SearchBrowseAboutContactDonate
Page Preview
Page 229
Loading...
Download File
Download File
Page Text
________________ स्वोपज्ञटीकासहिता । अतथाविधस्वभावानामपि भावानां तथाविधस्वभावत्वाभिधानाविरोधात् । ततः किमित्याह एवं च सहेतुकनाशापत्तिः । कथमित्याह'स्व हेतु परम्परातः सकाशात् तथास्वभाव एवासावुत्पन्नो भावः पदार्थो योऽकिश्चित्करमपि नाशहेतुमपेक्ष्य नश्यति' इत्यपि वक्तुं शक्यत्वात् तथास्वभावपर्यनुयोगासिद्धेरुक्तनीत्या । असिद्धिश्चाचिन्त्यशक्तित्वात् स्वभावस्य । इत्थं चैतदङ्गीकर्तव्यमित्याह- अन्यथा त्वत्पक्षेऽपि स्वहे - तुपरम्परात एव सा शक्तिस्तथास्वभावोत्पन्नेत्यस्मिन्नपि, तुल्यत्वात् पर्य - योगस्य । इति सर्वत्र 'न, अनुपकारिणोऽपेक्षाऽयोगात्' इत्यतो यथायोगं 'न' इति क्रिया योजनीया । नापि निरुद्धायाः 'शक्तेरुपकरोति तदनुभवः' इति प्रक्रमः । कुत इत्याह- तस्या एव निरुद्धायाः शक्तेरसत्वात्, असतश्च तुच्छस्य चोपकाराकरणात् । न चेत्यादि न च प्रकारान्तरेणोक्तप्रकारत्रयातिरिक्तेनोपकारकरणं संभवति, वस्तुतस्तस्यैवाभावात् । एवं तावदाद्यपक्षे- उपन्यासक्रमप्राधान्यात् 'परस्परातिशयाधानेन संताने विशिष्टक्षणोत्पादनलक्षण:' इत्यस्मिन्, सहकारार्थाभाव इति ॥ -- एतेन पूर्वस्वहेतोरेव समग्रोत्पन्नैककार्यक्रियालक्षणोऽपि सहकारार्थो निषिद्धः, तत्त्वतः प्रथमसहकारार्थाविशेषात् ' स्वहेतुपरम्परात एव सा शक्तिस्तथास्वभावोत्पन्ना' इत्यादिना तु सुतरामभेदात्, प्रत्येकं तत्तथाविधकार्यजननसमर्थस्वभावेतर विकल्पदोषापत्तेश्व - प्रथमपक्षे किमन्योन्यापेक्षया ?, एकत एव तत्सि - द्धेः । द्वितीयपक्षे चापेक्षायामपि तदसिद्धेः, प्रत्येकमतत्स्वभावत्वात् ॥ Jain Education International २३७ एतेनेत्यादि । एतेनानन्तरोदितेन, पूर्वस्वहेतोरेव समप्रोत्पन्नैककार्यक्रियालक्षणोऽपि सहकारार्थः प्राग् निदर्शितस्वरूपो निषिद्धः । कुत इत्याह- तत्त्वतः परमार्थेन, प्रथमसहकारार्थाविशेषात् । अस्य सहकारार्थस्य परस्परातिशयाधानेन संताने विशिष्टक्षणोत्पादनलक्षण: प्रथमः, तदयमपि पूर्वस्वहेतोरेव समप्रोत्पन्नैक कार्यक्रियालक्षणः सदा For Private & Personal Use Only • www.jainelibrary.org
SR No.002732
Book TitleAnekantajaypataka Swopagnya Tika
Original Sutra AuthorHaribhadrasuri
Author
PublisherZZZ Unknown
Publication Year
Total Pages288
LanguageSanskrit
ClassificationBook_Devnagari & Philosophy
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy