________________
अनेकान्तजयपताका
एतदाशङ्कयाह-नेत्यादि । न नैतदेवम् । कुत इत्याह- सदनुवेधेन पार्थिवद्रव्यसत्त्वानुवेधेन हेतुना, सर्वथा सर्वैः प्रकारैः, अनुपाख्यत्वासिद्धेरबाद्यसत्त्वस्य । उपपत्त्यन्तरमाह- असत्प्रत्ययाविरोधाच्च । असत इति प्रक्रमः । सत इवासतोऽसत्प्रत्ययभाव इति भावः। सदनुवेधेनेत्यादि । मौलं हेतुं समर्थयन्नाह- असदित्यादि । असदननुविद्धस्य च सतः पार्थिवद्रव्यसत्त्वादेः, तन्मात्रत्वात् सन्मात्रत्वात् , विशेषानुपपत्तेः कारणात् , इतरेतरानुवेधः सदसतोः, इत्येवं, कुत एकस्वभावत्वसिद्धिः ? नैवेत्यर्थः । स्यादेतदित्यादि। स्यादेतदथैवं मन्यसे, तत्र पार्थिवद्रव्यसत्त्वे, अबादिद्रव्यासत्त्वस्य परिकल्पितत्वात् कारणात् । किमित्याह-यथोक्तदोषाभाव इति उभयरूपत्वाभावः परमार्थतस्तदसत्त्वादिति । एतदाशङ्कयाह- सोऽयमित्यादि । सोऽयं गडुप्रवेशेऽक्षितारकाविनिर्गमन्यायःप्रस्तुतदोषपरिहारेणाधिकतरदोषान्तरापत्तिरित्यर्थः । एतदेवाह- तथाहीत्यादिना । तथाहि-तत्र पार्थिवद्रव्यसत्त्वे, अबादिद्रव्यसत्त्वस्य परिकल्पितत्वात् परमार्थतः स्वसत्त्वासत्त्ववदसत्त्वात् । किमित्याह-- तद्रूपेणापि अबादिद्रव्यसत्त्वरूपेणापि,अस्तित्वप्रसङ्गः पार्थिवद्रव्यसत्त्वस्य, अनिष्टं चैतदिति तथा हि-न तत्र स्वसत्त्वासत्त्वमिति स्वसत्त्वम् , एवमबाद्यसत्त्वाभावे स्यात् तत्सत्त्वम् , अन्यथा तदभावाभाव इति भावना । स्यादेतदित्यादि । स्यादेतदथैवं मन्यसे, पार्थिवद्रव्यसत्त्वव्यतिरिक्तं धर्मान्तरम्, अबाद्यसत्त्वं परिकल्पितं, पार्थिवद्रव्यसत्त्वमेव पुनरेकरूपं, अबाद्यसत्त्वस्वभावं वस्तुस्थित्या, इष्यत एवेत्यतोऽस्मात् कारप्रात् , अनपराध इति नास्ति कश्चिदोषः । एतदाशङ्क्याह- अहो ! दुरन्तः स्वदर्शनानुरागः । कथमित्याह- प्रत्युक्तमपि नावधारयति । एतत्सामर्थ्यात् । एतदेवाह-- यत इत्यादिना । यतो न च तद्येनैव स्वभावेन पार्थिवद्रव्यत्वेन सत् , तेनैवाबादिद्रव्यत्वेनासत्, इत्या: दि तदेवावर्त्तते पूर्वोक्तं चक्रकम् , इत्यलं स्वदर्शनानुरागाकृष्टचेतसा सह प्रसङ्गेन नैव प्रज्ञापनाविषयः ।।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org