कथमबाद्यसत्त्वप्रत्ययः ?, इत्येवं, चेन्मन्यसे ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org