________________
२६
अनेकान्सजयपताकाशक्तितस्तपस एकरूपतया कारणेन अभावात् । अधिकृतकर्मक्षयस्य कथमभाव इत्याह- सर्वशक्तिविरोधासिद्धः। सर्वशक्तिभिश्चित्रकर्मगताभिः सह विरोधासिद्धेः अन्यतमशक्तितस्तपसः, एकशक्तिकं ह्येकशक्तिकस्यैव विरोधीत्यभिप्रायः । आशङ्कान्तरापोहायाह-अथ तपइत्यादि । अथ तपः कर्मशक्तीनां सङ्करेण क्षयकरणशीलामति कृत्वा, एकरूपादपि ततः तपसः, क्षयश्चित्रशक्तिकस्य कर्मण इति । एतदाशङ्कथाह- नन्वित्यादि । ननु चैवमप्यनन्तरोदितन्याययोगे, कथंश्चित्केनचित्प्रकारेणैकरोमोत्पाटादिना, सुखेनैवाल्पे कर्मणि क्षीणे सति, तदशेषक्षयापत्तिः तस्य कर्मणः अशेषस्य क्षयापत्तिः । कुत इत्याहतत्साकर्यान्यथानुपपत्तेः । कर्मशक्तिसाङ्कर्यान्यथानुपपत्तेः, तद्भावेनैव तत्क्षयाङ्गीकरणात् कर्मशक्तिसाङ्कर्यभावेनैव कर्मक्षयाङ्गीकरणात् । तदक्षये तस्य कर्मणः अशेषस्याक्षये, साङ्कर्याद्यसिद्धिः, आदिशब्दात् विवक्षितकर्मक्षयग्रहः । इत्येवम् , तपःकर्मक्षयवादोऽपि पूर्वोदितः, अबुधजनमनोहर एवेति कृत्वा; किमित्याह- अपकर्णयितव्यः ।
न चास्मिन् सत्यपि मोक्षसौविहित्यम्, अनेकान्तोपद्रवानिवृत्तेः । तथाहि-मुक्तोऽपि न मुक्त एवानेकान्तवादहानेः, अपि त्वमुक्तोऽपि, इति नेदमपुष्कलमुपादेयफलप्रकर्षः तदन्यसाधारणत्वात् ; इत्थं सापवादस्य संसारिष्वपि भावात् । तथाहि-न व: संसार्यपि सर्वथा संसायैवैकान्तवादापत्तेः, अपि त्वसंसार्यपि, इति नेदमकृत्स्नं हेयानर्थोत्कर्ष इति यत्किश्चिदेतत् । किञ्च । अनेकान्तवादिनो मानमपि न मानमेव, स्यान्मानमिति तत्त्वनीतेः, इत्थं तदाभासमपि । ततश्चैवं तदतदात्मके प्रमाणप्र. मेयरूपे सर्वस्मिन्नेवास्मिन् वस्तुतत्त्वे विरोधभाजि अस्य तदतद्वादिनो निष्कलङ्कमतिसमुत्प्रेक्षितसन्यायानुसारतः सर्वमेव प्रमाणादि प्रतिनियतं न घटत इत्यलमत्रातिनिर्बन्धेन ॥ - इहैवाभ्युञ्चयमभिधातुमाह-न चाऽस्मिन्नित्यादि। न चास्मिंस्तपःकर्मक्षयवादे, सत्यपि मोक्षसौविहित्यं मोक्षस्य सुविहितभावः । कुत
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org