________________
स्वोपज्ञटीकासहिता।
२७७
एवं तत्वव्यवस्थायामवद्यं नास्ति किञ्चन ॥ १० ॥ सर्वथा क्षणिकत्वे च प्रतीत्योत्पादवादिनः । सर्वस्य सर्वकार्यत्वप्राप्त्याऽभेदो भवेदपि ॥ ११॥ क्षीरोष्ट्रानन्तरं भूतेायाद् दध्यु-ष्ट्रयोर्यतः। द्वयकार्यत्वयोगेन नियमात् तुल्यरूपता ॥ १२ ॥ न चेत् तत्तत्स्वभावत्वाद् न तत् ताभ्यां पृथग मतम् । तबाविशिष्टं सर्वेषामसतामिति भाव्यताम् ।। १३॥ विशिष्टतत्स्वभावत्वकल्पना च न युज्यते । विशिष्टोपाध्यभावेन भावे चास्यान्वयो ध्रुवः ॥ १४ ॥ अभिन्न देशरूपादिभावेऽप्येषोऽनिवारितः। न चैकान्तिक एवायं धूमादावन्यथेक्षणात् ॥ १५॥ एवं सन्न्यायतः सिद्धे द्वितयेऽप्युभयोद्भवे । चोदनेऽन्यतरस्येह प्रवृत्ती नियमः कुतः ॥ १६ ॥ उभयोस्तुल्यरूपत्वाद् निरंशत्वाच्च सर्वथा । विशेषासंभवाद् ध्वान्तमवधूय विचिन्त्यताम् ॥ १७ ॥ एवं सर्वत्र संयोज्यः प्रवृत्त्यानियमो बुधैः । प्रक्रान्तार्थानुसारेण लेशतस्तु निदर्शितः॥१८॥"इत्यादि।
एतेनेत्यादि एतेनानन्तरोदितेन ग्रन्थेन, 'विषे भक्षिते मोदकोऽपि भाक्षितः स्यात्' इत्याद्यपि पूर्वपक्षोक्तं प्रतिक्षिप्तमवगन्तव्यम् , तुल्य योग-क्षेमत्वादिति । यच्चापरेणाप्युक्तम्- 'सर्वस्योभयरूपत्वे तद्विशेषनिराकृतेः' इत्यादि। तदपि कुटनटनृत्तमिवेति निदर्शनम् , अविभावितानुष्ठानं दर्शनभावार्थपरिज्ञानशून्यत्वेन, न विदुषां मनोहरमिति कृत्वा, अपकर्णयितव्यं न श्रोतव्यम् । कुत इत्याह- वस्तुतः प्रदत्तोत्तरत्वात् । तथा, सामान्यविशेषरूपस्य वस्तुनः सम्यग्व्यवस्थापितत्वात् , अन्यत्र स्याद्वादकुचोद्यपरिहारादौ प्रपञ्चेन निराकृतत्वादपरस्योक्तस्य । तथा चोक्तमिति ज्ञापकमाह- समानेतरबुद्धिश्च समान-विशेषबुद्धिश्च, प्रतिवस्तु वस्तु वस्तु प्रति प्रतिवस्तु, उप
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org