________________
४४
अनेकान्तजयपताका
वोऽस्तु, एकरूपत्वाविशेषादित्यलं प्रसङ्गेन ॥ ६ ॥ एवं नाकारणमित्यादि । नाकारणं यतः यस्मात्, कार्य सदाभावादिप्रसङ्गात् , अन्यकारणकारणं नैकान्तेनाऽत एव हेतोः, एवं चैतदङ्गीकर्त्तव्यम् । इत्याह- अन्यथा एवमनभ्युपगमे, न व्यवस्था स्यानियमवती, कार्यकारणयोः कचित् इदमस्य कारणमिदमस्य कार्यमित्येवं, तदभावेऽपि तत्त्वतस्तदुत्पत्तेरिति ॥७॥ ततश्चेत्यादि । ततश्च कार्यनानात्वं कार्यभेदलक्षणं, सर्वथा कारणैकतां तथाविधैकस्वभावरूपाम् । किमित्याह-बाधते निराकरोति, अनेकतायां च कारणस्य, स्थिताऽनेकस्वभावता तत्स्वभावभेदतः कार्यभेदोपपत्तेः ।।८॥ एतेनेत्यादि। एतेनानन्तरोदितेन, एकस्वभावोऽपि भावः, तत्स्वभावत्वतः कारणात्, परैः बौद्धैः, य इष्टोऽभ्युपगतः, अनेकफलकृत् अनेककार्यकरणशीलः, भावः सोऽपि निराकृतः॥९॥ एतदेव प्रकटयति- एको हीत्यादिना। एको यस्मात् , अनेकजननस्वभावस्तद्विचित्रतां स्वभावविचित्रता, ऋते विना, न युज्यते यस्मात् उक्तदोषप्रसङ्गतः ॥१०॥ अत्रैवोपचयमाहतथेत्यादिना । तथादर्शनतोऽप्यनेकविज्ञानजनकत्वेन, अस्य भावस्य, तत्स्वभावत्वकल्पना अनेककार्यकरणैकस्वभावत्वकल्पना । किमित्याहअत एव तथादर्शनात् , स्थिरत्वादिसिद्धिसङ्गात् कारणात्, न सङ्गता ११ आह- युक्तयेत्यादि युक्त्या क्रमयोगपद्याभ्यामर्थक्रियाविरोधभावलक्षणया, न युज्यते स्थैर्य भावानाम् । अत्रोत्तरम्-कया वा युक्त्या, एकस्वभावतो भावात् , नानाकार्यसमुत्पादो युज्यते ?, स्वात्मना चिन्त्यतामिदं न सर्वथा तत्स्वभावभेदमन्तरेण, तथानेकविज्ञानजनकत्वमपि दिगादिभेदेन तथाप्रतीत्ययोगादिति ॥ १२ ॥ आह- यथेत्यादि । यथानेकस्वभावं तत् कात्स्न्र्येनैवैकत्रोपयोगमधिकृत्य सर्वेषां सर्वदशिनां वीतरागाणां, करोत्यनेकं विज्ञानं,यावन्तस्ते, अन्यथा तदसर्वदार्शत्वप्रसङ्गात् , इदमधिकृतं वस्त्वेकस्वभावमेव, इत्थं कथं न ते तव करोत्यनेकं विज्ञानं कात्स्न्येनोपयोगाविशेषात् ? इति ॥ १३ ॥ अत्रोत्तरम्-- स्वरूपमित्यादि । स्वरूपमेव सांसिद्धिकं सर्वेषां सर्वज्ञानां वीतरा
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org