________________
खोपाटीकासहिता।
२६७ पयो नाम ? । अवस्त्वेव तदिति चेत् । कथं ततः स आकारः? इति वाच्यम् । अहेतुक एवायमिति चेत् । सदा तद्भावादिनसङ्गः । विशिष्टं बोधरूपं वासना न बोधमात्रमिति चेत् । किंकृतमस्य वैशिष्टयम् ? इति वाच्यम् । अनादिहेतुपरम्पराकृतमिति चेत् । न, तत्रापि तन्मात्राविशेषात् । स समुद्रोर्मिवद् यतस्तदेव तदिति चेत् । न, तस्यापि बाय्यादिना विना तत एवाभावात् । अनागमो वाय्वादिकल्प इति चेत् । न, तदभावेऽपि कचित्तद्भावोपपत्तेः । स्वविक्षोभोद्भवसमुद्रोर्मितुल्यः स इति चेत् । स एव तदा कुतः? इति वाच्यम् । तस्यैव तत्वभावत्वादिति चेत् । न, तदविशेषेण सदा समुद्रोमिप्रसङ्गात् । तस्य तत्क्षणविशेषत्वादप्रसङ्ग इति चेत्। न, तस्य तन्मात्रत्वेन विशेषत्वासिद्धेः। ऊर्मिजननस्वभावत्वं विशेष इति चेत् । न स्वभावः खभाववतोऽन्य इति तन्मात्रत्वमेव । तन्मात्रत्वेऽपि तद्भेदवद्भेद एवेति चेत् । न, तादृशस्यास्याप्रयोजकत्वात् , तत्तद्भावेऽतिप्रसङ्गात् , तत्स्वभावानामपि केषाश्चित् तथाभेदाद् नित्यतया फलभेदापत्तेः।। ___ आह- अविषय एव अनालम्बन एव, अयं प्रक्रान्तो 'मृद् मृद्' इति समानो बुद्धयाकारः । कुतः किमात्मको वायमित्याह- अनादिवासनादोषात् अयमुपप्लवः स्वरूपेण, इति चेत् । एतदाशझ्याहकेयं वासना नाम ? । किं बोधमात्रं निर्विशेषमेव, उतान्यदेव किञ्चिद् बोधाद् भिन्नं वस्तु ? । उभयथापि दोषमाह- यदि बोधमात्रं निर्विशेषणमेव वासना । ततः किमित्याह- अनुत्तरज्ञानेऽपि भगवतः संबन्धिनि, तथाविधाकारापत्तिः, प्रक्रमाद् 'मृद् मृद्' इति समानबुद्धथाकारापत्तिः । कुत इत्याह-तस्यापि अनुत्तरज्ञानस्य, बोध. मात्रभावात् , एतदेव वासनेति बोधादबोधवन्नान्याकारानुत्तरज्ञानजन्मति; अनिष्टं चैतत् । कुत इत्याह- तत्र अनुत्तरज्ञाने, तदनभ्यु. गपमात् तथाविधाकारानभ्युपगमात् । द्वितीयं विकल्पमाधिकृत्याहअथान्यदेव किश्चित् वस्तु वासनेति । एतदाशझ्याह- तदेव
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org