________________
अनेकान्तजयपताका
ऽविशेषेण, तद्भावप्रसङ्गात् चेतनत्वादिभावप्रसङ्गात्, एवं च सर्वत्र तद्भावे सांकर्येण हेतुना, चेतनत्वाद्यभावश्चेतनत्वाचेतनत्वाद्यभावः, मिथो विरुद्धानामन्योन्यात्मनाऽभावादित्यर्थः । न चेत्यादि। न च विशिष्टे केनचिद्रूपेण, सदसती एव, तत् चेतनत्वादि । कुत, इत्याह- भेदकमन्तरेण वस्त्वन्तरविशिष्टत्वासिद्धेः। अत्रैव युक्तिमाह- तन्मात्रत्वाविशेषात् सदसन्मात्रत्वाभेदाद् भावनीयमेतत् , इत्येवम् , कथञ्चित् केनचित् प्रकारेण तद्भेदकत्वलक्षणेन, तदतिरिक्तचेतनत्वादिसिद्धिः सदसदतिरिक्तचेतनत्वादिसिद्धिः । इत्थं चैतदङ्गीकर्तव्यभित्याह- अन्यथेत्यादि । अन्यथैवमनभ्युपगमे, तज्ज्ञानायोगात् चेतनत्वादिज्ञानायोगात् , अयोगश्च निविषयत्वात् सदसतोस्तदभावेन । अथ सदसती एव विषय इत्याशङ्क्याह-शक्तिभेदमन्तरेणैकतः सदसदादेः, अनेककार्यासिद्धेस्तचेतनत्वाद्यनेकज्ञानकार्यासिद्धेरिति । उपसंहरन्नाहएवमित्यादि। एवमुक्तेन प्रकारेण, इतरेतरानुविद्धाश्च ते तुल्येतरानेकान्ताश्चेति विग्रहस्तदात्मकत्वे सति, वस्तुनः प्रतिपत्त्रनुरोधतो यो यथा प्रतिपत्ता तदनुरोधेन, तथा तथोक्तवत् तेन तेन प्रकारेण, धर्मर्मिभावो न विरुध्यते उभयनिमित्तयोगादिति ॥
यदप्युक्तम्- संविनिष्ठा विषयव्यवस्थितयः, न च सदसद्रूपं वस्तु संवेद्यते, उभयरूपस्य संवेदनस्याभावादित्यादि । तदप्यसाम्प्रतम्, उभयरूपस्य संवेदनस्याभावासिद्धेः, सदसद्रूपस्य वस्तुनो व्यवस्थापितत्वात् , संवेदनस्यापि च वस्तुत्वात् , तथा युक्तिसिद्धेश्च । तथाहि--संवेदनं पुरोऽवस्थिते घटादौ तद्भावेतराभावाध्यवसायरूपमेवोपजायते, तद्भावमात्रस्येतराभावाननुविद्धस्याभावापत्तितस्तदनुवेधे वस्तुस्थित्या स्वप्रतिभासिसंवेदनाजनकत्वे तद्ग्रहणानुपपत्तेः । न च सदसद्रूपे वस्तुनि सन्मात्रप्रतिभास्येव तत्त्वतस्तत्प्रतिभासि, संपूर्णार्थाऽप्रतिभासनाद् , नरसिंहे. सिंहसंवेदनवत् । न चैतदुभयप्रतिभासि न संवेद्यते,
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org